भामतीव्याख्या
व्यतिहाराधिकरणविषयः
व्यतिहारो विशिंषन्ति हीतरवत् ।
उत्कृष्टस्य निकृष्टरूपापत्तेर्नोभयत्रोभयरूपानुचिन्तनम् । अपि तु निकृष्टे जीव उत्कृष्टरूपाभेदचिन्तनम् । एवं हि निकृष्ट उत्कृष्टो भवतीति प्राप्तम् । एवं प्राप्त उच्यते इतरेतरानुवादेनेतरेतररूपविधानादुभयत्राभयचिन्तनं विधीयते । इतरथा तु योऽहं सोऽसावित्येतावदेवोच्येत । जीवात्मानमनूद्येश्वरत्वमस्य विधीयेत । न त्वीश्वरस्य जीवात्मत्वं योऽसौ सोऽहमिति । यथा तत्त्वमसीत्यत्र । तस्मादुभयरूपमुभयत्राध्यानायोपदिश्यते । नन्वेवमुत्कृष्टस्य निकृष्टत्वप्रसङ्ग इत्युक्तं तत्किमिदानीं सगुणे ब्रह्मण्युपास्यमानेऽस्य वस्तुतो निर्गुणस्य निकृष्टता भवति । कस्मैचित्फलाय तथा ध्यानमात्रं विधीयते न त्वस्य निकृष्टतामापादयतीति चेदिहापि व्यतिहारानुचिन्तनमात्रमुपदिश्यते फलाय न तु निकृष्टता भवत्युत्कृष्टस्य । अन्वाचयशिष्टं तु तादात्म्यदार्ढ्यं भवन्नोपेक्षामहे । सत्यकामादिगुणोपदेशैव तद्गुणेश्वरसिद्धिरिति सिद्धमुभयत्रोभयात्मत्वाध्यानमिति ॥ ३७ ॥