भामतीव्याख्या
ब्रह्मदृष्ट्यधिकरणविषयः
ब्रह्मदृष्टिरुत्कर्षात् ।
यद्यपि सामानाधिकरण्यमुभयथापि घटते तथापि ब्रह्मणः सर्वाध्यक्षतया फलप्रसवसामर्थ्येन फलवत्त्वात्प्राधान्येन तदेवादित्यादिदृष्टिभिः संस्कर्तव्यमित्यादित्यादिदृष्टयो ब्रह्मण्येव कर्तव्या न तु ब्रह्मदृष्टिरादित्यादिषु । न चैवंविधेऽवधृते शास्त्रार्थे निकृष्टदृष्टिर्नोत्कृष्ट इति लौकिको न्यायोऽपवादाय प्रभवत्यागमविरोधेन तस्यैवापोदितत्वादिति पूर्वपक्षसङ्क्षेपः । सत्यं सर्वाध्यक्षतया फलदातृत्वेन ब्रह्मण एव सर्वत्र वास्तवं प्राधान्यं तथापि शब्दगत्यनुरोधेन क्वचित्कर्मण एव प्राधान्यमवसीयते । यथा “दर्शपूर्णमासाभ्यां यजेत स्वर्गकामः”, “चित्रया यजेत पशुकामः” इत्यादौ । अत्र हि सर्वत्र यागाद्याराधिता देवतैव फलं प्रयच्छतीति स्थापितं तथापि शब्दतः कर्मणः करणत्वावगमने फलवत्त्वप्रतीतेः प्राधान्यम् । क्वचिद्द्रव्यस्य यथा व्रीहीन्प्रोक्षतीत्यादौ । तदुक्तं “यैस्तु द्रव्यं सञ्चिकीर्ष्यते गुणस्तत्र प्रतीयते” इति । तदिह यद्यपि सर्वाध्यक्षतया वस्तुतो ब्रह्मैव फलं प्रयच्छति तथापि शास्त्रं ब्रह्मबुद्ध्याऽदित्यादौ प्रतीक उपास्यमाने ब्रह्म फलाय कल्पते इत्यभिवदति किंवादित्यादिबुद्ध्या ब्रह्मैव विषयीकृतं फलायेत्युभयथापि ब्रह्मणः सर्वाध्यक्षस्य फलदानोपपत्तेः शास्त्रार्थसन्देहे लोकानुसारतो निश्चीयते ।
तदिदमुक्तम् –
निर्धारिते शास्त्रार्थ एतदेवं स्यादिति ।
न केवलं लौकिको न्यायो निश्चये हेतुरपि तु आदित्यादिशब्दानां प्राथम्येन मुख्यार्थत्वमपीत्याह –
प्राथम्याच्चेति ।
इति परत्वमपि ब्रह्मशब्दस्यामुमेव न्यायमवगमयति । तथाहि स्वरप्रवृत्या आदित्यादिशब्दा यथा स्वार्थे वर्तन्ते तथा ब्रह्मशब्दोऽपि स्वार्थे वर्त्स्यति यदि स्वार्थोऽस्य विवक्षितः स्यात् । तथाचेतिपरत्वमनर्थकं तस्मादितिना स्वार्थात्प्रच्याव्य ब्रह्मपदं ज्ञानपरं स्वरूपपरं वा कर्तव्यम् ।
नच ब्रह्मपदमादित्यादिपदार्थ इति, प्रतीतिपर एवायमितिपरः शब्दो यथा गौरिति मे गवयोऽभवदिति । तथाच आदित्यादयो ब्रह्मेति प्रतिपत्तव्या इत्यर्थो भवतीत्याह –
इतिपरत्वादपि ब्रह्मशब्दस्येति ।
शेषमतिरोहितार्थम् ॥ ५ ॥