अद्वैतशारदा

भामतीव्याख्या

आत्मत्वोपासनाधिकरणविषयः

व्याख्याः

आत्मेति तूपगच्छन्ति ग्राहयन्ति च ।
यद्यपि तत्त्व­म­सी­त्याद्याः श्रुतयः संसारिणः परमात्मभावं प्रतिपादयन्ति तथापि तयो­र­प­ह­त­पा­प्म­त्वा­न­प­ह­त­पा­प्म­त्वा­दि­ल­क्ष­ण­वि­रु­द्ध­ध­र्म­सं­स­र्गेण नानत्वस्य विनि­श्च­या­च्छ्रु­तेश्च तत्व­म­सी­त्य­द्याया “मनो ब्रह्म”(छा. उ. ३ । १८ । १) , “आदित्यो ब्रह्म”(छा. उ. ३ । १९ । १) इत्या­दि­व­त्प्र­ती­को­प­दे­श­प­र­त­या­प्यु­प­पत्तेः प्रतीकोपदेश एवायम् । नच यथा समारोपितं सर्पत्वमनूद्य रज्जुत्वं पुरोवर्तिनो द्रव्यस्य विधीयत एवं प्रकाशात्मनो जीवभावमनूद्य परमात्मत्वं विधीयत इति युक्तम् । युक्तं हि पुरोवर्तिनि द्रव्ये द्राघीयसि सामा­न्य­रू­पे­णा­लो­चिते विशे­ष­रू­पे­णा­गृ­हीते विशे­षा­न्त­र­स­मा­रो­प­णम् । इह तु प्रकाशात्मनो निर्वि­शे­ष­सा­मा­न्य­स्या­प­रा­धी­न­प्र­का­शस्य नागृहीतमस्ति किञ्चिद्रूपमिति कस्य विशेषस्याग्रहे किं विशेषान्तरं समारोप्यताम् । तस्माद्ब्रह्मणो जीव­भा­वा­रो­पा­स­म्भ­वा­ज्जीवो जीवो ब्रह्म च ब्रह्मेति तत्त्वमसीति प्रतीकोपदेश एवेति प्राप्तम् ।

एवं प्राप्तेऽ­भि­धी­यते - श्वेत­के­तो­रा­त्मैव परमेश्वरः प्रतिपत्तव्यो न तु श्वेत­के­तो­र्व्य­ति­रिक्तः परमेश्वरः । भेदे हि गौणत्वापत्तिर्न च मुख्यसम्भवे गौणत्वं युक्तम् । अपिच प्रतीकोपदेशे सकृद्वचनं तु प्रतीयते भेददर्शननिन्दा च( ? ) । अभ्यासे हि भूयस्त्वमर्थस्य भवति, नाल्पत्वमतिदवीय एवोपचरितत्वम् । तस्मा­त्पौ­र्वा­प­र्या­लो­च­नया श्रुते­स्ता­व­ज्जी­वस्य परमात्मता वास्त­वी­त्ये­त­त्प­रता लक्ष्यते । नच माना­न्त­र­वी­रो­धा­द­त्रा­प्रा­माण्यं श्रुतेः । नच मानान्तरविरोध इत्यादि तु सर्वमुपपादितं प्रथमेऽध्याये । निरंशस्यापि चाना­द्य­नि­र्वा­च्या­वि­द्या­त­द्वा­स­ना­स­मा­रो­पि­त­वि­वि­ध­प्र­प­ञ्चा­त्मनः सांशस्येव कस्य­चि­दं­श­स्या­ग्र­ह­णा­द्वि­भ्रम इव परमार्थस्तु न विभ्रमो नाम कश्चिन्न च संसारो नाम । किन्तु सर्व­मे­त­त्स­र्वा­नु­प­प­त्ति­भा­ज­न­त्वे­ना­नि­र्व­च­नी­य­मिति युक्त­मु­त्प­श्यामः । तद­ने­ना­भि­स­न्धि­नो­क्तम् –
यद्येवं प्रतिबद्धोऽसि नास्ति कस्यचिदप्रतिबोध इति ।
अन्येऽप्याहुः “यद्यद्वैते न तोषोऽस्ति मुक्त एवासि सर्वदा” इति । अति­रे­हि­ता­र्थ­म­न्य­दिति ॥ ३ ॥