भामतीव्याख्या
श्रेष्ठाणुत्वाधिकरणमविषयः
व्याख्याः —
अणुश्च ।
“समस्त्रिभिर्लोकैः” इति विभुत्वश्रवणाद्विभुः प्राणः, “समः प्लुषिणा”(बृ. उ. १ । ३ । २२) इत्याद्यास्तु श्रुतयो विभोरप्यवच्छेदाद्भविष्यन्ति । यथा विभुन आकाशस्य कुटकरकाद्यवच्छेदात्कुटादिसाम्यमिति प्राप्त आह
अणुश्च ।
उत्क्रान्तिगत्यागतिश्रुतिभ्य आध्यात्मिकस्य प्राणस्यावच्छिन्नता न विभुत्वम् । दुरधिगमतामात्रेण च शरीरव्यापिनोऽप्यणुत्वमुपचर्यते न त्वणुत्वमित्युक्तमधस्तात् । यत्त्वस्य विभुत्वान्मानं तदाधिदैविकेन सूत्रात्मना समष्टिव्यष्टिरूपेण न त्वाध्यात्मिकेन रूपेण । तदाश्रयाश्च “समः प्लुषिणा” इत्येवमाद्याः श्रुतयो देहसाम्यमेव प्राणस्याहुः स्वरूपतो न तु करकाकाशवत्परोपाधिकतया कथञ्चिन्नेतव्या इति ॥ १३ ॥