भामतीव्याख्या
अन्याधिष्ठिताधिकरणविषयाः
अन्याधिष्ठितेषु पूर्ववदभिलापात् ।
आकाशसारूप्यं वायुधूमादिसम्पर्कोऽनुशयिनामुक्त इहेदानीं व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्त इति श्रूयते । तत्र संशयः किमनुशयिनां भोगाधिष्ठानं व्रीहियवादयः स्थावरा भवन्ति, आहोस्वित्क्षेत्रज्ञान्तराधिष्ठितेष्वेषु संसर्गमात्रमनुभवन्तीति । तत्र मनुष्यो जायते देवो जायत इत्यादौ प्रयोगे जनेः शरीरपरिग्रहे प्रसिद्धत्वादत्रापि व्रीह्यादिशरीरपरिग्रह एव जनिर्मुख्यार्थ इति व्रीह्यादिशरीरा एवानुशयिन इति युक्तम् । नच रमणीयचरणाः कपूयचरणा इतिवत्कर्मविशेषासङ्कीर्तनात्तदभावे व्रीह्यादीनां शरीरभावाभावात्क्षेत्रज्ञान्तराधिष्ठितानामेव यत्सम्पर्कमात्रमिति साम्प्रतम् । इष्टादिकारिणामिष्टादिकर्मसङ्कीर्तनादिष्टादेश्च हिंसादोषदूषितत्वेन सावद्यफलतया चन्द्रलोकभोगानन्तरं स्थावरशरीरभोग्यदुःखफलत्वस्याप्युपपत्तेः । नच ‘न हिंस्यात्सर्वा भूतानि’ इति सामान्यशास्त्रस्याग्नीषोमीयपशुहिंसाविषयविशेषशास्त्रेण बाधनं, सामान्यशास्त्रस्य हिंसामान्यद्वारेण विशेषोपसर्पणं विलम्बेनेति साक्षाद्विशेषस्पृशः शास्त्रच्छीघ्रतरप्रवृत्ताद्दुर्बलत्वादिति साम्प्रतम् । नहि बलवदित्येव दुर्बलं बाधते किन्तु सति विरोधे । न चेहास्ति विरोधः, भिन्नगोचरचारित्वात् । ‘अग्नीषोमीयं पशुमालभेत’ इति हि क्रतुप्रकरणे समाम्नातं क्रत्वर्थतामस्य गमयति न त्वपनयति निषेधापादितामस्य पुरुषं प्रत्यनर्थहेतुताम् । तेनास्तु निषेधादस्य पुरुषं प्रत्यनर्थहेतुता विधेश्च क्रत्वर्थता को विरोधः । यथाहुः “यो नाम क्रतुमध्यस्थः कलञ्जादीनि भक्षयेत् । न क्रतोस्तत्र वैगुण्यं यथा चोदितसिद्धितः” इति । तस्माज्जनेर्मुख्यार्थत्वाद्व्रीह्यादिशरीरा अनुशयिनो जायन्त इति प्राप्तेऽभिधीयते - भवेदेतदेवं यदि रमणीयचरणाः कपूयचरणा इतिवद्व्रीह्यादिष्वनुशयवतां कर्मविशेषः कीर्त्येत न चैतदस्ति । न चेष्टादेः कर्मणः स्थावरशरीरोपभोग्यदुःखफलप्रसवहेतुभावः सम्भवति, तस्य धर्मत्वेन सुखैकहेतुत्वात् । नच तद्गतायाः पशुहिंसायाऽन हिंस्यात्ऽइति निषेधात्क्रत्वर्थाया अपि दुःखफलवत्वसम्भवः । पुरुषार्थाया एव न हिंस्यादिति प्रतिषेधात् । तथाहि - न हिंस्यादिति निषेधस्य निषेध्याधीननिरूपणतया यदर्थं निषेध्यं तदर्थ एव निषेधो विज्ञायते । न चैतत् ‘नानृतं वदेत्’ ‘न तौ पशौ करोति’ इतिवत्कस्यचित्प्रकरणे समाम्नातं येनानृततवदनवदस्य निषेध्यस्य क्रत्वर्थत्वे निषेधोऽपि क्रत्वर्थः स्यात् । पशौ निषिद्धयोराज्यभागयोः क्रत्वर्थत्वेन निषेधस्यापि क्रत्वर्थत्वं भवेत् । एवं हि सत्याज्यभागरहितैरप्यङ्गान्तरैराज्यभागसाध्यः क्रतूपकारो विज्ञायते । तस्मादनारभ्याधीतेन न हिंस्यादित्यनेनाभिहितस्य विध्युपहितस्य पुरुषव्यापारस्य विधिविभक्तिविरोधात्प्रकृत्यर्थहिंसाकर्मभाव्यत्वपरित्यागेन पुरुषार्थ एव भाव्योऽवतिष्ठते । आख्यातानभिहितस्यापि पुरुषस्य कर्तृव्यापाराभिधानद्वारेणोपस्थापितत्वात् । केवलं तस्य रागतः प्राप्तत्वात्तदनुवादेन नञर्थं विधिरुपसङ्क्रामति, तेन पुरुषार्थो निषेध्य इति तदधीननिरूपणो निषेधोऽपि पुरुषार्थो भवति । तथा चायमर्थः सम्पद्यते यत्पुरुषार्थं हननं तन्न कुर्यादिति । क्रत्वर्थस्यापि च निषेधे हिंसायाः क्रतूपकारकत्वमपि कल्प्यते । नच दृष्टे पुरुषोपकारकत्वे प्रत्यर्थिनि सति तत्कल्पनास्पदम् । नच स्वातन्त्र्यपारतन्त्र्ये सति संयोगपृथक्त्वे खादिरतादिवदेकत्र सम्भवतः । तस्मात्पुरुषार्थप्रतिषेधो न क्रत्वर्थत्वमप्यास्कन्दतीति शुद्धसुखफलत्वमेवेष्टादीनां न स्थावरशरीरोपभोग्यदुःखफलत्वमपीति । आकाशादिष्विव कर्मव्यापारमन्तरेणाभिलापात् । अनुशयिनां व्रीह्यादिसंयोगमात्रं न तु देहत्वमिति । अयमेवार्थ उत्सर्गापवादकथनेनोपलक्षितः ।
अपिच मुख्येऽनुशयिनां व्रीह्यादिजन्मनीति ।
व्रीह्यादिभावमापन्नाः खल्वनुशयिनः पुरुषैरुपभुक्ता रेतःसिग्भावमनुभवन्ती श्रूयते । तदेतद्व्रीह्यादिदेहत्वेऽनुशयिनां नोपपद्यते । व्रीह्यादिदेहत्वे हि व्रीह्यादिषु लूनेष्ववहन्तिना फलीकृतेषु च व्रीह्यादिदेहविनाशादनुशयिनः प्रवसेयुरिति कथमनुशयिनां रेतःसिग्भावः संसर्गमात्रे तु संसर्गिषु व्रीह्यादिषु नष्टेष्वपि न संसर्गिणोऽनुशयिनः प्रवसेयुरिति रेतःसिग्भाव उपपद्यते । शेषमुक्तम् ॥ २४ ॥
अशुद्धमिति चेन्न शब्दात् ॥ २५ ॥
रेतःसिग्योगोऽथ ।
सद्यो जातो हि बालो न रेतःसिग्भवत्यपि तु चिरजातः प्रौढयौवनः, तस्मादपि संसर्गमात्रमिति गम्यते ॥ २६ ॥
तत्किमिदानीं सर्वत्रैवानुशयिनां संसर्गमात्रं तथाच रमणीयचरणा इत्यादिषु तथाभाव आपद्येतेति नेत्याह –
योनेः शरीरम् ।
सुगमम् ॥ २७ ॥
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकमीमांसाभाष्यविभागे भामत्यां तृतीयस्याध्यायस्य प्रथमः पादः ॥