अद्वैतशारदा

भामतीव्याख्या

आप्रायणाधिकरणविषयः

व्याख्याः

आ प्राय­णा­त्त­त्रापि हि दृष्टम् ।

अधिकरणविषयं विवेचयति –
तत्र यानि तावदिति ।
अवि­द्य­मा­न­नि­योज्या या ब्रह्मा­त्म­त्व­प्र­ति­प­त्ति­स्तस्याः । शास्त्रं हि नियोज्यस्य कार्य­रू­प­नि­यो­ग­स­म्ब­न्ध­म­व­बो­ध­यति तस्यैव कर्म­ण्यै­श्व­र्य­ल­क्ष­ण­म­धि­कारं तच्चै­त­दु­भ­य­म­ती­न्द्रि­य­त्वा­द्भ­वति शास्त्रलक्षणं प्रमा­णा­न्त­रा­प्राप्ये शास्त्र­स्या­र्थ­व­त्त्वा­द्ब्र­ह्मा­त्व­प्र­ती­तेस्तु जीवन्मुक्तेन दृष्ट­त्वा­न्ना­स्तीह तिरोहितमिव किञ्चनेति किमत्र शास्त्रं करिष्यति । नन्वे­व­म­प्य­भ्यु­द­य­फ­ला­न्यु­पा­स­नानि तत्र नियो­ज्य­नि­यो­ग­ल­क्ष­णस्य च कर्मणि स्वामि­ता­ल­क्ष­णस्य च सम्ब­न्ध­स्या­ती­न्द्रि­य­त्वा­त्तत्र सकृत्करणादेव शास्त्रा­र्थ­स­माप्तौ प्राप्ता­या­मु­पा­स­न­प­द­वे­द­नी­या­वृ­त्ति­मा­त्र­मेव कृतवत उपरमः प्राप्तस्तावतैव कृत­शा­स्त्रा­र्थ­त्वा­दिति प्राप्तेऽ­भि­धी­यते - सविज्ञानो भव­ती­त्या­दि­श्रु­ते­र्यत्र स्वर्गा­दि­फ­ला­ना­मपि कर्मणां प्रायणकाले स्वर्गा­दि­वि­ज्ञा­ना­पे­क्ष­कत्वं तत्र कैव कथा­ती­न्द्रि­य­फ­ला­ना­मु­पा­स­ना­नाम् । तानि खलु आप्रायणं तत्त­दु­पा­स्य­गो­च­र­बु­द्धि­प्र­वा­ह­वा­हि­तया दृष्टेनैव रूपेण प्रायणसमये तद्बुद्दिं भावयिष्यन्ति । किमत्र फलवत्प्रायणसमये बुद्ध्याक्षेपेण नहि दृष्टे सम्भ­व­त्य­दृ­ष्ट­क­ल्पना युक्ता । तस्मादाप्रायणं प्रवृत्ता वृत्तिरिति ।

तदिदमुक्तम् –
प्रत्ययास्त्वेत इति ।
तथा च श्रुतिः सर्वा­ती­न्द्रि­य­वि­षया “स यथा­क्र­तु­र­स्मा­ल्लो­का­त्प्रैति तात्क्र­तु­र्हामुं लोकं प्रेत्या­भि­स­म्भ­वति” इति । क्रतुः सङ्कल्पविशेषः । स्मृत­य­श्चो­दा­हृता इति ॥ १२ ॥