अद्वैतशारदा

भामतीव्याख्या

साम्परायाधिकरणविषयौ

व्याख्याः

साम्पराये तर्त­व्या­भा­वा­त्तथा ह्यन्ये ।
ननु पाठक्रमादर्धपथे सुकृ­त­दु­ष्कृ­त­त­रणे प्रतीयेते । विद्या­सा­म­र्थ्याच्च प्रागे­वा­व­ग­म्येते । तथा शाठ्यायनिनां ताण्डिनां च श्रुतेः । श्रुत्यर्थौ च पाठ­क्र­मा­द्ब­ली­यांसौ, “अग्निहोत्रं जुहोति यवागूं पचति” इत्यत्र यथा । तस्मा­त्पू­र्व­प­क्षा­भा­वा­द­ना­र­भ्य­मे­तत् । अत्रोच्यते । नैत­त्पा­ठ­क्र­म­मा­त्र­मपि तु श्रुति­स्त­त्सु­कृ­त­दु­ष्कृते विधूनुत इति । तदिति हि सर्वनाम तस्मादर्थे सन्नि­हि­त­प­रा­म­र्शकं तस्य हेतुभावमाह । सन्निहितं च यदनन्तरं श्रुतम् । तच्चार्धपथवर्ति विर­जा­न­दी­म­नोऽ­भि­ग­म­न­मि­त्य­र्ध­पथ एव सुकृ­त­दु­ष्कृ­त­त्यागः । नच श्रुत्य­न्त­र­वि­रोधः । अर्धपथेऽपि पापविधूनने ब्रह्म­लो­क­स­म्भ­वा­त्प्रा­क्का­ल­तो­प­पत्तेः । एवं शाठ्या­य­नि­ना­म­प्य­वि­रोधः । नहि तत्र जीवन्निति वा जीवत इति वा श्रुतम् । तथा चार्धपथ एव सुकृ­त­दु­ष्कृ­त­वि­मोकः । एवंच न पर्य­ङ्क­वि­द्या­त­स्त­त्प्र­क्षय इति पूर्वः पक्षः । राद्धान्तस्तु विद्या­सा­म­र्थ्य­वि­धू­त­क­ल्म­षस्य ज्ञानवत उत्तरेण पथा गच्छतो ब्रह्म­प्रा­प्तिर्न चाप्र­क्षी­ण­क­ल्म­ष­स्यो­त्त­र­मा­र्ग­ग­मनं सम्भवति । यथा यवा­गू­पा­का­त्प्रा­ग्ना­ग्नि­हो­त्रम् । यम­नि­य­मा­द्य­नु­ष्ठा­न­स­हि­ताया विद्याया उत्तरेण मार्गेण पर्य­ङ्क­स्थ­ब्र­ह्म­प्रा­प्त्यु­पा­य­त्व­श्र­व­णात् । अप्र­क्षी­ण­पा­प्म­नश्च तदनुपपत्तेः । विद्यैव तादृशी कल्मषं क्षपयति क्षपितकल्मषं चोत्तरमार्गं प्रापयतीति कथमर्धपथे कल्मषक्षयः । तस्मा­त्पा­ठ­क्र­म­बा­धे­ना­र्थ­क्र­मोऽ­नु­स­र्तव्यः । ननु न पाठ­क्र­म­मा­त्र­मत्र, तदिति सर्वनामश्रुत्या संनि­हि­त­प­रा­म­र्शा­दि­त्यु­क्तम् । तदयुक्तं, बुद्धि­सं­नि­धा­न­मा­त्र­म­त्रो­प­यु­ज्यते नान्यत् , तच्चानन्तरस्येव विद्या­प्र­क­र­णा­द्वि­द्याया अपीति समाना श्रुति­रु­भ­य­त्रा­पीति । अर्थपाठौ परिशिष्येते तत्र चार्थो बलीयानिति । नच ताण्ड्या­दि­श्रु­त्य­वि­रोधः पूर्वपक्षे । अश्व इव रोमाणि विधूयेति हि स्वतन्त्रस्य पुरुषस्य व्यापारं ब्रूते, नच परेतस्यास्ति स्वातन्त्र्यम् , तस्मा­त्त­द्वि­रोधः ॥ २७ ॥

छन्दत उभयाविरोधात् ।
केभ्य­श्चि­त्प­देभ्य इदं सूत्रम् । ननु यथा परेतस्योत्तरेण पथा ब्रह्म­प्रा­प्ति­र्भ­व­तीति विद्याफलमेवं तस्यैवार्धपथे सुकृ­त­दु­ष्कृ­त­हा­नि­रपि भविष्यतीति शङ्कापदानि तेभ्य उत्तरमिदं सूत्रम् ।

तद्व्याचष्टे –
यदि च देहा­द­प­सृ­प्त­स्येति ।
विद्याफलमपि ब्रह्म­प्रा­प्ति­र्ना­प­रे­तस्य भवितुमर्हति शङ्कापदेभ्यः । यथाहुः - नाजनित्वा तत्र गच्छन्तीति । सुकृ­त­दु­ष्कृ­त­प्र­क्ष­यस्तु सत्यपि नरशरीरे सम्भवतीति समर्थस्य हेतो­र्य­म­नि­य­मा­दि­स­हि­ताया विद्यायाः कार्य­क्ष­या­यो­गा­द्युक्तो जीवत एव सुकृ­त­दु­ष्कृ­त­क्षय इति सिद्धम् । छन्दतः स्वच्छन्दतः स्वेच्छयेति यावत् । स्वेच्छ­या­नु­ष्ठानं यम­नि­य­मा­दि­स­हि­ताया विद्यायाः । तस्य जीवतः पुरुषस्य स्यान्न मृतस्य । तत्पूर्वकं च सुकृ­त­दु­ष्कृ­त­हानं स्याज्जीवत एव । समर्थस्य क्षेपायोगात् । एवं कारणानन्तरं कार्योत्पादे सति निमि­त्त­नै­मि­त्त­क­यो­स्त­द्भा­व­स्यो­प­प­त्ति­स्ता­ण्डि­शा­ठ्या­य­नि­श्रु­त्योश्च सङ्गतिरितरथा स्वात­न्त्र्या­भा­वे­ना­स­ङ्ग­ति­रुक्ता स्यात् । तदनेनोभयाविरोधो व्याख्यातः । ये तु परस्य विदुषः सुकृतदुष्कृते कथं परत्र सङ्क्रामत इति शङ्कोत्तरतया सूत्रं व्याचख्युः । छन्दतः सङ्कल्पत इति श्रुति­स्मृ­त्यो­र­वि­रो­धा­देव । न त्वत्रा­ग­म­ग­म्येऽर्थे स्वातन्त्र्येण युक्ति­र्नि­वे­श­नी­येति । तेषा­म­धि­क­र­ण­श­री­रा­नु­प्र­वेशे सम्भ­व­त्य­र्था­न्त­रो­प­व­र्ण­न­म­स­ङ्ग­त­मे­वेति ॥ २८ ॥