भामतीव्याख्या
परामर्शाधिकरणविषयाः
परामर्शं जैमिनिरचोदना चापवदति हि ।
सिद्ध ऊर्ध्वरेतसामाश्रमित्वे तद्विद्यानामकर्माङ्गतयापवर्गार्थं स्यात् । आश्रमित्वं त्वेषामन्यार्थपरामर्शमात्रान्न सिध्यति । विध्यभावात् । स्मृत्याचारप्रसिद्धिश्च तेषां प्रत्यक्षश्रुतिविरोधादप्रमाणम् । निन्दति हि प्रत्यक्षा श्रुतिराश्रमान्तरं “वीरहा वा एष देवानाम्” इत्यादिका । प्रत्यक्षश्रुतिविरोधे च स्मृत्याचारयोरप्रामाण्यमुक्तं “विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्”(जै० सू० ११३ ॥ ३) इति ।
तदेतत्सर्वमाह –
त्रयो धर्मस्कन्धा इत्यादिना ।
अनधिकृतविषया वेति ।
अन्धपङ्ग्वादयो हि ये नैमित्तिककर्मानधिकृतास्तान्प्रत्याश्रमान्तरविधिरिति ।
अपिचापवदिति हि ।
न केवलमन्यपरतया परामर्शस्याश्रमान्तरं न लभ्यते अपि त्वाश्रमान्तरनिन्दाद्वारेणापवादादपीत्यर्थः ।
स्यादेतत् । भवत्वेष परामर्शोऽन्यार्थः । ये चेमेऽरण्य इत्यादिभ्यस्त्वाश्रमान्तरं सेत्स्यतीत्यत आह –
ये चेमेऽरण्य इति ।
अस्यापि देवपथोपदेशपरत्वान्नैतत्परत्वमित्यर्थः ।
न चान्यपरादपि स्फुटतराश्रमान्तरप्रत्यय इत्याह –
सन्दिग्धं चेति ।
नहि तप एव द्वितीय इत्यत्राश्रमान्तराभिधायी कश्चिदस्ति शब्द इति ।
नन्वेतमेव प्रव्राजिन इति वचनादाश्रमान्तरं सेत्स्यतीत्यत आह –
तथैतमेवेति ।
एतदपि लोकसंस्तनवनपरमिति ।
अधिकरणारम्भमाक्षिप्य नास्ति प्रत्यक्षवचनमितिकृत्वा चिन्तेयमिति समाधत्ते –
ननु ब्रह्मचर्यादेवेति ॥ १८ ॥
अनुष्ठेयं बादरायणः साम्यश्रुतेः ।
भवत्वन्यार्थः परामर्शस्तथाप्येतस्मादाश्रमान्तराणि प्रतीयमानानि च नापाकरणमर्हन्ति । एवं तान्यपाक्रियेरन्यद्यस्मान्न प्रतीयेरन् । प्रतीयमानानि वा श्रुत्या बाध्येरन् । न तावन्न प्रतीयन्ते । तथाहि - त्रयो धर्मस्कन्धा इति स्कन्धत्रित्वं प्रतिज्ञातम् । तत्र स्कन्धशब्दो यद्याश्रमपरो न स्यादपि तु समूहवचनस्ततो धर्माणां यज्ञादीनां प्रातिस्विकोत्पत्तीनां किमपेक्ष्य त्रित्वसङ्ख्या सुव्यवस्थाप्येत । एकैकाश्रमोपसङ्गृहीतास्त्वाश्रमाणां त्रित्वाच्छक्यास्त्रित्वे व्यवस्थापयितुमित्याश्रमत्रित्वप्रतिज्ञोपपत्तिः । तत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो ब्रह्मचारीति द्वितीयस्तप इति च, तपःप्रधानात्तु वानप्रस्थाश्रमान्नान्यः, ब्रह्मसंस्थ इति च पारिशेष्यात्परिव्राडिति वक्ष्यति । तस्मादन्यपरादपि परामर्शादश्रमान्तराणि प्रतीयमानानि देवताधिकरणन्यायेन न शक्यन्तेऽपाकर्तुम् । नच प्रत्यक्षश्रुतिविरोधो वीरहा वेत्यादेः प्रतिपन्नगार्हस्थ्यं प्रमादादज्ञानाद्वाग्निमुद्वासयितुं प्रवृत्तं प्रत्युपपत्तेः । एवंच अविरोधे सिद्धवत्परामर्शादश्रमान्तराणां शास्त्रान्तरसिद्धिं वा कल्पयिष्यामो यथोपवीतविधिपरे वाक्ये “उपव्ययते देवलक्ष्ममेव तत्कुरुते” इत्यत्र निवीतं मनुष्याणां प्राचीनावीतं पितृणामिति शास्त्रान्तरसिद्धयोर्निवीतप्राचीनावीतयोः परामर्श इति ॥ १९ ॥
विधिर्वा धारणवत् ।
यद्यपि ब्रह्मसंस्थत्वस्तुतिपरतयास्य सन्दर्भस्यैकवाक्यता गम्यते । सम्भवन्त्यां चैकवाक्यतायां वाक्यभेदोऽन्याय्यः । तथाप्याश्रमान्तराणां पूर्वसिद्धेरभावात्परामर्शानुपपत्तेः, अपरामर्शे च स्तुतेरसम्भवेन किम्परतया एकवाक्यतास्त्विति तां भङ्क्त्वा धारणवद्वरमपूर्वत्वाद्विधिरेवास्तु । यथा “अधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयति” इत्यत्र सत्यामप्यधोधारणेनैकवाक्यताप्रतीतौ विधीयत एवोपरिधारणमपूर्वत्वात् । तथोक्तम् “विधिस्तु धारणेऽपूर्वत्वात्”(जै. सू. ३ । ४ । १५) इति । तथेहाप्याश्रमान्तरपरामर्शश्रुतिर्विधरेवेति कल्प्य्ते । सम्प्रति परामर्शेऽपीतरेषामाश्रमाणां ब्रह्मसंस्थता संस्तवसामर्थ्यादेव विधातव्या ।
न खल्वविधेयं संस्तूयते तदर्थत्वात्संस्तवस्येत्याह –
यदापीति ।
अत्रावान्तरविचारमारभते –
सा च किं चतुर्ष्विति ।
विचारप्रयोजनमाह –
यदि चेति ।
ननु अनाश्रम्येव ब्रह्मसंस्थो भविष्यतीत्यत आह –
अनाश्रयमित्वेति ।
तत्र पूर्वपक्षमाह –
तत्र तपःशब्देनेति ।
अयमभिसन्धिः । यदि तावद्ब्रह्मसंस्थ इति पदं प्रत्यस्तमितावयवार्थं परिव्राजकेऽश्वकर्णादिपदवद्रूढं तदाश्रमप्राप्तिमात्रेणैवामृतीभाव इति न तद्भावाया ब्रह्मज्ञानमपेक्षेत । तथाच नान्यः पन्था विद्यतेऽयनायेति विरोधः । नच सम्भत्यवयवार्थे समुदायशक्तिकल्पना । तस्माद्ब्रह्मणि संस्थास्येति । ब्रह्मसंस्थः । एवंच चतुर्ष्वाश्रमेषु यस्यैव ब्रह्मणि निष्ठत्वमाश्रमिणः स ब्रह्मसंस्थोऽमृतत्वमेतीति युक्तम् । तत्र तावद्ब्रह्मचारिगृहस्थौ स्वशब्दाभिहितौ तपःपदेन च तपःप्रधानतया भिक्षुवानप्रस्थावुपस्थापितौ । भिक्षुरपि हि समाधिकशौचाष्टग्रासीभोजननियमाद्भवति वानप्रस्थवत्तपःप्रधानः । नच गृहस्थादेः कर्मिणो ब्रह्मनिष्ठत्वासम्भवः । यदि तावत्कर्मयोगः कर्मिता सा भिक्षोरपि कायवाङ्मनोभिरस्ति । अथ ये न ब्रह्मार्पणेन कर्म कुर्वन्ति किन्तु कामार्थितया ते कर्मिणः । तथा सति गृहस्थादयोऽपि ब्रह्मार्पणेन कर्म कुर्वाणा न कर्मिणः । तस्माद्ब्रह्मणि तात्पर्यं ब्रह्मनिष्ठता न तु कर्मत्यागः । प्रमाणविरोधात् । तपसा च द्वयोराश्रमयोरेकीकरणेन त्रय इति त्रित्वमुपपद्यते । एवंच त्रयोऽप्याश्रमा अब्रह्मसंस्थाः सन्तः पुण्यलोकभाजो भवन्ति यः पुनरेतेषु ब्रह्मसंस्थः सोऽमृतत्वभागिति । नच येषां पुण्यलोकभाक्त्वं तेषामेवामृतत्वमिति विरोधः । यथा देवदत्तयज्ञदत्तौ मन्दप्रज्ञावभूतां सम्प्रति तयोर्यज्ञादत्तस्तु शास्त्राभ्यासात्पटुप्रज्ञो वर्तते इति तथेहापि य एवाब्रह्मसंस्थाः । पुण्यलोकभाजस्त एव ब्रह्मसंस्था अमृतत्वभाज इत्यवस्थाभेदादविरोधः । तथाच ब्रह्मसंस्थ इति यौगिकं पदं प्रकृतविषयं भविष्यति । यथा आग्नेय्याग्नीध्रमुपतिष्ठत इत्यत्र विनियुक्तापि प्रकृतैवाग्नेयी गृह्यते । नच विनियुक्तविनियोगविरोधः । यदि ह्यत्राग्नोत्युपदिश्येत ततो यथा प्रतीता तथोद्दिश्येत । विनियुक्ता च प्रतीतिर्भवेदिति विनियुक्तविनियोगविरोधः । इह तु आग्नीध्रोपस्थाने सा विधेयत्वेन विनियुज्यते । न तूद्दिश्यते । विधेयत्वेन च विनियोगे आग्नेयीपदार्थापेक्षणात्प्रकृतातिक्रमे प्रमाणाभावात् । तावता च शास्त्रोपपत्तेर्नाप्रकृतानामपि ग्रहणसम्भवः । नच यातयामतया न विनियोगः । वाचस्तोमे सर्वेषामेव मन्त्राणां विनियोगादन्यत्राप्यविनियोगप्रसङ्गात् । तथेहापि प्रकृता एवाश्रमा बुद्धिविपरिवर्तिनः परामृश्यन्ते नानुक्तः परिव्राडेवेति पूर्वः पक्षः ।
राद्धान्तमुपक्रमते –
तदयुक्तम् । नहि सत्यां गतौ वानप्रस्थविशेषणेनेति ।
यथोपक्रान्तं तथैव परिसमापनमुचितम् । यत्सङ्ख्याकाश्च ये प्रसिद्धास्ते तत्सङ्ख्याका एव कीर्त्यन्ते इति चोचितम् । न तु सत्यां गतावुत्सर्गस्यापवादो युज्यते । असाधारणेनैकैकेन लक्षणेनैकेक आश्रमो वक्तुमुपक्रान्त इति तथैव समापनमुचितम् । न तु साधारणासाधारणाभ्यामुपक्रमसमाप्ती श्लिष्येते ।
नच तपो नाम नासाधारणं वानप्रस्थानामित्यत आह –
तपश्चासाधारण इति ।
न खलु पराकादिभिः कायक्लेशप्रधानो यथा वानप्रस्थस्तथा भिक्षुः सत्यप्यष्टग्रासादिनियमे । नच शौचसन्तोषशमदमादयस्तपः पक्षे वर्तन्ते तत्र वृद्धानां तपःप्रसिद्धेरसिद्धेः । अत एव वृद्धास्तपसो भेदेन शौचादीनाचक्षते “शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः” इति ।
सिद्धसङ्ख्याभेदेषु च सङ्ख्यान्तराभिधानमाश्लिष्टमित्याह –
चतुष्ट्वेन चेति ।
अपिच भेदव्यपदेशोऽत्रेति ।
त्रय एत इति किं भिक्षुरपि परामृश्यते किन्त्वा भिक्षुवर्जं त्रय एव । न तावन्त्रय इति भिक्षुसङ्ग्रहे तद्वर्जनमेते त्रय इत्यत्र कर्तुं शक्यम् । एत इति प्रकृतानां साकल्येन परामर्शाद्भिक्षुसङ्ग्रहे च न तस्य पुण्यलोकत्वमब्रह्मसंस्थात्वाभावाद्भिक्षोः । तेन तस्य ब्रह्मसंस्थस्य सदा पुण्यलोकत्वममृतत्वं चेति विरोधः । त्रिषु च ब्रह्मसंस्थपदे यदेति सम्बन्धनीयम् । भिक्षौ च सदेति वैषम्यम् ।
तदिदमुक्तम् –
पृथक्त्वे चेति ।
पूर्वपक्षाभासं स्मारयति –
कथं पुनर्ब्रह्मसंस्थशब्दो योगादिति ।
तन्निराकरोति –
अत्रोच्यत इति ।
अयमभिसन्धिः । सत्यं यौगिकः शब्दः सति प्रकृतसम्भवे न तदतिपत्त्याप्रकृते वर्तितुमर्हति । असति तु सम्भवे मा भूत्प्रमादपाठ इत्यप्रकृते वर्तयितव्यः, दर्शितश्चात्रासम्भवेऽधस्तादिति । एष हि ब्रह्मसंस्थतालक्षणो धर्मो भिक्षोरसाधारण आश्रमान्तराणि तत्संस्थान्यतत्संस्थानि च भिक्षुस्तत्संस्थ इत्येव । तत्संस्थता हि स्वाभावं व्यवच्छिन्दन्ती विरोधाद्यस्तत्संस्थ एव तत्राञ्जसी नान्यत्र ।
शमदमादिस्तु तदीय इति ।
स्वाङ्गमव्यवधायकमित्यर्थः ।
ब्रह्मसंस्थत्वमसाधारणं परिव्राजकधर्मं श्रुतिरादर्शयतीत्याह –
तथाच न्यास इति ब्रह्मेति ।
सर्वसङ्गपरित्यागो हि न्यासः स ब्रह्मा कुत इत्यत आह –
ब्रह्मा हि परः ।
अतः परो न्यासो ब्रह्मेति ।
किमपेक्ष्य परः संन्यास इत्यत आह –
तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयदिति ।
एतदुक्तं भवति - ब्रह्मपरतया सर्वेषणापरित्यागलक्षणो न्यासो ब्रह्मेति । तथा चेदृशं न्यासलक्षणं ब्रह्मसंस्थत्वं भिक्षोरेवासाधारणं नेतरेषामाश्रमिणाम् । ब्रह्मज्ञानस्य शब्दजनितस्य यः परिपाकः साक्षात्कारोऽपवर्गसाधनं तदङ्गतया पारिव्राज्यं विहितम् । न त्वनधिकृतं प्रतीत्यर्थः ॥ २० ॥