अद्वैतशारदा

भामतीव्याख्या

ऐकात्म्याधिकरणविषयौ

व्याख्याः

एक आत्मनः शरीरे भावात् ।

अधि­क­र­ण­ता­त्प­र्य­माह –
इहेति ।

सम­र्थ­न­प्र­यो­ज­न­माह –
बन्धमोक्षेति ।

असमर्थने बन्ध­मो­क्षा­धि­का­रा­भा­व­माह –
न ह्यसतीति ।

अध­स्त­न­त­न्त्रो­क्तेन पौनरुक्त्यं चोदयति –
नन्विति ।

परिहरति –
उक्तं भाष्यकृतेति ।
न सूत्रकारेण तत्रोक्तं येन पुनरुक्तं भवेदपि तु भाष्य­कृ­ते­त्य­त्र­त्य­स्यै­वा­र्थ­स्या­प­कर्षः प्रमा­ण­ल­क्ष­णो­प­यो­गि­तया तत्र कृत इति । यत इह सूत्र­कृ­द्व­क्ष्य­त्यत एव भग­व­तो­प­व­र्षे­णो­द्धा­रोऽ­प­क­र्षस्य कृतः ।

विचारस्यास्य पूर्वो­त्त­र­त­न्त्र­शे­ष­त्व­माह –
इह चेति ।

पूर्वा­धि­क­र­ण­स­ङ्ग­ति­माह –
अपिचेति ।

नन्वा­त्मा­स्ति­त्वो­प­प­त्तय एवात्रोच्यन्तां किं तदाक्षेपेणेत्यत आह - –
आक्षेपपूर्विका हीति ।

आक्षेपमाह –
अत्रैके देह­मा­त्रा­त्म­द­र्शिन इति ।
यद्यपि समस्तव्यस्तेषु पृथि­व्य­प्ते­जो­वा­युषु न चैतन्यं दृष्टं तथापि कायाकारपरिणतेषु भविष्यति । नहि किण्वादयः समस्तव्यस्ता न मदना दृष्टा इति मदिराकारपरिणता न मदयन्ति । अहमिति चानुभवे देह एव गौराद्याकारः प्रथते । न तु तदतिरिक्तः तदधिष्ठानः कुण्ड इव दधीति । अत एवाहं स्थूलो गच्छा­मी­त्या­दि­सा­मा­ना­धि­क­र­ण्यो­प­प­त्ति­र­हमः स्थूलादिभिः । न जातु दधि­स­मा­ना­धि­क­र­णानि मधुरादीनि कुण्ड­स्यै­का­धि­क­र­ण्य­म­नु­भ­वन्ति सितं मधुरं कुण्डमिति । न चाप्र­त्य­क्ष­मा­त्म­त­त्त्व­म­नु­मा­ना­दिभिः शक्यमुन्नेतुम् । न खल्वप्रत्यक्षं प्रमाणमस्ति । उक्तं हि “देश­का­ला­दि­रू­पाणां भेदाद्भिन्नासु शक्तिषु । भावानामनुमानेन प्रसि­द्धि­र­ति­दु­र्लभा” इति । यदा च उप­ल­ब्धि­सा­ध्य­ना­न्त­री­य­क­भा­वस्य लिङ्गस्येयं गतिस्तदा कैव कथा दृष्ट­व्य­भि­चा­रस्य शब्द­स्या­र्था­प­त्ते­श्चा­त्य­न्त­प­रो­क्षा­र्थ­गो­च­राया उपमानस्य च सर्वै­क­दे­श­सा­दृ­श्य­वि­क­ल्पि­तस्य । सर्वसारूप्ये तत्त्वात् । एकदेशसारूप्ये चाति­प्र­स­ङ्गा­त्स­र्वस्य सर्वेणोपमानात् । सौत्रस्तु हेतुर्भाष्यकृता व्याख्यातः । चेष्टा हिता­हि­त­प्रा­प्ति­प­रि­हा­रार्थो व्यापारः । स च शरीराधीनतया दृश्यमानः शरीरधर्म एवं प्राणः श्वास­प्र­श्वा­सा­दि­रूपः शरीरधर्म एव । इच्छा­प्र­य­त्ना­द­यश्च यद्यप्यान्तराः तथापि शरीरातिरिक्तस्य तदा­श्र­या­नु­प­लब्धेः सति शरीरे भावा­त­न्तः­श­री­रा­श्रया एव, अन्यथा दृष्ट­हा­ना­दृ­ष्ट­क­ल्प­ना­प्र­स­ङ्गात् । शरीरातिरिक्त आत्मनि प्रमा­णा­भा­वा­च्छ­रीरे च सम्भ­वा­च्छ­री­र­मे­वे­च्छा­दि­म­दा­त्मेति प्राप्त उच्यते ॥ ५३ ॥

व्यति­रे­क­स्त­द्भा­व­भा­वि­त्वान्न तूपलब्धिवत् ।
नाप्रत्यक्षं प्रमाणमिति ब्रुवाणः प्रष्टव्यो जायते कुतो भवा­न­नु­मा­ना­दी­ना­म­प्रा­मा­ण्य­म­व­धा­रि­त­वा­निति । प्रत्यक्षं हि लिङ्गा­दि­रू­प­मा­त्र­ग्राहि नाप्रा­मा­ण्य­मेषां विनि­श्चे­तु­म­र्हति । नहि धूम­ज्ञा­न­मि­वै­षा­मि­न्द्रि­या­र्थ­स­न्नि­क­र्षा­द­प्रा­मा­ण्य­ज्ञा­न­मु­दे­तु­म­र्हति । किन्तु देश­का­ला­व­स्था­रू­प­भे­देन व्यभि­चा­रो­त्प्रे­क्षया । न चैता­वा­न्प्र­त्य­क्षस्य व्यापारः सम्भवति । यथाहुः - नहीदमियतो व्यापा­रा­न्कर्तुं समर्थं संनि­हि­त­वि­ष­य­ब­ले­नो­त्प­त्ते­र­वि­चा­र­क­त्वा­दिति । तस्मा­द­स्मि­न्न­नि­च्छ­तापि प्रमा­णा­न्त­र­म­भ्यु­पे­यम् । अपिच प्रतिपन्नं पुमां­स­म­प­हा­या­प्र­ति­प­न्न­स­न्दिग्धाः प्रेक्षावद्भिः प्रतिपाद्यन्ते । न चैषामित्थम्भावो भव­त्प्र­त्य­क्ष­गो­चरः । न खल्वेते गौर­त्वा­दि­व­त्प्र­त्य­क्ष­गो­चराः किन्तु वच­न­चे­ष्टा­दि­लि­ङ्गा­नु­मेयाः । नच लिङ्गं प्रमाणं यत एते सिध्यन्ति । न पुंसा­मि­त्थ­म्भा­व­म­वि­ज्ञाय यं कञ्चन पुरुषं प्रति­पि­पा­द­यि­ष­तोऽ­न­व­धे­य­व­च­नस्य प्रेक्षावत्ता नाम । अपिच पशवोऽपि हिता­हि­त­प्रा­प्ति­प­रि­हा­रा­र्थिनः कोम­ल­श­ष्प­श्या­म­लायां भुवि प्रवर्तन्ते । परिहरन्ति चाश्या­न­तृ­ण­क­ण्ट­का­की­र्णाम् । नास्तिकस्तु पशोरपि पशु­रि­ष्ट­नि­ष्ट­सा­ध­न­म­वि­द्वान् । न खल्व­स्मि­न्न­नु­मा­न­गो­च­र­प्र­वृ­त्ति­नि­वृ­त्ति­गो­चरे प्रत्यक्षं प्रभवति । नच परप्रत्यायनाय शब्दं प्रयुञ्जीत शाब्द­स्या­र्थ­स्या­प्र­त्य­क्ष­त्वात् । तदेव मा नाम भून्नास्तिकस्य जन्मा­न्त­र­म­स्मि­न्नेव जन्म­न्यु­प­स्थि­तोऽस्य मूक­त्व­प्र­वृ­त्ति­नि­वृ­त्ति­वि­र­ह­रूपो महान्नरकः । पराक्रान्तं चात्र सूरिभिः । अत्य­न्त­प­रो­क्ष­गो­च­रा­प्य­न्य­था­नु­प­प­द्य­मा­ना­र्थ­प्र­भ­वा­र्था­पत्तिः । भूयः­सा­मा­न्य­यो­गेन चोपमानमुपपादितं प्रमाणलक्षणे । तदत्रास्तु ताव­त्प्र­मा­णा­न्तरं प्रत्य­क्ष­मे­वा­हं­प्र­त्ययः शरी­रा­ति­रि­क्त­मा­ल­म्बत इत्य­न्व­य­व्य­ति­रे­का­भ्या­म­व­धा­र्यते । योग­व्या­घ्र­व­त्स्व­प्न­द­शायां च शरी­रा­न्त­र­प­रि­ग्र­हा­भि­मा­नेऽ­प्य­ह­ङ्का­रा­स्प­दस्य प्रत्य­भि­ज्ञा­य­मा­न­त्व­मि­त्यु­क्तम् । सूत्रयोजना तु न त्वव्यतिरिक्तः किन्तु व्यतिरिक्त आत्मा देहात् । कुत­स्त­द्भा­वा­भा­वि­त्वात् । चैतन्यादिर्यदि शरीरगुणः ततोऽनेन विशेषगुणेन भवितव्यम् । न तु सङ्ख्या­प­रि­मा­ण­सं­यो­गा­दि­व­त्सा­मा­न्य­गु­णेन । तथाच ये भूत­वि­शे­ष­गु­णास्ते यावद्भूतभाविनो दृष्टा यथा रूपादयः । नह्यस्ति सम्भवः भूतं च रूपादिरहितं चेति । तस्मा­द्भू­त­वि­शे­ष­गु­ण­रू­पा­दि­वै­ध­र्म्यान्न चैतन्यं शरीरगुणः । एतेनेच्छादीनां शरी­र­वि­शे­ष­गु­णत्वं प्रत्युक्तम् । प्राणचेष्टादयो यद्यपि देहधर्मा एव तथापि न देहमात्रप्रभवाः । मृतावस्थायामपि प्रसङ्गात् । तस्माद्यस्यैते अधि­ष्ठा­ना­द्दे­ह­धर्मा भवन्ति स देहातिरिक्त आत्मा । अदृ­ष्ट­का­र­ण­त्वेऽ­भ्यु­प­ग­म्य­माने तस्यापि देहा­श्र­य­त्वा­नु­प­प­त्ते­रा­त्मै­वा­भ्यु­पे­तव्य इति ।

वैध­र्म्या­न्त­र­माह –
देहधर्माश्चेति ।
स्वपरप्रत्यक्षा हि देहधर्मा दृष्टा यथा रूपादयः । इच्छादयस्तु स्वप्रत्यक्षा एवेति देह­ध­र्म­वै­ध­र्म्यम् । तस्मादपि देहा­ति­रि­क्त­धर्मा इति । तत्र यद्यपि चैतन्यमपि भूत­वि­शे­ष­गु­ण­स्त­थापि याव­द्भू­त­म­नु­व­र्तेत । नच मदशक्त्या व्यभिचारः । सामर्थ्यस्य सामा­न्य­गु­ण­त्वात् । अपिच मदशक्तिः प्रतिमदिरावयवं मात्रयावतिष्ठते तद्वद्देहेऽपि चैतन्यं तदवयवेष्वपि मात्रया भवेत् । तथा चैकस्मिन्देहे बहवश्चेतयेरन् । नच बहूनां चेत­ना­ना­म­न्यो­न्या­भि­प्रा­या­नु­वि­धा­न­स­म्भव इति एकपाशनिबद्धा इव बहवो विहङ्गमाः विरु­द्धा­दि­क्रि­या­भि­मुखाः समर्था अपि न हस्तमात्रमपि देश­म­ति­प­ति­तु­मु­त्स­हन्ते । एवं शरीरमपि न किञ्चि­त्क­र्तु­मु­त्स­हते । अपि च नान्व­य­मा­त्रा­त्त­द्ध­र्म­ध­र्मि­भावः । शक्यो विनिश्चेतुं, मा भूदाकाशस्य सर्वो धर्मः सर्वेष्वन्वयात् । अपि त्वन्व­य­व्य­ति­रे­का­भ्याम् । सन्दिग्धश्चात्र व्यतिरेकः ।

तथाच साध­क­त्व­म­न्व­य­मा­त्र­स्ये­त्याह –
अपिच सति हि तावदिति ।

दूषणान्तरं विव­क्षु­रा­क्षि­पति –
किमात्मकं चेति ।

स एवैकग्रन्थेनाह –
नहीति ।

नास्तिक आह –
यदनुभवनमिति ।
यथा हि भूतपरिणामभेदो रूपादिर्न तु भूत­च­तु­ष्ट­या­द­र्था­न्त­र­मेवं भूतपरिणामभेद एव चैतन्यं न तु भूते­भ्योऽ­र्था­न्तरं, येन “पृथि­व्या­प­स्तेजो वायुरिति तत्त्वानि” इति प्रति­ज्ञा­व्या­घातः स्यादित्यर्थः । एतदुक्तं भवति - चतुर्णामेव भूतानां समस्तं जगत्परिणामो न त्वस्ति तत्त्वान्तरं यस्य परिणामो रूपादयोऽन्यद्वा परिणामान्तरमिति ।

अत्रो­क्ता­भि­स्ता­व­दु­प­प­त्ति­भि­र्दे­ह­ध­र्मत्वं निरस्तं तथा­प्यु­प­प­त्त्य­न्त­रा­भि­धि­त्स­याह –
चेत्तर्हीति ।
भूतधर्मा रूपादयो जडत्वाद्विषया एव दृष्टा न तु विषयिणः । नच केषा­ञ्चि­द्वि­ष­या­णा­मपि विषयित्वं भविष्यतीति वाच्यम् । स्वात्मनि वृत्तिविरोधात् । न चोपलब्धावेव प्रसङ्गस्तस्या अजडायाः स्वय­म्प्र­का­श­त्वा­भ्यु­प­ग­मात् । कृतोपपादनं चैतत्पुरस्तात् ।

उपलब्धिवदिति सूत्रावयवं योजयति –
यथैवास्या इति ।
उपलब्धिग्राहिण एव प्रमा­णा­च्छ­री­व्य­ति­रे­कोऽ­प्य­व­ग­म्यते । तस्यास्ततः स्वय­म्प्र­का­श­प्र­त्य­येन भूतधर्मेभ्यो जडेभ्यो वैलक्षण्येन व्यति­रे­क­नि­श्च­यात् ।

अस्तु तर्हि व्यति­रे­का­दु­प­ल­ब्धि­र्भू­तेभ्यः स्वतन्त्रा तथाप्यात्मनि प्रमाणाभाव इत्यत आह –
उपलब्धिस्वरूप एव च न आत्मेति ।
आजा­न­त­स्ता­व­दु­प­ल­ब्धि­भेदो नानुभूयत इति विष­य­भे­दा­द­भ्यु­पेयः । न चोप­ल­ब्धि­व्य­ति­रे­किणां विषयाणां प्रथा सम्भ­व­ती­त्यु­प­पा­दि­तम् । नच विषयभेदग्राहि प्रमाणमस्तीति चोपपादितं ब्रह्म­त­त्त्व­स­मी­क्षा­या­म­स्माभिः । एवं च सति विष­य­रू­प­त­द्भे­दा­देव सुदुर्लभाविति दूरनिरस्ता विष­य­भे­दा­दु­प­ल­ब्धि­भे­द­स­ङ्कथा । तेनो­प­ल­ब्धे­रु­प­ल­ब्धृ­त्व­मपि न तात्त्विकम् । किन्त्व­वि­द्या­क­ल्पि­तम् । तत्रा­वि­द्या­द­शा­या­म­प्यु­प­ल­ब्धे­र­भेद इत्याह

अह­मि­द­म­द्रा­क्ष­मिति चेति ।
न केवलं तात्त्वि­का­भे­दा­न्नि­त्य­त्व­म­ता­त्त्वि­का­दपि नित्यत्वमेवेति तस्यार्थः ।

स्मृत्या­द्यु­प­प­त्तेश्च ।
नानात्वे हि नान्ये­नो­प­ल­ब्धेऽ­न्यस्य पुरुषस्य स्मृतिरुपपद्यत इत्यर्थः ।

निराकृतमप्यर्थं निरा­क­र­णा­न्त­रा­या­नु­भा­षते –
यत्तूक्तमिति ।

यो हि देह­व्या­पा­रा­दु­प­ल­ब्धि­रु­त्प­द्यते तेन देहधर्म इति मन्यते तं प्रतीदं दूषणम् –
न चात्यन्तं देहस्येति ।

प्रकृतमुपसंहरति –
तस्मादनवद्यमिति ॥ ५४ ॥