अद्वैतशारदा

भामतीव्याख्या

मुग्धाधिकरणविषयाः

व्याख्याः

मुग्धेऽ­र्ध­स­म्पत्तिः परिशेषात् ।
विशे­ष­वि­ज्ञा­ना­भा­वा­न्मूर्च्छा जाग­र­स्व­प्ना­व­स्थाभ्यां भिद्यते पुनरुत्थानाच्च मरणावस्थायाः । अतः सुषुप्तिरेव मूर्च्छा विशे­ष­ज्ञा­ना­भा­वा­वि­शे­षात् । चिरा­नु­च्छ्वा­स­वे­प­थु­प्र­भृ­त­यस्तु सुप्ते­र­वा­न्त­र­प्र­भेदाः । तद्यथा कश्चि­त्सु­प्तो­त्थितः प्राह सुखमहमस्वाप्सं लघूनि मे गात्राणि प्रसन्नं मे मन इति, कश्चि­त्पु­न­र्दुः­ख­म­स्वाप्सं गुरूणि मे गात्राणि भ्रमत्यनवस्थितं मे मन इति । न चैतावता सुषु­प्ति­र्भि­द्यते । तथा विकारान्तरेऽपि मूर्च्छा न सुषु­प्ते­र्भि­द्यते । तस्मा­ल्लो­क­प्र­सि­द्ध्य­भा­वा­न्नेयं पञ्चम्यवस्थेति प्राप्तम् । एवं प्राप्त उच्यते यद्यपि विशे­ष­वि­ज्ञा­नो­प­श­मेन मोहसुषुप्तयोः साम्यं तथापि नैक्यम् । नहि विशे­ष­वि­ज्ञा­न­स­द्भा­व­सा­म्य­मा­त्रेण स्वप्न­जा­ग­र­यो­र­भेदः । बाह्ये­न्द्रि­य­व्या­पा­र­भा­वा­भा­वाभ्यां तु भेदे तयोः सुषुप्तमोहयोरपि प्रयो­ज­न­भे­दा­त्का­र­ण­भे­दा­ल्ल­क्ष­ण­भे­दाच्च भेदः । श्रमा­प­नु­त्त्यर्था हि ब्रह्मणा सम्पत्तिः सुषप्तम् । शरीरत्यागार्था तु ब्रह्मणा सम्पत्तिर्मोहः । यद्यपि सत्यपि मोहे न मरणं तथाप्यसति मोहे न मरणमिति मरणार्थो मोहः । मुस­ल­स­म्पा­ता­दि­नि­मि­त्त­त्वा­न्मो­हस्य श्रमा­दि­नि­मि­त्त­त्वाच्च सुषुप्तस्य मुख­ने­त्रा­दि­वि­का­र­ल­क्ष­ण­त्वा­न्मो­हस्य प्रस­न्न­व­द­न­त्वा­दि­ल­क्ष­ण­भे­दाच्च सुषु­प्त­स्या­सु­षु­प्तस्य त्ववा­न्त­र­भे­देऽपि निमि­त्त­प्र­यो­ज­न­ल­क्ष­णा­भे­दा­दे­क­त्वम् । तस्मा­त्सु­षु­प्त­मो­हा­व­स्थ­यो­र्ब्र­ह्मणा सम्पत्तावपि सुषुप्ते यादृशी सम्पत्तिर्न तादृशी मोह इत्य­र्ध­स­म्प­त्ति­रुक्ता । साम्य­वै­ष­म्या­भ्या­म­र्ध­त्वम् । यदा नैतदवस्थान्तरं तदा भेदा­त्त­त्प्र­वि­ल­याय यत्ना­न्त­र­मा­स्थे­यम् । अभेदे तु न यत्नान्तरमिति चिन्ताप्रयोजनम् ॥ १० ॥