अद्वैतशारदा

भामतीव्याख्या

व्यतिहाराधिकरणविषयः

व्याख्याः

व्यतिहारो विशिंषन्ति हीतरवत् ।
उत्कृष्टस्य निकृ­ष्ट­रू­पा­प­त्ते­र्नो­भ­य­त्रो­भ­य­रू­पा­नु­चि­न्त­नम् । अपि तु निकृष्टे जीव उत्कृ­ष्ट­रू­पा­भे­द­चि­न्त­नम् । एवं हि निकृष्ट उत्कृष्टो भवतीति प्राप्तम् । एवं प्राप्त उच्यते इत­रे­त­रा­नु­वा­दे­ने­त­रे­त­र­रू­प­वि­धा­ना­दु­भ­य­त्रा­भ­य­चि­न्तनं विधीयते । इतरथा तु योऽहं सोऽसा­वि­त्ये­ता­व­दे­वो­च्येत । जीवा­त्मा­न­म­नू­द्ये­श्व­र­त्व­मस्य विधीयेत । न त्वीश्वरस्य जीवात्मत्वं योऽसौ सोऽहमिति । यथा तत्त्वमसीत्यत्र । तस्मा­दु­भ­य­रू­प­मु­भ­य­त्रा­ध्या­ना­यो­प­दि­श्यते । नन्वे­व­मु­त्कृ­ष्टस्य निकृ­ष्ट­त्व­प्र­सङ्ग इत्युक्तं तत्किमिदानीं सगुणे ब्रह्म­ण्यु­पा­स्य­मा­नेऽस्य वस्तुतो निर्गुणस्य निकृष्टता भवति । कस्मैचित्फलाय तथा ध्यानमात्रं विधीयते न त्वस्य निकृ­ष्ट­ता­मा­पा­द­य­तीति चेदिहापि व्यति­हा­रा­नु­चि­न्त­न­मा­त्र­मु­प­दि­श्यते फलाय न तु निकृष्टता भव­त्यु­त्कृ­ष्टस्य । अन्वाचयशिष्टं तु तादा­त्म्य­दार्ढ्यं भवन्नोपेक्षामहे । सत्य­का­मा­दि­गु­णो­प­दे­शैव तद्गु­णे­श्व­र­सि­द्धि­रिति सिद्ध­मु­भ­य­त्रो­भ­या­त्म­त्वा­ध्या­न­मिति ॥ ३७ ॥