अद्वैतशारदा

भामतीव्याख्या

स्वाम्यधिकरणविषयाः

व्याख्याः

स्वामिनः फल­श्रु­ते­रि­त्या­त्रेयः ।
प्रथमे काण्डे शेषलक्षणे तथाकाम इत्य­त्र­र्त्वि­क्स­म्बन्धे कर्मणः सिद्धे किं कामो याजमान उतार्त्विज्य इति संश­य्या­र्त्वि­ज्येऽपि कर्मणि याजमान एव कामो गुणफलेष्विति निर्णीतमिह त्वेवंजातीयकानि चाङ्गसम्बद्धानि उपासनानि किं याज­मा­ना­न्ये­वो­ता­र्त्वि­ज्या­नीति विचार्यत इति न पुनरुक्तम् । तत्रोपासकानां फल­श्र­व­णा­द­न­धि­का­रि­ण­स्त­द­नु­प­प­त्ते­र्य­ज­मा­नस्य च कर्म­ज­नि­त­फ­लो­प­भो­ग­भा­जोऽ­धि­का­रा­दृ­त्विजां च तद­नु­प­प­त्ते­र्व­च­नाच्च राजा­ज्ञा­स्था­नी­या­त्क्व­चि­दृ­त्विजां फलश्रुतेरसति वचने यजमानस्य फलवदुपासनं तस्य फलश्रुतेः तं ह बको दाल्भ्यो विदा­ञ्च­का­रे­त्या­दे­रु­पा­स­नस्य च सिद्ध­वि­ष­य­त­या­न्या­या­प­वा­द­सा­म­र्थ्या­भा­वा­द्या­ज­मा­न­मे­वो­पा­स­ना­क­र्मेति प्राप्त उच्यते ॥ ४४ ॥

आर्त्वि­ज्य­मि­त्यौ­डु­लोमिः तस्मै हि परिक्रीयते ।
उपा­ख्या­ना­त्ता­व­दु­पा­स­न­मौ­द्गा­त्र­म­व­ग­म्यते । तद्बलवति सति बाध­केऽ­न्य­थो­प­पा­द­नी­यम् । न चर्त्विक्कर्तृक उपासने यजमानगामिता फलस्यासम्भविनी तेन हि स परि­क्री­त­स्त­द्गा­मिनो फलाय घटते । तस्मान्न व्यस­नि­ता­मा­त्रे­णो­पा­ख्या­न­म­न्य­थ­यितुं युक्तमिति राद्धान्तः ॥ ४५ ॥

श्रुतेश्च ॥ ४६ ॥