भामतीव्याख्या
अविभागेन दृष्टत्वाधिकरणविषयः
व्याख्याः —
अविभागेन दृष्टत्वात् ।
यद्यपि जीवात्मा ब्रह्मणो न भिन्न इति तत्र तत्रोपपादितं तथापि स तत्र पर्येतीत्याधाराधेयभावव्यपदेशस्य सम्पत्तृसम्पत्तव्यभावव्यपदेशस्य च समाधानार्थमाह ॥ ४ ॥