अद्वैतशारदा

भामतीव्याख्या

अत्त्रधिकरणविषयाः

व्याख्याः

अत्ता चराचरग्रहणात् ।

कठवल्लीषु पठ्यते - यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्यु­र्य­स्यो­प­से­चनं क इत्था वेद यत्र स इति ।
अत्र चाद­नी­यौ­दा­नो­प­से­च­न­सू­चितः कश्चिदत्ता प्रतीयते । अत्तृत्वं च भोक्तृता वा संहर्तृता वा स्यात् । नच प्रस्तुतस्य परमात्मनो भोक्तृतास्ति, “अन­श्र­न्न­न्योऽ­भि­चा­क­शीति”(मु. उ. ३ । १ । १) इति श्रुत्या भोक्तृ­ता­प्र­ति­षे­धात् । जीवात्मनश्च भोक्तृ­ता­वि­धा­नात् “तयोरन्यः पिप्पलं स्वाद्वत्ति”(मु. उ. ३ । १ । १) इति । तद्यदि भोक्तृ­त्व­म­त्तृत्वं ततो मुक्तसंशयं जीवात्मैव प्रतिपत्तव्यः । ब्रह्मक्षत्रादि चास्य कार्य­का­र­ण­स­ङ्घातो भोगायतनतया वा साक्षाद्वा सम्भवति भोग्यम् । अथ तु संहर्तृता भोक्तृता, तत­स्त्र­या­णा­म­ग्नि­जी­व­प­र­मा­त्मनां प्रश्नो­प­न्या­सो­प­लब्धेः संह­र्तृ­त्व­स्या­वि­शे­षा­द्भ­वति संशयः - किमत्ता अग्निराहो जीव उताहो परमात्मेति । तत्रौदनस्य भोग्यत्वेन लोके प्रसि­द्धे­र्भो­क्तृ­त्व­मेव प्रथमं बुद्धौ विपरिवर्तते, चरमं तु संहर्तृत्वमिति भोक्तैवात्ता । तथा च जीव एव । “न जायते म्रियते”(क. उ. १ । २ । १८) इति च तस्यैव स्तुतिः । यदि तु संहारकालेऽपि संस्कारमात्रेण तस्यावस्थानात् । दुर्ज्ञानत्वं च तस्य सूक्ष्मत्वात् । तस्माज्जीव एवात्तेहोपास्यत इति प्राप्तम् । यदि तु संह­र्तृ­त्व­म­त्तृत्वं तथा­प्य­ग्नि­रत्ता, “अग्निरन्नादः”(बृ. उ. १ । ४ । ६) इति श्रुति­प्र­सि­द्धि­भ्याम् । एवं प्राप्ते­भि­धी­य­ते­अ­त्तात्र परमात्मा, कुतः, चराचरग्रहणात् । “उभे यस्योदनः” इति “मृत्यु­र्य­स्यो­प­से­च­नम्”(क. उ. १ । २ । २५) इति च श्रूयते । तत्र यदि जीवस्य भोगायतनतया तत्साधनतया च कार्य­का­र­ण­स­ङ्घातः स्थितः, न तर्ह्येदनः । नह्योदनो भोगायतनं, नापि भोगसाधनं, अपि तु भोग्यः । नच भोगायतनस्य भोगसाधनस्य वा भोग्यत्वं मुख्यम् । न चात्र मृत्यु­रु­प­से­च­न­तया कल्प्यते । नच जीवस्य कार्य­का­र­ण­स­ङ्घातो ब्रह्म­क्ष­त्रा­दि­रूपो भक्ष्यः, कस्य­चि­त्क्रू­र­स­त्त्वस्य व्याघ्रादेः कश्चिद्भवेत् न तु सर्वथा सर्वजीवस्य । तेन ब्रह्म­क्ष­त्र­वि­ष­य­मपि सर्व­जी­व­स्या­त्तृत्वं न व्याप्नोति, किमङ्ग पुन­र्मृ­त्यू­प­से­च­न­व्याप्तं चराचरम् । न चौद­न­प­दा­त्प्र­थ­मा­व­ग­त­भो­ग्य­त्वा­नु­रो­धेन यथा­स­म्भ­व­म­त्तृत्वं योज्यत इति युक्तम् । नह्योदनपदं श्रुत्या भोग्यत्वमाह, किन्तु लक्षणया । नच लाक्ष­णि­क­भो­ग्य­त्वा­नु­रो­धेन “मृत्यु­र्य­स्यो­प­से­च­नम्” इति, “ब्रह्म च क्षत्रं च” इति च श्रुती सङ्कोचमर्हतः । नच ब्रह्मक्षत्रे एवात्र विवक्षिते, मृत्यूपसेचनेन प्राण­भृ­न्मा­त्रो­प­स्था­प­नात् । प्राणिषु प्रधानत्वेन च ब्रह्म­क्ष­त्रो­प­न्या­स­स्यो­प­पत्तेः, अन्य­नि­वृ­त्ते­र­शा­ब्दत् , वातनर्थत्वाच्च । तथाच चरा­च­र­सं­ह­र्तृत्वं परमात्मन एव । नाग्नेः । नापि जीवस्य । तथाच “न जायते म्रियते वा विपश्चित्”(क. उ. १ । २ । १८) इति ब्रह्मणः प्रकृतस्य न हानं भविष्यति । “क इत्था वेद यत्र सः”(क. उ. १ । २ । २५) इति च दुर्ज्ञा­न­तो­प­प­त्स्यते । जीवस्य तु सर्व­लो­क­प्र­सि­द्धस्य न दुर्ज्ञानता । तस्मादत्ता परमात्मैवेति सिद्धम् ॥ ९ ॥ ॥ १० ॥