भामतीव्याख्या
कर्मानुस्मृतिशब्दविध्यधिकरणविषयः
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ।
यद्यपीश्वरादभिन्नो जीवस्तथाप्युपाध्यवच्छेदेन भेदं विवक्षित्वाधिकरणान्तरारम्भः । स एवेति दुःसम्पादमिति । स वान्यो वेति ईश्वरो वेति सम्भवमात्रेणोपन्यासः । नहि तस्य शुद्धमुक्तस्वभावस्याविद्याकृतव्युत्थानसम्भवः । अत एव विमर्शावसरेऽस्यानुपन्यासः । यद्धि द्व्यहादिनिर्वर्तनीयमेकस्य पुंसश्चोदितं कर्म तस्य पूर्वेद्युरनुष्ठितस्यास्ति स्मृतिरिति वक्तव्येऽनुः प्रत्यभिज्ञानसूचनार्थः । अत एव सोऽहमस्मीत्युक्तम् ।
पुनः प्रतिन्यायं प्रतियोन्याद्रवतीति ।
अयनमायः नियमेन गमनं न्यायः । जीवः प्रतिन्यायं सम्प्रसादे सुषुप्तावस्थायां वृद्धान्तायाद्रवति आगच्छति प्रतियोनि ।
योहि व्याघ्रयोनिः सुषुप्तो बुद्धान्तमागच्छन् स व्याघ्र एव भवति न जात्यन्तरम् । तदिदमुक्तम् –
त इह व्याघ्रो वा सिंहो वेति ।
अथ तत्र सुप्त उत्तिष्ठेदिति ।
यो हि जीवः सुप्तः स शरीरान्तर उत्तिष्ठति शरीरान्तरगतस्तु सुप्तजीवसम्बन्धिनि शरीर उत्तिष्ठति, ततश्च न शरीरान्तरे व्यवहारलोप इत्यर्थः ।
अपिच न जीवो नाम कश्चित्परस्मादन्य इति ।
यथा घटाकाशो नाम न परमाकाशादन्यः । अथ चान्य इव यावद्घटमनुवर्तते । न चासौ दुर्विवेचस्तदुपाधेर्घटस्य विविक्तत्वात् । एवमनाद्यनिर्वचनीयाविद्योपधानभेदोपाधिकल्पितो जीवो न वस्तुतः परमात्मनो भिद्यते तदुपाद्युद्भवाभिभवाभ्यां चोद्भूत इवाभिभूत इव प्रतीयते । ततश्च सुषुप्तादावपि अभिभूत इव जाग्रदवस्थादिषूद्भूत इव । तस्य चाविद्यातद्वासनोपाधेरनादितया कार्यकारणभावेन प्रवहतः सुविवेचतया तदुपहितो जीवः सुविवेच इति ॥ ९ ॥