भामतीव्याख्या
अनारब्धाधिकरणविषयः
अनारब्धकार्य एव तु पूर्वे तदवधेः ।
यद्यद्वैतज्ञानस्वभावालोचनयोत्तरपूर्वसुकृतदुष्कृतयोरश्लेषविनाशौ हन्त आरब्धानारब्धकार्ययोश्चाविशेषेणैव विनाशः स्यात् । कर्तृकर्मादिप्रविलयस्योभयत्राविशेषात् । तन्निबन्धनत्वाच्च विनाशस्य । नच संस्कारशेषात्कुलालचक्रभ्रमणवदनुवृत्तिः । वस्तुनः खल्वनुवृत्तिः । मायावादिनश्च पुण्यपापयोश्च मायामात्रविनिर्मितत्वेन मायानिवृत्तौ न पुण्यापुण्ये न तत्संस्कारो वस्तुसन्तीति कस्यानुवृत्तिः । नच रज्जौ सर्पादिविभ्रमजनिता भयकम्पादयो निवृत्तेऽपि विभ्रमे यथानुवर्तन्ते तथेहापीति युक्तम् । तत्रापि सर्पासत्त्वेऽपि तज्ज्ञानस्य सत्त्वे तज्जनितभयकम्पादीनां तत्संस्काराणां च वस्तुसत्त्वेन निवृत्तेऽपि विभ्रमेऽनिवृत्तेः । अत्र तु न माया न तज्जः संस्कारो न तद्गोचर इति तुच्छत्वात्किमनुवर्तेत । न संस्कारशेषो न कर्मेत्यविशेषेणारब्धकार्याणामनारब्धकार्याणां च निवृत्तिः । नच तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति श्रुतेर्देहपातप्रतीक्षारब्धकार्याणां युक्ता । नह्येषा श्रुतिरवधिभेदविधायिन्यपि तु क्षिप्रतापरा । यथा लोक एतावन्मे चिरं यत्स्नातो भुञ्जानश्चेति । नहि तत्र स्नानभोजने अवधित्वेन विधीयेते किं तु क्षेपीयस्ता प्रतिपाद्यते । उभयविधाने हि वाक्यं भिद्येतावधिभेदः चिरता चेति प्राप्तेऽभिधीयते यद्यप्यद्वैतब्रह्मतत्त्वसाक्षात्कारोऽनाद्यविद्योपदर्शितप्रपञ्चमात्रविरोधितया तन्मध्यपतितसकलकर्मविरोधी । तथाप्यनारब्धविपाकं कर्मजातं द्रागित्येव समुच्छिनत्ति न त्वारब्धविपाकं सम्पादितजात्यायुर्विततपूर्वापरीभूतसुखदुःखोपभोगप्रवाहं कर्मजातम् । तद्धि समुदाचरद्वृत्तितयेतरेभ्यःप्रसुप्तवृत्तिभ्यो बलवत् । अन्यथा देवर्षीणां हिरण्यगर्भमनूद्दालकप्रभृतीनां विगलितनिखिलक्लेशजालावरणतया परितः प्रद्योतमानबुद्धिसत्त्वानां न ज्योग्जीविता भवेत् । श्रूयते चैषां श्रुतिस्मृतीतिहासपुराणेषु तत्त्वज्ञता च महाकल्पकल्पमन्वन्तरादिजीविता च । न चैते महाधियो न ब्रह्मविदो ब्रह्मविदश्चाल्पपुण्यमेधसो मनुष्या इति श्रद्धेयम् । तस्मादागमानुसारतोऽस्ति प्रारब्धविपाकानां कर्मणां प्रक्षयाय तदीयसमस्तफलोपभोगप्रतीक्षा सत्यपि तत्त्वसाक्षात्कारे ।
तावदेव चिरमिति न चिरता विधीयते । अपि तु श्रुत्यन्तरसिद्धां चिरतामनूद्य देहपातावधिमात्रविधानं तदेतदभिसन्धायौचित्यमात्रतयाह स्म भगवान् भाष्यकारः –
न तावदनाश्रित्यारब्धकार्यं कर्माशयमिति ।
न चेदं न जातु दृष्टं यद्विरोधिसमवाये विरोद्ध्यन्तरमनुवर्तत इत्याह –
अकर्त्रात्मबोधोऽपीति ।
यदा लोकेऽपि विरोधिनोः किञ्चित्कालं सहानुवृत्तिरुपलब्धा तदेहागमबलाद्दीर्घकालमपि भवतीति न शक्या निवारयितुम् । प्रमाणसिद्धस्य नियोगपर्यनुयोगानुपपत्तेः । तदेवं मध्यस्थान्प्रतिपाद्य ये भाष्यकारमाप्तं मन्यन्ते तान् प्रत्याह
अपिच नैवात्र विवदितव्यमिति ।
स्थितप्रज्ञश्च न साधकस्तस्योत्तरोत्तरध्यानोत्कर्षेण पूर्वप्रत्ययानवस्थितत्वात् । निरतिशयस्तु स्थितप्रज्ञः । स च सिद्ध एव । नच ज्ञानकार्या भयकम्पादयः, ज्ञानमात्रादनुत्पादात् । सर्पावच्छेदो हि तस्य भयकम्पादिहेतुः । स चासन्न निर्वचनीय इति कुतो वस्तुसतः कर्योत्पादः । नच कार्यमपि भयकम्पादि वस्तुसत् । तस्यापि विचारासहत्वेनानिर्वाच्यत्वात् । अनिर्वाच्याच्चानिर्वाच्योत्पत्तौ नानुपपत्तिः । यादृशो हि यक्षस्तादृशो बलिरिति सर्वमवदातम् ॥ १५ ॥