भामतीव्याख्या
ज्ञाधिकरणविषयः
ज्ञोऽत एव ।
कर्मणा हि जानात्यर्थो व्याप्तस्तदभावे न भवति धूम इव धूमध्वजाभावे, सुषुप्त्याद्यवस्थासु च ज्ञेयस्याभावात्तद्व्याप्यस्य ज्ञानस्याभावः । तथाच नात्मस्वभावश्चैतन्यं तदनुवृत्तावपि चैतन्यस्य व्यावृत्तेः । तस्मादिन्द्रियादिभावाभावानुविधानात्ज्ञानभावाभावयोरिन्द्रियादिसंनिकर्षाधेयमागन्तुकमस्य चैतन्यं धर्मो न स्वाभाविकः । अत एवेन्द्रियादीनामर्थवत्त्वम् , इतरथा वैयर्थ्यमिन्द्रियाणां भवेत् । नित्यचैतन्यश्रुतयश्च शक्त्यभिप्रायेण व्याख्येयाः । अस्ति हि ज्ञानोत्पादनशक्तिर्निजा जीवानां, न तु व्योम्न इवेन्द्रियादिसन्निकर्षेऽप्येषा ज्ञानं न भवतीति । तस्माज्जडा एव जीवा इति प्राप्तेऽभिधीयतेयदागन्तुकज्ञानं जडस्वभावं तत्कदाचित्परोक्षं कदाचित्सन्दिग्धं कदाचिद्विपर्यस्तं, यथा घटादि, न चैवमात्मा । तथाहि अनुमिमानोऽप्यपरोक्षः, स्मरन्नप्यानुभविकः, सन्दिहानोऽप्यसन्दिग्धः, विपर्यस्यन्नप्यविपरीतः सर्वस्यात्मा । तथाच तत्स्वभावः । नच तत्स्वभावस्य चैतन्यस्याभावः, तस्य नित्यत्वात् । तस्माद्वृत्तयः क्रियारूपाः सकर्मिकाः कर्माभावे सुषुप्त्यादौ निवर्तन्ते । तेन चैतन्यमात्मस्वभाव इति सिद्धम् । तथाच नित्यचैतन्यवादिन्यः श्रुतयो न कथञ्चित्क्लेशेन व्याख्यातव्या भवन्ति । गन्धादिविषयवृत्त्युपजने चेन्द्रियाणामर्थवत्तेति सर्वमवदातम् ॥ १८ ॥