अद्वैतशारदा

भामतीव्याख्या

१ परिच्छेदः

व्याख्याः

विधिशेषत्वं वा नेतुं न शक्यः ।

कुतः
आत्मत्वादेव ।
न ह्यात्मा अन्या­र्थोऽ­न्यत्तु सर्वमात्मार्थम् । तथा च श्रुतिः - “न वा अरे सर्वस्य कामाय सर्वं प्रियं भवति आत्मनस्तु कामाय सर्वं प्रियं भवति”(बृ. उ. ४ । ५ । ६) इति । अपि चातः सर्वे­षा­मा­त्म­त्वा­देव न हेयो नाप्युपादेयः । सर्वस्य हि प्रपञ्चजातस्य ब्रह्मैव तत्त्वमात्मा । न च स्वभावो हेयः, अशक्यहानत्वात् । न चोपादेयः, उपात्तत्वात् । तस्मा­द्धे­यो­पा­दे­य­वि­षयौ विधिनिषेधौ न तद्वि­प­री­त­मा­त्म­तत्त्वं विषयीकुरुत इति सर्वस्य प्रप­ञ्च­जा­त­स्या­त्मैव तत्त्वमिति ।

एतदुपपादयति -
सर्वं हि विन­श्य­द्वि­का­र­जातं पुरुषान्तं विनश्यति ।
अयमर्थः - पुरुषो हि श्रुति­स्मृ­ती­ति­हा­स­पु­रा­ण­त­द­वि­रु­द्ध­न्या­य­व्य­व­स्था­पि­त­त्वा­त्प­र­मा­र्थ­सन् । प्रप­ञ्च­स्त्व­ना­द्य­वि­द्यो­प­द­र्शि­तोऽ­प­र­मा­र्थ­सन् । यश्च परमार्थसन्नसौ प्रकृतिः रज्जुतत्त्वमिव सर्पविभ्रमस्य विकारस्य । अत एवा­स्या­नि­र्वा­च्य­त्वे­ना­दृ­ढ­स्व­भा­वस्य विनाशः । पुरुषस्तु परमार्थसन्नासौ कार­ण­स­ह­स्रे­णा­प्य­सन् शक्यः कर्तुम् । न हि सहस्रमपि शिल्पिनो घटं पटयितुमीशत इत्युक्तम् । तस्मा­द­वि­ना­शि­पु­रु­षान्तो विकारविनाशः शुक्ति­र­ज्जु­त­त्त्वान्त इव रजतभुजङ्गविनाशः । पुरुष एव हि सर्वस्य प्रप­ञ्च­वि­का­र­जा­तस्य तत्त्वम् ।

न च पुरुषस्यास्ति विनाशो यतोऽनन्तो विनाशः स्यादित्यत आह -
पुरुषो विना­श­हे­त्व­भा­वा­दिति ।

नहि कारणानि सह­स्र­म­प्य­न्य­द­न्य­थ­यि­तु­मी­शत इत्युक्तम् । अथ मा भूत्स्वरूपेण पुरुषो हेय उपादेयो वा, तदीयस्तु कश्चिद्धर्मो हास्यते, कश्चि­च्चो­पा­दा­स्यत इत्यत आह -
विक्रि­या­हे­त्व­भा­वाच्च कूटस्थनित्यः ।
त्रिविधोऽपि धर्म­ल­क्ष­णा­व­स्था­प­रि­णा­म­ल­क्षणो विकारो नास्तीत्युक्तम् । अपि चात्मनः परमार्थसतो धर्मोऽपि परमार्थसन्निति न तस्या­त्म­व­द­न्य­थात्वं कारणैः शक्यं कर्तुम् । न च धर्मा­न्य­था­त्वा­दन्यो विकारः । तदिदमुक्तम् - विक्रि­या­हे­त्व­भा­वा­दिति । सुगममन्यत् ।

यत्पुनरेकदेशिना शास्त्रविद्वचनं साक्षि­त्वे­ना­नु­क्रान्तं तदन्यथोपपादयति -
यदपि शास्त्र­ता­त्प­र्य­वि­दा­म­नु­क्र­म­ण­मिति ।
“दृष्टो हि तस्यार्थः प्रयो­ज­न­व­द­र्था­व­बो­ध­नम्” इति वक्तव्ये, धर्मजिज्ञासायाः प्रकृ­त­त्वा­द्ध­र्मस्य च कर्मत्वात् “कर्मावबोधनम्” इत्युक्तम् । न तु सिद्ध­रू­प­ब्र­ह्मा­व­बो­ध­न­व्या­पारं वेदस्य वारयति । न हि सोमशर्मणि प्रकृते तद्गुणाभिधानं परिसञ्चष्टे विष्णुशर्मणो गुणवत्ताम् । विधिशास्त्रं विधी­य­मा­न­क­र्म­वि­ष­यम् , प्रति­षे­ध­शास्त्रं च प्रति­षि­ध्य­मा­न­क­र्म­वि­ष­य­मि­त्यु­भ­य­मपि कर्मावबोधनपरम् । अपि च “आम्नायस्य क्रिया­र्थ­त्वात्” इति शास्त्र­कृ­द्व­च­नम् ।

तत्रार्थग्रहणं यद्यभिधेयवाचि ततो भूतार्थानां द्रव्य­गु­ण­क­र्म­णा­मा­न­र्थ­क्य­म­न­भि­धे­यत्वं प्रसज्येत, नहि ते क्रियार्था इत्यत आह -
अपि चाम्नायस्येति ।
यद्युच्येत नहि क्रियार्थत्वं क्रिया­भि­धे­य­त्वम् , अपि तु क्रिया­प्र­यो­ज­न­त्वम् । द्रव्य­गु­ण­श­ब्दानां च क्रिया­र्थ­त्वे­नैव भूत­द्र­व्य­गु­णा­भि­धा­नम् , न स्वनिष्ठतया । यथाहुः शास्त्रविदः - “चोदना हि भूतं भवन्तम्” इत्यादि । एतदुक्तं भवति - कार्य­म­र्थ­म­व­ग­म­यन्ती चोदना तदर्थं भूतादिकमप्यर्थं गमयतीति ।

तत्राह -
प्रवृ­त्ति­नि­वृ­त्ति­व्य­ति­रे­केण भूतं चेदिति ।
अयमभिसन्धिः - न तावत्कार्यार्थ एव स्वार्थे पदानां सङ्गतिग्रहो नान्यार्थ इत्युपपादितं भूतेऽप्यर्थे व्युत्पत्तिं दर्शयद्भिः । नापि स्वार्थ­मा­त्र­प­र­तैव पदानाम् । तथा सति न वाक्या­र्थ­प्र­त्ययः स्यात् । न हि प्रत्येकं स्वप्रधानतया गुण­प्र­धा­न­भा­व­र­हि­ता­ना­मे­क­वा­क्यता दृष्टा । तस्मात्पदानां स्वार्थ­म­भि­द­ध­ता­मे­क­प्र­यो­ज­न­व­त्प­दा­र्थ­प­र­त­यै­क­वा­क्यता । तथा च तत्त­द­र्था­न्त­र­वि­शि­ष्टै­क­वा­क्या­र्थ­प्र­त्यय उपपन्नो भवति । यथाहुः शास्त्रविदः - “साक्षाद्यद्यपि कुर्व­न्ति­प­दा­र्थ­प्र­ति­पा­द­नम् । वर्णास्तथापि नैत­स्मि­न्प­र्य­व­स्यन्ति निष्फले ॥ वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् । पाके ज्वालेव काष्ठानां पदा­र्थ­प्र­ति­पा­द­नम्” ॥ इति । तथा चार्था­न्त­र­सं­स­र्ग­प­र­ता­मा­त्रेण वाक्या­र्थ­प्र­त्य­यो­प­पत्तौ न कार्य­सं­स­र्ग­प­र­त्व­नि­यमः पदानाम् । एवं च सति कूट­स्थ­नि­त्य­ब्र­ह्म­रू­प­प­र­त्वेऽ­प्य­दोष इति । भव्यं कार्यम् ।

ननु यद्भव्यार्थं भूतमुपदिश्यते न तद्भूतम् , भव्यसंसर्गिणा रूपेण तस्यापि भव्यत्वादित्यत आह -
न हि भूत­मु­प­दि­श्य­मा­न­मिति ।
न तादात्म्यलक्षणः संसर्गः, किं तु कार्येण सह प्रयो­ज­न­प्र­यो­ज­नि­ल­क्ष­णोऽ­न्वयः । तद्विषयेण तु भावार्थेन भूतार्थानां क्रियाकारकलक्षण इति न भूतार्थानां क्रिया­र्थ­त्व­मि­त्यर्थः ।

शङ्कते -
अक्रि­या­त्वेऽ­पीति ।
एवं चाक्रि­या­र्थ­कू­ट­स्थ­नि­त्य­ब्र­ह्मो­प­दे­शा­नु­प­प­त्ति­रिति भावः ।

परिहरति -
नैष दोषः ।

क्रिया­र्थ­त्वेऽ­पीति ।
न हि क्रियार्थं भूत­मु­प­दि­श्य­मा­न­म­भूतं भवति, अपि तु क्रिया­नि­व­र्त­न­योग्यं भूतमेव तत् । तथा च भूतेऽ­र्थेऽ­व­धृ­त­श­क्तयः शब्दाः क्वचि­त्स्व­नि­ष्ठ­भू­त­वि­षया दृश्यमाना मृत्वा शीर्त्वा वा न कथ­ञ्चि­त्क्रि­या­नि­ष्ठतां गमयितुमुचिताः । नह्युपहितं शतशो दृष्ट­म­प्य­नु­प­हितं क्वचि­द्दृ­ष्ट­म­दृष्टं भवति । तथा च वर्तमानापदेशा अस्ति­क्रि­यो­प­हिता अकार्यार्था अप्य­ट­वी­व­र्ण­का­दयो लोके बहुलमुपलभ्यन्ते । एवं क्रियानिष्ठा अपि सम्ब­न्ध­मा­त्र­प­र्य­व­सा­यिनः, यथाकस्यैष पुरुष इति प्रश्ने उत्तरंराज्ञ इति । तथा प्राति­प­दि­का­र्थ­मा­त्र­निष्ठाः, यथा - कीदृशास्तरव इति प्रश्ने उत्तरम्फलिन इति । न हि पृच्छता पुरुषस्य वा तरूणां वास्ति­त्व­ना­स्तित्वे प्रतिपित्सिते, किं तु पुरुषस्य स्वामि­भे­द­स्त­रूणां च प्रकारभेदः । प्रष्टु­र­पे­क्षितं चाचक्षाणः स्वामिभेदमेव प्रकारभेदमेव च प्रतिवक्ति, न पुनरस्तित्वम् , तस्य तेना­प्र­ति­पि­त्सि­त­त्वात् । उपपादिता च भूतेऽप्यर्थे व्युत्पत्तिः प्रयोजनवति पदानाम् ।

चोदयति -
यदि नामोपदिष्टं

भूतं
किं तव -
उपदेष्टुः श्रोतुर्वा प्रयोजनं

तस्माद्भूतमपि प्रयो­ज­न­व­दे­वो­प­दे­ष्टव्यं नाप्रयोजनम् । अप्रयोजनं च ब्रह्म, तस्योदासीनस्य सर्व­क्रि­या­र­हि­त­त्वे­ना­नु­प­का­र­क­त्वा­दिति भावः ।
स्यात् ।

परिहरति -
अन­व­ग­ता­त्म­व­स्तू­प­दे­शश्च तथैव -
प्रयोजनवानेव -

भवितुमर्हति ।
अप्यर्थश्चकारः । एतदुक्तं भवति - यद्यपि ब्रह्मोदासीनम् , तथापि तद्विषयं शाब्द­ज्ञा­न­म­व­ग­ति­प­र्यन्तं विद्या स्वविरोधिनीं संसा­र­मू­ल­नि­दा­न­म­वि­द्या­मु­च्छि­न्द­त्प्र­यो­ज­न­व­दि­त्यर्थः । अपि च येऽपि कार्यपरत्वं सर्वेषां पदानामास्थिषत, तैरपि “ब्राह्मणो न हन्तव्यः”, “न सुरा पातव्या” इत्यादीनां न कार्यपरता शक्या आस्थातुम् । कृत्यु­प­हि­त­म­र्यादं हि कार्यं कृत्या व्याप्तं तन्निवृत्तौ निवर्तते, शिंशपात्वमिव वृक्ष­त्व­नि­वृत्तौ । कृतिर्हि पुरुषप्रयत्नः - स च विषयाधीननिरूपणः । विषयश्चास्य साध्यस्वभावतया भावार्थ एव पूर्वा­प­री­भू­तोऽ­न्यो­त्पा­दा­नु­कू­लात्मा भवितुमर्हति, न द्रव्यगुणौ । साक्षा­त्कृ­ति­व्याप्यो हि कृतेर्विषयः । न च द्रव्यगुणयोः सिद्धयोरस्ति कृतिव्याप्यता । अत एव शास्त्रकृद्वचः - “भावार्थाः कर्म­श­ब्दा­स्तेभ्यः क्रिया प्रतीयेत” इति । द्रव्य­गु­ण­श­ब्दानां नैमि­त्ति­का­व­स्थायां कार्या­व­म­र्शेऽपि, भावस्य स्वतः, द्रव्य­गु­ण­श­ब्दानां तु भाव­यो­गा­त्का­र्या­व­मर्श इति भावार्थेभ्य एवापूर्वावगतिः, न द्रव्य­गु­ण­श­ब्देभ्य इति । न च ‘दध्ना जुहोति’ , ‘सन्ततमाघारयति’ इत्यादिषु द्रव्यादीनां कार्यविषयता । तत्रापि हि होमा­घा­र­भा­वा­र्थ­वि­ष­य­मेव कार्यम् । न चैतावता ‘सोमेन यजेत’ इतिवत् , दधि­स­न्त­ता­दि­वि­शि­ष्ट­हो­मा­घा­र­वि­धा­नात् , ‘अग्निहोत्रं जुहोति’ , ‘आघारमाघारयति’ इति तदनुवादः । यद्यप्यत्रापि भावार्थविषयमेव कार्यं, तथापि भावा­र्था­नु­ब­न्ध­तया द्रव्य­गु­णा­व­वि­ष­या­वपि विधीयेते । भावार्थो हि कार­क­व्या­पा­र­मा­त्र­त­या­वि­शिष्टः कारकविशेषेण द्रव्यादिना विशेष्यत इति द्रव्या­दि­स्त­द­नु­बन्धः । तथा च भावार्थे विधीयमाने स एव सानुबन्धो विधीयत इति द्रव्य­गु­णा­व­वि­ष­या­वपि तदनुबन्धतया विहितौ भवतः । एवं च भावा­र्थ­प्र­णा­लि­कया द्रव्या­दि­स­ङ्क्रान्तो विधि­र्गौ­र­वा­द्बि­भ्य­त्स्व­वि­ष­यस्य चान्यतः प्राप्ततया तदनुवादेन तद­नु­ब­न्धी­भू­त­द्र­व्या­दि­परो भवतीति सर्वत्र भावार्थविषय एव विधिः । एतेन ‘यदा­ग्ने­योऽ­ष्टा­क­पालो भवति’ इत्यत्र सम्बन्धविषयो विधिरिति परास्तम् । ननु न भवत्यर्थो विधेयः, सिद्धे भवितरि लब्धरूपस्य भवनं प्रत्य­क­र्तृ­त्वात् । न खलु गगनं भवति । नाप्यसिद्धे, असि­द्ध­स्या­नि­यो­ज्य­त्वात् , गगनकुसुमवत् । तस्माद्भवनेन प्रयो­ज्य­व्या­पा­रे­णा­क्षिप्तः प्रयोजकस्य भाव­यि­तु­र्व्या­पारो विधेयः । स च व्यापारो भावना, कृतिः, प्रयत्न इति निर्वि­ष­य­श्चा­सा­व­श­क्य­प्र­ति­प­त्ति­रतो विष­या­पे­क्षा­या­मा­ग्ने­य­श­ब्दो­प­स्था­पितो द्रव्य­दे­व­ता­स­म्बन्ध एवास्य विषयः । ननु व्यापारविषयः पुरुषप्रयत्नः कथमव्यापाररूपं सम्बन्धं गोचरयेत् । न हि घटं कुर्वित्यत्रापि साक्षा­न्ना­मार्थं घटं पुरुषप्रयत्नो गोचरयत्यपि तु दण्डादि हस्तादिना व्यापारयति । तस्माद्घटार्थां कृतिं व्यापारविषयामेव पुरुषः प्रतिपद्यते, न तु रूपतो घटविषयाम् । उद्देश्यतया त्वस्यामस्ति घटो न तु विषयतया । विषयतया तु हस्तादिव्यापार एव । अत एवाग्नेय इत्यत्रापि द्रव्य­दे­व­ता­स­म्ब­न्धा­क्षिप्तो यजिरेव कार्यविषयो विधेयः । किमुक्तं भवति, आग्नेयो भवतीति आग्नेयेन यागेन भावयेदिति । अत एव ‘य एवं विद्वान् पौर्णमासीं यजते’ ‘य एवं विद्वा­न­मा­वास्यां यजते’ इत्यनुवादो भवति ‘यदाग्नेयः’ इत्यादिविहितस्य यागषट्कस्य । अत एव च विहितानूदितस्य तस्यैव ‘दर्श­पू­र्ण­मा­साभ्यां स्वर्गकामो यजेत’ इत्या­धि­का­र­स­म्बन्धः । तस्मात्सर्वत्र कृतिप्रणालिकया भावार्थविषय एव विधि­रि­त्ये­कान्तः । तथा च ‘न हन्यात्’ ‘न पिबेत्’ इत्यादिषु यदि कार्य­म­भ्यु­पे­येत, ततस्तद्व्यापिका कृति­र­भ्यु­पे­तव्या, तद्व्यापकश्च भावार्थो विषयः । एवं च प्रजा­प­ति­व्र­त­न्या­येन पर्यु­दा­स­वृ­त्त्याऽ­ह­न­ना­पा­न­स­ङ्क­ल्प­ल­क्ष­णया तद्विषयो विधिः स्यात् । तथा च प्रस­ज्य­प्र­ति­षेधो दत्तजलाञ्जलिः प्रसज्येत । न च सति सम्भवे लक्षणा न्याय्या । “नेक्षे­तो­द्य­न्तम्” इत्यादौ तु “तस्य व्रतम्” इत्य­धि­का­रा­त्प्र­स­ज्य­प्र­ति­षे­धा­स­म्भ­वेन पर्यु­दा­स­वृ­त्त्या­नी­क्ष­ण­स­ङ्क­ल्प­ल­क्षणा युक्ता ।

तस्मात् ‘न हन्यात्’ , ‘न पिबेत्’ इत्यादिषु प्रस­ज्य­प्र­ति­षे­धेषु भावा­र्था­भा­वा­त्त­द्व्या­प्तायाः कृतेरभावः, तदभावे च तद्व्याप्तस्य कार्यस्याभाव इति न कार्यपरत्वनियमः सर्वत्र वाक्ये इत्याह -
ब्राह्मणो न हन्तव्य इत्येवमाद्या इति ।

ननु कस्मा­न्नि­वृ­त्ति­रेव कार्यं न भवति, तत्साधनं वेत्यत आह -
न च सा क्रियेति ।
क्रियाशब्दः कार्यवचनः ।

एतदेव विभजते -
अक्रि­या­र्था­ना­मिति ।

स्यादेतत् । विधि­वि­भ­क्ति­श्र­व­णा­त्कार्यं तावदत्र प्रतीयते तच्च न भावार्थमन्तरेण । न च रागतः प्रवृत्तस्य हन­न­पा­ना­दा­व­क­स्मा­दौ­दा­सी­न्य­मु­प­प­द्यते विना विधारकप्रयत्नम् । तस्मात्स एव प्रवृ­त्त्यु­न्मु­खानां मनोवाग्देहानां विधारकः प्रयत्नो निषेधविधिगोचरः क्रियेति नाक्रियापरमस्ति वाक्यं किञ्चिदपीति आह -
न च हन­न­क्रि­या­नि­वृ­त्त्यौ­दा­सी­न्य­व्य­ति­रे­केण नञः शक्य­म­प्रा­प्त­क्रि­या­र्थत्वं कल्पयितुम् ।

केन हेतुना न शक्यमित्यत आह -
स्वभा­व­प्रा­प्त­ह­न्त्य­र्था­नु­रा­गेण
नञः । अयमर्थः - हननपानपरो हि विधिप्रत्ययः प्रतीयमानस्ते एव विधत्ते इत्युत्सर्गः । न चैते शक्ये विधातुम् , रागतः प्राप्तत्वात् । न च नञः प्रस­ज्य­प्र­ति­षेधो विधेयः, तस्या­प्यौ­दा­सी­न्य­रू­पस्य सिद्धतया प्राप्तत्वात् । न च विधारकः प्रयत्नः, तस्याश्रुतत्वेन लक्ष्यमाणत्वात् , सति सम्भवे च लक्षणाया अन्याय्यत्वात् , विधिविभक्तेश्च रागतः प्राप्त­प्र­वृ­त्त्य­नु­वा­द­क­त्वेन विधि­वि­ष­य­त्वा­यो­गात् । तस्मा­द्य­त्पि­बे­द्ध­न्या­द्वे­त्य­नूद्य तन्नेति निषिध्यते, तदभावो ज्ञाप्यते, न तु नञर्थो विधीयते । अभावश्च स्ववि­रो­धि­भा­व­नि­रू­प­ण­तया भाव­च्छा­या­नु­पा­तीति सिद्धे सिद्धवत् , साध्ये च साध्यवद्भासत इति साध्यविषयो नञर्थः साध्यवद्भासत इति नञर्थः कार्य इति भ्रमः ।

तदिदमाह -
नञश्चैष स्वभाव इति ।

ननु बोधयतु सम्बन्धिनोऽभावं नञ्प्र­वृ­त्त्यु­न्मु­खानां तु मनोवाग्देहानां कुतोऽ­क­स्मा­न्नि­वृ­त्ति­रि­त्यत आह -
अभा­व­बु­द्धि­श्चौ­दा­सीन्य

पालन
कारणम् ।
अयमभिप्रायः - ‘ज्वरितः पथ्यमश्नीयात्’ , ‘न सर्पायाङ्गुलिं दद्यात्’ इत्या­दि­व­च­न­श्र­व­ण­स­म­न­न्तरं प्रयो­ज्य­वृ­द्धस्य पथ्याशने प्रवृत्तिं भुज­ङ्गा­ङ्गु­लि­दा­नो­न्मु­खस्य च ततो निवृत्तिमुपलभ्य बालो व्युत्पित्सुः प्रयो­ज्य­वृ­द्धस्य प्रवृ­त्ति­नि­वृ­त्ति­हेतू इच्छा­द्वे­षा­व­नु­मि­मीते । तथा हि - इच्छा­द्वे­ष­हे­तुके वृद्धस्य प्रवृ­त्ति­नि­वृत्ती स्वत­न्त्र­प्र­वृ­त्ति­नि­वृ­त्ति­त्वात् , मदी­य­स्व­त­न्त्र­प्र­वृ­त्ति­नि­वृ­त्ति­वत् । कर्त­व्य­तै­का­र्थ­स­म­वे­ते­ष्टा­नि­ष्ट­सा­ध­न­भा­वा­व­ग­म­पू­र्वकौ चास्ये­च्छा­द्वेषौ, प्रवृ­त्ति­नि­वृ­त्ति­हे­तु­भू­ते­च्छा­द्वे­ष­त्वात् , मत्प्र­वृ­त्ति­नि­वृ­त्ति­हे­तु­भू­ते­च्छा­द्वे­ष­वत् । न जातु मम शब्द­त­द्व्या­पा­र­पु­रु­षा­श­य­त्रै­का­ल्या­न­वि­च्छ­न्न­भा­व­ना­पू­र्व­प्र­त्य­य­पू­र्वा­वि­च्छा­द्वे­षा­व­भू­ताम् । अपि तु भूयोभूयः स्वगतमालोचयत उक्त­का­र­ण­पू­र्वा­वेव प्रत्यवभासेते । तस्माद्वृद्धस्य स्वत­न्त्र­प्र­वृ­त्ति­नि­वृत्ती इच्छाद्वेषभेदौ च कर्त­व्य­तै­का­र्थ­स­म­वे­ते­ष्टा­नि­ष्ट­सा­ध­न­भा­वा­व­ग­म­पू­र्वा­वि­त्या­नु­पूर्व्या सिद्धः कार्यकारणाभाव इती­ष्टा­नि­ष्ट­सा­ध­न­ता­व­ग­मा­त्प्र­यो­ज्य­वृ­द्ध­प्र­वृ­त्ति­नि­वृत्ती इति सिद्धम् । स चावगमः प्रागभूतः शब्द­श्र­व­णा­न­न्त­र­मु­प­जा­य­मानः शब्दश्रवणहेतुक इति प्रवर्तकेषु वाक्येषु ‘यजेत’ इत्यादिषु शब्द एव कर्त­व्य­मि­ष्ट­सा­धनं व्यापा­र­म­व­ग­म­यं­स्त­स्ये­ष्ट­सा­ध­नतां कर्तव्यतां चावगमयति अन­न्य­ल­भ्य­त्वा­दु­भयोः, अनन्यलभ्यस्य च शब्दार्थत्वात् । यत्र तु कर्तव्यतान्यत एव लभ्यते, यथा ‘न हन्यात्’ , ‘न पिबेत्’ इत्यादिषु हन­न­पा­न­प्र­वृत्त्यो रागतः प्रतिलम्भात् , तत्र तदनुवादेन नञ्समभिव्याहृता लिङा­दि­वि­भ­क्ति­र­न्य­तोऽ­प्रा­प्त­म­न­यो­र­न­र्थ­हे­तु­भा­व­मा­त्र­म­व­ग­म­यति । प्रत्यक्षं हि तयो­रि­ष्ट­सा­ध­न­भा­वोऽ­व­ग­म्यते, अन्यथा राग­वि­ष­य­त्वा­यो­गात् । तस्मा­द्रा­गा­दि­प्रा­प्त­क­र्त­व्य­ता­नु­वा­दे­ना­न­र्थ­सा­ध­न­ता­प्र­ज्ञा­प­न­प­रम् ‘न हन्यात्’ , ‘न पिबेत्’ इत्यादिवाक्यम् , न तु कर्तव्यतापरमिति सुष्ठू­क्त­म­का­र्य­नि­ष्ठत्वं निषेधानाम् । निषेध्यानां चान­र्थ­सा­ध­न­ता­बु­द्धि­रेव निषे­ध्या­भा­व­बुद्धिः । तया खल्वयं चेतन आपाततो रमणीयतां पश्य­न्न­प्या­य­ति­मा­लोच्य प्रवृत्त्यभावं निवृत्तिमवबुध्य निवर्तते । औदा­सी­न्य­मा­त्म­नोऽ­व­स्था­प­य­तीति यावत् ।

स्यादेतत् । अभा­व­बु­द्धि­श्चे­दौ­दा­सी­न्य­स्था­प­न­का­र­णम् , याव­दौ­दा­सी­न्य­म­नु­व­र्तेत । न चानुवर्तते । न ह्युदासीनोऽपि विष­या­न्त­र­व्या­स­क्त­चि­त्त­स्त­द­भा­व­बु­द्धि­मान् । न चाव­स्था­प­क­का­र­णा­भावे कार्यावस्थानं दृष्टम् । न हि स्तम्भावपाते प्रासा­दोऽ­व­ति­ष्ठते अत आह -
सा च दग्धे­न्ध­ना­ग्नि­व­त्स्व­य­मे­वो­प­शा­म्यति ।
तावदेव खल्वयं प्रवृ­त्त्यु­न्मुखो न याव­द­स्या­न­र्थ­हे­तु­भा­व­म­धि­ग­च्छति । अन­र्थ­हे­तु­त्वा­धि­ग­मोऽस्य समूलोद्धारं प्रवृ­त्ति­मु­द्धृत्य दग्धे­न्ध­ना­ग्नि­व­त्स्व­य­मे­वो­प­शा­म्यति । एतदुक्तं भवति - यथा प्रासा­दा­व­स्था­न­का­रणं स्तम्भो नैव­मौ­दा­सी­न्या­व­स्था­न­का­र­ण­म­भा­व­बुद्धिः, अपि त्वाग­न्तु­का­द्वि­ना­श­हे­तो­स्त्रा­णे­ना­व­स्था­न­का­र­णम् । यथा कम­ठ­पृ­ष्ठ­नि­ष्ठुरः कवचः शस्त्र­प्र­हा­र­त्रा­णेन राज­न्य­जी­वा­व­स्था­न­हेतुः । न च कवचापगमे च असति च शस्त्रप्रहारे, राजन्यजीवनाश इति ।

उपसंहरति -
तस्मा­त्प्र­स­क्त­क्रि­या­नि­वृ­त्त्यौ­दा­सी­न्य­मे­वेति ।

औदा­सी­न्य­म­जा­न­तोऽ­प्य­स्तीति प्रस­क्त­क्रि­या­नि­वृ­त्त्यो­प­लक्ष्य विशिनष्टि । तत्कि­म­क्रि­या­र्थ­त्वे­ना­न­र्थ­क्य­मा­शङ्क्य क्रिया­र्थ­त्वो­प­व­र्णनं जैमि­नी­य­म­स­म­ञ्ज­स­मे­वे­त्यु­प­सं­हा­र­व्या­जेन परिहरति -
तस्मा­त्पु­रु­षा­र्थेति ।
पुरु­षा­र्था­नु­प­यो­ग्यु­पा­ख्या­ना­दि­वि­ष­या­व­क्रि­या­र्थ­तया क्रियार्थतया च पूर्वो­त्त­र­पक्षौ, न तूपनिषद्विषयौ । उपनिषदां स्वयं पुरु­षा­र्थ­ब्र­ह्म­रू­पा­व­ग­म­म­प­र्य­व­सा­ना­दि­त्यर्थः ।

यद­प्यौ­प­नि­ष­दा­त्म­ज्ञा­न­म­पु­रु­षार्थं मन्यमानेनोक्तम् -
कर्त­व्य­वि­ध्य­नु­प्र­वे­श­म­न्त­रे­णेति ।

अत्र निगूढाभिसन्धिः पूर्वोक्तं परिहारं स्मारयति -
तत्परिहृतमिति ।

अत्राक्षेप्ता स्वोक्तमर्थं स्मारयति -
ननु श्रुत­ब्र­ह्म­णोऽ­पीति ।

निगूढमभिसन्धिं समाधातोद्घाटयति -
अत्रोच्यते - नाव­ग­त­ब्र­ह्मा­त्म­भा­व­स्येति ।
सत्यं, न ब्रह्म­ज्ञा­न­मात्रं सांसा­रि­क­ध­र्म­नि­वृ­त्ति­का­र­णम् , अपि तु साक्षा­त्का­र­प­र्य­न्तम् । ब्रह्म­सा­क्षा­त्का­र­श्चा­न्तः­क­र­ण­वृ­त्ति­भेदः श्रव­ण­म­न­ना­दि­ज­नि­त­सं­स्का­र­स­चि­व­म­नो­जन्मा, षड्जा­दि­भे­द­सा­क्षा­त्कार इव गान्ध­र्व­शा­स्त्र­श्र­व­णा­भ्या­स­सं­स्कृ­त­म­नो­योनिः । स च निखि­ल­प्र­प­ञ्च­म­हे­न्द्र­जा­ल­सा­क्षा­त्कारं समू­ल­मु­न्मू­ल­य­न्ना­त्मा­न­मपि प्रप­ञ्च­त्वा­वि­शे­षा­दु­न्मू­ल­य­ती­त्यु­प­पा­दि­त­म­ध­स्तात् । तस्मा­द्र­ज्जु­स्व­रू­प­क­थ­न­तु­ल्य­तै­वा­त्रेति सिद्धम् ।

अत्र च वेदप्रमाणमूलतया वेद­प्र­मा­ण­ज­नि­ते­त्यु­क्तम् । अत्रैव सुख­दुः­खा­नु­त्पा­द­भे­देन निदर्शनद्वयमाह -
न हि धनिन इति ।

श्रुति­म­त्रो­दा­ह­रति -
तदुक्तमिति ।

चोदयति -
शरीरे पतित इति ।

परिहरति -
न सशरीरत्वस्येति ।
यदि वास्तवं सशरीरत्वं भवेन्न जीव­त­स्त­न्नि­व­र्तेत । मिथ्या­ज्ञा­न­नि­मित्तं तु तत् । तच्चो­त्प­न्न­त­त्त्व­ज्ञा­नेन जीवतापि शक्यं निवर्तयितुम् ।

यत्पुनरशरीरत्वं तदस्य स्वभाव इति न शक्यं निवर्तयितुम् , स्वभावहानेन भाव­वि­ना­श­प्र­स­ङ्गा­दि­त्याह -
नित्य­म­श­री­र­त्व­मिति ।

स्यादेतत् । न मिथ्या­ज्ञा­न­नि­मित्तं सशरीरत्वमपि तु धर्मा­ध­र्म­नि­मि­त्तम् , तच्च स्वका­र­ण­ध­र्मा­ध­र्म­नि­वृ­त्ति­म­न्त­रेण न निवर्तते । तन्निवृत्तौ च प्रायणमेवेति न जीव­तोऽ­श­री­र­त्व­मिति शङ्कते -
तत्कृतेति ।
तदित्यात्मानं परामृशति ।

निराकरोति -
न, शरी­र­स­म्ब­न्ध­स्येति ।
न तावदात्मा साक्षा­द्ध­र्मा­धर्मौ कर्तुमर्हति, वाग्बु­द्धि­श­री­रा­र­म्भ­ज­नितौ हि तौ नासति शरीरसम्बन्धे भवतः, ताभ्यां तु शरीरसम्बन्धं रोचयमानो व्यक्तं परस्पराश्रयं दोषमावहति ।

तदिदमाह -
शरी­र­स­म्ब­न्ध­स्येति ।

यद्युच्येत सत्यमस्ति परस्पराश्रयः, न त्वेष दोषोऽनादित्वात् , बीजा­ङ्कु­र­व­दि­त्यत आह -
अन्ध­प­र­म्प­रै­षा­ना­दि­त्व­क­ल्पना
यस्तु मन्यते नेय­म­न्ध­प­र­म्प­रा­तु­ल्या­ना­दिता ।

न हि यतो धर्मा­ध­र्म­भे­दा­दा­त्म­श­री­र­स­म्ब­न्ध­भे­द­स्तत एव स धर्माधर्मभेदः किन्त्वेष पूर्व­स्मा­दा­त्म­श­री­र­स­म्ब­न्धा­त्पू­र्व­ध­र्मा­ध­र्म­भे­द­ज­न्मनः, एष त्वात्म­श­री­र­स­म्ब­न्धोऽ­स्मा­द्ध­र्मा­ध­र्म­भे­दा­दिति, तं प्रत्याह -
क्रिया­स­म­वा­या­भा­वा­दिति ।

शङ्कते -
संनि­धा­न­मा­त्रे­णेति ।

परिहरति -
नेति ।
उपार्जनं स्वीकरणम् ।

न त्वियं विधात्मनीत्याह -
न त्वात्मन इति ।

ये तु देहा­दा­वा­त्मा­भि­मानो न मिथ्या, अपि तु गौणः, माणवकादाविव सिंहाभिमान इति मन्यन्ते, तन्मतमुपन्यस्य दूषयति -
अत्राहुरिति ।
प्रसिद्धो वस्तुभेदो यस्य पुरुषस्य स तथोक्तः । उपपादितं चैत­द­स्मा­भि­र­ध्या­स­भाष्य इति नेहोपपाद्यते । यथा मन्दान्धकारे स्थाणु­र­य­मि­त्य­गृ­ह्य­मा­ण­वि­शेषे वस्तुनि पुरुषात् , सांशयिकौ पुरु­ष­श­ब्द­प्र­त्ययौ स्थाणुविषयौ, तत्र हि पुरु­ष­त्व­म­नि­य­त­मपि समारोपितमेव ।

एवं संशये समा­रो­पि­त­म­नि­श्चि­त­मु­दा­हृत्य विपर्ययज्ञाने निश्चितमुदाहरति -
यथा वा शुक्तिकायामिति ।
शुक्लभास्वरस्य द्रव्यस्य पुरःस्थितस्य सति शुक्ति­का­र­ज­त­सा­धा­रण्ये यावदत्र रजतविनिश्चयो भवति ताव­त्क­स्मा­च्छु­क्ति­वि­नि­श्चय एव न भवति । संशयो वा द्वेधा युक्तः, समा­न­ध­र्म­ध­र्मि­णो­र्द­र्श­नात् उप­ल­ब्घ्य­नु­प­ल­ब्ध्य­व्य­व­स्था­तो­वि­शे­ष­द्व­य­स्मृ­तेश्च ।

संस्का­रो­न्मे­ष­हेतोः सादृश्यस्य द्विष्ठ­त्वे­नो­भ­यत्र तुल्यमेतदित्यत उक्तम् -
अकस्मादिति ।
अनेन दृष्टस्य हेतोः समा­न­त्वेऽ­प्य­दृष्टं हेतुरुक्तः । तच्च कार्य­द­र्श­नो­न्ने­य­त्वे­ना­सा­धा­र­ण­मिति भावः ।

आत्मा­ना­त्म­वि­वे­कि­ना­मिति ।
श्रव­ण­म­न­न­कु­श­ल­ता­मा­त्रेण पण्डितानाम् । अनु­त्प­न्न­त­त्त्व­सा­क्षा­त्का­रा­णा­मिति यावत् । तदुक्तम् - “पश्वा­दि­भि­श्चा­वि­शे­षात्” इति । शेष­म­ति­रो­हि­ता­र्थम् ।

जीवतो विदुषोऽशरीरत्वे च श्रुतिस्मृती उदाहरति -
तथा चेति ।
सुबोधम् ।

प्रकृतमुपसंहरति -
तस्मा­न्ना­व­ग­त­ब्र­ह्मा­त्म­भा­व­स्येति ।

ननूक्तं यदि जीवस्य ब्रह्मा­त्म­त्वा­व­ग­ति­रेव सांसा­रि­क­ध­र्म­नि­वृ­त्ति­हेतुः, हन्त मन­ना­दि­वि­धा­ना­न­र्थ­क्यम् , तस्मा­त्प्र­ति­प­त्ति­वि­धि­परा वेदान्ता इति, तदनुभाष्य दूषयति -
यत्पुनरुक्तं श्रव­णा­त्प­रा­ची­न­यो­रिति ।

मन­न­नि­दि­ध्या­स­न­यो­रपि न विधिः, तयो­र­न्व­य­व्य­ति­रे­क­सि­द्ध­सा­क्षा­त्का­र­फ­ल­यो­र्वि­धि­स­रू­पै­र्व­च­नै­र­नु­वा­दात् । तदिदमुक्तम् -
अव­ग­त्य­र्थ­त्वा­दिति ।
ब्रह्म­सा­क्षा­त्का­रोऽ­व­ग­त­स्त­द­र्थत्वं मन­न­नि­दि­ध्या­स­न­यो­र­न्व­य­व्य­ति­रे­क­सि­द्ध­मि­त्यर्थः ।

अथ कस्मा­न्म­न­ना­दि­वि­धि­रेव न भवतीत्यत आह -
यदि ह्यवगतमिति ।
न ताव­न्म­न­न­नि­दि­ध्या­सने प्रधानकर्मणी अपूर्वविषये अमृतत्वफले इत्यु­क्त­म­ध­स्तात् । अतो गुण­क­र्म­त्व­म­न­यो­र­व­घा­त­प्रो­क्ष­णा­दि­व­त्प­रि­शि­ष्यते, तदप्ययुक्तम् , अन्य­त्रो­प­यु­क्तो­प­यो­क्ष्य­मा­ण­त्वा­भा­वा­दा­त्मनः, विशे­ष­त­स्त्वौ­प­नि­ष­दस्य कर्मा­नु­ष्ठा­न­वि­रो­धा­दि­त्यर्थः ।

प्रकृतमुपसंहरति -
तस्मादिति ।
एवं सिद्ध­रू­प­ब्र­ह्म­प­रत्वं उपनिषदाम् ।

ब्रह्मणः शास्त्रार्थस्य धर्मादन्यत्वात् , भिन्नविषयत्वेन शास्त्रभेदात् , “अथातो ब्रह्मजिज्ञासा”(ब्र.सू.१ । १ । १) इत्यस्य शास्त्रा­र­म्भ­त्व­मु­प­प­द्यत इत्याह -
एवं च सतीति ।

इतरथा तु धर्म­जि­ज्ञा­सै­वेति न शास्त्रा­न्त­र­मिति न शास्त्रा­र­म्भत्वं स्यादित्यत आह -
प्रति­प­त्ति­वि­धि­प­रत्व इति ।

न केवलं सिद्ध­रू­प­त्वा­द्ब्र­ह्मा­त्मै­क्यस्य धर्मादन्यत्वमपि तु तद्वि­रो­धा­द­पी­त्यु­प­सं­हा­र­व्या­जे­नाह -
तस्मादहं ब्रह्मास्मीति ।
इतिकरणेन ज्ञानं परामृशति । विधयो हि धर्मे प्रमाणम् । ते च साध्य­सा­ध­ने­ति­क­र्त­व्य­ता­भे­दा­धि­ष्ठाना धर्मोत्पादिनश्च तदधिष्ठाना न ब्रह्मात्मैक्ये सति प्रभवन्ति, विरोधादित्यर्थः ।

न केवलं धर्मप्रमाणस्य शास्त्रस्येयं गतिः, अपि तु सर्वेषां प्रमा­णा­ना­मि­त्याह -
सर्वाणि चेतराणि प्रमाणानीति ।

कुतः,
न हीति ।
अद्वैते हि विषयविषयिभावो नास्ति । न च कर्तृत्वम् , कार्याभावात् । न च कारणत्वम् , अत एव ।

तदिदमुक्तम् -
अप्रमातृकाणि च ।
इति चकारेण ।

अत्रैव ब्रह्मविदां गाथा उदाहरति -
अपि चाहुरिति ।
पुत्र­दा­रा­दि­ष्वा­त्मा­भि­मानो गौणः । यथा स्वदुःखेन दुःखी, यथा स्वसुखेन सुखी, तथा पुत्रा­दि­ग­ते­ना­पीति सोऽयं गुणः । न त्वेक­त्वा­भि­मानः, भेद­स्या­नु­भ­व­सि­द्ध­त्वात् । तस्मात् ‘गौर्वाहीकः’ इतिवद्गौणः । देहे­न्द्रि­या­दिषु त्वभेदानुभवान्न गौण आत्माभिमानः, किं तु शुक्तौ रज­त­ज्ञा­न­व­न्मिथ्या, तदेवं द्विवि­धोऽ­य­मा­त्मा­भि­मानो लोकयात्रां वहति । तदसत्त्वे तु न लोकयात्रा, नापि ब्रह्मा­त्मै­क­त्वा­नु­भवः, तदुपायस्य श्रव­ण­म­न­ना­दे­र­भा­वात् ।

तदिदमाह -
पुत्र­दे­हा­दि­बा­ध­नात् ।
गौणा­त्म­नोऽ­सत्त्वे पुत्र­क­ल­त्रा­दि­बा­ध­नम् । ममकाराभाव इति यावत् । मिथ्या­त्म­नोऽ­सत्त्वे देहे­न्द्रि­या­दि­बा­धनं श्रवणादिबाधनं च । ततश्च न केवलं लोक­या­त्रा­स­मु­च्छे­दः­स­द्ब्र­ह्मा­ह­मि­त्ये­वं­बो­ध­शीलं यत्कार्यम् , अद्वै­त­सा­क्षा­त्कार इति यावत् ।

तदपि
कथं भवेत् ।

कुतस्तदसम्भव इत्यत आह -
अन्वे­ष्ट­व्या­त्म­वि­ज्ञा­ना­त्प्रा­क्प्र­मा­तृ­त्व­मा­त्मनः ।
उपलक्षणं चैतत् । प्रमा­प्र­मे­य­प्र­मा­ण­वि­भाग इत्यपि द्रष्टव्यम् । एतदुक्तं भवति - एष हि विभा­गोऽ­द्वै­त­सा­क्षा­त्का­र­का­र­णम् , ततो नियमेन प्राग्भावात् । तेन तदभावे कार्यं नोत्पद्यत इति ।

न च प्रमा­तु­रा­त्म­नोऽ­न्वे­ष्टव्य आत्मान्य इत्याह -
अन्विष्टः स्यात्प्रमातैव पाप्म­दो­षा­दि­व­र्जितः ।
उक्तं ग्रीवा­स्थ­ग्रै­वे­य­क­नि­द­र्श­नम् ।

स्यादेतत् । अप्रमाणात्कथं पार­मा­र्थि­का­द्वै­ता­नु­भ­वो­त्प­त्ति­रि­त्यत आह -
देहात्मप्रत्ययो यद्व­त्प्र­मा­ण­त्वेन कल्पितः ।

लौकिकं तद्वदेवेदं प्रमाणं तु ।

अस्यावधिमाह -
आत्मनिश्चयात् ।
आब्र­ह्म­स्व­रू­प­सा­क्षा­त्का­रा­दि­त्यर्थः । एतदुक्तं भवति - पार­मा­र्थि­क­प्र­प­ञ्च­वा­दि­भि­रपि देहा­दि­ष्वा­त्मा­भि­मानो मिथ्येति वक्तव्यम् , प्रमा­ण­बा­धि­त­त्वात् । तस्य च सम­स्त­प्र­मा­ण­का­र­णत्वं भावि­क­लो­क­या­त्रा­वा­हित्वं चाभ्युपेयम् । सेय­म­स्मा­क­म­प्य­द्वै­त­सा­क्षा­त्कारे विधा भविष्यति । न चाय­म­द्वै­त­सा­क्षा­त्का­रोऽ­प्य­न्तः­क­र­ण­वृ­त्ति­भेद एकान्ततः परमार्थः । यस्तु साक्षात्कारो भाविकः, नासौ कार्यः, तस्य ब्रह्म­स्व­रू­प­त्वात् । अविद्या तु यद्य­वि­द्या­मु­च्छि­न्द्या­ज्ज­न­येद्वा, न तत्र काचिदनुपपत्तिः । तथा च श्रुतिः - “विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्य­या­मृ­त­म­श्नुते”(ई. उ. ११) ॥ इति । तस्मा­त्स­र्व­म­व­दा­तम् ॥ ४ ॥
इति चतुःसूत्री समाप्ता ।

एवं - “कार्यान्वयं विना सिद्धरूपे ब्रह्मणि मानता । पुरुषार्थे स्वयं ताव­द्वे­दा­न्तानां प्रसाधिता” ॥ ब्रह्मजिज्ञासां प्रतिज्ञाय “जन्माद्यस्य यतः”(ब्र.सू.१ । १ । २) इत्यादिना “तत्तु समन्वयात्”(ब्र.सू.१ । १ । ३) इत्यन्तेन सूत्रसन्दर्भेण सर्वज्ञे सर्वशक्तौ जग­दु­त्प­त्ति­स्थि­ति­वि­ना­श­का­रणे प्रामाण्यं वेदा­न्ता­ना­मु­प­पा­दि­तम् । तच्च ब्रह्मणीति परमार्थतः । न त्वद्यापि ब्रह्मण्येवेति व्युत्पादितम् । तदत्र सन्दिह्यते - तज्ज­ग­दु­पा­दा­न­का­रणं किं चेत­न­मु­ता­चे­त­न­मिति । अत्र च विप्रतिपत्तेः प्रवादिनां विशेषानुपलम्भे सति संशयः । तत्र च प्रधानमचेतनं जग­दु­पा­दा­न­का­र­ण­म­नु­मा­न­सि­द्ध­म­नु­व­द­न्त्यु­प­नि­षद इति साङ्ख्याः । जीवा­णु­व्य­ति­रि­क्त­चे­त­ने­श्व­र­नि­मि­त्ता­धि­ष्ठि­ता­श्च­तु­र्विधाः परमाणवो जग­दु­पा­दा­न­का­र­ण­म­नु­मि­त­म­नु­व­द­न्तीति काणादाः । आदि­ग्र­ह­णे­ना­भा­वो­पा­दा­न­त्वादि ग्रहीतव्यम् । अनि­र्व­च­नी­या­ना­द्य­वि­द्या­श­क्ति­म­च्चे­त­नो­पा­दानं जगदागमिकमिति ब्रह्मविदः । एतासां च विप्र­ति­प­त्ती­ना­म­नु­मा­न­वा­क्या­नु­मा­न­वा­क्य­त­दा­भासा बीजम् । तदेवं विप्रतिपत्तेः संशये किं तावत्प्राप्तम् । तत्र “ज्ञान­क्रि­या­श­क्त्य­भा­वा­द्ब्र­ह्म­णोऽ­प­रि­णा­मिनः । न सर्व­श­क्ति­वि­ज्ञाने प्रधाने त्वस्ति सम्भवः” ॥ ज्ञान­क्रि­या­शक्ती खलु ज्ञान­क्रि­या­का­र्य­द­र्श­नो­न्ने­य­स­द्भावे । न च ज्ञानक्रिये चिदात्मनि स्तः, तस्या­प­रि­णा­मि­त्वा­दे­क­त्वाच्च । त्रिगुणे तु प्रधाने परिणामिनि सम्भवतः । यद्यपि च साम्यावस्थायां प्रधाने समु­दा­च­र­द्वृ­त्तिनी क्रियाज्ञाने न स्तः, तथाप्यव्यक्तेन शक्त्यात्मना रूपेण सम्भवत एव । तथा च प्रधानमेव सर्वज्ञं च सर्वशक्ति च । न तु ब्रह्म । स्वरूपचैतन्यं त्वस्या­वृ­त्ति­त­म­नु­प­योगि जीवा­त्म­ना­मि­वा­स्मा­कम् । न च स्वरूपचैतन्ये कर्तृत्वम् , अका­र्य­त्वा­त्तस्य । कार्यत्वे वा न सर्वदा सर्वज्ञता । भोगा­प­व­र्ग­ल­क्ष­ण­पु­रु­षा­र्थ­द्व­य­प्र­यु­क्ता­ना­दि­प्र­धा­न­पु­रु­ष­सं­यो­ग­नि­मि­त्तस्तु मह­द­ह­ङ्का­रा­दि­क्र­मे­णा­चे­त­न­स्यापि चेत­ना­न­धि­ष्ठि­तस्य प्रधानस्य परिणामः सर्गः । दृष्टं चाचेतनं चेतनानधिष्ठितं पुरुषार्थे प्रवर्तमानम् । यथा वत्स­वि­वृ­द्ध्य­र्थ­म­चे­तनं क्षीरं प्रवर्तते । “तदैक्षत बहु स्यां प्रजायेय”(छा. उ. ६ । २ । ३) इत्याद्याश्च श्रुत­योऽ­चे­त­नेऽपि चेत­न­व­दु­प­चा­रा­त्स्व­का­र्यो­न्मु­ख­त्व­मा­द­र्श­यन्ति, यथा कूलं पिपतिषतीति । “यत्प्राये श्रूयते यच्च तत्तादृगवगम्यते । भाक्तप्राये श्रुतमिदमतो भाक्तं प्रतीयते” ॥ अपि चाहुर्वृद्धाः - “यथाग्र्यप्राये लिखितं दृष्ट्वा वदन्ति भवेदयमग्र्यः” इति, तथेदमपि “ता आप ऐक्षन्त”(छा. उ. ६ । २ । ४) “तत्तेज ऐक्षत”(छा. उ. ६ । २ । ३) इत्या­द्यु­प­चा­र­प्राये क्षुतं “तदैक्षत”(छा. उ. ६ । २ । ३) इत्यौपचारिकमेव विज्ञेयम् । “अनेन जीवे­ना­त्म­ना­नु­प्र­विश्य नामरूपे व्याकरवाणि”(छा. उ. ६ । ३ । २) इति च प्रधानस्य जीवात्मत्वं जीवार्थकारितयाह । यथा हि भद्रसेनो राजार्थकारी राज्ञा भद्रसेनो ममा­त्मे­त्यु­प­च­र्यते, एवं “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इत्याद्याः श्रुतयो भाक्ताः सम्पत्त्यर्था वा द्रष्टव्याः । “स्वमपीतो भवति”(छा. उ. ६ । ८ । १) इति च निरुक्तं जीवस्य प्रधाने स्वकीयेऽप्ययं सुषु­प्ता­व­स्थायां ब्रूते । प्रधा­नां­श­त­मः­स­मु­द्रके हि जीवो­नि­द्रा­ण­स्त­म­सीव मग्नो भवति । यथाहुः - “अभा­व­प्र­त्य­या­ल­म्बना वृत्तिर्निद्रा”(यो.सू. १.१०) इति । वृत्ती­ना­म­न्यासां प्रमा­णा­दी­ना­म­भा­व­स्तस्य प्रत्ययकारणं तमस्तदालम्बना निद्रा जीवस्य वृत्तिरित्यर्थः । तथा सर्वज्ञं प्रस्तुत्य श्वेता­श्व­त­र­म­न्त्रोऽपि “सकारणं करणाधिपाधिपः” इति प्राधा­ना­भि­प्रायः । प्रधानस्यैव सर्वज्ञत्वं प्रति­पा­दि­त­म­ध­स्तात् । तस्मादचेतनं प्रधानं जग­दु­पा­दा­न­म­नु­व­दन्ति श्रुतय इति पूर्वः पक्षः । एवं काणादादिमतेऽपि कथ­ञ्चि­द्यो­ज­नीयाः श्रुतयः । अक्षरार्थस्तु -
प्रधा­न­का­र­ण­प­क्षेऽ­पीति प्रधानस्यापीति ।
अपि­का­रा­वे­व­का­रार्थौ ।

स्यादेतत् । सत्त्व­स­म्पत्त्या चेदस्य सर्वज्ञताथ तमःसम्पत्त्या - सर्वज्ञतैवास्य कस्मान्न भवतीत्यत आह -
तेन च सत्त्वधर्मेण ज्ञानेनेति ।
सत्त्वं हि प्रकाशशीलं निरतिशयोत्कर्षं सर्वज्ञताबीजम् । तथाहुः - “निरतिशयं सर्वज्ञताबीजं” इति । यत्खलु सातिशयं तत्क्व­चि­न्नि­र­ति­शयं दृष्टं, यथा कुव­ला­म­ल­क­बि­ल्वेषु, सातिशयं महत्त्वं व्योम्नि परममहति निरतिशयम् । एवं ज्ञान­म­प्ये­क­द्वि­ब­हु­वि­ष­य­तया साति­श­य­मि­त्य­ने­नापि क्वचि­न्नि­र­ति­श­येन भवितव्यम् । इदमेव चास्य निरतिशयत्वं यद्वि­दि­त­स­म­स्त­वे­दि­त­व्य­त्वम् । तदिदं सर्वज्ञत्वं सत्त्वस्य निर­ति­श­यो­त्क­र्षत्वे सम्भवति । एतदुक्तं भवति - यद्यपि रजस्तमसी अपि स्तः तथापि पुरु­षा­र्थ­प्र­यु­क्त­गु­ण­वै­ष­म्या­ति­श­या­त्स­त्त्वस्य निरतिशयोत्कर्षे सार्वज्ञ्यं कार्यमुत्पद्यत इति प्रधा­ना­व­स्था­या­मपि तन्मात्रं विव­क्षि­त्वा­वि­व­क्षित्वा च तमःकार्यं प्रधानं सर्वज्ञमुपचर्यत इति ।

अपि­भ्या­म­व­धा­र­णस्य व्यवच्छेद्यमाह -
न केवलस्येति ।
नहि किञ्चिदेकं कार्यं जनयेदपि तु बहूनि । चिदात्मा चैकः, प्रधानं तु त्रिगुणमिति तत एव कार्य­मु­त्प­त्तु­म­र्हति, न चिदात्मन इत्यर्थः ।

तवापि च योग्य­ता­मा­त्रे­णैव चिदा­त्म­नः­स­र्Sव­ज्ञ­ता­भ्यु­प­गमो न कार्य­यो­गा­दि­त्याह -
त्वयापीति ।

न केव­ल­स्या­का­र्य­का­र­ण­स्ये­त्ये­त­त्सिं­हा­व­लो­कि­तेन प्रपञ्चयति -
प्रागु­त्प­त्ते­रिति ।

अपि च प्रधानस्येति ।
चस्त्वर्थः ।

एवं प्राप्त उच्यते -
ईक्ष­ते­र्ना­श­ब्दम् ।
नाम­रू­प­प्र­प­ञ्च­ल­क्ष­ण­का­र्य­द­र्श­ना­दे­त­त्का­र­ण­मा­त्र­व­दिति सामा­न्य­क­ल्प­ना­या­मस्ति प्रमाणं, न तु तदचेतनं चेतनमिति वा विशे­ष­क­ल्प­ना­या­म­स्त्य­नु­मा­न­मि­त्यु­प­रि­ष्टा­त्प्र­वे­द­यि­ष्यते । तस्मा­न्ना­म­रू­प­प्र­प­ञ्च­का­र­ण­भे­द­प्र­मा­या­मा­म्नाय एव भगवानुपासनीयः । तदे­व­मा­म्ना­यै­क­स­म­धि­ग­म­नीये जगत्कारणे “पौर्वा­प­र्य­प­रा­म­र्शा­द्य­दा­म्ना­योऽ­ञ्जसा वदेत् । जगद्बीजं तदेवेष्टं चेतने च स आञ्जसः” ॥ तेषु तेषु खल्वा­म्ना­य­प्र­दे­शेषु “तदैक्षत”(छा. उ. ६ । २ । ३) इत्ये­वं­जा­ती­य­कै­र्वा­क्यै­री­क्षितुः कार­णा­ज्ज­ग­ज्ज­न्मा­ख्या­यत इति । न च प्रधा­न­प­र­मा­ण्वा­दे­र­चे­त­न­स्ये­क्षि­तृ­त्व­मा­ञ्ज­सम् । सत्त्वां­शे­ने­क्षितृ प्रधानं, तस्य प्रकाशकत्वादिति चेन्न । तस्य जाड्येन तत्त्वा­नु­प­पत्तेः । कस्तर्हि रजस्तमोभ्यां सत्त्वस्य विशेषः । स्वच्छता । स्वच्छं हि सत्त्वम् । अस्वच्छे च रजस्तमसी । स्वच्छस्य च चैत­न्य­बि­म्बो­द्ग्रा­हि­तया प्रका­श­क­त्व­व्य­प­देशो नेतरयोः, अस्वच्छतया तद्ग्रा­हि­त्वा­भा­वात् । पार्थिवत्वे तुल्य इव मणे­र्बि­म्बो­द्ग्रा­हिता न लोष्टादीनाम् । ब्रह्म­ण­स्त्वी­क्षि­तृ­त्व­मा­ञ्जसं, तस्याम्नायतो नित्य­ज्ञा­न­स्व­भा­व­त्व­वि­नि­श्च­यात् । नन्वत एवास्य नेक्षितृत्वं, नित्यस्य ज्ञान­स्व­भा­व­भू­त­स्ये­क्ष­ण­स्या­क्रि­या­त्वेन ब्रह्म­ण­स्त­त्प्रति निमि­त्त­भा­वा­भा­वात् । अक्रि­या­नि­मि­त्तस्य च कारकत्वनिवृत्तौ तद्व्याप्तस्य तद्विशेषस्य कर्तृत्वस्य निवृत्तेः । सत्यं, ब्रह्म­स्व­भा­व­श्चै­तन्यं नित्यतया न क्रिया, तस्य त्वनवच्छिन्नस्य तत्त­द्वि­ष­यो­प­धा­न­भे­दा­व­च्छे­देन कल्पि­त­भे­द­स्या­नि­त्यत्वं कार्यत्वं चोपपद्यते । तथा चैवंलक्षण ईक्षणे सर्वविषये ब्रह्मणः स्वात­न्त्र्य­ल­क्षणं कर्तृ­त्व­मु­प­प­न्नम् । यद्यपि च कूट­स्थ­नि­त्य­स्या­प­रि­णा­मिन औदासीन्यमस्य वास्तवं तथा­प्य­ना­द्य­नि­र्व­च­नी­या­वि­द्या­व­च्छि­न्नस्य व्यापा­र­व­त्त्व­म­व­भा­सत इति कर्तृ­त्वो­प­पत्तिः । परैरपि च चिच्छेक्तेः कूटस्थनित्याया वृत्तीः प्रति कर्तृ­त्व­मी­दृ­श­मे­वा­भ्यु­पेयं, चैत­न्य­सा­मा­न्या­धि­क­र­ण्येन ज्ञातृ­त्वो­प­लब्धेः । नहि प्राधा­नि­का­न्य­न्त­र्ब­हिः­क­र­णानि त्रयोदश सत्त्व­गु­ण­प्र­धा­ना­न्यपि स्वय­मे­वा­चे­त­नानि, तद्वृत्तयश्च स्वं वा परं वा वेदि­तु­मु­त्स­हन्ते । नो खल्वन्धाः सहस्रमपि पान्थाः पन्थानं विदन्ति । चक्षुष्मता चैकेन चेद्वेद्यते, स एव तर्हि मार्गदर्शी स्वतन्त्रः कर्ता नेता तेषाम् । एवं बुद्धिसत्त्वस्य स्वयमचेतनस्य चिति­बि­म्ब­स­ङ्क्रान्त्या चेदापन्नं चैतन्यस्य ज्ञातृत्वं, चितिरेव ज्ञात्री स्वतन्त्रा, नान्त­र्ब­हि­ष्क­र­णा­न्य­न्ध­स­ह­स्र­प्र­ति­मा­न्य­स्व­त­न्त्राणि । न चास्याश्चितेः कूटस्थनित्याया अस्ति व्यापारयोगः । न च तद­यो­गेऽ­प्य­ज्ञा­तृत्वं, व्यापारवतामपि जडानामज्ञत्वात् । तस्मा­द­न्तः­क­र­ण­व­र्तिनं व्यापारमारोप्य चितिशक्तौ कर्तृत्वाभिमानः । अन्तःकरणे वा चैतन्यमारोप्य तस्य ज्ञातृ­त्वा­भि­मानः । सर्वथा भवन्मतेऽपि नेदं स्वाभाविकं क्वचिदपि ज्ञातृत्वं, अपि तु सांव्य­व­हा­रि­क­मे­वेति परमार्थः । नित्यस्यात्मनो ज्ञानं परिणाम इति च भेदा­भे­द­प­क्ष­म­पा­कु­र्व­द्भि­र­पा­स्तम् । कूटस्थस्य नित्य­स्या­त्म­नोऽ­व्या­पा­र­वत एव भिन्नं ज्ञानं धर्म इति चोप­रि­ष्टा­द­पा­क­रि­ष्यते । तस्मा­द्व­स्तु­तोऽ­न­व­च्छिन्नं चैतन्यं तत्त्वा­न्य­त्वा­भ्या­म­नि­र्व­च­नी­या­व्या­कृ­त­व्या­चि­की­र्षि­त­ना­म­रू­प­वि­ष­या­व­च्छिन्नं सज्ज्ञानं कार्यं, तस्य कर्ता ईश्वरो ज्ञाता सर्वज्ञः सर्वशक्तिरिति सिद्धम् । तथा च श्रुतिः - “तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मा­दे­त­द्ब्रह्म नाम रूपमन्नं च जायते ॥”(मु.उ. १.१.८) इति । तपसा ज्ञानेन अव्या­कृ­त­ना­म­रू­प­वि­ष­येण चीयते तद्व्या­चि­की­र्ष­व­द्भ­वति, यथा कुवि­न्दा­दि­र­व्या­कृतं पटादि बुद्धावालिख्य चिकीर्षति । एकधर्मवान् द्विती­य­ध­र्मो­प­ज­न­नेन उपचित उच्यते । व्याचिकीर्षायां चोपचये सति ततो नाम­रू­प­म­न्न­म­द­नीयं साधारणं संसारिणां व्याचि­की­र्षि­त­म­भि­जा­यते । तस्मा­द­व्या­कृ­ता­द्व्या­चि­की­र्षि­ता­द­न्ना­त्प्राणो हिरण्यगर्भो ब्रह्मणो ज्ञान­क्रि­या­श­क्त्य­धि­ष्ठानं जगत्सूत्रात्मा साधारणो जायते, यथाऽ­व्या­कृ­ता­त्व्या­चि­की­र्षि­ता­त्प­टा­द­वा­न्त­र­कार्यं द्वितन्तुकादि । तस्माच्च प्राणान्मन अख्यं सङ्क­ल्प­वि­क­ल्पा­दि­व्या­क­र­णा­त्मकं जायते । ततो व्याक­र­णा­त्म­का­न्म­नसः सत्य­श­ब्द­वा­च्या­न्या­का­शा­दीनि जायन्ते । तेभ्यश्च सत्या­ख्ये­भ्योऽ­नु­क्र­मेण लोका भूरादयः तेषु मनु­ष्या­दि­प्रा­णिनो वर्णाश्रमक्रमेण कर्माणि धर्माधर्मरूपाणि जायन्ते । कर्मसु चामृतं फलं स्वर्गनरकादि । तच्च स्वनि­मि­त्त­यो­र्ध­र्मा­ध­र्मयोः सतोर्न विन­श्य­ती­त्य­मृ­तम् । याव­द्ध­र्मा­ध­र्म­भा­वीति यावत् । यः सर्वज्ञः सामान्यतः, सर्वविद्विशेषतः । यस्य भगवतो ज्ञानमयं तपो धर्मो नायासमयम् , तस्माद्ब्रह्मणः पूर्व­स्मा­दे­त­त्परं कार्यं ब्रह्म । किञ्च नामरूपमन्नं च व्रीहियवादि जायत इति । तस्मा­त्प्र­धा­नस्य साम्या­व­स्था­या­म­नी­क्षि­तृ­त्वात् , क्षेत्रज्ञानां च सत्यपि चैतन्ये सर्गादौ विषयानीक्षणात् , मुख्यसम्भवे चोप­चा­र­स्या­न्या­य्य­त्वात् , मुमु­क्षो­श्चा­य­था­र्थो­प­दे­शा­नु­प­पत्तेः, मुक्ति­वि­रो­धि­त्वात् , तेजःप्रभृतीनां च मुख्या­स­म्भ­वे­नो­प­चा­रा­श्र­य­णस्य युक्ति­सि­द्ध­त्वात् , संशये च तत्प्रायपाठस्य निश्चायकत्वात् , इह तु मुख्य­स्यौ­त्स­र्गि­क­त्वेन निश्चये सति संशयाभावात् , अन्यथा किरा­त­श­त­स­ङ्की­र्ण­दे­श­नि­वा­सिनो ब्राह्म­णा­य­न­स्यापि किरा­त­त्वा­पत्तेः, ब्रह्मै­वे­क्षि­त्र­ना­द्य­नि­र्वा­च्या­वि­द्या­स­चिवं जगदुपादानं, शुक्तिरिव समारोपितस्य रजतस्य, मरीचय इव जलस्य, एकश्चन्द्रमा इव द्वतीयस्य चद्रमसः । न त्वचेतनं प्रधा­न­प­र­मा­ण्वादि । अशब्दं हि तत् । न च प्रधानं परमाणवो वा तद­ति­रि­क्त­स­र्व­ज्ञे­श्व­रा­धि­ष्ठिता जगदुपादानमिति साम्प्रतं कार्यत्वात् । कार­णा­त्का­र्याणां भेदाभावात् कारणज्ञानेन सम­स्त­का­र्य­प­रि­ज्ञा­नस्य मृदा­दि­नि­द­र्श­ने­ना­ग­मेन प्रसाधितत्वात् , भेदे च तदनुपपत्तेः । साक्षाच्च “एक­मे­वा­द्वि­ती­यम्”(छा. उ. ६ । २ । १) “नेह नानास्ति किञ्चन”(बृ. उ. ४ । ४ । १९) “मृत्योः स मृत्युमाप्नोति”(क. उ. २ । ४ । १०) इत्या­दि­भि­र्ब­हु­भि­र्व­चो­भि­र्ब्र­ह्मा­ति­रि­क्तस्य प्रपञ्चस्य प्रति­षे­धा­चे­त­नो­पा­दा­न­मेव जगत् , भुजङ्ग इवारोपितो रज्जूपादान इति सिद्धान्तः ।

सदुपादानत्वे हि सिद्धे जगतस्तदुपादानं चेतनमचेतनं वेति संशय्य मीमांस्येत । अद्यापि तु सदु­पा­दा­न­त्व­म­सि­द्ध­मि­त्यत आह -
तत्रे­दं­श­ब्द­वा­च्य­मि­त्या­दि­द­र्श­य­ति­इ­त्य­न्तेन ।
तथापीक्षिता पार­मा­र्थि­क­प्र­धा­न­क्षे­त्र­ज्ञा­ति­रिक्त ईश्वरो भविष्यति, यथा­हु­र्है­र­ण्य­गर्भा इत्यतः श्रुतिः पठिता “एक­मे­वा­द्वि­ती­यम्”(छा. उ. ६ । २ । १) इति । “बहु स्याम्”(छा. उ. ६ । २ । ३) इति चाचेतनं कारणमात्मन एव बहुभावमाह । तेनापि कार­णा­च्चे­त­ना­द­भिन्नं कार्य­म­भ्यु­प­ग­म्यते ।

यद्य­प्या­का­शाद्या भूत­सृ­ष्टि­स्त­थापि तेजोऽबन्नानामेव त्रिवृत्करणस्य विव­क्षि­त­त्वा­त्तत्र तेजसः प्राथम्यात्तेजः प्रथममुक्तम् । एकमद्वितीयं जग­दु­पा­दा­न­मि­त्यत्र श्रुत्यन्तरमपि पठति -
तथान्यत्रेति ।
ब्रह्म चतुष्पादष्टाशफं षोडशकलशम् । तद्यथा - प्राची प्रतीची दक्षिणोदीचीति चतस्रः कला ब्रह्मणः प्रकाशवान्नाम प्रथमः पादः । तदर्धं शफः । तथा पृथि­व्य­न्त­रिक्षं द्यौः समुद्र इत्यपरश्चतस्रः कला द्वितीयः पादोऽ­न­न्त­वा­न्नाम । तथाग्निः सूर्यश्चन्द्रमा विद्युदिति चतस्रः कलाः, स ज्योतिष्मान्नाम तृतीयः पादः । प्राणश्चक्षुः श्रोत्रं वागिति चतस्रः कालाः, स चतु­र्थ­मा­य­त­न­वा­न्नाम ब्रह्मणः पादः । तदेवं षोडशकलं षोडशावयवं ब्रह्मो­पा­स्य­मिति सिद्धम् ।

स्यादेतत् । ईक्षतेरिति तिपा धातु­स्व­रू­प­मु­च्यते । न चावि­व­क्षि­ता­र्थस्य धातुस्वरूपस्य चेत­नो­पा­दा­न­सा­ध­न­त्व­स­म्भव इत्यत आह -
ईक्षतेरिति
धात्व­र्थ­नि­र्दे­शोऽ­भि­मतः, विषयिणां विषयलक्षणात् ।

प्रसिद्धा चेयं लक्षणेत्याह -
यजतेरितिवदिति ।
‘यः सर्वज्ञः’ इति सामान्यतः; ‘सर्ववित्’ इति विशेषतः ।

साङ्ख्यीयं स्वम­त­स­मा­धा­न­मु­प­न्यस्य दूषयति -
यत्तूक्तं सत्त्वधर्मेणेति ।

पुनः साङ्ख्य­मु­त्था­प­यति -
ननूक्तमिति ।

परिहरति -
तदपीति ।
समुदाचरद्वृत्ति तावन्न भवति सत्त्वं, गुण­वै­ष­म्य­प्र­स­ङ्गेन साम्यानुपपत्तेः । न चाव्यक्तेन रूपेण ज्ञान­मु­प­यु­ज्यते, रज­स्त­म­सो­स्त­त्प्र­ति­ब­न्ध­स्यापि सूक्ष्मेण रूपेण सद्भा­वा­दि­त्यर्थः ।

अपि च चैत­न्य­प्र­धा­न­वृ­त्ति­व­चनो जानातिर्न चाचेतने वृत्तिमात्रे दृष्टचरप्रयोग इत्याह -
अपि च नासाक्षिकेति ।

कथं तर्हि योगिनां सत्त्वां­शो­त्क­र्ष­हे­तुकं सर्व­ज्ञ­त्व­मि­त्यत आह -
योगिनां त्विति ।
सत्त्वां­शो­त्कर्षो हि योगिनां चैत­न्य­च­क्षु­ष्म­ता­मु­प­क­रोति, नान्धस्य प्रधा­न­स्ये­त्यर्थः ।

यदि तु कापिलमतमपहाय हैर­ण्य­ग­र्भ­मा­स्थी­येत तत्राप्याह -
अथ पुनः साक्षि­नि­मि­त्त­मिति ।
तेषामपि हि प्रकृ­ष्ट­स­त्त्वो­पा­दानं पुरुषविशेषस्यैव क्लेश­क­र्म­वि­पा­का­श­या­प­रा­मृ­ष्टस्य सर्वज्ञत्वं, न तु प्रधा­न­स्या­चे­त­नस्य । तदपि चाद्वै­त­श्रु­ति­भि­र­पा­स्त­मिति भावः ।

पूर्व­प­क्ष­बी­ज­म­नु­भा­षते -
यत्पुनरुक्तं ब्रह्मणोऽपीति ।

चैतन्यस्य शुद्धस्य नित्य­त्वेऽ­प्यु­प­हितं सदनित्यं कार्यं, आकाशमिव घटा­व­च्छि­न्न­मि­त्य­भि­स­न्धाय परिहरति -
इदं तावद्भवानिति ।

प्रत­तौ­ष्ण्य­प्र­काशे सवितरि
इत्येतदपि विष­या­व­च्छि­न्न­प्र­काशः कार्य­मि­त्ये­त­द­भि­प्रा­यम् ।

वैषम्यं चोदयति -
ननु सवितुरिति ।
किं वास्तवं कर्मा­भा­व­म­भि­प्रेत्य वैषम्यमाह भवान् उत तद्विवक्षाभावम् । तत्र यदि तद्विवक्षाभावं, तदा प्रकाशयतीत्यनेन मा भूत्साम्यं, प्रकाशत इत्यनेन त्वस्ति । नह्यत्र कर्म विवक्षितम् ।

अथ च प्रकाशस्वभावं प्रत्यस्ति स्वातन्त्र्यं सवितुरिति परिहरति -
न ।

असत्यपि कर्मणीति ।
अस­त्य­पी­त्य­वि­व­क्षि­तेऽ­पी­त्यर्थः ।

अथ वास्तवं कर्मा­भा­व­म­भि­स­न्धाय वैषम्यमुच्येत, तन्न, असि­द्ध­त्वा­त्क­र्मा­भा­वस्य, विवि­क्षि­त­त्वा­च्चात्र कर्मण इति परिहरति -
कर्मापेक्षायां त्विति ।
यासां सति कर्म­ण्य­वि­व­क्षिते श्रुती­ना­मु­प­प­त्ति­स्तासां सति कर्मणि विवक्षिते सुतरामित्यर्थः ।

यत्प्रसादादिति ।
यस्य भगवत ईश्वरस्य प्रसादात् तस्य नित्य­सि­द्ध­स्ये­श्व­रस्य नित्यं ज्ञानं भवतीति किमु वक्तव्यमिति योजना । यथा­हु­र्यो­ग­शा­स्त्र­काराः - “ततः प्रत्य­क्चे­त­ना­धि­ग­मोऽ­प्य­न्त­रा­या­भा­वश्च”(यो.सू. १.२९) इति । तद्भाष्यकाराश्च ‘भक्ति­वि­शे­षा­दा­व­र्जित ईश्व­र­स्त­म­नु­गृ­ह्णाति ज्ञान­वै­रा­ग्या­दिना’ इति ।

सवि­तृ­प्र­का­श­व­दिति ।

वस्तुतो नित्यस्य कारणानपेक्षां स्वरूपेणोक्त्वा व्यति­रे­क­मु­खे­ना­प्याह -
अपि चाविद्यादिमत इत्यादि ।
आदिग्रहणेन कामकर्मादयः सङ्गृह्यन्ते ।

न ज्ञान­प्र­ति­ब­न्ध­का­र­ण­र­हि­त­स्येति ।
संसारिणां वस्तुतो नित्य­ज्ञा­न­त्वेऽ­प्य­वि­द्या­दयः प्रति­ब­न्ध­का­र­णानि सन्ति, न तु ईश्व­र­स्या­वि­द्या­र­हि­तस्य ज्ञान­प्र­ति­ब­न्ध­का­र­ण­स­म्भव इति भावः । न तस्य कार्य­मा­व­र­णा­द्य­प­गमो विद्यते, अना­वृ­त्त­त्वा­दिति भावः । ज्ञानबलेन क्रिया । प्रधानस्य त्वचेतनस्य ज्ञान­ब­ला­भा­वा­ज्ज­गतो न क्रियेत्यर्थः । अपाणिर्गृहीता, अपादो जवनो वेगवान् विहरणवान् । अति­रो­हि­ता­र्थ­म­न्यत् ।

स्यादेतेत् । अनात्मनि व्योम्नि घटाद्युपाधिकृतो भव­त्व­व­च्छे­द­क­वि­भ्रमः, न तु आत्मनि स्वभा­व­सि­द्ध­प्र­काशे स घटत इत्यत आह -
दृश्यते चात्मन एव सत इति ।

अभिनिवेशः
मिथ्याभिमानः ।

मिथ्या­बु­द्धि­मा­त्रेण पूर्वेणेति ।
अनेनानादिता दर्शिता । मात्रग्रहणेन विचारासहत्वेन निर्वचनीयता निरस्ता । परिशिष्टं निगदव्याख्यातम् ॥ ५ ॥ ॥ ६ ॥

तन्निष्ठस्य मोक्षोपदेशादिति ।
शङ्कोत्तरत्वेन वा स्वातन्त्र्येण वा प्रधा­न­नि­रा­क­र­णार्थं सूत्रम् । शङ्का च भाष्ये उक्ता ॥ ७ ॥

स्यादेतत् । ब्रह्मैव ज्ञीप्सितं, तच्च न प्रथमं सूक्ष्मतया शक्यं श्वेतकेतुं ग्राहयितुमिति तत्सम्बद्धं प्रधानमेव स्थूल­त­या­त्म­त्वेन ग्राह्यते श्वेत­के­तु­र­रु­न्ध­ती­मि­वा­तीव सूक्ष्मां दर्शयितुं तत्संनिहितां स्थूलतारकां दर्श­य­ती­य­म­सा­व­रु­न्ध­तीति । अस्यां शङ्कायामुत्तरम् -
हेयत्वावचनाच्च
इति सूत्रम् । चका­रोऽ­नु­क्त­स­मु­च्च­यार्थः । तच्चानुक्तं भाष्य उक्तम् ॥ ८ ॥

अपि च जगत्कारणं प्रकृत्य स्वपितीत्यस्य निरुक्तं कुर्वती श्रुतिश्चेतनमेव जगत्कारणं ब्रूते । यदि स्वशब्द आत्मवचनस्तथापि चेतनस्य पुरु­ष­स्या­चे­त­न­प्र­धा­न­त्वा­नु­प­पत्तिः । अथा­त्मी­य­व­च­न­स्थ­था­प्य­चे­तने पुरु­षा­र्थ­त­या­त्मी­येऽपि चेतनस्य प्रलयानुपपत्तिः । नहि मृदात्मा घट आत्मीयेऽपि पाथसि प्रलीयतेऽपि त्वात्मभूतायां मृद्येव । नच रजतमनात्मभूते हस्तिनि प्रलीयते, किन्त्वा­त्म­भू­तायां शुक्तावेवेत्याह -
स्वाप्ययात् ॥ ९ ॥

गतिसामान्यात् ।
गतिरवगतिः ।

तार्किकसमय इवेति ।
यथा हि तार्किकाणां समयभेदेषु पर­स्प­र­प­रा­ह­ता­र्थता, नैवं वेदान्तेषु परस्परपराहृतिः, अपि तु तेषु सर्वत्र जग­त्का­र­ण­चै­त­न्या­व­गतिः समानेति ।

चक्षुरादीनामिव रूपादिष्विति ।
यथा हि सर्वेषां चक्षू रूपमेव ग्राहयति, न पुना रसादिकं कस्यचिद्दर्शयति कस्यचिद्रूपम् । एवं रसनादिष्वपि गतिसामान्यं दर्शनीयम् ॥ १० ॥

श्रुतत्वाच्च ।
'तदैक्षत” इत्यत्र ईक्षणमात्रं जगत्कारणस्य श्रुतं न तु सर्वविषयम् । जग­त्का­र­ण­स­म्ब­न्धि­तया तु तद­र्था­त्स­र्व­वि­ष­य­म­व­गतं, श्वेताश्वतराणां तूपनिषदि सर्वज्ञ ईश्वरो जगत्कारणमिति साक्षादुक्तमिति विशेषः ।

उत्त­र­सू­त्र­स­न्द­र्भ­मा­क्षि­पति -
जन्माद्यस्य यत इत्यारभ्येति ।
ब्रह्म जिज्ञा­सि­त­व्य­मिति हि प्रतिज्ञातं, तच्च शस्त्रै­क­स­म­धि­गम्यं, शस्त्रं च सर्वज्ञे सर्वशक्तौ जग­दु­त्प­त्ति­स्थि­ति­प्र­ल­य­का­रणे ब्रह्मण्येव प्रमाणं न प्रधानादाविति न्यायतो व्युत्पादितम् । न चास्ति कश्चि­द्वे­दा­न्त­भागो यस्तद्विपरीतमपि बोधयेदिति च “गतिसामान्यात्”(ब्र.सू. १.१.१०) इत्युक्तम् । तत्कि­म­प­र­म­व­शि­ष्यते, यद­र्था­न्त­र­सू­त्र­स­न्द­र्भ­स्या­व­तारः स्यादिति ।

किमुत्थानमिति ।
किमाक्षेपे ।

समाधत्ते -
उच्यते - द्विरूपं हीति ।
यद्यपि तत्त्वतो निर­स्त­स­म­स्तो­पा­धि­रूपं ब्रह्म तथापि न तेन रूपेण शक्य­मु­प­दे­ष्टु­मि­त्यु­प­हि­तेन रूपे­णो­प­दे­ष्ट­व्य­मिति । तत्र च क्वचि­दु­पा­धि­र्वि­व­क्षितः ।

तदुपासनानि
कानिचित् अभ्युदयार्थानि
मनो­मा­त्र­सा­ध­न­त­यात्र पठितानि ।

कानि­चि­त्क्र­म­मु­क्त्य­र्थानि, कानि­चि­त्क­र्म­स­मृ­द्ध्य­र्थानि ।
क्वचि­त्पु­न­रु­क्तोऽ­प्यु­पा­धि­र­वि­व­क्षितः, यथा­त्रै­वा­न्न­म­या­दय आनन्दमयान्ताः पञ्च कोशाः । तदत्र कस्मि­न्नु­पा­धि­र्वि­व­क्षितः कस्मिन्नेति नाद्यापि विवेचितम् । तथा गतिसामान्यमपि सिद्धवदुक्तं, न त्वद्यापि साधितमिति तद­र्थ­मु­त्त­र­ग्र­न्थ­स­न्द­र्भा­रम्भ इत्यर्थः ।

स्यादेतत् । पर­स्या­त्म­न­स्त­त्त­दु­पा­धि­भे­द­वि­शि­ष्ट­स्या­प्य­भे­दा­त्क­थ­मु­पा­स­ना­भेदः, कथं च फलभेदमित्यत आह -
एक एव त्विति ।
रूपा­भे­देऽ­प्यु­पा­धि­भे­दा­दु­प­हि­त­भे­दा­दु­पा­स­ना­भे­द­स्तथा च फलभेद इत्यर्थः । क्रतुः सङ्कल्पः ।

ननु यद्येक आत्मा कूटस्थनित्यो निरतिशयः सर्वभूतेषु गूढः, कथमेतस्मिन् भूताश्रये तारतम्यश्रुतय इत्यत आह -
यद्यप्येक आत्मेति ।
यद्यपि निरतिशयमेकमेव रूपमात्मन ऐश्वर्यं च ज्ञानं चानन्दश्च, तथा­प्य­ना­द्य­वि­द्या­त­मः­स­मा­वृतं तेषु तेषु प्राणभृद्भेदेषु क्वचिदसदिव, क्वचित्सदिव, क्वचि­द­त्य­न्ता­प­कृ­ष्ट­मिव, क्वचि­द­प­कृ­ष्ट­मिव, क्वचि­त्प्र­क­र्ष­वत् , क्वचि­द­त्य­न्त­प्र­क­र्ष­व­दिव भासते, तत्कस्य हेतोः, अविद्यातमसः प्रक­र्ष­नि­क­र्ष­ता­र­त­म्या­दिति । यथोत्तमप्रकाशः सविता दिङ्म­ण्ड­ल­मे­क­रू­पे­णैव प्रका­शे­ना­पू­र­य­न्नपि वर्षासु निकृष्टप्रकाश इव शरदि तु प्रकृष्टप्रकाश इव प्रथते, तथेदमपीति ।

अपे­क्षि­तो­पा­धि­स­म्ब­न्धम्
उपास्यत्वेन ।

निर­स्तो­पा­धि­स­म्बन्धं
ज्ञेयत्वेनेति ॥ ११ ॥

आन­न्द­म­योऽ­भ्या­सात् ।

तत्र ताव­त्प्र­थ­म­मे­क­दे­शि­म­ते­ना­धि­क­र­ण­मा­र­च­यति -
तैत्ति­री­य­केऽ­न्न­म­य­मि­त्यादि ।
'गौण­प्र­वा­ह­पा­तेऽपि युज्यते मुख्यमीक्षणम् । मुख्यत्वे तूभयोस्तुल्ये प्राय­दृ­ष्टि­र्वि­शे­षिका” ॥ आनन्दमय इति हि विकारे प्राचुर्ये च मयटस्तुल्यं मुख्या­र्थ­त्व­मिति विका­रा­र्था­न्न­म­या­दि­प­द­प्रा­य­पा­ठा­दा­न­न्द­म­य­प­द­मपि विकारार्थमेवेति युक्तम् । न च प्राणमयादिषु विका­रा­र्थ­त्वा­यो­गा­त्स्वा­र्थिको मयडिति युक्तम् । प्राणा­द्यु­पा­ध्य­व­च्छिन्नो ह्यात्मा भवति प्राणा­दि­वि­काराः, घटाकाशमिव घटविकाराः । न च सत्यर्थे स्वार्थि­क­त्व­मु­चि­तम् । “चतुः­को­शा­न्त­रत्वे तु न सर्वा­न्त­र­तो­च्यते । प्रियादिभागी शरीरो जीवो न ब्रह्म युज्यते” ॥ न च सर्वान्तरतया ब्रह्मै­वा­न­न्द­मयं, न जीव इति साम्प्रतम् । नहीयं श्रुति­रा­न­न्द­म­यस्य सर्वान्तरतां ब्रूते अपि त्वन्न­म­या­दि­को­श­च­तु­ष्ट­या­न्त­र­ता­मा­न­न्द­म­य­को­शस्य । न चास्मा­द­न्य­स्या­न्त­र­स्या­श्र­व­णा­द­य­मेव सर्वान्तर इति युक्तम् । यदपेक्षं यस्यान्तरत्वं श्रुतं तत्त­स्मा­दे­वा­न्तरं भवति । नहि देवदत्तो बलवानित्युक्ते सर्वा­न्सिं­ह­शा­र्दू­ला­दी­नपि प्रति बल­वा­न­प्र­ती­य­तेऽपि तु समा­न­जा­ती­य­न­रा­न्त­र­म­पेक्ष्य । एव­मा­न­न्द­म­योऽ­प्य­न्न­म­या­दि­भ्योऽ­न्तरो न तु सर्वस्मात् । न च निष्कलस्य ब्रह्मणः प्रिया­द्य­व­य­व­योगः, नापि शरीरत्वं युज्यत इति संसा­र्ये­वा­न­न्द­मयः । तस्मा­दु­प­हि­त­मे­वा­त्रो­पा­स्य­त्वेन विवक्षितं, न तु ब्रह्मरूपं ज्ञेयत्वेनेति पूर्वः पक्षः । अपि च यदि प्राचु­र्या­र्थोऽपि मयट् , तथापि संसा­र्ये­वा­न­न्द­मय; न तु ब्रह्म । आनन्दप्राचुर्य हि तद्वि­प­री­त­दुः­ख­ल­व­स­म्भवे भवति न तु तदत्यन्तासम्भवे ।

न च परमात्मनो मनागपि दुःखलवसम्भवः, आन­न्दै­क­र­स­त्वा­दि­त्याह -
न च सशरीरस्य सत इति ।
अशरीरस्य पुन­र­प्रि­य­स­म्बन्धो मनागपि नास्तीति प्राचु­र्या­र्थोऽपि मयड्नोपपद्यत इत्यर्थः ।

उच्यते ।
आनन्दमयावयवस्य तावद्ब्रह्मणः पुच्छस्याङ्गतया न प्राधान्यं, अपि त्वङ्गिन आनन्दमयस्यैव ब्रह्मणः प्राधान्यम् । तथाच तदधिकारे पठि­त­म­भ्य­स्य­मा­न­मा­न­न्द­पदं तद्बुद्धिमाधत्त इति तस्यै­वा­न­न्द­म­य­स्या­भ्यास इति युक्तम् । ज्योति­ष्टो­मा­धि­कारे ‘वसन्ते वसन्ते ज्योतिषा यजेत’ इति ज्योतिःपदमिव ज्योति­ष्टो­मा­भ्यासः कालविशेषविधिपरः । अपि च साक्षा­दा­न­न्द­म­या­त्मा­भ्यासः श्रूयते - “एत­मा­न­न्द­म­य­मा­त्मा­न­मु­प­स­ङ्क्रा­मति”(तै. उ. २ । ८ । ५) इति ।

पूर्व­प­क्ष­बी­ज­म­नु­भाष्यं दूषयति -
यत्तू­क्त­म­न्न­म­या­दिति ।
न हि मुख्या­रु­न्ध­ती­द­र्शनं तत्त­द­मु­ख्या­रु­न्ध­ती­द­र्श­न­प्रा­य­प­ठि­त­म­प्य­मु­ख्या­रु­न्ध­ती­द­र्शनं भवति । ताद­र्थ्या­त्पू­र्व­द­र्श­ना­ना­म­न्त्य­द­र्श­ना­नु­गुण्यं न तु तद्विरोधितेति चेत् , इहा­प्या­न­न्द­म­या­दा­न्त­र­स्या­न्य­स्या­श्र­व­णात् , तस्य त्वन्न­म­या­दि­स­र्वा­न्त­र­त्व­श्रु­ते­स्त­त्प­र्य­व­सा­ना­त्ता­दर्थ्यं तुल्यम् । प्रिया­द्य­व­य­व­यो­ग­श­री­रत्वे च निगदव्याख्यातेन भाष्येण समाहिते । प्रिया­द्य­व­य­व­यो­गाच्च दुःखलवयोगेऽपि परमात्मन औपाधिक उपपादितः । तथाचानन्दमय इति प्राचुर्यार्थता मयट उपपादितेति ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥

अपि च मन्त्र­ब्रा­ह्म­ण­यो­रु­पे­यो­पा­य­भू­तयोः सम्प्र­ति­प­त्ते­र्ब्र­ह्मै­वा­न­न्द­म­य­प­दार्थः । मन्त्रे हि पुनः पुनः “अन्योऽन्तर आत्मा”(तै. उ. २ । ५ । १) इति पर­ब्र­ह्म­ण्या­न्त­र­त्व­श्र­व­णात् , तस्यैव च “अन्योऽन्तर आत्मानन्दमयः” इति ब्राह्मणे प्रत्य­भि­ज्ञा­नात् , पर­ब्र­ह्मै­वा­न­न्द­म­य­मि­त्याह सूत्रकारः -
मान्त्र­व­र्णि­क­मेव च गीयते ।
मान्त्र­व­र्णि­क­मेव परं ब्रह्म ब्राह्म­णेऽ­प्या­न­न्द­मय इति गीयत इति ॥ १५ ॥

अपि चानन्दमयं प्रकृत्य शरी­रा­द्यु­त्पत्तेः प्राक्स्र­ष्टृ­त्व­श्र­व­णात् , “बहु स्याम्”(छा. उ. ६ । २ । ३) इति च सृज्यमानानां स्रष्टु­रा­न­न्द­म­या­द­भे­द­श्र­व­णात् , आनन्दमयः पर एवेत्याह । सूत्रम् -
नेतरोऽनुपपत्तेः ।
नेतरो जीव आनन्दमयः, तस्या­नु­प­प­त्ते­रिति ॥ १६ ॥

भेदव्यपदेशाच्च ।
रसः सारो ह्ययमानन्दमय आत्मा “रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति”(तै. उ. २ । ७ । १) इति । सोऽयं जीवात्मनो लब्धृभावः, आनन्दमयस्य च लभ्यता, नाभेद उपपद्यते । तस्मा­दा­न­न्द­म­यस्य जीवात्मनो भेदे परब्रह्मत्वं सिद्धं भवति ।

चोदयति -
कथं तर्हीति ।
यदि लब्धा न लब्धव्यः, कथं तर्हि परमात्मनो वस्तुतोऽभिन्नेन जीवात्मना परमात्मा लभ्यत इत्यर्थः ।

परिहरति -
बाढम् ।

तथापीति ।
सत्यम् , पर­मा­र्थ­तोऽ­भे­देऽ­प्य­वि­द्या­रो­पितं भेदमुपाश्रित्य लब्धृलब्धव्यभाव उपपद्यते । जीवो ह्यविद्यया परब्रह्मणो भिन्नो दर्शितः, न तु जीवादपि । तथा चान­न्द­म­य­श्चे­ज्जीवः, न जीव­स्या­वि­द्य­यापि स्वतो भेदो दर्शित इति न लब्धृलब्धव्यभाव इत्यर्थः । भेदाभेदौ च न जीव­प­र­ब्र­ह्म­णो­रि­त्यु­क्त­म­ध­स्तात् ।

स्यादेतत् । यथा पर­मे­श्व­रा­द्भिन्नो जीवात्मा द्रष्टा न भवत्येवं जीवात्मनोऽपि द्रष्टुर्न भिन्नः परमेश्वर इति जीव­स्या­नि­र्वा­च्यत्वे पर­मे­श्व­रोऽ­प्य­नि­र्वाच्यः स्यात् । तथा च न वस्तुसन्नित्यत आह -
पर­मे­श्व­र­स्त्व­वि­द्या­क­ल्पि­ता­दिति ।
रजतं हि समारोपितं न शुक्तितो भिद्यते । न हि तद्भेदेनाभेदेन वा शक्यं निर्वक्तुम् । शुक्तिस्तु परमार्थसती निर्वचनीया अनि­र्व­च­नी­या­द्र­ज­ता­द्भि­द्यत एव ।

अत्रैव सरूपमात्रं दृष्टान्तमाह -
यथा मायाविन इति ।

एत­द­प­रि­तो­षे­णा­त्य­न्त­स­रूपं दृष्टान्तमाह -
यथा वा घटाकाशादिति ।
शेष­म­ति­रो­हि­ता­र्थम् ॥ १७ ॥ ॥ १८ ॥

स्वम­त­प­रि­ग्र­हा­र्थ­मे­क­दे­शि­मतं दूषयति -
इदं त्विह वक्तव्यमिति ।
एष तावदुत्सर्गो यत् “ब्रह्म पुच्छं प्रतिष्ठेति ब्रह्म­श­ब्दा­त्प्र­ती­यते । विशुद्धं ब्रह्म विकृतं त्वान­न्द­म­य­श­ब्दतः” ॥ तत्र किं पुच्छ­प­द­स­म­भि­व्या­हा­रात् अन्नमयादिषु चास्या­व­य­व­प­र­त्वेन प्रयोगात् , इहा­प्य­व­य­व­प­र­त्वा­त्पु­च्छ­प­दस्य, तत्समानाधिकरणं ब्रह्मपदमपि स्वार्थत्यागेन कथञ्चिदवयवपरं व्याख्यायताम् । आनन्दमयपदं चान्न­म­या­दि­वि­का­र­वा­चि­प्रा­य­प­ठितं विकारवाचि वा, कथ­ञ्चि­त्प्र­चु­रा­न­न्द­वाचि वा, ब्रह्म­ण्य­प्र­सिद्धं कयाचिद्वृत्या ब्रह्मणि व्याख्यायताम् । आनन्दपदाभ्यासेन च ज्योतिःपदेनेव ज्योतिष्टोम आनन्दमयो लक्ष्यतां, उतानन्दमयपदं विकारार्थमस्तु, ब्रह्मपदं च ब्राह्मण्येव स्वार्थेऽस्तु, आन­न्द­प­दा­भ्या­सश्च स्वार्थे, पुच्छ­प­द­मा­त्र­म­व­य­व­प्रा­य­लि­खि­त­म­धि­क­र­ण­प­र­तया व्याक्रियतामिति कृतबुद्धय एव विदाङ्कुर्वन्तु । तत्र “प्राय­पा­ठ­प­रि­त्यागो मुख्य­त्रि­त­य­ल­ङ्घ­नम् । पूर्व­स्मि­न्नु­त्तरे पक्षे प्रायपाठस्य बाधनम्॥” पुच्छपदं हि वालधौ मुख्यं सदानन्दमयावयवे गौणमेवेति मुख्य­श­ब्दा­र्थ­ल­ङ्घ­न­म­व­य­व­प­र­ता­या­म­धि­क­र­ण­प­र­तायां च तुल्यम् । अव­य­व­प्रा­य­ले­ख­बा­धश्च विका­र­प्रा­य­ले­ख­बा­धेन तुल्यः । ब्रह्म­प­द­मा­न­न्द­म­य­प­द­मा­न­न्द­प­द­मिति त्रितयलङ्घनं त्वधिकम् । तस्मा­न्मु­ख्य­त्रि­त­य­ल­ङ्घ­ना­द­सा­धी­या­न्पूर्वः पक्षः । मुख्य­त्र­या­नु­गु­ण्येन तूत्तर एव पक्षो युक्तः । अपि चानन्दमयपदस्य ब्रह्मार्थत्वे, “ब्रह्म पुच्छम्”(तै. उ. २ । ५ । १) इति न समञ्जसम् । न हि तदे­वा­व­य­व्य­व­य­व­श्चेति युक्तम् । आधारपरत्वे च पुच्छशब्दस्य, प्रति­ष्ठे­त्ये­त­द­प्यु­प­प­न्न­तरं भवति । आनन्दमयस्य चान्त­र­त्व­म­न्न­म­या­दि­को­शा­पे­क्षया । ब्रह्म­ण­स्त्वा­न्त­र­त्व­मा­न­न्द­म­या­द­र्था­द्ग­म्यत इति न श्रुत्योक्तम् । एवं चान्न­म­या­दि­व­दा­न­न्द­म­यस्य प्रिया­द्य­व­य­व­योगो युक्तः । वाङ्मनसागोचरे तु पर­ब्र­ह्म­ण्यु­पा­धि­म­न्त­र्भाव्य प्रिया­द्य­व­य­व­योगः, प्राचुर्यं च, क्लेशेन व्याख्या­ये­या­ताम् । तथा च मान्त्र­व­र्णि­कस्य ब्रह्मण एव “ब्रह्म पुच्छं प्रतिष्ठा”(तै. उ. २ । ५ । १) इति स्वप्र­धा­न­स्या­भि­धा­नात् , तस्यैवाधिकारो नानन्दमयस्येति । “सोऽकामयत”(तै. उ. २ । ६ । १) इत्याद्या अपि श्रुतयो ब्रह्मविषया न आनन्दमयविषया इत्य­र्थ­स­ङ्क्षेपः । सुगममन्यत् ।

सूत्राणि त्वेवं व्याख्येयानीति ।
वेद­सू­त्र­यो­र्वि­रोधे “गुणे त्वन्या­य्य­क­ल्पना” इति सूत्राण्यन्यथा नेतव्यानि । आनन्दमयशब्देन तद्वाक्यस्य “ब्रह्म पुच्छं प्रतिष्ठा”(तै. उ. २ । ५ । १)“ब्रह्म पुच्छं प्रतिष्ठा”(तै. उ. २ । ५ । १) इत्येतद्गतं ब्रह्म­प­द­मु­प­ल­क्ष्यते । एतदुक्तं भवति - आनन्दमय इत्यादिवाक्ये यत् “ब्रह्म पुच्छं प्रतिष्ठा” इति ब्रह्मपदं तत्स्व­प्र­धा­न­मे­वेति । यत्तु ब्रह्मा­धि­क­र­ण­मिति वक्तव्ये “ब्रह्म पुच्छम्”(तै. उ. २ । ५ । १) इत्याह श्रुतिः, तत्कस्य हेतोः, पूर्व­म­व­य­व­प्र­धा­न­प्र­यो­गा­त्त­त्प्र­यो­ग­स्यैव बुद्धौ संनि­धा­ना­त्ते­नापि चाधि­क­र­ण­ल­क्ष­णो­प­प­त्ते­रिति ।

मान्त्र­व­र्णि­क­मेव च गीयते ॥ १५ ॥

यत् “सत्यं ज्ञानम्”(तै. उ. २ । १ । १) इत्यादिना मन्त्रवर्णेन ब्रह्मोक्तं तदेवोपायभूतेन ब्राह्मणेन स्वप्रधान्येन गीयते “ब्रह्म पुच्छं प्रतिष्ठा”(तै. उ. २ । ५ । १) इति । अवयववचनत्वे त्वस्य मन्त्रे प्राधान्यं, ब्राह्मणे त्वप्रा­धा­न्य­मि­त्यु­पा­यो­पे­य­यो­र्म­न्त्र­ब्रा­ह्म­ण­यो­र्वि­प्र­ति­पत्तिः स्यादिति ।
नेतरोऽनुपपत्तेः ॥ १६ ॥

अत्र ‘इतश्चानन्दमयः’ इति भाष्यस्य स्थाने ‘इतश्च ब्रह्म पुच्छं प्रतिष्ठा’ इति पठितव्यम् ।
भेदव्यपदेशाच्च ॥ १७ ॥

अत्रापि “इतश्चानन्दमयः” इत्यस्य च ‘आन­न्द­म­या­धि­कारे’ इत्यस्य च भाष्यस्य स्थाने ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति ‘ब्रह्म­पु­च्छा­धि­कारे’ इति च पठितव्यम् ।
कामाच्च नानुमानापेक्षा ॥ १८ ॥

अस्मिन्नस्य च तद्योगं शास्ति ।। १९ ।।
इत्यनयोरपि सूत्रयोर्भाष्ये आनन्दमयस्थाने ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति पाठो द्रष्टव्यः ।

तद्धेतु व्यपदेशाच्च ।। १४ ।।
विका­र­स्या­न­न्द­म­यस्य ब्रह्म पुच्छ­म­व­य­व­श्चे­त्कथं सर्वस्यास्य विकारजातस्य सानन्दमयस्य ब्रह्म पुच्छं कारणमुच्येत “इदं सर्वमसृजत । यदिदं किञ्च”(तै. उ. २ । ६ । १) इति श्रुत्या । नह्या­न­न्द­म­य­वि­का­रा­व­यवो ब्रह्म विकारः सन् सर्वस्य कारणमुपपद्यते । तस्मा­दा­न­न्द­म­य­वि­का­रा­व­यवो ब्रह्मेति तद­व­य­व­यो­ग्या­न­न्द­मयो विकार इह नोपास्यत्वेन विवक्षितः, किन्तु स्वप्रधानमिह ब्रह्म पुच्छं ज्ञेयत्वेनेति सिद्धम् ॥ १९ ॥

अन्त­स्त­द्ध­र्मो­प­दे­शात् ।
पूर्व­स्मि­न्न­धि­क­र­णेऽ­पा­स्त­स­म­स्त­वि­शे­ष­ब्र­ह्म­प्र­ति­प­त्त्य­र्थ­मु­पा­य­ता­मा­त्रेण पञ्च कोशा उपाधयः स्थिताः, नतु विवक्षिताः । ब्रह्मैव तु प्रधानं “ब्रह्म पुच्छं प्रतिष्ठा” इति ज्ञेय­त्वे­नो­प­क्षि­प्त­मिति निर्णीतम् । सम्प्रति तु ब्रह्म विव­क्षि­तो­पा­धि­भे­द­मु­पा­स्य­त्वे­नो­प­क्षि­प्यते, नतु विद्या­क­र्मा­ति­श­य­ल­ब्धो­त्कर्षो जीवा­त्मा­दि­त्य­प­द­वे­द­नीय इति निर्णीयते । तत् “मर्या­दा­धा­र­रू­पाणि संसारिणि परे न तु । तस्मादुपास्यः संसारी कर्मानधिकृतो रविः” ॥ “हिर­ण्य­श्मश्रुः”(छा. उ. १ । ६ । ६) इत्या­दि­रू­प­श्र­व­णात् , “य एषोऽ­न्त­रा­दित्ये”(छा. उ. १ । ६ । ६), “य एषोऽन्तरक्षिणी”(छा. उ. १ । ७ । ५) इति चाधा­र­भे­द­श्र­व­णात् , “ये चामु­ष्मा­त्प­राञ्चो लोकास्तेषां चेष्टे देवकामानां च” इत्यै­श्व­र्य­म­र्या­दा­श्रु­तेश्च संसार्येव कार्य­का­र­ण­स­ङ्घा­ता­त्मको रूपादिसम्पन्न इहोपास्यः, नतु परमात्मा “अश­ब्द­म­स्प­र्शम्”(क. उ. १ । ३ । १५) इत्या­दि­श्रु­तिभिः अपा­स्त­स­म­स्त­रू­पश्च, “स्वे महिम्नि”(छा. उ. ७ । २४ । १) इत्या­दि­श्रु­ति­भि­र­पा­कृ­ता­धा­रश्च, “एष सर्वेश्वरः”(बृ. उ. ४ । ४ । २२) इत्या­दि­श्रु­ति­भि­र­धि­ग­त­नि­र्म­र्या­दै­श्व­र्यश्च शक्य उपास्यत्वेनेह प्रतिपत्तुम् । सर्व­पा­प्म­वि­र­ह­श्चा­दि­त्य­पु­रुषे सम्भवति, शास्त्रस्य मनुष्याधिकारतया देवतायाः पुण्य­पा­प­यो­र­न­धि­का­रात् । रूपा­दि­म­त्त्वा­न्य­था­नु­प­पत्त्या च कार्यकारणात्मके जीवे उपास्यत्वेन विवक्षिते यत्ता­व­दृ­गा­द्या­त्म­क­त­यास्य सर्वात्मकत्वं श्रूयते तत्क­थ­ञ्चि­दा­दि­त्य­पु­रु­ष­स्यैव स्तुतिरिति आदित्यपुरुष एवोपास्यो न परमात्मेत्येवं प्राप्तम् । अनाधारत्वे च नित्यत्वं सर्वगतत्वं च हेतुः । अनित्यं हि कार्यं कारणाधारमिति नानाधारं, नित्य­म­प्य­स­र्व­गतं च यत्त­स्मा­द­ध­र­भा­वे­ना­स्थितं तदेव तस्यो­त्त­र­स्या­धार इति नानाधारं, तस्मा­दु­भ­य­मु­क्तम् । एवं प्राप्तेऽ­भि­धी­यते “अन्त­स्त­द्ध­र्मो­प­दे­शात्” । “सार्वा­त्म्य­स­र्व­दु­रि­त­वि­र­हा­भ्या­मि­हो­च्यते । ब्रह्मै­वा­व्य­भि­चा­रिभ्यां सर्व­हे­तु­र्वि­का­र­वत्” ॥ नामनिरुक्तेन हि सर्व­पा­प्मा­पा­दा­न­त­य­स्यो­दय उच्यते । न चादित्यस्य देवतायाः कर्मानधिकारेऽपि सर्वपाप्मविरहः प्राग्भ­वी­य­ध­र्मा­ध­र्म­रू­प­पा­प्म­स­म्भवे सति । न चैतेषां प्राग्भवीयो धर्म एवास्ति न पाप्मेति साम्प्रतम् । विद्या­क­र्मा­ति­श­य­स­मु­दा­चा­रेऽ­प्य­ना­दि­भ­व­प­र­म्प­रो­पा­र्जि­तानां पाप्मनामपि प्रसुप्तानां सम्भवात् । नच श्रुति­प्रा­मा­ण्या­दा­दि­त्य­श­री­रा­भि­मा­निनः सर्वपाप्मविरह इति युक्तं, ब्रह्म­वि­ष­य­त्वे­ना­प्यस्याः प्रामा­ण्यो­प­पत्तेः । नच विनि­ग­म­ना­हे­त्व­भावः, तत्र तत्र सर्व­पा­प्म­वि­र­हस्य भूयोभूयो ब्रह्मण्येव श्रवणात् । तस्यैव चेह प्रत्य­भि­ज्ञा­य­मा­नस्य विनि­ग­म­ना­हे­तो­र्वि­द्य­मा­न­त्वात् । अपिच सार्वात्म्यं जगत्कारणस्य ब्रह्मण एवोपपद्यते, कार­णा­द­भे­दा­त्का­र्य­जा­तस्य, ब्रह्मणश्च जगत्कारणत्वात् । आदि­त्य­श­री­रा­भि­मा­नि­नस्तु जीवात्मनो न जगत्कारणत्वम् । नच मुख्यार्थसम्भवे प्राश­स्त्य­ल­क्ष­णया स्तुत्यर्थता युक्ता । रूपवत्त्वं चास्य परानुग्रहाय कायनिर्माणेन वा, तद्विकारतया वा सर्वस्य कार्यजातस्य, विकारस्य च विका­र­व­तोऽ­न­न्य­त्वा­त्ता­दृ­श­रू­प­भे­दे­नो­प­दि­श्यते, यथा “सर्वगन्धः सर्वरसः”(छा. उ. ३ । १४ । २) इति । नच ब्रह्मनिर्मितं माया­रू­प­म­नु­व­द­च्छा­स्त्र­म­शास्त्रं भवति, अपितु तां कुर्वत् इति नाशा­स्त्र­त्व­प्र­सङ्गः । यत्र तु ब्रह्म निर­स्त­स­म­स्तो­पा­धि­भेदं ज्ञेय­त्वे­नो­प­क्षि­प्यते, तत्र शास्त्रम् “अश­ब्द­म­स्प­र्श­म­रू­प­म­व्य­यम्”(क. उ. १ । ३ । १५) इति प्रवर्तते । तस्मा­द्रू­प­व­त्त्व­मपि पर­मा­त्म­न्यु­प­प­द्यते । एतेनैव मर्या­दा­धा­र­भे­दा­वपि व्याख्यातौ । अपि चादि­त्य­दे­हा­भि­मा­निनः संसा­रि­णोऽ­न्त­र्यामी भेदेनोक्तः, स एवान्तरादित्य इत्य­न्तः­श्रु­ति­सा­म्येन प्रत्य­भि­ज्ञा­य­मानो भवितुमर्हति ।

तस्मात्ते धनसनय इति ।
धनवन्तो विभूतिमन्त इति यावत् ।

कस्मा­त्पु­न­र्वि­भू­ति­मत्त्वं पर­मे­श्व­र­प­रि­ग्रहे घटत इत्यत आह -
यद्य­द्वि­भू­ति­म­दिति ।
सर्वा­त्म­क­त्वेऽपि विभूतिमत्स्वेव पर­मे­श्व­र­स्व­रू­पा­भि­व्यक्तिः, न त्ववि­द्या­त­मः­पि­हि­त­प­र­मे­श्व­र­स्व­रू­पे­ष्व­वि­भू­ति­म­त्स्वि­त्यर्थः ।

लोक­का­मे­शि­तृ­त्व­म­पीति ।
अतोऽ­त्य­न्ता­पा­रा­र्थ्य­न्या­येन निरा­ङ्कु­श­मै­श्व­र्य­मि­त्यर्थः ॥ २० ॥ ॥ २१ ॥

आका­श­स्त­ल्लि­ङ्गात् ।
पूर्व­स्मि­न्न­धि­क­रणे ब्रह्म­णोऽ­सा­धा­र­ण­ध­र्म­द­र्श­ना­द्वि­व­क्षि­तो­पा­धि­नोऽ­स्यै­वो­पा­सना, न त्वादि­त्य­श­री­रा­भि­मा­निनो जीवात्मन इति निरूपितम् । इदानीं त्वसा­धा­र­ण­ध­र्म­द­र्श­ना­त्त­दे­वो­द्गीथे सम्पा­द्यो­पा­स्य­त्वे­नो­प­दि­श्यते, न भूताकाश इति निरूप्यते । तत्र “आकाश इति होवाच” इति किं मुख्या­का­श­पा­दा­नु­रो­धेन “अस्य लोकस्य का गतिः”(छा. उ. १ । ९ । १) इति, “सर्वाणि ह वा इमानि भूतानि” इति “ज्यायान्” इति च “परायणम्” इति च कथ­ञ्चि­द्व्या­ख्या­यतां, उतै­त­द­नु­रो­धे­ना­का­श­शब्दो भक्त्या परात्माने व्याख्यायतामिति । तत्र “प्रथ­म­त्वा­त्प्र­धा­न­त्वा­दा­काशं मुख्यमेव नः । तदा­नु­गु­ण्ये­ना­न्यानि व्याख्येयानीति निश्चयः” ॥ “अस्य लोकस्य का गतिः” इति प्रश्नोत्तरे “आकाश इति होवाच” इत्याकाशस्य गतित्वेन प्रतिपाद्यतया प्राधान्यात् , “सर्वाणि ह वा” इत्यादीनां तु तद्विशेषणतया गुणत्वात् , “गुणे त्वन्या­य्य­क­ल्पना” इति बहू­न्य­प्य­प्र­धा­नानि प्रधानानुरोधेन नेतव्यानि । अपिच “आकाश इति होवाच” इत्युत्तरे प्रथ­मा­व­ग­त­मा­का­श­म­नु­प­जा­त­वि­रोधि, तेन तदनुरक्तायां बुद्धौ यद्यदेव तदे­क­वा­क्य­ग­त­मु­प­नि­प­तति तत्तज्जघन्यतया उपसञ्जातविरोधि तदानुगुण्येनैव व्यवस्थानमर्हति । नच क्कचिदाकाशशब्दो भक्त्या ब्रह्मणि प्रयुक्त इति सर्वत्र तेन तत्परेण भवितव्यम् । नहि गङ्गायां घोष इत्यत्र गङ्ग­प­द­म­नु­प­पत्त्या तीरपरमिति यादांसि गङ्गा­या­मि­त्य­त्रा­प्य­नेन तत्परेण भवितव्यम् । सम्भवश्चोभयत्र तुल्यः । नच ब्रह्म­ण्य­प्या­का­श­शब्दो मुख्यः, अनै­का­र्थ­त्व­स्या­न्या­य्य­त्वात् , भक्त्या च ब्रह्मणि प्रयो­ग­द­र्श­नो­प­पत्तेः । लोके चास्य नभसि निरूढत्वात् , तत्पू­र्व­क­त्वाच्च वैदि­का­र्थ­प्र­ती­ते­र्वै­प­री­त्या­नु­प­पत्तेः । तदानुगुण्येन च “सर्वाणि ह वा” इत्यादीनि भाष्यकृता स्वयमेव नीतानि । तस्मा­द्भू­ता­का­श­मे­वा­त्रो­पा­स्य­त्वे­नो­प­दि­श्यते, न परमात्मेति प्राप्तम् ।

एवं प्राप्तेऽ­भि­धी­यते -
आकाशशब्देन ब्रह्मणो ग्रहणम् ।

कुतः,
तल्लिङ्गात् ।
तथाहि - “सामानधिकरण्येन प्रश्न­त­त्प्र­ति­वा­क्ययोः । पौर्वा­प­र्य­प­रा­म­र्शा­त्प्र­धा­न­त्वेऽपि गौणता” ॥ यद्यप्याकाशपदं प्रधानार्थं तथापि यत्पृष्टं तदेव प्रतिवक्तव्यम् । न खल्वनुन्मत्त आम्रान्पृष्टः कोविदारानाचष्टे । तदिह, “अस्य लोकस्य का गतिः” इति प्रश्नो दृश्य­मा­न­ना­म­रू­प­प्र­प­ञ्च­मा­त्र­ग­ति­वि­षय इति तदनुरोधाद्य एव सर्वस्य लोकस्य गतिः स एवाकाशशब्देन प्रतिवक्तव्यः । नच भूताकाशः सर्वस्य लोकस्य गतिः, तस्यापि लोक­म­ध्य­पा­ति­त्वात् । तदेव तस्य गति­रि­त्य­नु­प­पत्तेः । न चोत्तरे भूता­का­श­श्र­व­णा­द्भू­ता­का­श­का­र्य­मेव पृष्टमिति युक्तं, प्रश्नस्य प्रथ­मा­व­ग­त­स्या­नु­प­जा­त­वि­रो­धिनो लोक­सा­मा­न्य­वि­ष­य­स्यो­प­जा­त­वि­रो­धि­नो­त्त­रेण सङ्को­चा­नु­प­प­त्ते­स्त­द­नु­रो­धे­नो­त्त­र­व्या­ख्या­नात् । नच प्रश्नेन पूर्व­प­क्ष­रू­पे­णा­न­व­स्थि­ता­र्थे­नो­त्तरं व्यवस्थितार्थं न शक्यं नियन्तुमिति युक्तं, तन्नि­मि­त्ता­ना­म­ज्ञा­न­सं­श­य­वि­प­र­र्या­सा­ना­म­न­व­स्था­नेऽपि तस्य स्वविषये व्यवस्थानात् । अन्य­थो­त्त­र­स्या­ना­ल­म्ब­न­त्वा­त्ते­र्वै­य­धि­क­र­ण्या­प­त्तेर्वा । अपि चोत्तरेऽपि बह्वसमञ्जसम् । तथाहि - “सर्वाणि ह वा इमानि भूतान्यकाशादेव समुत्पद्यन्ते” इति सर्वशब्दः कथञ्चिदल्पविषयो व्याख्येयः । एव­मे­व­का­रोऽ­प्य­स­म­ञ्जसः । न खल्वपामाकाश एव कारणमपि तु तेजोऽपि । एवमन्नस्यापि नाकाशमेव कारणमपि तु पावकपाथसी अपि । मूल­का­र­ण­वि­व­क्षायां तु ब्रह्म­ण्ये­वा­व­धा­रणं समञ्जसम् । असमञ्जसं तु भूताकाशे । एवं सर्वेषां भूतानां लयो ब्रह्मण्येव । एवं सर्वेभ्यो ज्यायस्त्वं ब्रह्मण एव । एवं परमयनं ब्रह्मैव । तस्मात्सर्वेषां लोकानामिति प्रश्ने­नो­प­क्र­मात् , उत्तरे च तत्त­द­सा­धा­र­ण­ब्र­ह्म­गु­ण­प­रा­म­र्शा­त्पृ­ष्टा­याश्च गतेः पर­म­य­न­मि­त्य­सा­धा­र­ण­ब्र­ह्म­गु­णो­प­सं­हा­रात् , भूयसीनां श्रुती­ना­म­नु­ग्र­हाय “त्यजेदेकं कुलस्यार्थे” इति­व­द्व­र­मा­का­श­प­द­मा­त्र­म­स­म­ञ्ज­स­मस्तु । एतावता हि बहु समञ्जसं स्यात् । न चाकाशस्य प्राधा­न्य­मु­त्तरे, किन्तु पृष्टा­र्थ­त्वा­दु­त्त­रस्य, लोक­सा­मा­न्य­ग­तेश्च पृष्टत्वात् , “परायणम्” इति च तस्यै­वो­प­सं­हा­रा­द्ब्र­ह्मैव प्रधानम् । तथाच तदर्थं सत् आकाशपदं प्रधानार्थं भवति, नान्यथा । तस्माद्ब्रह्मैव प्रधा­न­मा­का­श­प­दे­ने­हो­पा­स्य­त्वे­नो­प­क्षिप्तं, न भूताकाशमिति सिद्धम् ।

अपि च ।
अस्यैवोपक्रमे “अन्तवत्किल ते साम” इति

अन्तवत्त्वदोषेण शालावत्यस्येति ।

न चाकाशशब्दो गौणोऽपि विल­म्बि­त­प्र­ति­पत्तिः, तत्र तत्र ब्रह्म­ण्या­का­श­श­ब्दस्य तत्पर्यायस्य च प्रयो­ग­प्रा­चु­र्या­द­त्य­न्ता­भ्या­से­ना­स्यापि मुख्य­व­त्प्र­ति­प­त्ते­र­वि­ल­म्ब­ना­दिति दर्शनार्थं ब्रह्मणि प्रयो­ग­प्रा­चुर्यं वैदिकं निदर्शितं भाष्यकृता । तत्रैव च प्रथ­मा­व­ग­ता­नु­गु­ण्ये­नो­त्तरं नीयते, यत्र तदन्यथा कर्तुं शक्यम् । यत्र तु न शक्यं तत्रो­त्त­रा­नु­गु­ण्ये­नैव प्रथमं नीयत इत्याह -
वाक्यो­प­क्र­मेऽ­पीति ॥ २२ ॥

अत एव प्राणः ।
उद्गीथे “या देवता प्रस्ता­व­म­न्वा­यत्ता”(छा. उ. १ । १० । ९) इत्युपक्रम्य श्रूयते - “कतमा सा देवतेति प्राण इति होवाच”(छा. उ. १ । ११ । ४) उष­स्ति­श्चा­क्रा­यणः । उद्गी­थो­पा­स­न­प्र­स­ङ्गेन प्रस्ता­वो­पा­स­न­म­प्यु­द्गीथ इत्युक्तं भाष्यकृता । प्रस्ताव इति साम्नो भक्ति­वि­शे­ष­स्त­म­न्वा­यत्ता अनुगता प्राणो देवता । अत्र प्राणशब्दस्य ब्रह्मणि वायुविकारे च दर्श­ना­त्सं­श­यः­कि­मयं ब्रह्मवचन उत वायुविकारवचन इति । तत्र अत एव ब्रह्मलिङ्गादेव प्राणोऽपि ब्रह्मैव न वायुविकार इति युक्तम् । यद्येवं तेनैव गतार्थमेतदिति कोऽधि­क­र­णा­न्त­र­स्या­र­म्भार्थः । तत्रोच्यते - “अर्थे श्रुत्यैकगम्ये हि श्रुति­मे­वा­द्रि­या­महे । मानान्तरावगम्ये तु तद्व­शा­त्त­द्व्य­व­स्थितिः” ॥ ब्रह्मणो वास­र्व­भू­त­का­र­णत्वं, आकाशस्य वा वाय्वा­दि­भू­त­का­र­णत्वं प्रति नागमादृते मानान्तरं प्रभवति । तत्र पौर्वा­प­र्य­प­र्या­लो­च­नया यत्रार्थे समञ्जस आगमः स एवार्थस्तस्य गृह्यते, त्यज्यते चेतरः । इह तु संवेशनोद्गमने भूतानां प्राणं प्रत्युच्यमाने किं ब्रह्म प्रत्युच्येते आहो वायुविकारं प्रतीति विशये “यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति”(श. ब्रा. १० । ३ । ३ । ६) इत्यादिकायाः श्रुतेः सर्व­भू­त­सा­रे­न्द्रि­य­सं­वे­श­नो­द्ग­म­न­प्र­ति­पा­द­न­द्वारा सर्व­भू­त­सं­वे­श­नो­द्ग­म­न­प्र­ति­पा­दि­काया माना­न्त­रा­नु­ग्र­ह­ल­ब्ध­सा­म­र्थ्याया बला­त्सं­वे­श­नो­द्ग­मने वायुविकारस्यैव प्राणस्य, न ब्रह्मणः । अपि चात्रो­द्गी­थ­प्र­ति­हा­रयोः साम­भ­क्त्यो­र्ब्र­ह्म­णोऽन्ये आदित्यश्चान्नं च देवते अभिहिते कार्य­का­र­ण­स­ङ्घा­त­रूपे, तत्सा­ह­च­र्या­त्प्रा­णोऽपि कार्य­का­र­ण­स­ङ्घा­त­रूप एव देवता भवितुमर्हति । निर­स्तोऽ­प्य­य­मर्थ ईक्षत्यधिकरणे, पूर्वो­क्त­पू­र्व­प­क्ष­हे­तू­पो­द्ब­ल­नाय पुनरुपन्यस्तः । तस्मा­द्वा­यु­वि­कार एवात्र प्राणशब्दार्थ इति प्राप्तम् । एवं प्राप्तेऽ­भि­धी­यते “पुंवाक्यस्य बलीयस्त्वं माना­न्त­र­स­मा­ग­मात् । अपौरुषेये वाक्ये तत्सङ्गतिः किं करिष्यति” ॥ नो खलु स्वतः­सि­द्ध­प्र­मा­ण­भा­व­म­पौ­रु­षेयं वचः स्ववि­ष­य­ज्ञा­नो­त्पादे वा तद्व्यवहारे वा माना­न्त­र­म­पे­क्षते, तस्यापौरुषेयस्य निर­स्त­स­म­स्त­दो­षा­श­ङ्कस्य स्वत एव निश्चायकत्वात् , निश्च­य­पू­र्व­क­त्वा­द्व्य­व­हा­र­प्र­वृत्तेः । तस्मादसंवादिनो वा चक्षुष इव रूपे त्वगि­न्द्रि­य­सं­वा­दिनो वा तस्यैव द्रव्ये नादार्ढ्यं वा दार्ढ्यं वा । तेन स्तामि­न्द्रि­य­मा­त्र­सं­वे­श­नो­द्ग­मने वायुविकारे प्राणे । सर्व­भू­त­सं­वे­श­नो­द्ग­मने तु न ततो वाक्या­त्प्र­ती­येते । प्रतीतौ वा तत्रापि प्राणो ब्रह्मैव भवेन्न वायुविकारः । “यदा सुप्तः स्वप्नं न कञ्चन पश्य­त्य­था­स्मि­न्प्राण एवैकधा भवति”(कौ. उ. ३ । ३) इत्यत्र वाक्ये यथा प्राणशब्दो ब्रह्मवचनः । न चास्मि­न्वा­यु­वि­कारे सर्वेषां भूतानां संवेशनोद्गमने मानान्तरेण दृश्येते । नच माना­न्त­र­सि­द्ध­सं­वा­दे­न्द्रि­य­सं­वे­श­नो­द्ग­म­न­वा­क्य­दा­र्ढ्या­त्स­र्व­भू­त­सं­वे­श­नो­द्ग­म­न­वाक्यं कथ­ञ्चि­दि­न्द्रि­वि­ष­य­तया व्याख्या­न­म­र्हति, स्वतः­सि­द्ध­प्र­मा­ण­भा­वस्य स्वभावदृढस्य माना­न्त­रा­नु­प­यो­गात् । न चास्य तेनैकवाक्यता । एकवाक्यतायां च तदपि ब्रह्मपरमेव स्यादित्युक्तम् । इन्द्रि­य­सं­वे­श­नो­द्ग­मनं त्वव­यु­त्या­नु­वा­दे­नापि घटिष्यते, एकं वृणीते द्वौ वृणीते इतिवत् । नतु सर्वशब्दार्थः सङ्कोचमर्हति । तस्मा­त्प्र­स्ता­व­भक्तिं प्राण­श­ब्दा­भि­धे­य­ब्र­ह्म­दृ­ष्ट्यो­पा­सीत , न वायु­वि­का­र­दृ­ष्ट्येति सिद्धम् । तथा चोपासकस्य प्राणप्राप्तिः कर्मसमृद्धिर्वा फलं भवतीति ।

वाक्यशेषबलेनेति ।
वाक्या­त्सं­नि­धानं दुर्बलमित्यर्थः । उदाहरणान्तरं तु निगदव्याख्यातेन भाष्येण दूषितम् ॥ २३ ॥

ज्योति­श्च­र­णा­भि­धा­नात् ।
इदमामनन्ति - “अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतःपृष्ठेषु सर्वतः पृष्ठे­ष्व­नु­त्त­मे­षू­त्त­मेषु लोकेष्विदं वाव तद्य­दि­द­म­स्मि­न्न­न्तः­पु­रुषे ज्योतिः”(छा. उ. ३ । १३ । ७) इति ।

यज्ज्योतिरतो दिवो द्युलोकात्परं दीप्यते प्रकाशते विश्वतःपृष्ठेषु विश्वेषामुपरि । अस­ङ्कु­च­द्वृ­त्ति­रयं विश्व­श­ब्दोऽ­न­व­य­व­त्वेन संसारमण्डलं ब्रूत इति दर्शयितुमाह -
सर्व­तः­पृ­ष्ठे­षू­त्त­मेषु ।

न चेद­मु­त्त­म­मा­त्र­म­पितु सर्वो­त्त­म­मि­त्याह -
अनुत्तमेषु
नास्त्ये­भ्योऽन्य उत्तम इत्यर्थः । “इदं वाव तद्य­दि­द­म­स्मि­न्पु­रु­षेऽ­न्त­र्ज्योतिः”(छा. उ. ३ । १३ । ७) त्वग्राह्येण शारीरेणोष्मणा, श्रोत्र­ग्रा­ह्येण च पिहितकर्णेन पुंसा घोषेण लिङ्गेनानुमीयते । तत्र शारी­र­स्यो­ष्म­ण­स्त्वचा दर्शनं दृष्टिः, घोषस्य च श्रवणं श्रुतिः, तयोश्च दृष्टिश्रुती ज्योतिष एव, तल्लिङ्गेन तदनुमानादिति । अत्र संशयः - किं ज्योतिःशब्दः तेज उत ब्रह्मेति । किं तावत्प्राप्तं, तेज इति । कुतः, गौण­मु­ख्य­ग्र­ह­ण­वि­षये मुख्यग्रहणस्य “औत्स­र्गि­क­त्वा­द्वा­क्य­स्थ­ते­जो­लि­ङ्गो­प­ल­म्भ­नात् । वाक्या­न्त­रे­णा­नि­य­मा­त्त­द­र्था­प्र­ति­स­न्धितः” ॥ बल­व­द्बा­ध­को­प­नि­पा­तेन खल्वा­का­श­प्रा­ण­शब्दौ मुख्या­र्थ­त्वा­त्प्र­च्या­व्या­न्यत्र प्रतिष्ठापितौ । तदिह ज्योतिष्पदस्य मुख्य­ते­जो­व­च­नत्वे बाध­क­स्ता­व­त्स्व­वा­क्य­शेषो नास्ति । प्रत्युत तेजोलिङ्गमेव “दीप्यते” इति । कोक्षे­य­ज्यो­तिः­सा­रूप्यं च चक्षुष्यो रूपवान् श्रुतो विश्रुतो भव­ती­त्य­ल्प­फ­लत्वं च स्ववाक्ये श्रूयते । न जातु ज्वलनापरनामा दीप्तिर्विना तेजो ब्रह्मणि सम्भवति । न च कौक्षे­य­ज्यो­तिः­सा­रू­प्य­मृते बाह्यात्तोजसो ब्रह्मण्यस्ति । न चौष्ण्य­घो­ष­लि­ङ्ग­द­र्श­न­श्र­व­ण­मौ­द­र्या­त्ते­ज­सोऽ­न्यत्र ब्रह्म­ण्यु­प­प­द्यते । नच महाफलं ब्रह्मो­पा­स­न­म­णी­यसे फलाय कल्पते । औदर्ये तु तेजस्यध्यस्य बाह्यं तेज उपा­स­न­मे­त­त्फ­ला­नु­रूपं युज्यते । तदे­त­त्ते­जो­लि­ङ्गम् । एतदुपोद्बलनाय च निरस्तमपि मर्या­दा­धा­र­ब­हु­त्व­मु­प­न्यस्तं, इह तन्नि­रा­स­का­र­णा­भा­वात् । नच मर्यादावत्त्वं तेजोराशेर्न सम्भवति, तस्य सौर्यादेः सावयवत्वेन तदे­क­दे­श­म­र्या­दा­स­म्भ­वा­त्तस्य चोपास्यत्वेन विधानात् , ब्रह्म­ण­स्त्व­न­व­य­व­स्या­व­य­वो­पा­स­ना­नु­प­पत्तेः, अवयवकल्पनायाश्च सत्यां गतावनवकल्पनात् । नच “पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि”(छा. उ. ३ । १२ । ६) इति ब्रह्म­प्र­ति­पा­दकं वाक्यान्तरं, “यदतः परो दिवो ज्योतिः”(छा. उ. ३ । १३ । ७) शब्दं ब्रह्मणि व्यवस्थापयतीति युक्तम् । नहि संनि­धा­न­मा­त्रा­द्वा­क्या­न्त­रेण वाक्यान्तरगता श्रुतिः शक्या मुख्या­र्था­च्च्या­व­यि­तुम् । नच वाक्या­न्त­रेऽ­धि­क­र­ण­त्वेन द्यौः श्रुता दिव इति मर्यादाश्रुतौ शक्या प्रत्य­भि­ज्ञा­तुम् । अपिच वाक्या­न्त­र­स्यापि ब्रह्मार्थत्वं प्रसाध्यमेव नाद्यापि सिध्यति, तत्कथं तेन नियन्तुं ब्रह्मपरतया “यदतः परः” इति वाक्यं शक्यम् । तस्मात्तेज एव ज्योतिर्न ब्रह्मेति प्राप्तम् । तेजः­क­थ­न­प्र­स्तावे तमःकथनं प्रति­प­क्षो­प­न्या­सेन प्रतिपक्षान्तरे दृढा प्रती­ति­र्भ­व­ती­त्ये­त­द­र्थम् ।

चक्षु­र्वृ­त्ते­र्नि­रो­ध­क­मिति ।
अर्थावरकत्वेन ।

आक्षेप्ताह -
ननु कार्यस्यापीति ।

समाधातैकदेशी ब्रूते -
अस्तु तर्हीति ।
यत्तु तेजोऽ­ब­न्ना­भ्या­म­स­म्पृक्तं तद­त्रि­वृ­त्कृ­त­मु­च्यते ।

आक्षेप्ता दूषयति -
नेति ।
नहि तत्क्व­चि­द­प्यु­प­यु­ज्यते; सर्वा­स्व­र्थ­क्रि­यासु त्रिव­त्कृ­त­स्यै­वो­प­यो­गा­दि­त्यर्थः ।

एकदेशिनः शङ्कामाह -
इदमेवेति ।

आक्षेप्ता निराकरोति -
न ।

प्रयोजनान्तरेति ।
'एकैकां त्रिवृतं त्रिवृतं करवाणि” इति तेजः­प्र­भृ­त्यु­पा­स­ना­मा­त्र­वि­षया श्रुतिर्न सङ्कोचयितुं युक्तेत्यर्थः ।

एवमेकदेशिनि दूषिते परमसमाधाता पूर्वपक्षी ब्रूते -
अस्तु तर्हि त्रिवृ­त्कृ­त­मे­वेति ।
भागिनी युक्ता ।

यद्य­प्या­धा­र­ब­हु­त्व­श्रु­ति­र्ब्र­ह्म­ण्यपि कल्पि­तो­पा­धि­नि­ब­न्धना कथ­ञ्चि­दु­प­प­द्यते, तथापि यथा कार्ये ज्योति­ष्य­ति­श­ये­नो­प­प­द्यते न तथात्रेत्यत उक्तम् -
उपपद्येततरामिति ।

प्राकृतं
प्रकृतेर्जातं, कार्यमिति यावत् । एवं प्राप्त उच्यते - “सर्व­ना­म­प्र­सि­द्धार्थं प्रसा­ध्या­र्थ­वि­घा­त­कृत् । प्रसि­द्ध्य­पेक्षि सत्पू­र्व­वा­क्य­स्थ­म­प­क­र्षति ॥ तद्बलात्तेन नेयानि तेजोलिङ्गान्यपि ध्रुवम् । ब्रह्मण्येव प्रधानं हि ब्रह्मच्छन्दो न तत्र तु” ॥ औत्सर्गिकं ताव­द्य­द­प्र­सि­द्धा­र्था­नु­वा­द­कत्वं यद्वि­धि­वि­भ­क्ति­म­प्य­पू­र्वा­र्था­व­बो­ध­न­स्व­भा­वा­त्प्र­च्या­व­यति । यथा “यस्या­हि­ता­ग्ने­र­ग्नि­र्गृ­हा­न्द­हेत्” “यस्योभयं हवि­रा­र्ति­मा­र्च्छेत्”(तै.ब्रा. ३.७.१) इति । यत्र पुन­स्त­त्प्र­सि­द्ध­म­न्यतो न कथञ्चिदाप्यते, तत्र वचनानि त्वपू­र्व­त्वा­दिति सर्वनाम्नः प्रसि­द्धा­र्थत्वं बलादपनीयते । यथा “यदा­ग्ने­योऽ­ष्टा­क­पालो भवति”(तै.ब्रा. २५.१४.४) इति । तदिह “यदतः परो दिवो ज्योतिः”(छा. उ. ३ । १३ । ७) इति यच्छ­ब्द­सा­म­र्थ्यात् द्युमर्यादेनापि ज्योतिषा प्रसिद्धेन भवितव्यम् । नच तस्य प्रमाणान्तरतः प्रसिद्धिरस्ति । पूर्ववाक्ये च द्युसम्बन्धितया त्रिपाद्ब्रह्म प्रसिद्धमिति प्रसि­द्ध्य­पे­क्षायां तदेव सम्बध्यते । नच प्रधानस्य प्राति­प­दि­का­र्थस्य तत्त्वेन प्रत्यभिज्ञाने तद्विशेषणस्य विभ­क्त्य­र्थ­स्या­न्य­ता­मा­त्रे­णा­न्यता युक्ता । एवं च तद्वाक्यस्थानि तेजो­लि­ङ्गा­न्य­स­म­ञ्ज­सा­नीति ब्रह्मण्येव गमयितव्यानि, गमितानि च भाष्यकृता । तत्र ज्योति­र्ब्र­ह्म­वि­कार इति ज्योतिषा ब्रह्मै­वो­प­ल­क्ष्यते । अथवा प्रकाशमात्रवचनो ज्योतिःशब्दः प्रकाशश्च ब्रह्मेति ब्रह्मणि मुख्य इति ज्योतिर्बह्मेति सिद्धम् ।

प्रकृ­त­हा­ना­प्र­कृ­त­प्र­क्रिये इति ।
प्रसि­द्ध्य­पे­क्षायां पूर्ववाक्यगतं प्रकृतं संनिहितं, अप्रसिद्धं तु कल्प्यं न प्रकृतम् ।

अत एवोक्तम् -
कल्पयत इति ।

सन्दंशन्यायमाह -
न केवलमिति ।

परस्यापि ब्रह्मणो नामा­दि­प्र­ती­क­त्व­व­दिति ।
कौक्षेयं हि ज्योति­र्जी­व­भा­वे­ना­नु­प्र­वि­ष्टस्य परमात्मनो विकारः, जीवाभावे देहस्य शैत्यात् , जीव­त­श्चौ­ष्ण्या­ज्ज्ञा­यते । तस्मा­त्त­त्प्र­ती­क­स्यो­पा­स­न­मु­प­प­न्नम् । शेषं निगदव्याख्यातं भाष्यम् ॥ २४ ॥

छन्दोऽ­भि­धा­ना­न्नेति चेन्न तथा चेतोऽ­र्प­ण­नि­ग­दा­त्तथा हि दर्शनम् ।
पूर्ववाक्यस्य हि ब्रह्मार्थत्वे सिद्धे स्यादेतदेवं, नतु तद्ब्रह्मार्थं, अपितु गायत्र्यर्थम् । “गायत्री वा इदं सर्वं भूतं यदिदं किञ्च”(छा. उ. ३ । १२ । १) इति गायत्रीं प्रकृत्येदं श्रूयते - “त्रिपा­द­स्या­मृतं दिवि”(छा. उ. ३ । १२ । ६) इति । ननु “आका­श­स्त­ल्लि­ङ्गात्”(ब्र. सू. १ । १ । २२) इत्यनेनैव गतार्थमेतत् । तथाहि - “तावानस्य महिमा”(छा. उ. ३ । १२ । ६) इत्यस्यामृचि ब्रह्म चतुष्पादुक्तम् । सैव च “तदे­त­दृ­चा­भ्य­नू­क्तम्”(छा. उ. ३ । १२ । ५) इत्यनेन सङ्गमितार्था ब्रह्मलिङ्गम् । एवं “गायत्री वा इदं सर्वम्”(छा. उ. ३ । १२ । १) इत्य­क्ष­र­सं­नि­वे­श­मा­त्रस्य गायत्र्या न सर्व­त्व­मु­प­प­द्यते । नच भूत­पृ­थि­वी­श­री­र­हृ­द­य­वा­क्प्रा­णा­त्मत्वं गायत्र्याः स्वरूपेण सम्भवति । नच ब्रह्म­पु­रु­ष­स­म्ब­न्धि­त्व­मस्ति गायत्र्याः । तस्मा­द्गा­य­त्री­द्वारा ब्रह्मण एवोपासना न गायत्र्या इति पूर्वेणैव गता­र्थ­त्वा­द­ना­र­म्भ­णी­य­मे­तत् । नच पूर्व­न्या­य­स्मा­रणे सूत्रसन्दर्भ एतावान्युक्तः । अत्रोच्यते - अस्त्यधिका शङ्का । तथा­हि­गा­य­त्री­द्वारा ब्रह्मोपासनेति कोऽर्थः, गाय­त्री­वि­का­रो­पा­धिनो ब्रह्मण उपासनेति । नच तदु­पा­धि­न­स्त­द­व­च्छि­न्नस्य सर्वात्मत्वं, उपाधेरवच्छेदात् । नहि घटावच्छिन्नं नभोऽनवच्छिन्नं भवति । तस्मादस्य सर्वा­त्म­त्वा­दिकं स्तुत्यर्थं, तद्वरं गायत्र्या एवास्तु स्तुतिः कया­चि­त्प्र­णाड्या । “वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च”(छा. उ. ३ । १२ । ६) इत्या­दि­श्रु­तिभ्यः । तथाच “गायत्री वा इदं सर्वम्” इत्युपक्रम्य गायत्र्या एव हृद­या­दि­भि­र्व्या­ख्याय च “सैषा चतुष्पदा षड्विधा गायत्री”(छा. उ. ३ । १२ । ५) इत्युपसंहारो गायत्र्यामेव समञ्जसो भवति । ब्रह्मणि तु सर्व­मे­त­द­स­म­ञ्ज­स­मिति । “यद्वै तद्ब्रह्म”(छा. उ. ३ । १२ । ७) इति च ब्रह्म­श­ब्द­श्छ­न्दो­वि­षय एव, यथा “एतां ब्रह्मोपनिषदम्” इत्यत्र वेदोपनिषदुच्यते । तस्मा­द्गा­य­त्री­छ­न्दो­भि­धा­नान्न ब्रह्म­वि­ष­य­मे­त­दिति प्राप्तम् ।

एवं प्राप्तेऽ­भि­धी­यते -
न ।

कुतः,
तथा चेतोर्पणनिगदात् ।
गाय­त्र्या­ख्य­च्छ­न्दो­द्वा­रेण गाय­त्री­रू­प­वि­का­रा­नु­गते ब्रह्मणि चेतोर्पणं चित्तसमाधानमनेन ब्राह्मणवाक्येन निगद्यते । एतदुक्तं भवति - न गायत्री ब्रह्म­णोऽ­व­च्छे­दिका, उत्पलस्येव नीलत्वं, येन तद­व­च्छि­न्न­त्व­म­न्यत्र न स्याद­व­च्छे­द­क­वि­र­हात् । किन्तु यदेतद्ब्रह्म सर्वात्मकं सर्वकारणं तत्स्व­रू­पे­णा­श­क्यो­प­दे­श­मिति तद्वि­का­र­गा­य­त्री­द्वा­रे­णो­प­ल­क्ष्यते । गायत्र्याः सर्व­च्छ­न्दो­व्याप्त्या च सव­न­त्र­य­व्याप्त्या च द्विजा­ति­द्वि­ती­य­ज­न्म­ज­न­नी­य­तया च श्रुते­र्वि­का­रेषु मध्ये प्राधान्येन द्वार­त्वो­प­पत्तेः । न चान्य­त्रो­प­ल­क्ष­णा­भा­वेन नोपलक्ष्यं प्रतीयते । नहि कुण्ड­ले­नो­प­ल­क्षितं कण्ठरूपं कुण्डलवियोगेऽपि पश्चा­त्प्र­ती­य­मा­न­म­प्र­ती­य­मानं भवति । तद्रू­प­प्र­त्या­य­न­मा­त्रो­प­यो­गि­त्वा­दु­प­ल­क्ष­णा­ना­म­न­व­च्छे­द­क­त्वात् ।

तदेवं गायत्रीशब्दस्य मुख्यार्थत्वे गायत्र्या ब्रह्मोपलक्ष्यत इत्युक्तम् । सम्प्रति तु गायत्रीशब्दः सङ्ख्या­सा­मा­न्या­द्गौण्या वृत्त्या ब्रह्मण्येव वर्तत इति दर्शयति -
अपर आहेति ।
तथाहि - षडक्षरैः पादैर्यथा गायत्री चतुष्पदा, एवं ब्रह्मापि चतुष्पात् । सर्वाणि हि भूतानि स्थाव­र­ज­ङ्ग­मा­न्य­स्यैकः पादः । दिवि द्योतनवति चैतन्यरूपे । स्वात्मनीति यावत् । त्रयः पादाः । अथवा दिव्याकाशे त्रयः पादाः । तथाहि श्रुतिः - “इदं वाव तद्योऽयं बहिर्धा पुरुषादाकाशः”(छा. उ. ३ । १२ । ७) तद्धि तस्य जागरितस्थानम् । जाग्रत्खल्वयं बाह्या­न्प­दा­र्था­न्वेद । तथा - “अयं वाव स योऽयमन्तः पुरुष आकाशः”(छा. उ. ३ । १२ । ८) । शरीरमध्य इत्यर्थः । तद्धि तस्य स्वप्नस्थानम् । तथा “अयं वाव स योऽयमन्तर्हृदय आकाशः”(छा. उ. ३ । १२ । ९) । हृदयपुण्डरीक इत्यर्थः । तद्धि तस्य सुषुप्तिस्थानम् । तदेतत् “त्रिपा­द­स्या­मृतं दिवि”(छा. उ. ३ । १२ । ६) इत्युक्तम् । तदेवं चतु­ष्पा­त्त्व­सा­मा­न्या­द्गा­य­त्री­श­ब्देन ब्रह्मोच्यत इति ।

अस्मिन्पक्षे ब्रह्मै­वा­भि­हि­ति­मिति ।
ब्रह्म­प­र­त्वा­द­भि­हि­त­मि­त्यु­क्तम् ॥ २५ ॥

षड्विधेति ।
भूत­पृ­थि­वी­श­री­र­हृ­द­य­वा­क्प्राणा इति षट्प्रकारा गायत्र्याख्यस्य ब्रह्मणः श्रूयन्ते ।

पञ्च ब्रह्मपुरुषा इति च, हृदयसुषिषु ब्रह्म­पु­रु­ष­श्रु­ति­र्ब्र­ह्म­स­म्ब­न्धि­तायां विवक्षितायां सम्भवति ।
अस्यार्थः - हृदयस्यास्य खलु पञ्च सुषयः पञ्च छिद्राणि । तानि च देवैः प्राणादिभी रक्ष्यमाणानि स्वर्ग­प्रा­प्ति­द्वा­रा­णीति देवसुषयः । तथाहि - हृदयस्य यत्प्राङ्मुखं छिद्रं तत्स्थो यो वायुः स प्राणः, तेन हि प्रयाणकाले सञ्चरते स्वर्गलोकं, स एव चक्षुः, स एवादित्य इत्यर्थः । “आदित्यो ह वै बाह्यः प्राणः”(प्र.उ. ३.८) इति श्रुतेः । अथ योऽस्य दक्षिणः सुषिस्तत्स्थो वायुविशेषो व्यानः । तत्सम्बद्धं श्रोत्रं तच्चन्द्रमाः, “श्रोत्रेण सृष्टा विश­श्च­न्द्र­माश्च”(ऐ .आ. २.१.७) इति श्रुतेः । अथ योऽस्य प्रत्यङ्मुखः सुषिस्तत्स्थो वायुविशेषोऽपानः स च वाक्स­म्ब­न्धा­द्वाक् , “वाग्वा अग्निः”(श.ब्रा. ६.१.२.२८) इति श्रुतेः । अथ योऽस्योदङ्मुखः सुषिस्तत्स्थो वायुविशेषः स समानः, तत्सम्बद्धं मनः, तत्पर्जन्यो देवता । अथ योऽस्योर्ध्वः सुषिस्तत्स्थो वायुविशेषः स उदानः, पाद­त­ला­दा­र­भ्योर्ध्वं नयनात् । स वायु­स्त­दा­धा­र­श्चा­काशो देवता । ते वा एते पञ्च सुषयः । तत्सम्बद्धाः पञ्च हार्दस्य ब्रह्मणः पुरुषा न गाय­त्र्या­म­क्ष­र­सं­नि­वे­श­मात्रे सम्भवन्ति, किन्तु ब्रह्मण्येवेति ॥ २६ ॥

यथा लोक इति ।
यदाधारत्वं मुख्यं दिवस्तदा कथञ्चिन्मर्यादा व्याख्येया । यो हि श्येनो वृक्षाग्रे वस्तुतोऽस्ति स च ततः परोऽप्यस्त्येव । अर्वा­ग्भा­गा­ति­रि­क्त­म­प्य­प­र­भा­ग­स्थस्य तस्यैव वृक्षा­त्प­र­तोऽ­व­स्था­नात् । एवं च बाह्य­द्यु­भा­गा­ति­रि­क्त­शा­री­र­हा­र्द­द्यु­भा­ग­स्थस्य ब्रह्मणो बाह्यात् द्युभा­गा­त्प­र­तोऽ­व­स्था­न­मु­प­प­न्नम् । यदा तु मर्यादैव मुख्यतया प्राधान्येन विवक्षिता तदा लक्षणयाधारत्वं व्याख्येयम् । यथा गङ्गायां घोष इत्यत्र सामीप्यादिति ।

तदिदमुक्तम् -
अपर आहेति ।
अत एव दिवः परमपीत्युक्तम् ॥ २७ ॥

प्राण­स्त­था­नु­ग­मात् ।
'अने­क­लि­ङ्ग­स­न्दोहे बलवत्कस्य किं भवेत् । लिङ्गिनो लिङ्गमित्यत्र चिन्त्यते प्रागचिन्तितम्” ॥ मुख्य­प्रा­ण­जी­व­दे­व­ता­ब्र­ह्म­णा­म­ने­केषां लिङ्गानि बहूनि सम्प्लवन्ते, तत्कतमदत्र लिङ्गं, लिङ्गाभासं च कतमदित्यत्र विचार्यते । न चायमर्थः “अत एव प्राणः”(ब्र.सू. १.१.२३) इत्यत्र विचारितः । स्यादेतत् । हित­त­म­पु­रु­षा­र्थ­सि­द्धिश्च निखि­ल­भ्रू­ण­ह­त्या­दि­पा­पा­प­रा­म­र्शश्च प्रज्ञात्मत्वं चानन्दादिश्च न मुख्ये प्राणे सम्भवन्ति । तथा “एष साधु कर्म कारयति”(कौ.उ. ३.८) “एष लोकाधिपतिः”(कौ. उ. ३ । ९) इत्याद्यपि । जीवे तु प्रज्ञात्मत्वं कथ­ञ्चि­द्भ­वे­दि­त­रेषां त्वसम्भवः । वक्तृत्वं च वाक्क­र­ण­व्या­पा­र­वत्त्वं यद्यपि परमात्मनि स्वरूपेण न सम्भवति तथा­प्य­न­न्य­था­सि­द्ध­ब­हु­ब्र­ह्म­लि­ङ्ग­वि­रो­ध­प­रि­हा­राय जीवद्वारेण ब्रह्मण्येव कथ­ञ्चि­द्व्या­ख्येयं जीवस्य ब्रह्मणोऽभेदात् । तथाच श्रुतिः - “यद्वा­चा­न­भ्यु­दितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि”(के. उ. १ । ५) इति वाग्वदनस्य ब्रह्म कारणमित्याह । शरीराधारणमपि यद्यपि मुख्यप्राणस्यैव तथापि प्राणव्यापारस्य पर­मा­त्मा­य­त्त­त्वा­त्प­र­मा­त्मन एव । यद्यपि चात्रे­न्द्र­दे­व­ताया विग्रहवत्या लिङ्गमस्ति, तथाहि - इन्द्रधामगतं प्रतर्दनं प्रतीन्द्र उवाच, “मामेव विजानीहि”(कौ. उ. ३ । १)“मामेव विजानीहि”(कौ. उ. ३ । १) इत्युपक्रम्य, “प्राणोऽ­स्मि­प्र­ज्ञात्मा”(कौ. उ. ३ । २) इत्यात्मनि प्राण­श­ब्द­मु­च्च­चार । प्रज्ञात्मत्वं चास्योपपद्यते, देव­ता­ना­म­प्र­ति­ह­त­ज्ञा­न­श­क्ति­त्वात् । साम­र्थ्या­ति­श­या­च्चे­न्द्रस्य हित­त­म­पु­रु­षा­र्थ­हे­तु­त्व­मपि । मनु­ष्या­धि­का­र­त्वा­च्छा­स्त्रस्य देवा­न्प्र­त्य­प्र­वृ­त्ते­र्भ्रू­ण­ह­त्या­दि­पा­पा­प­रा­म­र्श­स्यो­प­पत्तेः । लोकाधिपत्यं चेन्द्र­स्य­लो­क­पा­ल­त्वात् । आनन्दादिरूपत्वं च स्वर्ग­स्यै­वा­न­न्द­त्वात् । “आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते”(वि. पु. २ । ८ । ९७) इति स्मृते­श्चा­मृ­त­त्व­मि­न्द्रस्य । “त्वाष्ट्र­म­ह­नम्” इत्याद्या च विग्रहवत्त्वेन स्तुति­स्त­त्रै­वो­प­प­द्यते । तथापि पर­म­पु­रु­षा­र्थ­स्या­प­व­र्गस्य पर­ब्र­ह्म­ज्ञा­ना­द­न्य­तोऽ­न­वाप्तेः, परमानन्दरूपस्य मुख्य­स्या­मृ­त­त्व­स्या­ज­र­त्वस्य च ब्रह्म­रू­पा­व्य­भि­चा­रात् , अध्या­त्म­स­म्ब­न्ध­भू­म्नश्च परा­ची­न्द्रेऽ­नु­प­पत्तेः, इन्द्रस्य देवताया आत्मनि प्रतिबुद्धस्य चरमदेहस्य वामदेवस्येव प्रर­ब्ध­वि­पा­क­क­र्मा­श­य­मात्रं भोगेन क्षपयतो ब्रह्मण एव सर्वमेतत्कल्पत इति विग्र­ह­व­दि­न्द्र­जी­व­प्रा­ण­वा­यु­प­रि­त्या­गेन ब्रह्मैवात्र प्राणशब्दं प्रतीयत इति पूर्व­प­क्षा­भा­वा­द­ना­र­भ्य­मे­त­दिति । अत्रोच्यते - “यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः सह ह्येतवस्मिन् शरीरे वसतः सहोत्क्रामतः”(कौ. उ. ३ । ३) इति यस्यैव प्राणस्य प्रज्ञात्मन उपास्यत्वमुक्तं तस्यैव प्राणस्य प्रज्ञात्मना सहो­त्क्र­म­ण­मु­च्यते । नच ब्रह्मण्यभेदे द्विवचनं, न सहभावः न चोत्क्रमणम् । तस्माद्वायुरेव प्राणः । जीवश्च प्रज्ञात्मा । सह प्रवृ­त्ति­नि­वृत्त्या भक्त्यै­क­त्व­म­न­यो­रु­प­च­रितं “यो वै प्राणः”(कौ. उ. ३ । ३) इत्यादिना । आन­न्दा­म­रा­ज­रा­प­ह­त­पा­प्म­त्वा­द­यश्च ब्रह्मणि प्राणे भविष्यन्ति । तस्माद्यथायोगं त्रय एवात्रोपास्याः । न चैष वाक्यभेदो दोषमावहति । वाक्या­र्था­व­ग­मस्य पदा­र्था­व­ग­म­पू­र्व­क­त्वात् । पदार्थानां चोक्तेन मार्गेण स्वातन्त्र्यात् । तस्मा­दु­पा­स्य­भे­दा­दु­पा­सा­त्रै­वि­ध्य­मिति पूर्वः पक्षः । सिद्धान्तस्तु - सत्यं पदार्थावगमोपायो वाक्यार्थावगमः, नतु पदा­र्था­व­ग­म­प­रा­ण्येव पदानि, अपि त्वेक­वा­क्या­र्था­व­ग­म­प­राणि । तमेव त्वेकं वाक्यार्थं पदा­र्था­व­ग­म­म­न्त­रेण न शक्नुवन्ति कर्तुमित्यन्तरा तदर्थमेव तमप्यवगमयन्ति, तेन पदानि विशि­ष्टै­का­र्था­व­बो­ध­न­स्व­र­सा­न्येव बल­व­द्बा­ध­को­प­नि­पा­ता­न्ना­ना­र्थ­बो­ध­प­रतां नीयन्ते । यथाहुः - “सम्भ­व­त्ये­क­वा­क्यत्वे वाक्यभेदश्च नेष्यते” इति । तेन यथो­पां­शु­या­ज­वाक्ये जामि­ता­दो­षो­प­क्रमे तत्प्र­ति­स­मा­धा­नो­प­सं­हारे चैकवाक्यत्वाय “प्रजा­प­ति­रु­पांशु यष्टव्यः” इत्यादयो न पृथग्विधयः किन्त्वर्थवादा इति निर्णीतं, तथेहापि “मामेव विजानीहि” इत्युपक्रम्य, “प्राणोऽस्मि प्रज्ञात्मा”(कौ. उ. ३ । २) इत्युक्त्वान्ते “स एष प्राण एव प्रज्ञा­त्मा­न­न्दोऽ­ज­रोऽ­मृतः”(कौ. उ. ३ । ९) इत्यु­प­सं­हा­रा­द्ब्र­ह्म­ण्ये­क­वा­क्य­त्वा­व­गतौ सत्यां जीव­मु­ख्य­प्रा­ण­लिङ्गे अपि तदनुगुणतया नेतव्ये । अन्यथा वाक्य­भे­द­प्र­स­ङ्गात् । यत्पु­न­र्भे­द­द­र्शनं “सह ह्येतौ”(कौ. उ. ३ । ३) इति, तज्ज्ञा­न­क्रि­या­श­क्ति­भे­देन बुद्धिप्राणयोः प्रत्य­गा­त्मो­पा­धि­भू­त­यो­र्नि­र्देशः प्रत्य­गा­त्मा­न­मे­वो­प­ल­क्ष­यि­तुम् । अत एवोपलक्ष्यस्य प्रत्य­गा­त्म­स्व­रू­प­स्या­भे­द­मु­प­ल­क्षणं भेदेनोपलक्षयति “प्राण एव प्रज्ञात्मा”(कौ. उ. ३ । ९) इति । “तस्मा­द­न­न्य­था­सि­द्ध­ब्र­ह्म­लि­ङ्गा­नु­सा­रातः । एक­वा­क्य­ब­ला­त्प्रा­ण­जी­व­लि­ङ्गो­प­पा­द­नम्” इति सङ्ग्रहः ॥ २८ ॥ ॥ २९ ॥ ॥ ३० ॥

न ब्रह्मवाक्यं भवितुमर्हतीति ।
नैष सन्दर्भो ब्रह्मवाक्यमेव भवितुमर्हतीति, किन्तु तथायोगं किञ्चिदत्र जीववाक्यं, किञ्चि­न्मु­ख्य­प्रा­ण­वाक्यं, किञ्चि­द्ब्र­ह्म­वा­क्य­मि­त्यर्थः ।

प्रज्ञा­सा­ध­न­प्रा­णा­न्त­रा­श्र­य­त्वा­दिति ।
प्राणा­न्त­रा­णी­न्द्रि­याणि, तानि हि मुख्ये प्राणे प्रतिष्ठितानि । जीव­मु­ख्य­प्रा­ण­यो­र­न्य­तर इत्यु­प­क्र­म­मा­त्रम् । उभाविति तु पूर्व­प­क्ष­त­त्त्वम् । ब्रह्म तु ध्रुवम् ।

न ब्रह्मेति ।
न ब्रह्मै­वे­त्यर्थः ।

दशानां भूतमात्राणामिति ।
पञ्च शब्दादयः, पञ्च पृथिव्यादय इति दश भूतमात्राः । पञ्च बुद्धी­न्द्रि­याणि पञ्च बुद्धय इति दश प्रज्ञामात्राः ।

तदेवं स्वमतेन व्याख्याय प्राचां वृत्तिकृतां मतेन व्याचष्टे -
अथवेति ।
पूर्वं प्राण­स्यै­क­मु­पा­स­न­म­परं जीवस्यापरं ब्रह्मण इत्यु­पा­स­ना­त्रै­वि­ध्येन वाक्य­भे­द­प्र­सङ्गो दूषणमुक्तम् । इह तु ब्रह्मण एक­स्यै­वो­पा­सा­त्र­य­वि­शि­ष्टस्य विधानान्न वाक्यभेद इत्यभिमानः प्राचां वृत्तिकृताम् । तदेतदालोचनीयं कथं न वाक्यभेद इति । युक्तं “सोमेन यजेत” इत्यादौ सोमा­दि­गु­ण­वि­शि­ष्ट­या­ग­वि­धानं, तद्गु­ण­वि­शि­ष्ट­स्या­पू­र्वस्य कर्म­णोऽ­प्रा­प्तस्य विधिविषयत्वात् । इह तु सिद्धरूपं ब्रह्म न विधिविषयो भवितुमर्हति, अभावार्थत्वात् । भावार्थस्य विधि­वि­ष­य­त्व­नि­य­मात् । वाक्या­न्त­रे­भ्यश्च ब्रह्मावगतेः प्राप्त­त्वा­त्त­द­नू­द्या­प्रा­प्तो­पा­सना भावार्थो विधेयस्तस्य च भेदा­द्वि­ध्या­वृ­त्ति­ल­क्षणो वाक्य­भे­दोऽ­ति­स्फुट इति भाष्यकृता नोद्घाटितः, स्वव्या­ख्या­ने­नै­वो­क्त­प्रा­य­त्वा­दिति सर्वमवदातम् ॥ ३१ ॥
इति श्रीवा­च­स्प­ति­मि­श्र­वि­र­चिते भाष्यविभागे भामत्यां प्रथ­म­स्या­ध्या­यस्य प्रथमः पादः ॥ १ ॥
इति प्रथ­म­स्या­ध्या­यस्य स्पष्ट­ब्र­ह्म­लि­ङ्ग­श्रु­ति­स­म­न्व­याख्यः प्रथमः पादः ॥

अथ द्वितीयं पादमारिप्सुः पूर्वोक्तमर्थं स्मारयति वक्ष्य­मा­णो­प­यो­गि­तया -
प्रथमे पाद इति ।
उत्तरत्र हि ब्रह्मणो व्यापि­त्व­नि­त्य­त्वा­दयः सिद्ध­व­द्धे­तु­त­यो­प­दे­क्ष्यन्ते ।

न चैते साक्षा­त्पू­र्व­मु­प­पा­दिता इति कथं हेतुभावेन न शक्या उपदेष्टुमित्यत उक्तम् -
सम­स्त­ज­ग­त्का­र­ण­स्येति ।
यद्यप्येते न पूर्वं कण्ठत उक्तास्तथापि ब्रह्मणो जग­ज्ज­न्मा­दि­का­र­ण­त्वो­प­प­दा­ने­ना­धि­क­र­ण­सि­द्धा­न्त­न्या­ये­नो­प­क्षिप्ता इत्यु­प­प­न्न­स्ते­षा­मु­त्त­रत्र हेतु­भा­वे­नो­प­न्यास इत्यर्थः ।

अर्था­न्त­र­प्र­सि­द्धानां चेति ।
यत्रा­र्था­न्त­र­प्र­सिद्धा एवा­का­श­प्रा­ण­ज्यो­ति­रा­दयो ब्रह्मणि व्याख्यायन्ते, तद­व्य­भि­चा­रि­लि­ङ्ग­श्र­व­णात् । तत्र कैव कथा मनो­म­या­दी­ना­म­र्था­न्तरे प्रसिद्धानां पदानां ब्रह्म­गो­च­र­त्व­नि­र्णयं प्रती­त्य­भि­प्रायः । पूर्व­प­क्षा­भि­प्रायं त्वग्रे दर्शयिष्यामः ।

सर्वत्र प्रसि­द्धो­प­दे­शात् । इदमाम्नायते । सर्वं खल्विदं ब्रह्म ।

कुतः,
तज्जलानिति ।
यत­स्त­स्मा­द्ब्र­ह्मणो जायत इति तज्जं, तस्मिंश्च लीयत इति तल्लं, तस्मिंश्चानिति स्थितिकाले चेष्टत इति तदनं जगत् तस्मात्सर्वं खल्विदं जगद्ब्रह्म । अतः कः कस्मिन्रज्यते कश्च कं द्वेष्टीति रागद्वेषरहितः शान्तः सन्नुपासीत ।

अथ खलु क्रतुमयः पुरुषो यथा­क्र­तु­र­स्मिं­ल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत मनोमयः प्राणशरीर इत्यादि ।
तत्र संशयः - किमिह मनो­म­य­त्वा­दि­भि­र्धर्मैः शारीर आत्मो­पा­स्य­त्वे­नो­प­दि­श्यते आहो­स्वि­द्ब्र­ह्मेति । किं तावत्प्राप्तम् । शारीरो जीव इति । कुतः । “क्रतुम्” इत्यादिवाक्येन विहितां क्रतु­भा­व­ना­म­नूद्य “सर्वम्” इत्यादिवाक्यं शमगुणे विधिः । तथा च “सर्वं खल्विदं ब्रह्म”(छा. उ. ३ । १४ । १)“सर्वं खल्विदं ब्रह्म”(छा. उ. ३ । १४ । १) इति वाक्यं प्रथ­म­प­ठि­त­म­प्य­र्था­लो­च­नया परमेव, तद­र्थो­प­जी­वि­त्वात् । एवं च सङ्कल्पविधिः प्रथमो निर्विषयः सन्न­प­र्य­व­स्य­न्वि­ष­या­पेक्षः स्वयमनिर्वृत्तो न विध्य­न्त­रे­णो­प­जी­वितुं शक्यः, अनुपपादकत्वात् । तस्मा­च्छा­न्त­ता­गु­ण­वि­धा­ना­त्पू­र्व­मेव “मनोमयः प्राणशरीरः”(छा. उ. ३ । १४ । २) इत्या­दि­भि­र्वि­ष­यो­प­ना­यकैः सम्बध्यते । मनोमयत्वादि च कार्य­का­र­ण­स­ङ्घा­ता­त्मनो जीवात्मन एव निरूढमिति जीवा­त्म­नो­पा­स्ये­नो­प­र­क्तो­पा­सना न पश्चात्ब्रह्मणा सम्बद्धुमर्हति, उत्प­त्ति­शि­ष्ट­गु­णा­व­रो­धात् । नच “सर्वं खल्विदम्”(छा. उ. ३ । १४ । १) इति वाक्यं ब्रह्मपरमपि तु शम­हे­तु­व­न्नि­ग­दा­र्थ­वादः शान्तताविधिपरः, “शूर्पेण जुहोति” “तेन ह्यन्नं क्रियते” इतिवत् । न चान्यपरादपि ब्रह्मा­पे­क्षि­त­तया स्वीक्रियत इति युक्तं, मनो­म­य­त्वा­दि­भि­र्ध­र्मै­र्जीवे सुप्र­सि­द्धै­र्जी­व­वि­ष­य­स­म­र्प­णे­ना­न­पे­क्षि­त­त्वात् । सर्वकर्मत्वादि तु जीवस्य पर्यायेण भविष्यति । एवं चाणी­य­स्त्व­म­प्यु­प­प­न्नम् । पर­मा­त्म­न­स्त्व­प­रि­मे­यस्य तदनुपपत्तिः । प्रथमावगतेन चाणीयस्त्वेन ज्यायस्त्वं तदनुगुणतया व्याख्येयम् । व्याख्यातं च भाष्यकृता । एवं कर्म­क­र्तृ­व्य­प­देशः सप्त­मी­प्र­थ­मा­न्तता चाभेदेऽपि जीवात्मनि कथ­ञ्चि­द्भे­दो­प­चा­रेण राहोः शिर इति­व­द्द्र­ष्टव्या । ‘एतद्ब्रह्म’ इति च जीवविषयं, जीवस्यापि देहा­दि­बृं­ह­ण­त्वेन ब्रह्मत्वात् । एवं सत्य­स­ङ्क­ल्प­त्वा­द­योऽपि परमात्मवर्तिनो जीवेऽपि सम्भवन्ति, तदव्यतिरेकात् । तस्माज्जीव एवो­पा­स्य­त्वे­नात्र विवक्षितः, न परमात्मेति प्राप्तम् । एवं प्राप्तेऽ­भि­धी­यते - “समासः सर्वनामार्थः संनि­कृ­ष्ट­म­पे­क्षते । तद्धितार्थोऽपि सामान्यं नापेक्षाया निवर्तकः ॥ तस्मादपेक्षितं ब्रह्म ग्राह्य­म­न्य­प­रा­दपि । तथा च सत्य­स­ङ्क­ल्प­प्र­भृ­तीनां यथार्थता” ॥ भवेदेतदेवं यदि प्राणशरीर इत्यादीनां साक्षा­ज्जी­व­वा­च­कत्वं भवेत् । न त्वेतदस्ति । तथा हि - प्राणः शरीरमस्येति सर्वनामार्थो बहुव्रीहिः संनिहितं च सर्वनामार्थं सम्प्राप्य तदभिधानं पर्यवस्येत् । तत्र मनोमयपदं पर्यवसिताभिधानं तद­भि­धा­न­प­र्य­व­सा­ना­यालं, तदेव तु मनोविकारो वा मनःप्रचुरं वा किम­र्थ­मि­त्य­द्यापि न विज्ञायते । तद्यत्रैष शब्दः समवेतार्थो भवति स समासार्थः । न चैष जीव एव समवेतार्थो न ब्रह्मणीति, तस्य “अप्राणो ह्यमनाः”(मु. उ. २ । १ । २) इत्या­दि­भि­स्त­द्वि­र­ह­प्र­ति­पा­द­ना­दिति युक्तम् , तस्यापि सर्व­वि­का­र­का­र­ण­तया, विकाराणां च स्वका­र­णा­द­भे­दा­त्तेषां च मनोमयतया ब्रह्म­ण­स्त­त्का­र­णस्य मनो­म­य­त्वो­प­पत्तेः । स्यादेतत् । जीवस्य साक्षा­न्म­नो­म­य­त्वा­दयः, ब्रह्मणस्तु तद्द्वारा । तत्र प्रथमं द्वारस्य बुद्धि­स्थ­त्वा­त्त­दे­वो­पा­स्य­मस्तु, न पुनर्जघन्यं ब्रह्म । ब्रह्मलिङ्गानि च जीवस्य ब्रह्म­णोऽ­भे­दा­ज्जी­वेऽ­प्यु­प­प­त्स्यन्ते । तदेतदत्र सम्प्रधार्यम् - किं ब्रह्म­लि­ङ्गै­र्जी­वानां तदभिन्नानामस्तु तद्वत्ता, तथाच जीवस्य मनोमयत्वादिभिः प्रथ­म­म­व­ग­मा­त्त­स्यै­वो­पा­स्यत्वं, उत न जीवस्य ब्रह्म­लि­ङ्ग­वत्ता तदभिन्नस्यापि । जीवलिङ्गैस्तु ब्रह्म तद्वत्, तथाच ब्रह्मलिङ्गानां दर्शनात् , तेषां च जीवेऽ­नु­प­प­त्ते­र्ब्र­ह्मै­वो­पा­स्य­मिति । वयं तु पश्यामः “समारोप्यस्य रूपेण विषयो रूपवान्भवेत् । विषयस्य तु रूपेण समारोप्यं न रूपवत्” ॥ समारोपितस्य हि रूपेण भुजङ्गस्य भीषणत्वादिना रज्जू रूपवती, नतु रज्जू­रू­पे­णा­भि­ग­म्य­त्वा­दिना भुजङ्गो रूपवान् । तदा भुज­ङ्ग­स्यै­वा­भा­वात्किं रूपवत् । भुजङ्गदशायां तु न नास्ति वास्तवी रज्जुः । तदिह समा­रो­पि­त­जी­व­रू­पेण वस्तुसद्ब्रह्म रूपवद्युज्यते, नतु ब्रह्म­रू­पै­र्नि­त्य­त्वा­दि­भि­र्जी­व­स्त­द्वा­न्भ­वि­तु­म­र्हति, तस्य तदानीमसम्भवात् । तस्मा­द्ब्र­ह्म­लि­ङ्ग­द­र्श­ना­ज्जीवे च तद­स­म्भ­वा­द्ब्र­ह्मै­वो­पास्यं न जीव इति सिद्धम् । एतदुपलक्षणाय च “सर्वं खल्विदं ब्रह्म” इति वाक्य­मु­प­न्य­स्त­मिति ॥ १ ॥

यद्यप्यपौरुषेय इति ।
शास्त्र­यो­नि­त्वेऽ­पी­श्व­रस्य पूर्व­पू­र्व­सृ­ष्टि­र­चि­त­स­न्द­र्भा­पे­क्ष­र­च­न­त्वे­ना­स्वा­त­न्त्र्या­द­पौ­रु­षे­य­त्वा­भि­धानं, तथा चास्वा­त­न्त्र्येण विवक्षा नास्तीत्युक्तम् । परि­ग्र­ह­प­रि­त्यागौ चोपादनानुपादाने उक्ते, न तूपादेयत्वमेव । अन्य­थो­द्दे­श्य­त­या­नु­पा­दे­यस्य ग्रहा­दे­र­वि­व­क्षि­त­त्वेन चमसादावपि संमा­र्ग­प्र­स­ङ्गात् । तस्मा­द­नु­पा­दे­य­त्वेऽपि ग्रह उद्देश्यतया परिगृहीतो विवक्षितः । तद्गतं त्वेक­त्व­म­व­च्छे­द­क­त्वेन वर्जि­त­म­वि­व­क्षि­तम् । इच्छानिच्छे च भक्तितः ।

तदिदमुक्तम् -
वेद­वा­क्य­ता­त्प­र्या­ता­त्प­र्या­भ्या­म­व­ग­म्येते इति ।
यत्परं वेदवाक्यं तत्तेनोपात्तं विवक्षितम् , अतत्परेण चानु­पा­त्त­म­वि­व­क्षि­त­मि­त्यर्थः ॥ २ ॥

स्यादेतत् । यथा सत्य­स­ङ्क­ल्प­त्वा­दयो ब्रह्म­ण्यु­प­प­द्यन्ते, एवं शारी­रेऽ­प्यु­प­प­त्स्यन्ते, शारीरस्य ब्रह्मणोऽभेदात् । शारीरगुणा इव मनोमयत्वादयो ब्रह्मणीत्यत आह सूत्रकारः -
अनुपपत्तेस्तु न शारीरः ॥ ३ ॥ ॥ ४ ॥ ॥ ५ ॥

यत्तदवोचाम समारोप्यधर्माः समारोपविषये सम्भवन्ति, नतु विषयधर्माः समारोप्य इति । तस्येत उत्थानम् । अत्राह चोदकः -
कः पुनरयं शारीरो नामेति ।
न ताव­द्भे­द­प्र­ति­षे­धा­द्भे­द­व्य­प­दे­शाच्च भेदाभेदावेकत्र तात्त्विकौ भवितुमर्हतो विरो­धा­दि­त्यु­क्तम् । तस्मादेकमिह तात्त्वि­क­म­ता­त्त्विकं चेतरत् , तत्र पौर्वा­प­र्ये­णा­द्वै­त­प्र­ति­पा­द­न­प­र­त्वा­द्वे­दा­न्तानां द्वैतग्राहिणश्च माना­न्त­र­स्या­भा­वा­त्त­द्बा­ध­नाच्च तेनाद्वैतमेव परमार्थः । तथा च “अनुपपत्तेस्तु”(ब्र.सू. १-२-३) इत्या­द्य­स­ङ्ग­ता­र्थ­मि­त्यर्थः ।

परिहरति -
सत्यमेवैतत् । पर एवात्मा देहे­न्द्रि­य­म­नो­बु­द्ध्यु­पा­धि­भि­र­वि­च्छि­द्य­मानो बालैः शारीर इत्युपचर्यते ।
अना­द्य­वि­द्या­व­च्छे­द­ल­ब्ध­जी­व­भावः पर एवात्मा स्वतो भेदेनावभासते । तादृशां च जीवानामविद्या, नतु निरूपाधिनो ब्रह्मणः । न चाविद्यायां सत्यां जीवात्मविभागः, सति च जीवात्मविभागे तदा­श्र­या­वि­द्ये­त्य­न्यो­न्या­श्र­य­मिति साम्प्रतम् । अनादित्वेन जीवा­वि­द्य­यो­र्बी­जा­ङ्कु­र­व­द­न­व­कॢ­प्ते­र­यो­गात् । नच सर्वज्ञस्य सर्वशक्तेश्च स्वतः कुतोऽ­क­स्मा­त्सं­सा­रिता, यो हि परतन्त्रः सोऽन्येन बन्धनागारे प्रवेश्येत, नतु स्वतन्त्र इति वाच्यम् । नहि तद्भागस्य जीवस्य सम्प्रतितनी बन्ध­ना­गा­र­प्र­वे­शिता, येनानुयुज्येत, किन्त्वियमनादिः पूर्व­पू­र्व­क­र्मा­वि­द्या­सं­स्का­र­नि­ब­न्धना नानुयोगमर्हति । न चैतावता ईश्वरस्यानीशता न ह्युप­क­र­णा­द्य­पे­क्षिता कर्तुः स्वातन्त्र्यं विहन्ति । तस्मा­द्य­त्कि­ञ्चि­दे­त­द­पीति ॥ ६ ॥ ॥ ७ ॥ विशेषादिति वक्तव्ये वैशे­ष्या­भि­धा­न­मा­त्य­न्तिकं विशेषं प्रतिपादयितुम् । तथा­ह्य­वि­द्या­क­ल्पितः सुखा­दि­स­म्भो­गोऽ­वि­द्या­त्मन एव जीवस्य युज्यते । नतु निर्मृ­ष्ट­नि­खि­ला­वि­द्या­त­द्वा­स­नस्य शुद्ध­बु­द्ध­मु­क्त­स्व­भा­वस्य परमात्मन इत्यर्थः । शेष­म­ति­रो­हि­ता­र्थम् ॥ ६ ॥ ॥ ७ ॥॥ ८ ॥

अत्ता चराचरग्रहणात् ।

कठवल्लीषु पठ्यते - यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्यु­र्य­स्यो­प­से­चनं क इत्था वेद यत्र स इति ।
अत्र चाद­नी­यौ­दा­नो­प­से­च­न­सू­चितः कश्चिदत्ता प्रतीयते । अत्तृत्वं च भोक्तृता वा संहर्तृता वा स्यात् । नच प्रस्तुतस्य परमात्मनो भोक्तृतास्ति, “अन­श्र­न्न­न्योऽ­भि­चा­क­शीति”(मु. उ. ३ । १ । १) इति श्रुत्या भोक्तृ­ता­प्र­ति­षे­धात् । जीवात्मनश्च भोक्तृ­ता­वि­धा­नात् “तयोरन्यः पिप्पलं स्वाद्वत्ति”(मु. उ. ३ । १ । १) इति । तद्यदि भोक्तृ­त्व­म­त्तृत्वं ततो मुक्तसंशयं जीवात्मैव प्रतिपत्तव्यः । ब्रह्मक्षत्रादि चास्य कार्य­का­र­ण­स­ङ्घातो भोगायतनतया वा साक्षाद्वा सम्भवति भोग्यम् । अथ तु संहर्तृता भोक्तृता, तत­स्त्र­या­णा­म­ग्नि­जी­व­प­र­मा­त्मनां प्रश्नो­प­न्या­सो­प­लब्धेः संह­र्तृ­त्व­स्या­वि­शे­षा­द्भ­वति संशयः - किमत्ता अग्निराहो जीव उताहो परमात्मेति । तत्रौदनस्य भोग्यत्वेन लोके प्रसि­द्धे­र्भो­क्तृ­त्व­मेव प्रथमं बुद्धौ विपरिवर्तते, चरमं तु संहर्तृत्वमिति भोक्तैवात्ता । तथा च जीव एव । “न जायते म्रियते”(क. उ. १ । २ । १८) इति च तस्यैव स्तुतिः । यदि तु संहारकालेऽपि संस्कारमात्रेण तस्यावस्थानात् । दुर्ज्ञानत्वं च तस्य सूक्ष्मत्वात् । तस्माज्जीव एवात्तेहोपास्यत इति प्राप्तम् । यदि तु संह­र्तृ­त्व­म­त्तृत्वं तथा­प्य­ग्नि­रत्ता, “अग्निरन्नादः”(बृ. उ. १ । ४ । ६) इति श्रुति­प्र­सि­द्धि­भ्याम् । एवं प्राप्ते­भि­धी­य­ते­अ­त्तात्र परमात्मा, कुतः, चराचरग्रहणात् । “उभे यस्योदनः” इति “मृत्यु­र्य­स्यो­प­से­च­नम्”(क. उ. १ । २ । २५)“मृत्यु­र्य­स्यो­प­से­च­नम्”(क. उ. १ । २ । २५) इति च श्रूयते । तत्र यदि जीवस्य भोगायतनतया तत्साधनतया च कार्य­का­र­ण­स­ङ्घातः स्थितः, न तर्ह्येदनः । नह्योदनो भोगायतनं, नापि भोगसाधनं, अपि तु भोग्यः । नच भोगायतनस्य भोगसाधनस्य वा भोग्यत्वं मुख्यम् । न चात्र मृत्यु­रु­प­से­च­न­तया कल्प्यते । नच जीवस्य कार्य­का­र­ण­स­ङ्घातो ब्रह्म­क्ष­त्रा­दि­रूपो भक्ष्यः, कस्य­चि­त्क्रू­र­स­त्त्वस्य व्याघ्रादेः कश्चिद्भवेत् न तु सर्वथा सर्वजीवस्य । तेन ब्रह्म­क्ष­त्र­वि­ष­य­मपि सर्व­जी­व­स्या­त्तृत्वं न व्याप्नोति, किमङ्ग पुन­र्मृ­त्यू­प­से­च­न­व्याप्तं चराचरम् । न चौद­न­प­दा­त्प्र­थ­मा­व­ग­त­भो­ग्य­त्वा­नु­रो­धेन यथा­स­म्भ­व­म­त्तृत्वं योज्यत इति युक्तम् । नह्योदनपदं श्रुत्या भोग्यत्वमाह, किन्तु लक्षणया । नच लाक्ष­णि­क­भो­ग्य­त्वा­नु­रो­धेन “मृत्यु­र्य­स्यो­प­से­च­नम्” इति, “ब्रह्म च क्षत्रं च” इति च श्रुती सङ्कोचमर्हतः । नच ब्रह्मक्षत्रे एवात्र विवक्षिते, मृत्यूपसेचनेन प्राण­भृ­न्मा­त्रो­प­स्था­प­नात् । प्राणिषु प्रधानत्वेन च ब्रह्म­क्ष­त्रो­प­न्या­स­स्यो­प­पत्तेः, अन्य­नि­वृ­त्ते­र­शा­ब्दत् , वातनर्थत्वाच्च । तथाच चरा­च­र­सं­ह­र्तृत्वं परमात्मन एव । नाग्नेः । नापि जीवस्य । तथाच “न जायते म्रियते वा विपश्चित्”(क. उ. १ । २ । १८) इति ब्रह्मणः प्रकृतस्य न हानं भविष्यति । “क इत्था वेद यत्र सः”(क. उ. १ । २ । २५) इति च दुर्ज्ञा­न­तो­प­प­त्स्यते । जीवस्य तु सर्व­लो­क­प्र­सि­द्धस्य न दुर्ज्ञानता । तस्मादत्ता परमात्मैवेति सिद्धम् ॥ ९ ॥ ॥ १० ॥

गुहां प्रवि­ष्टा­वा­त्मानौ हि तद्दर्शनात् ।

संशयमाह -
तत्रेति ।

पूर्वपक्षे प्रयोजनमाह -
यदि बुद्धिजीवाविति ।

सिद्धान्ते प्रयोजनमाह -
अथ जीव­प­र­मा­त्मा­ना­विति ।

औत्सर्गिकस्य मुख्य­ता­ब­ला­त्पू­र्व­सि­द्धा­न्त­प­क्षा­स­म्भ­वेन पक्षान्तरं कल्पयिष्यत इति मन्वानः संशयमाक्षिपति -
अत्रा­हा­क्षे­प्तेति ।
ऋतं सत्यम् । अवश्यंभावीति यावत् ।

समाधत्ते -
अत्रोच्यत इति ।
अध्या­त्मा­धि­का­रा­दन्यौ ताव­त्पा­ता­रा­व­शक्यौ कल्पयितुम् । तदिह बुद्धेरचैतन्येन परमात्मनश्च भोक्तृ­त्व­नि­षे­धेन जीवात्मैवैकः पाता परिशिष्यत इति “सृष्टी­रु­प­द­धाति” इतिवत् द्विव­च­ना­नु­रो­धा­द­पि­ब­त्सं­सृ­ष्टतां स्वार्थस्य पिबच्छब्दो लक्ष­य­न्स्वा­र्थ­म­ज­ह­न्नि­त­रे­त­र­यु­क्त­पि­ब­द­पि­ब­त्परो भवतीत्यर्थः ।

अस्तु वा मुख्य एव, तथापि न दोष इत्याह -
यद्वेति ।
स्वात­न्त्र्य­ल­क्षणं हि कर्तृत्वं तच्च पातुरिव पाय­यि­तु­र­प्य­स्तीति सोऽपि कर्ता । अत एव चाहुः - “यः कारयति स करोत्येव” इति । एवं करणस्यापि स्वात­न्त्र्य­वि­व­क्षया कथ­ञ्चि­त्क­र्तृत्वं, यथा काष्ठानि पचन्तीति । तस्मा­न्मु­ख्य­त्वेऽ­प्य­वि­रोध इति ।

तदेवं संशयं समाधाय पूर्वपक्षं गृह्णाति -
बुद्धि­क्षे­त्र­ज्ञा­विति ।
'निय­ता­धा­रता बुद्धि­जी­व­स­म्भ­विनी नहि । क्लेशा­त्क­ल्प­यितुं युक्ता सर्वगे परमात्मनि” ॥ नच पिब­न्ता­वि­ति­व­त्प्र­वि­ष्ट­प­द­मपि लाक्षणिकं युक्तं, सति मुख्यार्थत्वे लाक्ष­णि­का­र्थ­त्वा­यो­गात् , बुद्धिजीवयोश्च गुहा­प्र­वे­शो­प­पत्तेः । अपिच “सुकृतस्य लोके”(क. उ. १ । ३ । १) इति सुकृ­त­लो­क­व्य­व­स्था­नेन कर्म­गो­च­रा­न­ति­क्रम उक्तः । बुद्धिजीवौ च कर्म­गो­च­र­म­न­ति­क्रान्तौ । जीवो हि भोक्तृतया बुद्धिश्च भोगसाधनतया धर्मस्य गोचरे स्थितौ, न तु ब्रह्म, तस्य तदायत्तत्वात् । किञ्च छायातपाविति तमः­प्र­का­शा­वुक्तौ । नच जीवः पर­मा­त्म­नोऽ­भि­न्न­स्तमः, प्रकाशरूपत्वात् । बुद्धिस्तु जडतया तम इति शक्योपदेष्टुम् । तस्मा­द्बु­द्धि­जी­वा­वत्र कथ्येते इति तत्रापि प्रेते विचि­कि­त्सा­प­नु­त्तये बुद्धेर्भेदेन परलोकी जीवो दर्शनीय इति बुद्धिरुच्यते । एवं­प्रा­प्ते­भि­धी­यते - “ऋतपानेन जीवात्मा निश्चितोऽस्य द्वितीयता । ब्रह्मणैव सरूपेण न तु बुद्ध्या विरूपया ॥ १ ॥ प्रथमं सद्वितीयत्वे ब्रह्मणावगते सति । गुह्याश्रयत्वं चरमं व्याख्ये­य­म­वि­रो­धतः” ॥ २ ॥ गौः सद्वि­ती­ये­त्युक्ते सजातीयेनैव गवा­न्त­रे­णा­व­ग­म्यते, न तु विजा­ती­ये­ना­श्वा­दिना । तदिह चेतनो जीवः सरूपेण चेतनान्तरेणैव ब्रह्मणा सद्वितीयः प्रतीयते, न त्वचेतनया विरूपया बुद्ध्या । तदेवं “ऋतं पिबन्तौ”(क. उ. १ । ३ । १) इत्यत्र प्रथममवगते ब्रह्मणि तदनुरोधेन चरमं गुहाश्रयत्वं शालग्रामे हरि­रि­ति­व­द्व्या­ख्ये­यम् । बहुलं हि गुहाश्रयत्वं ब्रह्मणः श्रुतय आहुः ।

तदिदमुक्तम् -
तद्दर्शनादिति ।
तस्य ब्रह्मणो गुहाश्रयत्वस्य श्रुतिषु दर्शनादिति । एवंच प्रथ­मा­व­ग­त­ब्र­ह्मा­नु­रो­धेन सुकृ­त­लो­क­व­र्ति­त्व­मपि तस्य लक्षणया छत्रिन्यायेन गमयितव्यम् । छायातपत्वमपि जीव­स्या­वि­द्या­श्र­य­तया ब्रह्मणश्च शुद्ध­प्र­का­श­स्व­भा­वस्य तदनाश्रयतया मन्तव्यम् ॥ ११ ॥

इममेव न्यायं “द्वा सुपर्णा”(मु. उ. ३ । १ । १) इत्य­त्रा­प्यु­दा­ह­रणे कृत्वाचिन्तया योजयति -
एष एव न्याय इति ।
अत्रापि किं बुद्धिजीवौ उत जीव­प­र­मा­त्मा­ना­विति संशय्य करणरूपाया अपि बुद्धेरेधांसि पच­न्ती­ति­व­त्क­र्तृ­त्वो­प­चा­रा­द्बु­द्धि­जी­वा­विह पूर्वपक्षयित्वा सिद्धा­न्त­यि­त­व्यम् । सिद्धान्तश्च भाष्यकृता स्फोरितः । तद्दर्शनादिति च “समाने वृक्षे पुरुषो निमग्नः”(मु. उ. ३ । १ । २) इत्यत्र मन्त्रे ।

न खलु मुख्ये कर्तृत्वे सम्भवति करणे कर्तृत्वोपचारो युक्त इति कृत्वा­चि­न्ता­मु­द्धा­ट­यति -
अपर आह ।
सत्त्वं बुद्धिः ।

शङ्कते -
सत्त्वशब्द इति ।
सिद्धान्तार्थं ब्राह्मणं व्याचष्ट इत्यर्थः ।

निराकरोति -
तन्नेति ।

येन स्वप्नं पश्यतीति ।
येनेति करणमुपदिशति । ततश्च भिन्नं कर्तारं क्षेत्रज्ञम् ।

योऽयं शारीर उपद्रष्टेति ।
अस्तु तर्ह्य­स्या­धि­क­र­णस्य पूर्वपक्षे एव ब्राह्मणार्थः,

वचनविरोधे न्याय­स्या­भा­स­त्वा­दि­त्यत आह -
नाप्य­स्या­धि­क­र­णस्य पूर्वपक्षं भजत इति ।
एवं हि पूर्वपक्षमस्य भजेत, यदि हि क्षेत्रज्ञे संसारिणि पर्यवस्येत । तस्य तु ब्रह्मरूपतायां पर्यवस्यन्न पूर्वपक्षमपि स्वीक­रो­ती­त्यर्थः ।

अपिच ।
तावेतौ सत्त्व­क्षे­त्रज्ञौ न ह वा एवंविदि किञ्चन रज आध्वंसत इति ।
रजोऽविद्या नाध्वंसनं संश्लेषमेवंविदि करोतीति ।

एतावतैव विद्यो­प­सं­हा­रा­ज्जी­वस्य ब्रह्मा­त्म­ता­प­र­तास्य लक्ष्यत इत्याह -
तावता चेति ।

चोदयति -
कथं पुनरिति ।

निराकरोति -
उच्यते - नेयं श्रुतिरिति ।
अनश्नन् जीवो ब्रह्मा­भि­चा­क­शी­ती­त्युक्ते शङ्केत, यदि जीवो ब्रह्मात्मा नाश्नाति, कथं तर्ह्य­स्मि­न्भो­क्तृ­त्वा­व­गमः, चैत­न्य­स­मा­ना­धि­क­रणं हि भोक्तृत्वमवभासत इति । तन्निरासायाह श्रुतिः - “तयोरन्यः पिप्पलं स्वाद्वत्ति”(मु. उ. ३ । १ । १) इति । एतदुक्तं भवति - नेदं भोक्तृत्वं जीवस्य तत्त्वतः, अपितु बुद्धिसत्त्वं सुखादिरूपपरिणतं चिति­च्छा­या­प­त्त्यो­प­प­न्न­चै­त­न्य­मिव भुङ्क्ते, नतु तत्त्वतो जीवः परमात्मा भुङ्क्ते । तदे­त­द­ध्या­सा­भाष्ये कृतव्याख्यानम् । तदनेन कृत्वा­चि­न्तो­द्धा­टिता ॥ १२ ॥

अन्तर उपपत्तेः ।
ननु “अन्त­स्त­द्ध­र्मो­प­दे­शात्”(ब्र.सू. १-१-२०) इत्य­ने­नै­वै­त­द्ग­ता­र्थम् । सन्ति खल्व­त्रा­प्य­मृ­त­त्वा­भ­य­त्वा­दयो ब्रह्मधर्माः प्रति­बि­म्ब­जी­व­दे­व­ता­स्व­स­म्भ­विनः । तस्मा­द्ब्र­ह्म­ध­र्मो­प­दे­शा­द्ब्र­ह्मै­वात्र विवक्षितम् । साक्षाच्च ब्रह्म­श­ब्दो­पा­दा­नात् । उच्यते - “एष दृश्यत इत्ये­त­त्प्र­त्य­क्षेऽर्थे प्रयुज्यते । परोक्षं ब्रह्म न तथा प्रतिबिम्बे तु युज्यते ॥ १ ॥ उप­क्र­म­व­शा­त्पू­र्व­मि­त­रेषां हि वर्णनम् । कृतं न्यायेन येनैव स खल्व­त्रा­नु­ष­ज्यते” ॥ २ ॥ “ऋतं पिबन्तौ”(क. उ. १ । ३ । १) इत्यत्र हि जीवपरमात्मानौ प्रथममवगताविति तदनुरोधेन गुहाप्रवेशादयः पश्चादवगता व्याख्याताः, तद्वदिहापि “य एषोऽक्षिणि पुरुषो दृश्यते”(छा. उ. ४ । १५ । १) इति प्रत्य­क्षा­भि­धा­ना­त्प्र­थ­म­म­व­गते छायापुरुषे तद­नु­रो­धे­ना­मृ­त­त्वा­भ­य­त्वा­दयः स्तुत्या कथ­ञ्चि­द्व्या­ख्येयाः । तत्र चामृतत्वं कति­प­य­क्ष­णा­व­स्था­नात् , अभ­य­त्व­म­चे­त­न­त्वात् , पुरुषत्वं पुरुषाकारत्वात् , आत्मत्वं कनी­नि­का­य­त­न­त्वात् , ब्रह्म­रू­प­त्व­मु­क्त­रू­पा­मृ­त­त्वा­दि­यो­गात् । एवं वाम­नी­त्वा­द­योऽ­प्यस्य स्तुत्यैव कथ­ञ्चि­न्ने­तव्याः । कं च खं चेत्यादि तु वाक्यमग्नीनां नाचार्यवाक्यं नियन्तुमर्हति । “आचार्यस्तु ते गतिं वक्ता”(छा. उ. ४ । १४ । १) इति च गत्य­न्त­रा­भि­प्रायं, न तूक्त­प­रि­शि­ष्टा­भि­प्रा­यम् । तस्मा­च्छा­या­पु­रुष एवात्रोपास्य इति पूर्वः पक्षः । सम्भवमात्रेण तु जीवदेवते उपन्यस्ते, बाध­का­न्त­रो­प­द­र्श­नाय चैष दृश्यत इत्य­स्या­त्रा­भा­वात् । “अन्त­स्त­द्ध­र्मो­प­देशा”(ब्र.सू. १-१-२०) दित्यनेन निराकृतत्वात् ।

एवं प्राप्त उच्यते -
य एष इति ।
'अनि­ष्प­न्ना­भि­धाने द्वे सर्वनामपदे सती । प्राप्य संनिहितस्यार्थं भवेतामभिधातृणी” ॥ संनिहिताश्च पुरु­षा­त्मा­दि­श­ब्दास्ते च न याव­त्स्वा­र्थ­म­भि­द­धति ताव­त्स­र्व­ना­मभ्यां नार्थ­तु­षोऽ­प्य­भि­धी­यत इति कुत­स्त­द­र्थ­स्या­प­रो­क्षता । पुरुषात्मशब्दौ च सर्व­ना­म­नि­र­पेक्षौ स्वरसतो जीवे वा परमात्मनि वा वर्तेते इति । नच तयोश्चक्षुषि प्रत्य­क्ष­द­र्श­न­मिति निर­पे­क्ष­पु­रु­ष­प­द­प्र­त्या­यि­ता­र्था­नु­रो­धेन य एष इति दृश्यत इति च यथासम्भवं व्याख्येयम् । व्याख्यातं च सिद्धवदुपादानं शास्त्रा­द्य­पेक्षं विद्वद्विषयं प्ररोचनार्थम् । विदुषः शास्त्रत उपलब्धिरेव दृढतया प्रत्य­क्ष­व­दु­च­प­र्यते प्रशं­सा­र्थ­मि­त्यर्थः ।

अपि च तदेव चरमं प्रथमानुगुणतया नीयते यन्नेतुं शक्यम् , अल्पं च । इह त्वमृतत्वादयो बहवश्चाशक्याश्च नेतुम् । नहि स्वस­त्ता­क्ष­णा­व­स्था­न­मा­त्र­म­मृ­तत्वं भवति । तथा सति किं नाम नामृतं स्यादिति व्यर्थममृतपदम् । भयाभये अपि चेतनधर्मौ नाचेतने सम्भवतः । एवं वाम­नी­त्वा­द­योऽ­प्य­न्यत्र ब्रह्मणो नेतुमशक्याः । प्रत्य­क्ष­व्य­प­दे­श­श्चो­प­पा­दितः । तदिदमुक्तम् -
उपपत्तेरिति ।
'एत­द­मृ­त­म­भ­य­मे­त­द्ब्रह्म” इत्युक्ते स्यादाशङ्का । ननु सर्व­ग­त­स्ये­श्व­रस्य कस्माद्विशेषेण चक्षुरेव स्थानमुपदिश्यत इति, तत्परिहरति, श्रुतिः - “तद्य­द्य­प्य­स्मि­न्सा­र्पि­र्वो­दकं वा सिञ्चति वर्त्मनी एव गच्छति”(छा. उ. ४ । १५ । १) इति । वर्त्मनी पक्षस्थाने । एतदुक्तं भव­ति­नि­र्ले­प­स्ये­श्व­रस्य निर्लेपं चक्षुरेव स्थानमनुरूपमिति ।

तदिदमुक्तम् -
तथा पर­मे­श्व­रा­नु­रू­प­मिति संय­द्वा­मा­दि­गु­णो­प­दे­शश्च तस्मिन्
ब्रह्मणि

कल्पते
घटते, समवेतार्थत्वात् । प्रतिबिम्बादिषु त्वसमवेतार्थः । वामनीयानि सम्भजनीयानि शोभनीयानि पुण्यफलानि वामानि । संयन्ति सङ्गच्छमानानि वामान्यनेनेति संयद्वामः परमात्मा । तत्का­र­ण­त्वा­त्पु­ण्य­फ­लो­त्प­त्ते­स्तेन पुण्यफलानि सङ्गच्छन्ते । स एव पुण्यफलानि वामानि नयति लोकमिति वामनीः । एष एव भामनीः । भामानी भानानि नयति लोकमिति भामनीः । तदुक्तं श्रुत्या “तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति”(मु. उ. २ । २ । ११) इति ॥ १३ ॥

स्थाना­दि­व्य­प­दे­शाच्च ।
आशङ्कोत्तरमिदं सूत्रम् ।

आशङ्कामाह -
कथं पुनरिति ।
स्थानिनो हि स्थानं महद्दृष्टं, यथा यादसामब्धिः । तत्कथमत्यल्पं चक्षुरधिष्ठानं परमात्मनः परममहत इति शङ्कार्थः ।

परिहरति -
अत्रोच्यत इति ।
स्थानान्यादयो येषां ते स्थानादयो नाम­रू­प­प्र­क­रा­स्तेषां व्यप­दे­शा­त्स­र्व­ग­त­स्यै­क­स्था­न­नि­यमो नावकल्पते । नतु नानास्थानत्वं नभस इव नाना­सू­ची­पा­शा­दि­स्था­न­त्वम् । विशेषतस्तु ब्रह्मणस्तानि तान्यु­पा­स­ना­स्था­ना­नीति तैरस्य युक्तो व्यपदेशः ॥ १४ ॥

अपिच प्रकृ­ता­नु­सा­रा­दपि ब्रह्मैवात्र प्रत्येतव्यं, नतु प्रति­बि­म्ब­जी­व­दे­वता इत्याह सूत्रकारः -
सुख­वि­शि­ष्टा­भि­धा­ना­देव च ।
एवं खलूपाख्यायते - उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास । तस्याचार्यस्य द्वादश वर्षा­ण्य­ग्नी­नु­प­च­चार । स चाचा­र्योऽ­न्या­न्ब्र­ह्म­चा­रिणः स्वाध्यायं ग्राहयित्वा समावर्तयामास । तमेवैकमुपकोसलं न समावर्तयति स्म । जायया च तत्स­मा­व­र्त­ना­या­र्थि­तोऽपि तद्व­च­न­म­व­धी­र्या­चार्यः प्रोषितवान् । ततोऽ­ति­दू­न­मा­न­स­म­ग्नि­प­रि­च­र­ण­कु­श­ल­मु­प­को­स­ल­मु­पेत्य त्रयोऽग्नयः करु­णा­प­रा­धी­न­चे­तसः श्रद्द­धा­ना­यास्मै दृढभक्तये समेत्य ब्रह्म­वि­द्या­मू­चिरे “प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म”(छा. उ. ४ । १० । ४) इति । अथोपकोसल उवाच, विजानाम्यहं प्राणो ब्रह्मेति, स हि सूत्रात्मा विभूतिमत्तया ब्रह्म­रू­पा­वि­र्भा­वा­द्ब्र­ह्मेति । किन्तु कं च खं च ब्रह्मेत्येतन्न विजानामि । नहि विष­ये­न्द्रि­य­स­म्प­र्कजं सुखमनित्यं लोकसिद्धं खं च भूताकाशमचेतनं ब्रह्म भवितुमर्हति । अथैनमग्नयः प्रत्यूचुः - “यद्वाव कं तदेव खं यदेव खं तदेव कम्”(छा. उ. ४ । १० । ५) इति । एवं सम्भूयोक्त्वा प्रत्येकं च स्वविषयां विद्यामूचुः - “पृथि­व्य­ग्नि­र­न्न­मा­दित्यः”(छा. उ. ४ । ११ ।१) इत्यादिना । पुनस्त एनं सम्भूयोचुः, एषा सोम्य तेऽस्मद्विद्या प्रत्येकमुक्ता स्वविषया विद्या, आत्मविद्या चास्माभिः सम्भूय पूर्वमुक्ता प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति, आचार्यस्तु ते गतिं वक्ता, ब्रह्म­वि­द्ये­य­मु­क्ता­स्मा­भि­र्ग­ति­मात्रं त्ववशिष्टं नोक्तं, तत्तु विद्या­फ­ल­प्रा­प्तये जाबा­ल­स्त­वा­चार्यो वक्ष्य­ती­त्यु­क्त्वा­ग्नय उपरेमिरे ।

एवं व्यवस्थिते “यद्वाव कं तदेव खं यदेव खं तदेव कम्”(छा. उ. ४ । १० । ५) इत्ये­त­द्व्या­चष्टे भाष्यकारः -
तत्र खंशब्द इति प्रती­का­भि­प्रा­ये­णेति ।
आश्र­या­न्त­र­प्र­त्य­य­स्या­श्र­या­न्तरे प्रक्षेपः प्रतीकः । यथा ब्रह्मशब्दः परमात्मविषयो नामादिषु क्षिप्यते । इदमेव तद्ब्रह्म ज्ञेयं यन्नामेति । तथेदमेव तद्ब्रह्म यद्भूताकाशमिति प्रतीतिः स्यात् । न चैत­त्प्र­ती­क­त्व­मि­ष्टम् । लौकिकस्य सुखस्य साध­न­पा­र­तन्त्र्यं क्षयिष्णुता चामयस्तेन सह वर्तत इति सामयं सुखम् ।

तदेवं व्यतिरेके दोष­मु­क्त्वो­भ­या­न्वये गुणमाह -
इतरेतरविशेषितौ त्विति ।
तद­र्थ­यो­र्वि­शे­षि­त­त्वा­च्छ­ब्दा­वपि विशे­षि­ता­वु­च्येते । सुख­श­ब्द­स­मा­ना­धि­क­रणो हि खंशब्दो भूताकाशमर्थं परित्यज्य ब्रह्मणि गुणयोगेन वर्तते । तादृशा च खेन सुखं विशिष्यमाणं साम­या­द्व्या­वृत्तं निरामयं भवति । तस्मा­दु­प­प­न्न­मु­भ­यो­पा­दा­नम् ।

ब्रह्म­श­ब्दा­भ्या­सस्य प्रयोजनमाह -
तत्र द्वितीय इति ।
ब्रह्मपदं कम्पदस्योपरि प्रयुज्यमानं शिरः, एवं खम्पदस्यापि ब्रह्मपदं शिरो ययोः कङ्खम्पदयोस्ते ब्रह्मशिरसी, तयोर्भावो ब्रह्म­शि­र­स्त्वम् ।

अस्तु प्रस्तुते किमायातमित्यत आह -
तदेवं वाक्योपक्रम इति ।

नन्वग्निभिः पूर्वं निर्दिश्यतां ब्रह्म, “य एषोऽक्षिणि”(छा. उ. ४ । १५ । १) इत्या­चा­र्य­वा­क्येऽपि तदे­वा­नु­व­र्त­नी­य­मिति तु कुत इत्याह -
आचार्यस्तु ते गतिं वक्तेति च गति­मा­त्रा­भि­धा­न­मिति ।
यद्यप्येते भिन्नवक्तृणी वाक्ये तथापि पूर्वेण वक्त्रा एकवाक्यतां गमिते, गति­मा­त्रा­भि­धा­नात् । किमुक्तं भवति, तुभ्यं ब्रह्म­वि­द्या­स्मा­भि­रू­प­दिष्टा, तद्विदस्तु गतिर्नोक्ता, तां च किञ्चि­द­धि­क­मा­ध्येयं पूरयित्वाचार्यो वक्ष्यतीति । तदनेन पूर्वा­स­म्ब­द्धा­र्था­न्त­र­वि­वक्षा वारितेति । अथै­व­म­ग्नि­भि­रु­प­दिष्टे प्रोषित आचार्यः कालेनाजगाम, आगतश्च वीक्ष्यो­प­को­स­ल­मु­वाच, ब्रह्मविद इव ते सोम्य मुखं प्रसन्नं भाति, कोऽनु त्वामनुशशासेति । उपकोसलस्तु ह्रीणो भीतश्च को नु मामनुशिष्यात् भगवन् प्रोषिते त्वयी­त्या­पा­त­तोऽ­प­ज्ञाय निर्बध्यमानो यथा­व­द­ग्नी­ना­म­नु­शा­स­न­म­वो­चत् । तदुपश्रुत्य चाचार्यः सुचिरं क्लिष्ट उपकोसले समु­प­जा­त­द­या­र्द्र­हृ­दयः प्रत्युवाच, सोम्य किल तुभ्यमग्नयो न ब्रह्म साकल्येनावोचन् , तदहं तुभ्यं साकल्येन वक्ष्यामि, यद­नु­भ­व­मा­हा­त्म्यात् “यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते”(छा. उ. ४ । १४ । ३) , इत्ये­व­मु­क्त­व­त्या­चार्य आहोपकोसलः, ब्रवीतु मे भगवानिति, तस्मै होवा­चा­चा­र्योऽ­र्चि­रा­दिकां गतिं वक्तुमनाः, यदुक्तमग्निभिः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति तत्परिपूरणाय “एषोऽक्षिणि पुरुषो दृश्यते”(छा. उ. ४ । १५ । १) इत्यादि । एतदुक्तं भवति - आचार्येण ये सुखं ब्रह्मा­क्षि­स्थानं संयद्वामं वाम­नी­भा­म­नी­त्ये­वं­गु­णकं प्राण­स­हि­त­मु­पा­सते ते सर्वेऽ­प­ह­त­पा­प्मा­नोऽ­न्य­त्कर्म कुर्वन्तु मा वाकार्षुः, अर्चि­ष­म­र्चि­र­भि­मा­निनीं देव­ता­म­भि­स­म्भ­वन्ति प्रतिपद्यन्ते, अर्चि­षोऽ­ह­र­ह­र्दे­वतां, अह्न आपूर्यमाणपक्षं शुक्ल­प­क्ष­दे­वतां, ततः षण्मासान् , येषु मासेषूत्तरां दिशमेति सविता ते षण्मासा उत्तरायणं तद्देवतां प्रतिपद्यन्ते, तेभ्यो मासेभ्यः संवत्सरदेवतां, तत आदित्यं, आदि­त्या­च्च­न्द्र­मसं, चन्द्रमसो विद्युतं, तत्र स्थिता­ने­ता­न्पु­रुषः कश्चि­द्ब्र­ह्म­लो­का­द­व­ती­र्या­मा­न­वोऽ­मा­नव्यां सृष्टौ भवः । ब्रह्मलोकभव इति यावत् । स तादृशः पुरुष एता­न्स­त्य­लो­कस्थं कार्यं ब्रह्म गमयति, स एष देवपथो देवै­र­र्चि­रा­दि­भि­र्ने­तृ­भि­रु­प­ल­क्षित इति देवपथः, स एव च ब्रह्मणा गन्त­व्ये­नो­प­ल­क्षित इति ब्रह्मपथः, एतेन पथा प्रतिपद्यमानाः सत्यलोकस्थं ब्रह्म इमं मानवं मनोः सर्गं किम्भूतमावर्तं जन्म­ज­रा­म­र­ण­पौ­नः­पु­न्य­मा­वृ­त्ति­स्त­त्क­र्ता­वर्तो मानवो लोकस्तं नावर्तन्ते । तथाच स्मृतिः - “ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्” ॥ १५ ॥

तद­ने­नो­पा­ख्या­न­व्या­ख्या­नेन
श्रुतो­प­नि­ष­त्क­ग­त्य­भि­धा­नाच्च
इत्यपि सूत्रं व्याख्यातम् ॥ १६ ॥

अन­व­स्थि­ते­र­स­म्भ­वाच्च नेतरः ।

'य एषोऽक्षिणि” इति नित्य­व­च्छ्रु­त­म­नित्ये छायापुरुषे नावकल्पते । कल्पनागौरवं चास्मिन्पक्षे प्रसज्यत इत्याह -
न चोपासनाकाल इति ।

तथा विज्ञा­ना­त्म­नोऽ­पीति ।
विज्ञानात्मनो हि न प्रदेशे उपासनाऽन्यत्र दृष्टचरी, ब्रह्मणस्तु तत्र श्रुत­पू­र्वे­त्यर्थः । मिषा भिया । अस्मात् ब्रह्मणः । शेष­म­ति­रो­हि­ता­र्थम् ॥ १७ ॥

अन्त­र्या­म्या­धि­दै­वा­दिषु तद्ध­र्म­व्य­प­दे­शात् ।
'स्वक­र्मो­पा­र्जितं देहं तेनान्यच्च नियच्छति । तक्षा­दि­र­श­री­रस्तु नात्मा­न्त­र्य­मितां भजेत्” ॥ १ ॥ प्रवृ­त्ति­नि­य­म­ल­क्षणं हि कार्यं चेतनस्य शरीरिणः स्वश­री­रे­न्द्रि­यादौ वा शरीरेण वा वास्यादौ दृष्टं नाशरीरस्य ब्रह्मणो भवितुमर्हति । नहि जातु वटाङ्कुरः कुटजबीजाज्जायते । तदनेन “जन्माद्यस्य यतः”(ब्र.सू. १-१-२) इत्ये­द­प्या­क्षिप्तं वेदितव्यम् । तस्मा­त्प­र­मा­त्मनः शरी­रे­न्द्रि­या­दि­र­हि­त­स्या­न्त­र्या­मि­त्वा­भा­वात् , प्रधानस्य वा पृथि­व्या­द्य­भि­मा­न­वत्या देवताया वाणि­मा­द्यै­श्व­र्य­यो­गिनो योगिनो वा जीवात्मनो वान्तर्यामिता स्यात् । तत्र यद्यपि प्रधा­न­स्या­दृ­ष्ट­त्वा­श्रु­त­त्वा­म­त­त्व­वि­ज्ञा­त­त्वानि सन्ति, तथापि तस्याचेतनस्य द्रष्टृ­त्व­श्रो­तृ­त्व­म­न्तृ­त्व­वि­ज्ञा­तृ­त्वानां श्रुतानामभावात् , अनात्मत्वाच्च “एष त आत्मा”(बृ. उ. ३ । ७ । ३) इति श्रुते­र­नु­प­प­त्तेर्न प्रधा­न­स्या­न्त­र्या­मिता । यद्यपि पृथि­व्या­द्य­भि­मा­निनो देव­स्या­त्म­त्व­मस्ति, अदृष्टत्वादयश्च सह दृष्टृ­त्वा­दि­भि­रु­प­प­द्यन्ते, शरी­रे­न्द्रि­या­दि­यो­गाच्च, “पृथिव्येव यस्या­य­त­न­म­ग्नि­र्लोको मनो ज्योतिः”(बृ. उ. ३ । ९ । १०) इत्यादिश्रुतेः, तथापि तस्य प्रति­नि­य­त­नि­य­म­नात् “यः सर्वां­ल्लो­का­न­न्तरो यमयति यः सर्वाणि भूतान्यन्तरो यमयति”(बृ. उ. ३ । ७ । १) इति श्रुति­वि­रो­धा­द­नु­प­पत्तेः, योगी तु यद्यपि लोकभूतवशितया सर्वां­ल्लो­का­न्स­र्वाणि च भूतानि नियन्तुमर्हति तत्र तत्रा­ने­क­वि­ध­दे­हे­न्द्रि­या­दि­नि­र्मा­णेन “स एकधा भवति त्रिधा भवति”(छा. उ. ७ । २६ । २) इत्या­दि­श्रु­तिभ्यः, तथापि “जग­द्व्या­पा­र­वर्जं प्रकरणात्”(ब्र.सू. ४-४-१७) इति वक्ष्यमाणेन न्यायेन विकारविषये विद्यासिद्धानां व्यापा­र­भा­वा­त्सोऽपि नान्तर्यामी । तस्मा­त्पा­रि­शे­ष्या­ज्जीव एव चेतनो देहे­न्द्रि­या­दि­मान् दृष्टृ­त्वा­दि­स­म्पन्नः स्वयमदृश्यादिः स्वात्मनि वृत्तिविरोधात् । अमृतश्च, देहे­न्द्रि­या­दि­ना­शेऽ­प्य­ना­शात् । अन्य­था­मु­ष्मि­क­फ­लो­प­भो­गा­भा­वेन कृत­वि­प्र­णा­शा­कृ­ता­भ्या­ग­म­प्र­स­ङ्गात् । “य आत्मनि तिष्ठन्” इति चाभेदेऽपि कथ­ञ्चि­द्भे­दो­प­चा­रात् “स भगवः कस्मि­न्प्र­ति­ष्ठितः स्वे महिम्नि”(छा. उ. ७ । २४ । १) इतिवत् । “यमात्मा न वेद” इति च स्वात्मनि वृत्ति­वि­रो­धा­भि­प्रा­यम् । “यस्यात्मा शरीरम्” इत्यादि च सर्वं “स्वे महिम्नि” इतिवद्योजनीयम् । यदि पुनरात्मनोऽपि नियन्तुरन्यो नियन्ता भवेत् वेदिता वा ततस्तस्याप्यन्य इत्यनवस्था स्यात् । सर्व­लो­क­भू­त­नि­य­न्तृत्वं च जीव­स्या­दृ­ष्ट­द्वारा । तदुपार्जितौ हि धर्माधर्मौ नियच्छत इत्यनया द्वारा जीवो नियच्छति । एकवचनं च जात्यभिप्रायम् । तस्मा­ज्जी­वा­त्मै­वा­न्त­र्यामी, न परमात्मेति । एवं प्राप्तेऽ­भि­धी­यते - “देहे­न्द्रि­या­दि­नि­यमे नास्य देहे­न्द्रि­या­न्त­रम् । तत्क­र्मो­पा­र्जितं तच्चे­त्त­द­वि­द्या­र्जितं जगत्” ॥ श्रुति­स्मृ­ती­ति­हा­स­पु­रा­णेषु तावदत्रभवतः सर्वज्ञस्य सर्वशक्तेः परमेश्वरस्य जग­द्यो­नि­त्व­म­व­ग­म्यते । न तत्पृ­थ­ग्ज­न­सा­धा­ण्या­नु­मा­ना­भा­से­ना­ग­म­वि­रो­धिना शक्यमपह्नोतुम् । तथाच सर्वं विकारजातं तद­वि­द्या­श­क्ति­प­रि­णा­म­स्तस्य शरी­रे­न्द्रि­य­स्थाने वर्तत इति यथायथं पृथि­व्या­दि­दे­व­ता­दि­का­र्य­क­र­णै­स्ता­नेव पृथि­व्या­दि­दे­व­ता­दी­ञ्छ­क्नोति नियन्तुम् । न चानवस्था । नहि नियन्त्रन्तरं तेन नियम्यते, किन्तु यो जीवो नियन्ता लोकसिद्धः स पर­मा­त्मै­वो­पा­ध्य­व­च्छे­द­क­ल्पि­त­भे­द­स्तथा व्याख्यायत इत्य­स­कृ­दा­वे­दितं, तत्कुतो नियन्त्रन्तरं कुतश्चानवस्था । तथाच “नान्योऽतोऽस्ति द्रष्टा”(बृ. उ. ३ । ७ । २३) इत्याद्या अपि श्रुतय उपपन्नार्थाः । पर­मा­र्थ­तोऽ­न्त­र्या­मि­णोऽ­न्यस्य जीवात्मनो द्रष्टुरभावात् । अवि­द्या­क­ल्पि­त­जी­व­प­र­मा­त्म­भे­दा­श्र­यास्तु ज्ञातृ­ज्ञे­य­भे­द­श्रु­तयः, प्रत्यक्षादीनि प्रमाणानि, संसारानुभवः, विधि­नि­षे­ध­शा­स्त्राणि च । एवं चाधि­दै­वा­दि­ष्वे­क­स्यै­वा­न्त­र्या­मिणः प्रत्यभिज्ञानं समञ्जसं भवति, “यः सर्वांल्लोकान्”(बृ. उ. ३ । ७ । १) “यः सर्वाणि भूतानि” इत्यत्र य इत्ये­क­व­च­न­मु­प­प­द्यते । अमृतत्वं च परमात्मनि समञ्जसं नान्यत्र । “य आत्मनि तिष्ठन्” इत्यादौ चाभेदेऽपि भेदोपचारक्लेशो न भविष्यति । तस्मा­त्प­र­मा­त्मा­न्त­र्यामी न जीवादिरिति सिद्धम् । पृथिव्यादि स्तन­यि­त्न्व­न्त­म­धि­दै­वम् । “यः सर्वेषु लोकेषु” इत्याधिलोकम् । “यः सर्वेषु वेदेषु” इत्यधिवेदम् । “यः सर्वेषु यज्ञेषु” इत्यधियज्ञम् । “यः सर्वेषु भूतेषु” इत्यधिभूतम् । प्राणा­द्या­त्मा­न्त­म­ध्या­त्मम् । संज्ञाया अप्र­सि­द्ध­त्वा­दि­त्यु­प­क्र­म­मात्रं पूर्वः पक्षः ॥ १८ ॥॥ १९ ॥

दर्श­ना­दि­क्रि­यायाः कर्तरि प्रवृ­त्ति­वि­रो­धात् ।
कर्तरि आत्मनि प्रवृ­त्ति­वि­रो­धा­दि­त्यर्थः ॥ २० ॥

अदृ­श्य­त्वा­दि­गु­णको धर्मोक्तेः ।

अथ परा यया तदक्षरमधिगम्यते ।
यत्तदद्रेश्यं बुद्धी­न्द्रि­या­वि­षयः । अग्राह्यं कर्मे­न्द्रि­या­गो­चरः । अगोत्रं कारणरहितम् । अवर्णं ब्राह्म­ण­त्वा­दि­ही­नम् । न केव­ल­मि­न्द्रि­या­णा­म­वि­षयः ।

इन्द्रि­या­ण्य­प्यस्य न सन्तीत्याह -
अच­क्षुः­क्षो­त्र­मिति ।
बुद्धी­न्द्रि­या­ण्यु­प­ल­क्ष­यति । अपाणिपादमिति कर्मेन्द्रियाणि । नित्यं, विभुं, सर्वगतं सुसूक्ष्मं दुर्वि­ज्ञा­न­त्वात् ।

स्यादेतत् । नित्यं सत्किं परिणामि नित्यं, नेत्याह -
अव्ययम् ।
कूट­स्थ­नि­त्य­मि­त्यर्थः । “परिणामो विवर्तो वा सरूपस्योपलभ्यते । चिदात्मना तु सारूप्यं जडानां नोपपद्यते ॥ १ ॥ जडं प्रधानमेवातो जगद्योनिः प्रतीयताम् । योनिशब्दो निमित्तं चेत्कुतो जीवनिराक्रिया” ॥ २ ॥ परिणममानसरूपा एव परिणामा दृष्टाः । यथो­र्ण­ना­भि­ला­ला­प­रि­णामा लूता­त­न्त­व­स्त­त्स­रूपाः, तथा विवर्ता अपि वर्तमानसरूपा एव न विरूपाः । यथा रज्जुविवर्ता धारोरगादयो रज्जुसरूपाः । न जातु रज्ज्वां कुञ्जर इति विपर्यस्यन्ति । नच हेमपिण्डपरिणामो भवति लूतातन्तुः । तत्कस्य हेतोः, अत्य­न्त­वै­रू­प्यात् । तस्मा­त्प्र­धा­न­मेव जडं जडस्य जगतो योनिरिति युज्यते । स्वविकारानश्रुत इति तदक्षरम् । “यः सर्वज्ञः सर्ववित्”(मु. उ. १ । १ । ९) इति चाक्ष­रा­त्प­रा­त्प­र­स्या­ख्यानं, “अक्षरात्परतः परः”(मु. उ. २ । १ । २) इति श्रुतेः । नहि पर­स्मा­दा­त्म­नो­र्ऽ­वा­ग्वि­क­र­जा­तस्य च पर­स्ता­त्प्र­धा­ना­दृ­तेऽ­न्य­द­क्षरं सम्भवति । अतो यः प्रधानात्परः परमात्मा स सर्ववित् । भूत­यो­नि­स्त्व­क्षरं प्रधानमेव, तच्च साङ्ख्या­भि­म­त­मे­वास्तु । अथ तस्या­प्रा­मा­णि­क­त्वान्न तत्र परितुष्यति, अस्तु तर्हि नाम­रू­प­बी­ज­श­क्ति­भू­त­म­व्या­कृतं भूतसूक्ष्मं, प्रधीयते हि तेन विकारजातमिति प्रधानं, तत्खलु जड­म­नि­र्वा­च्य­म­नि­र्वा­च्यस्य जडस्य प्रप­ञ्च­स्यो­पा­दानं युज्यते, सारूप्यात् । ननु चिदा­त्मा­नि­र्वाच्यः, विरूपो हि सः । अचेतनानामिति भाष्यं सारू­प्य­प्र­ति­पा­द­न­प­रम् ।

स्यादेतत् । स्मार्त­प्र­धा­न­नि­रा­क­र­णे­नै­वै­त­दपि निराकृतप्रायं, तत्कुतोऽस्य शङ्केत्यत आह -
अपिच पूर्व­त्रा­दृ­ष्ट­त्वा­दीति ।
सति बाध­केऽ­स्या­ना­श्र­यणं, इह तु बाधकं नास्तीत्यर्थः । तेन “तदैक्षत”(छा. उ. ६ । २ । ३) इत्या­दा­वु­प­च­र्यतां ब्रह्मणो जग­द्यो­नि­ताऽ­वि­द्या­श­क्त्या­श्र­य­त्वेन । इह त्ववि­द्या­श­क्ते­रेव जग­द्यो­नि­त्व­स­म्भवे न द्वारा­द्वा­रि­भावो युक्त इति प्रधानमेवात्र वाक्ये जगद्योनिरुच्यत इति पूर्वः पक्षः । अथ योनिशब्दो निमि­त्त­का­र­ण­प­र­स्त­थापि ब्रह्मैव निमित्तं न तु जीवात्मेति विनिगमनायां न हेतुरस्तीति संशयेन पूर्वः पक्षः । अत्रोच्यते - “अक्षरस्य जग­द्यो­नि­भा­व­मुक्त्वा ह्यनन्तरम् । यः सर्वज्ञ इति श्रुत्या सर्वज्ञस्य स उच्यते ॥ १ ॥ तेन निर्दे­श­सा­मा­न्या­त्प्र­त्य­भि­ज्ञा­नतः स्फुटम् । अक्षरं सर्व­वि­द्वि­श्व­यो­नि­र्ना­चे­तनं भवेत् ॥ २ ॥ अक्षरात्परत इति श्रुति­स्त्व­व्या­कृते मता । अश्नुते यत्स्वकार्याणि ततोऽ­व्या­कृ­त­म­क्ष­रम्” ॥ ३ ॥ नेह तिरोहितमिवास्ति किञ्चित् । यत्तु सारूप्याभावान्न चिदात्मनः परिणामः प्रपञ्च इति । अद्धा । “विवर्तस्तु प्रपञ्चोऽयं ब्रह्म­णो­प­रि­णा­मिनः । अना­दि­वा­स­नो­द्भूतो न सारू­प्य­म­पे­क्षते” ॥ १ ॥ न खलु बाह्य­सा­रू­प्य­नि­ब­न्धन एव सर्वो विभ्रम इति निय­म­नि­मि­त्त­मस्ति । आन्तरादपि काम­क्रो­ध­भ­यो­न्मा­द­स्व­प्ना­दे­र्मा­न­सा­द­प­रा­धा­त्सा­रू­प्या­न­पे­क्षा­त्तस्य तस्य विभ्रमस्य दर्शनात् । अपिच हेतुमिति विभ्रमे तदभावादनुयोगो युज्यते । अना­द्य­वि­द्या­त­द्वा­स­ना­प्र­वा­ह­प­ति­तस्तु नानुयोगमर्हति । तस्मा­त्प­र­मा­त्म­वि­व­र्त­तया प्रप­ञ्च­स्त­द्योनिः, भुजङ्ग इव रज्जुविवर्ततया तद्योनिः, न तु तत्परिणामतया । तस्मा­त्त­द्ध­र्म­स­र्व­वि­त्त्वो­क्ते­र्लि­ङ्गात् “यत्त­द­द्रे­श्यम्”(मु. उ. १ । १ । ६) इत्यत्र ब्रह्मै­वो­प­दि­श्यते ज्ञेयत्वेन, नतु प्रधानं जीवात्मा वोपास्यत्वेनेति सिद्धम् ।

न केवलं लिङ्गादपि तु ‘परा विद्या’ इति समा­ख्या­ना­द­प्ये­त­देव प्रति­प­त्त­व्य­मि­त्याह -
अपिच द्वे विद्ये इति ।

लिङ्गान्तरमाह -
कस्मिन्नु भवत इति ।
भोगा भोग्यास्तेभ्यो व्यतिरिक्ते भोक्तरि । अवच्छिन्नो हि जीवात्मा भोग्येभ्यो विषयेभ्यो व्यतिरिक्त इति तज्ज्ञानेन न सर्वं ज्ञातं भवति ।

समाख्यान्तरमाह -
अपिच स ब्रह्मविद्यां सर्व­वि­द्या­प्र­ति­ष्ठा­मिति ।

प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशेति ।
प्लवन्ते गच्छन्ति अस्थायिन इति प्लवाः । अत एवादृढाः । के ते यज्ञरूपाः । रूप्य­न्तेऽ­ने­नेति रूपं, यज्ञो रूप­मु­पा­धि­र्येषां ते यज्ञरूपाः । ते तु षोडशर्त्विजः । ऋतुयजनेनोपाधिना ऋत्विक्शब्दः प्रवृत्त इति यज्ञोपाधय ऋत्विजः । एवं यजमानोऽपि यज्ञोपाधिरेव । एवं पत्नी, “पत्युर्नो यज्ञसंयोगे”(पा.सू.४-१-३३) इति स्मरणात् । त एतेऽष्टादश यज्ञरूपाः, येष्वृ­त्वि­गा­दि­षूक्तं कर्म यज्ञः । यदाश्रयो यज्ञ इत्यर्थः । तच्च कर्मावरं स्वर्गा­द्य­व­र­फ­ल­त्वात् । अपियन्ति प्राप्नुवन्ति ।

नहि दृष्टा­न्त­दा­र्ष्टा­न्ति­कयोः
इत्यु­क्ता­भि­प्रा­यम् ॥ २१ ॥

विशे­ष­ण­भे­द­व्य­प­दे­शाभ्यां च नेतरौ ।

विशेषणं हेतुं व्याचष्टे -
विशिनष्टि हीति ।
शारी­रा­दि­त्यु­प­ल­क्ष­णम् , प्रधानादित्यपि द्रष्टव्यम् ।

भेदव्यपदेशं व्याचष्टे -
तथा प्रधानादपीति ।

स्यादेतत् । किमागमिकं साङ्ख्याभिमतं प्रधानं, तथाच बहुसमञ्जसं स्यादित्यत आह -
नात्र प्रधानं नाम किञ्चिदिति ॥ २२ ॥

रूपोपन्यासाच्च ।

तदे­त­त्प­र­म­ते­ना­क्षे­प­स­मा­धा­नाभ्यां व्याख्याय स्वमतेन व्याचष्टे -
अन्ये पुनर्मन्यन्त इति ।
पुनःशब्दोऽपि पूर्व­स्मा­द्वि­शेषं द्योत­य­न्न­स्ये­ष्टतां सूचयति । जाय­मा­न­व­र्ग­म­ध्य­प­ति­त­स्या­ग्नि­मू­र्धा­दि­रू­प­वतः सति जायमानत्वसम्भवे नाक­स्मा­ज्ज­न­क­त्व­क­ल्पनं युक्तम् । प्रकरणं खल्वे­त­द्वि­श्व­योनेः, संनिधिश्च जायमानानाम् । संनिधेश्च प्रकरणं बलीय इति जाय­मा­न­प­रि­त्या­गेन विश्वयोनेरेव प्रकरणिनो रूपाभिधानमिति चेत् न, प्रकरणिनः शरी­रे­न्द्रि­या­दि­र­हि­तस्य विग्र­ह­व­त्त्व­वि­रो­धात् । न चैतावता मूर्धादिश्रुतयः प्रक­र­ण­वि­रो­धा­त्स्वा­र्थ­त्या­गेन सर्वा­त्म­ता­मा­त्र­परा इति युक्तम् , श्रुते­र­त्य­न्त­वि­प्र­कृ­ष्टा­र्था­त्प्र­क­र­णा­द्ब­ली­य­स्त्वात् । सिद्धे च प्रक­र­णि­ना­स­म्बन्धे जाय­मा­न­म­ध्य­पा­तित्वं जायमानग्रहणे कारणमुपन्यस्तं भाष्यकृता । तस्मा­द्धि­र­ण्य­गर्भ एव भगवान् प्राणात्मना सर्वभूतान्तरः कार्यो निर्दिश्यत इति साम्प्रतम् ।

तत्किमिदानीं सूत्रमनवधेयमेव, नेत्याह -
अस्मिन्पक्ष इति ।
प्रकरणात् ॥ २३ ॥

वैश्वानरः साधा­र­ण­श­ब्द­वि­शे­षात् ।

प्राचीन शाल­स­त्य­य­ज्ञे­न्द्र­द्यु­म्न­ज­न­बु­डिलाः समेत्य मीमांसां चक्रुः -
को न आत्मा किं ब्रह्मेति ।
आत्मेत्युक्ते जीवात्मनि प्रत्ययो मा भूदत उक्तं किं ब्रह्मेति । ते च मीमांसमाना निश्च­य­म­न­धि­ग­च्छन्तः कैकेयराजं वैश्वा­न­र­वि­द्या­वि­द­मु­प­सेदुः ।

उपसद्य चोचुः -
आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि
स्मरसि

तमेव नो ब्रूही­त्यु­प­क्रम्य द्युसू­र्वा­य्वा­का­श­वा­रि­पृ­थि­वी­ना­मिति ।
अयमर्थः - वैश्वानरस्य भगवतो द्यौर्मूर्धा सुतेजाः । चक्षुश्च विश्वरूपः सूर्यः । प्राणो वायुः पृथ­ग्व­र्त्मात्मा पृथक् वर्त्म यस्य वायोः स पृथग्वर्त्मा स एवात्मा स्वभावो यस्य स पृथ­ग्व­र्त्मात्मा । सन्देहो देहस्य मध्यभागः स आकाशो बहुलः सर्वगतत्वात् । बस्तिरेव रयिः आपः, यतोऽ­द्भ्योऽ­न्न­म­न्नाच्च रयिर्धनं तस्मादापो रयि­रु­क्ता­स्तासां च मूत्रीभूतानां बस्तिः स्थानमिति बस्तिरेव रयिरित्युक्तम् । पादौ पृथिवी तत्र प्रतिष्ठानात् । तदेवं वैश्वानरावयवेषु द्युसू­र्या­नि­ला­का­श­ज­ला­व­निषु मूर्ध­च­क्षुः­प्रा­ण­स­न्दे­ह­ब­स्ति­पा­दे­ष्वे­कै­क­स्मिन् वैश्वा­न­र­बुद्ध्या विप­री­त­त­यो­पा­स­कानां प्राची­न­शा­ला­दीनां मूर्ध­पा­ता­न्ध­त्व­प्रा­णो­त्क्र­म­ण­दे­ह­शी­र्ण­ता­ब­स्ति­भे­द­पा­द­श्ल­थी­भा­व­दू­ष­णै­रु­पा­स­नानां निन्दया मूर्धा­दि­स­म­स्त­भा­व­मु­प­दि­श्या­म्ना­यते “यस्त्वेतमेवं प्रादे­श­मा­त्र­म­भि­वि­मा­नम्”(छा. उ. ५ । १८ । १) इति । स सर्वेषु लोकेषु द्युपृभृतिषु, सर्वेषु भूतेषु स्थावरजङ्गमेषु, सर्वेष्वात्मसु देहे­न्द्रि­य­म­नो­बु­द्धि­जी­वे­ष्व­न्न­मत्ति । सर्व­स­म्ब­न्धि­फ­ल­मा­प्नो­ती­त्यर्थः ।

अथास्य वैश्वानरस्य भोक्तु­र्भो­ज­न­स्या­ग्नि­हो­त्र­ता­स­म्पि­पा­द­यि­ष­याह श्रुतिः -
उर एव वेदिः
वेदिसारूप्यात् ।

लोमानि बर्हिः
आस्ती­र्ण­ब्र­हिः­सा­रू­प्यात् ।

हृदयं गार्हपत्यः ।

हृदयानन्तरं -
मनोऽ­न्वा­हा­र्य­प­चनः ।

आस्यमाहवनीयः ।
तत्र हि तदन्नं हूयते । ननु “को न आत्मा किं ब्रह्म”(छा. उ. ५ । ११ । १) इत्युपक्रमे आत्म­ब्र­ह्म­श­ब्दयोः परमात्मनि रूढत्वेन तदुपरक्तायां बुद्धौ वैश्वा­न­रा­ग्न्या­दयः शब्दा­स्त­द­नु­रो­धेन परमात्मन्येव कथञ्चिन्नेतुं युज्यन्ते नतु प्रथमावगतौ ब्रह्मात्मशब्दौ चर­मा­व­ग­त­वै­श्वा­न­रा­दि­प­दा­नु­रो­धे­ना­न्य­थ­यितुं युज्येते । यद्यपि च वाजसनेयिनां वैश्वा­न­र­वि­द्यो­प­क्रमे “वैश्वानरं ह वै भगवान् सम्प्रति वेद तं नो ब्रूहि” इत्यत्र नात्म­ब्र­ह्म­शब्दौ स्तः, तथापि तत्समानार्थं छान्दोग्यवाक्यं तदुपक्रममिति तेन निश्चितार्थेन तदविरोधेन वाज­स­ने­यि­वा­क्यार्थो निश्चीयते । निश्चितार्थेन ह्यनिश्चितार्थं व्यवस्थाप्यते, नानिश्चितार्थेन निश्चितार्थम् । कर्मवच्च ब्रह्मापि सर्व­शा­खा­प्र­त्य­य­मे­क­मेव । नच द्युमू­र्ध­त्वा­दिकं जाठ­र­भू­ता­ग्नि­दे­व­ता­जी­वा­त्म­ना­म­न्य­त­म­स्यापि सम्भवति । नच सर्व­लो­का­श्र­य­फ­ल­भा­गिता ।

न च सर्वपाप्मप्रदाह इति पारि­शे­ष्या­त्प­र­मा­त्मैव वैश्वानर इति निश्चिते कुतः पुनरियमाशङ्का -
शब्दा­दि­भ्योऽन्तः प्रति­ष्ठा­ना­न्नेति चेदिति ।
उच्यते - तदे­वो­प­क्र­मा­नु­रो­धे­ना­न्यथा नीयते, यन्नेतुं शक्यम् । अशक्यौ च वैश्वा­न­रा­ग्नि­श­ब्दा­व­न्यथा नेतुमिति शङ्कितुरभिमानः । अपि चान्तः­प्र­ति­ष्ठि­तत्वं च प्रादे­श­मा­त्रत्वं च न सर्व­व्या­पि­नोऽ­प­रि­मा­णस्य च परब्रह्मणः सम्भवतः । नच प्राणा­हु­त्य­धि­क­र­ण­ताऽ­न्यत्र जाठ­रा­ग्ने­र्यु­ज्यते । नच गार्ह­प­त्या­दि­हृ­द­या­दिता ब्रह्मणः सम्भविनी । तस्माद्यथायोगं जाठ­र­भू­ता­ग्नि­दे­व­ता­जी­वा­ना­म­न्य­तमो वैश्वानरः, नतु ब्रह्म । तथा च ब्रह्मा­त्म­श­ब्दा­वु­प­क्र­म­ग­ता­व­प्य­न्यथा नेतव्यौ । मूर्धत्वादयश्च स्तुतिमात्रम् । अथवा अग्निशरीराया देवताया ऐश्वर्ययोगात् द्युमूर्धत्वादय उपपद्यन्त इति शङ्कि­तु­र­भि­सन्धिः ।

अत्रोत्तरम् -
न ।

कुतः,
तथा दृष्ट्युपदेशात् ।
अद्धा चर­म­म­न­न्य­था­सिद्धं प्रथ­मा­व­ग­त­म­न्य­थ­यति । न त्वत्र चर­म­स्या­न­न्य­था­सिद्धिः, प्रतीकोपदेशेन वा मनो ब्रह्मेतिवत् , तदुपाध्युपदेशेन वा मनोमयः प्राणशरीरो भारूप इतिवदुपपत्तेः । व्युत्पत्त्या वा वैश्वा­न­रा­ग्नि­श­ब्द­यो­र्ब्र­ह्म­व­च­न­त्वा­न्ना­न्य­था­सिद्धिः । तथाच ब्रह्माश्रयस्य प्रत्य­य­स्या­श्र­या­न्तरे जाठ­र­वै­श्वा­न­रा­ह्वये क्षेपेण वा जाठ­र­वै­श्वा­न­रो­पा­धिनि वा ब्रह्म­ण्यु­पास्ये वैश्वा­न­र­ध­र्माणां ब्रह्मधर्माणां च समावेश उपपद्यते ।

असम्भवादिति सूत्रावयवं व्याचष्टे -
यदि चेह परमेश्वरो न विवक्ष्येतेति ।

पुरुषमपि चैनमधीयत इति सूत्रावयवं व्याचष्टे -
यदि च केवल एवेति ।
न ब्रह्मोपाधितया नापि प्रती­क­त­ये­त्यर्थः । न केव­ल­म­न्तः­प्र­ति­ष्ठितं पुरु­ष­म­पी­त्य­पे­रर्थः । अत एव यत्पुरुष इति पुरुषमनूद्य न वैश्वानरो विधीयते । तथासति पुरुषे वैश्वा­न­र­दृ­ष्टि­रु­प­दि­श्येत । एवं च पर­मे­श्व­र­दृ­ष्टिर्हि जाठरे वैश्वानर इहोपदिश्यत इति भाष्यं विरुध्येत । श्रुतिविरोधश्च । “स यो हैतमेवमग्निं वैश्वानरं पुरुषं पुरुषविधं पुरु­षेऽ­न्तः­प्र­ति­ष्ठितं वेद” इति वैश्वानरस्य हि पुरु­ष­त्व­वे­द­न­म­त्रा­नू­द्यते, नतु पुरुषस्य वैश्वा­न­र­त्व­वे­द­नम् । तस्मात् “स एषोऽ­ग्नि­र्वै­श्वा­नरो यत्”(श. ब्रा. १० । ६ । १ । ११) इति यदः पूर्वेण सम्बन्धः, पुरुष इति तु तत्र पुरु­ष­दृ­ष्टे­रु­प­देश इति युक्तम् ॥ २४ ॥ ॥ २५ ॥ ॥ २६ ॥

अत एव न देवता भूतं च ।
अत एवैतेभ्यः श्रुति­स्मृ­त्य­व­ग­त­द्यु­मू­र्ध­त्वा­दि­स­म्ब­न्ध­स­र्व­लो­का­श्र­य­फ­ल­भा­गि­त्व­स­र्व­पा­प्म­प्र­दा­हा­त्म­ब्र­ह्म­प­दो­क्र­मेभ्यो हेतुभ्य इत्यर्थः । “यो भानुना पृथिवीं द्यामुतेमाम्”(ऋ. सं. १० । ८८ । ३) इति मन्त्रवर्णोऽपि न केव­लौ­ष्ण्य­प्र­का­श­वि­भ­व­मा­त्रस्य भूता­ग्ने­रि­म­मी­दृशं महिमानमाह, अपि तु ब्रह्मविकारतया ताद्रूप्येणेति भावः ॥ २७ ॥

साक्षा­द­प्य­वि­रोधं जैमिनिः ।
यदेतत्प्रकृतं मूर्धादिषु चुबुकान्तेषु पुरुषावयवेषु द्युप्र­भृ­ती­न्पृ­थि­वी­प­र्य­न्तां­स्त्रै­लो­क्या­त्मनो वैश्वा­न­र­स्या­व­य­वान् सम्पाद्य पुरुषविधत्वं कल्पितं तद­भि­प्रा­ये­णे­द­मु­च्यते “पुरुषविधं पुरु­षेऽ­न्तः­प्र­ति­ष्ठितं वेद”(श. ब्रा. १० । ६ । १ । ११) इति । अत्रा­व­य­व­स­म्पत्त्या पुरुषविधत्वं कार्य­का­र­ण­स­मु­दा­य­रू­प­पु­रु­षा­व­य­व­मू­र्धा­दि­चु­बु­का­न्तः­प्र­ति­ष्ठा­नाच्च पुरु­षेऽ­न्तः­प्र­ति­ष्ठि­तत्वं समु­दा­य­म­ध्य­प­ति­त­त्वा­त्त­द­व­य­वानां समुदायिनाम् ।

अत्रैव निदर्शनमाह -
यथा वृक्षे शाखामिति ।
शाखा­का­ण्ड­मू­ल­स्क­न्ध­स­मु­दाये प्रतिष्ठिता शाखा तन्मध्यपतिता भवतीत्यर्थः ।

समाधानान्तरमाह -
अथवेति ।
अन्तः­प्र­ति­ष्ठत्वं माध्यस्थ्यं तेन साक्षित्वं लक्षयति । एतदुक्तं भवति - वैश्वा­न­रः­प­र­मात्मा चराचरसाक्षीति ।

पूर्व­प­क्षि­णोऽ­नु­श­य­मु­न्मू­ल­यति -
निश्चिते चेति ।
विश्वा­त्म­क­त्वात् वैश्वानरः प्रत्यागात्मा । विश्वेषां वायं नरः, तद्वि­का­र­त्वा­द्वि­श्व­प्र­प­ञ्चस्य । विश्वे नरा जीवा वात्मानोऽस्य तादात्म्येनेति ॥ २८ ॥

अभि­व्य­क्ते­रि­त्या­श्म­रथ्यः ।

साक­ल्ये­नो­प­ल­म्भा­स­म्भ­वा­दु­पा­स­का­ना­म­नु­ग्र­हा­या­न­न्तोऽपि परमेश्वरः प्रादे­श­मा­त्र­मा­त्मा­न­म­भि­व्य­न­क्ती­त्याह -
अति­मा­त्र­स्या­पीति ।
अतिक्रान्तो मात्रां परिमाणमतिमात्रः ।

उपासकानां कृते ।
उपासकार्थमिति यावत् ।

व्याख्यान्तरमाह -
प्रदेशेषु वेति ॥ २९ ॥ ॥ ३० ॥

सम्पत्तेरिति जैमिनिः ।
मूर्धा­न­मु­प­क्रम्य चुबुकान्तो हि कायप्रदेशः प्रादेशमात्रः । तत्रैव त्रैलोक्यात्मनो वैश्वा­न­र­स्या­व­य­वा­न्स­म्पा­द­य­न्प्रा­दे­श­मात्रं वैश्वानरं दर्शयति ॥ ३१ ॥

अत्रैव जाबा­ल­श्रु­ति­सं­वा­द­माह सूत्रकारः -
आमनन्ति चैनमस्मिन् ।
अविमुक्ते अवि­द्यो­पा­धि­क­ल्पि­ता­व­च्छेदे जीवात्मनि स खल्वविमुक्तः । तस्मि­न्प्र­ति­ष्ठितः परमात्मा, तादात्म्यात् । अत एव हि श्रुतिः - “अनेन जीवेनात्मना”(छा. उ. ६ । ३ । २) इति । अविद्याकल्पितं तु भेद­मा­श्रि­त्या­धा­रा­धे­य­भावः । वरणा भ्रूः । शेष­म­ति­रो­हि­ता­र्थम् ॥ ३२ ॥
इति श्रीवा­च­स्प­ति­मि­श्र­वि­र­चिते शारी­र­क­मी­मं­सा­भा­ष्य­वि­भागे भामत्यां प्रथ­म­स्या­ध्या­यस्य द्वितीयः पादः ॥ २ ॥
॥ इति प्रथमाध्यायस्य उपा­स्य­ब्र­ह्म­वा­च­का­स्प­ष्ट­श्रु­ति­स­म­न्व­याख्यो द्वितीयः पादः ॥

द्युभ्वा­द्या­य­तनं स्वशब्दात् ।
इह ज्ञेयत्वेन ब्रह्मो­प­क्षि­प्यते । तत् “पारवत्त्वेन सेतुत्वाद्भेदे षष्ठ्याः प्रयोगतः । द्युभ्वा­द्या­य­तनं युक्तं नामृतं ब्रह्म कर्हिचित्” ॥ पारावारमध्यपाती हि सेतुः ताभ्या­म­व­च्छि­द्य­मानो जलविधारको लोके दृष्टः, नतु बन्ध­न­हे­तु­मा­त्रम् । हडिनिगडादिष्वपि प्रयो­ग­प्र­स­ङ्गात् । न चानवच्छिन्नं ब्रह्म सेतुभावमनुभवति । न चामृतं सद्ब्र­ह्मा­मृ­तस्य सेतुरिति युज्यते । नच ब्रह्म­णोऽ­न्य­द­मृ­त­मस्ति, यस्य तत्सेतुः स्यात् । न चाभेदे षष्ठ्याः प्रयोगो दृष्टपूर्वः ।

तदिदमुक्तम् -
अमृतस्यैष सेतुरिति श्रवणादिति ।
अमृतस्येति श्रवणात् , सेतुरिति च श्रवणात् , इति योजना । तत्रामृतस्येति श्रवणादिति विशदतया न व्याख्यातम् ।

सेतुरिति श्रवणादिति व्याचष्टे -
पारवानिति ।
तथाच पार­व­त्य­मृ­त­व्य­ति­रिक्ते सेता­व­नु­श्रि­य­माणे प्रधानं वा साङ्ख्य­प­रि­क­ल्पितं भवेत् । तत्खलु स्वका­र्यो­प­हि­त­म­र्या­द­तया पुरुषं याव­द­ग­च्छ­द्भ­व­तीति पारवत् , भवति च द्युभ्वा­द्या­य­तनं, तत्प्र­कृ­ति­त्वात् , प्रकृ­त्या­य­त­न­त्वाच्च विकाराणां, भवति चात्मा­त्म­श­ब्द­स्य­स्व­भा­व­व­च­न­त्वात् , प्रकाशात्मा प्रदीप इतिवत् । भवति चास्य ज्ञान­म­प­व­र्गो­प­योगि, तदभावे प्रधा­ना­द्वि­वे­केन पुरु­ष­स्या­न­व­धा­र­णा­द­प­व­नु­प­र्गा­पत्तेः । यदि त्वस्मि­न्प्र­मा­णा­भा­वेन न परितुष्यसि, अस्तु तर्हि नाम­रू­प­बी­ज­श­क्ति­भू­त­म­व्या­कृतं भूतसूक्ष्मं द्युभ्वा­द्या­य­तनं, तस्मिन् प्रामाणिके सर्व­स्यो­क्त­स्यो­प­पत्तेः । एतदपि प्रधानोपन्यासेन सूचितम् । अथ तु साक्षा­च्छु­त्युक्तं द्युभ्वा­द्या­य­त­न­मा­द्रि­यसे, ततो वायुरेवास्तु । “वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति”(बृ. उ. ३ । ७ । २) इति श्रुतेः । यदि त्वात्म­श­ब्दा­भि­धे­यत्वं न विद्यत इति न परितुष्यसि, भवतु तर्हि शारीरः, तस्य भोक्तु­र्भो­ग्यान् द्युप्र­भृ­ती­न्प्र­त्या­य­त­न­त्वात् । यदि पुनरस्य द्युभ्वा­द्या­य­त­नस्य सार्व­ज्ञ्य­श्रु­ते­र­त्रापि न परितुष्यसि, भवतु ततो हिरण्यगर्भ एव भगवान् सर्वज्ञः सूत्रात्मा द्युभ्वा­द्या­य­त­नम् । तस्य हि कार्यत्वेन पारवत्त्वं चामृ­ता­त्प­र­ब्र­ह्मणो भेदश्चेत्यादि सर्वमुपपद्यते । अयमपि “वायुना वै गौतम सूत्रेण”(बृ. उ. ३ । ७ । २) इति श्रुति­मु­प­न्य­स्यता सूचितः । तस्मादयं द्युप्र­भृ­ती­ना­मा­य­त­न­मि­त्येवं प्राप्तेऽ­भि­धी­यते । द्युभ्वा­द्या­य­तनं परं ब्रह्मैव, न प्रधा­ना­व्या­कृ­त­वा­यु­शा­री­र­हि­र­ण्य­गर्भाः । कुतः, स्वशब्दात् । “धार­णा­द्वा­मृ­त­त्वस्य साधनाद्वास्य सेतुता । पूर्वपक्षेऽपि मुख्यार्थः सेतुशब्दो हि नेष्यते” ॥ नहि मृद्दारुमयो मूर्तः पारा­वा­र­म­ध्य­वर्ती पाथसां विधारको लोकसिद्धः सेतुः प्रधानं वाव्याकृतं वा वायुर्वा जीवो वा सूत्रात्मा वाभ्युपेयते । किन्तु पार­व­त्ता­मा­त्र­परो लाक्षणिकः सेतु­श­ब्दोऽ­भ्यु­पेयः । सोऽस्माकं पारवत्तावर्जं विधरणत्वमात्रेण योग­मा­त्रा­द्रूढिं परित्यज्य प्रवर्त्स्यति । जीवा­ना­म­मृ­त­त्व­प­द­प्रा­प्ति­सा­ध­नत्वं वात्मज्ञानस्य पारवत एव लक्षयिष्यति । अमृतशब्दश्च भावप्रधानः । यथा “द्व्येक­यो­र्द्वि­व­च­नै­क­व­चने”(पा.सू. १।४।२२) इत्यत्र द्वित्वैकत्वे द्व्येक­श­ब्दार्थौ, अन्यथा द्व्येकेष्विति स्यात् ।

तदिदमुक्तं भाष्यकृता -
अमृ­त­त्व­सा­ध­न­त्वा­दिति ।
तथा चामृतस्येति च सेतुरिति च ब्रह्मणि द्युभ्वा­द्या­य­तने उपपत्स्येते । अत्र च स्वशब्दादिति तन्त्रो­च्च­रि­त­मा­त्म­श­ब्दा­दिति च सदायतना इति सच्छब्दादिति च ब्रह्मशब्दादिति च सूचयति । सर्वे ह्येतेऽस्य स्वशब्दाः ।

स्यादेतत् । आयतनायतनवद्भावः सर्वं ब्रह्मेति च सामानाधिकरण्यं हिर­ण्य­ग­र्भे­प्यु­प­प­द्यते । तथाच स एवा­त्रा­स्त्व­मृ­त­त्वस्य सेतु­रि­त्या­शङ्क्य श्रुतिवाक्येन साव­धा­र­णे­नो­त्त­र­माह -
तत्रा­य­त­ना­य­त­न­व­द्भा­व­श्र­व­णा­दिति ।
विका­र­रू­पेऽ­नृ­तेऽ­नि­र्वा­च्येऽ­भि­स­न्धानं यस्या­भि­स­न्धा­न­पु­रु­षस्य स तथोक्तः । भेदप्रपञ्चं सत्यमभिमन्यमान इति यावत् ।

तस्यापवादो दोषः श्रूयते -
मृत्योरिति ।

सर्वं ब्रह्मेति त्विति ।
यत्स­र्व­म­वि­द्या­रो­पितं तत्सर्वं परमार्थतो ब्रह्म । न तु यद्ब्रह्म तत्स­र्व­मि­त्यर्थः ।

अपर आहेति ।
नात्र द्युभ्वा­द्या­य­त­नस्य सेतुतोच्यते येन पारवत्ता स्यात् । किन्तु“जानथ” इति यज्ज्ञानं कीर्तितं, यश्च”वाचो विमुञ्चथ” इति वाग्विमोकः, तस्या­मृ­त­त्व­सा­ध­न­त्वेन सेतुतोच्यते । तच्चोभयमपि पारवदेव । नच प्राधान्यादेष इति सर्वनाम्ना द्युभ्वा­द्या­य­त­न­मा­त्मैव परामृश्यते, न तु तज्ज्ञा­न­वा­ग्वि­मो­चने इति साम्प्रतम् । वाग्वि­मो­च­ना­त्म­ज्ञा­न­भा­व­न­यो­रेव विधेयत्वेन प्राधान्यात् । आत्मनस्तु द्रव्य­स्या­व्या­पा­र­त­याऽ­वि­धे­य­त्वात् । विधेयस्य व्यापारस्यैव व्यापा­र­व­तोऽ­मृ­त­त्व­सा­ध­न­त्वात्न चेदमैकान्तिकं यत्प्रधानमेव सर्वनाम्ना परामृश्यते । क्वचिदयोग्यतया प्रधानमुत्सृज्य योग्यतया गुणोऽपि परामृश्यते ॥ १ ॥

मुक्तो­प­सृ­प्य­व्य­प­दे­शात् ।
द्युभ्वा­द्या­य­तनं प्रकृ­त्या­वि­द्या­दि­दो­ष­मु­क्तै­रु­प­सृप्यं व्यपदिश्यते - “भिद्यते हृदयग्रन्थिः”(मु.उ. २-२-९) इत्यादिना । तेन तत् द्युभ्वा­द्या­य­त­न­वि­ष­य­मेव । ब्रह्मणश्च मुक्तो­प­सृ­प्यत्वं “यदा सर्वे प्रमुच्यन्ते”(क. उ. २ । ३ । १४) इत्यादौ श्रुत्यन्तरे प्रसिद्धम् । तस्मा­न्मु­क्तो­प­सृ­प्य­त्वात् । द्युभ्वा­द्या­य­तनं ब्रह्मेति निश्चीयते । हृद­य­ग्र­न्थि­श्चा­वि­द्या­रा­गा­द्वे­ष­भ­य­मोहाः । मोहश्च विषादः, शोकः । परं हिर­ण्य­ग­र्भा­द्य­वरं यस्य तद्ब्रह्म तथोक्तम् । तस्मिन्ब्रह्मणि यद्दृष्टं दर्शनं तस्मिं­स्त­द­र्थ­मिति यावत् । यथा ‘चर्मणि द्वीपिनं हन्ति’ इति चर्मार्थमिति गम्यते । नाम­रू­पा­दि­त्य­प्य­वि­द्या­भि­प्रा­यम् ।

कामा येऽस्य हृदि श्रिता इति ।
कामा इत्य­वि­द्या­मु­प­ल­क्ष­यति ॥ २ ॥

नानु­मा­न­म­त­च्छ­ब्दात् ।
नानु­मा­न­मि­त्यु­प­ल­क्ष­णम् । नाव्या­कृ­त­मि­त्यपि द्रष्टव्यं, हेतोरुभयत्रापि साम्यात् ॥ ३ ॥

प्राणभृच्च ।

चेनातच्छब्दत्वं हेतुरनुकृष्यते । स्वयं च भाष्यकृदत्र हेतुमाह -
न चोपा­धि­प­रि­च्छि­न्न­स्येति ।
न सम्यक्सम्भवति । नाञ्जसमित्यर्थः । भोग्यत्वेन हि आयतनत्वमिति क्लिष्टम् ।

स्यादेतत् । यद्य­त­च्छ­ब्द­त्वा­दि­त्य­त्रापि हेतु­र­नु­क्र­ष्टव्यः, हन्त कस्मा­त्पृ­थ­ग्यो­ग­क­रणं, यावता ‘न प्राणभृदनुमाने’ इत्येक एव योगः कस्मान्न कृत इत्यत आह -
पृथगिति ।
'भेद­व्य­प­दे­शात्” इत्यादिना हि प्राणभृदेव निषिध्यते, न प्रधानं, तच्चैकयोगकरणे दुर्विज्ञानं स्यादिति ॥ ४ ॥ ॥ ५ ॥

प्रकरणात् ।
न खलु हिरण्यगर्भादिषु ज्ञातेषु सर्वं ज्ञातं भवति किन्तु ब्रह्मण्येवेति ॥ ६ ॥

स्थित्यदनाभ्यां च ।
यदि जीवो हिरण्यगर्भो वा द्युभ्वा­द्या­य­तनं भवेत् , तत­स्त­त्प्र­कृत्या “अन­श्न­न्न­न्योऽ­अ­भि­चा­क­शीति”(मु. उ. ३ । १ । १) इति पर­मा­त्मा­भि­धा­न­मा­क­स्मिकं प्रसज्येत । नच हिरण्यगर्भ उदासीनः, तस्यापि भोक्तृत्वात् । नच जीवात्मैव द्युभ्वा­द्या­य­तनं, तथा सति स एवात्र कथ्यते, तत्कथनाय च ब्रह्मापि कथ्यते, अन्यथा सिद्धान्तेऽपि जीवा­त्म­क­थ­न­मा­क­स्मिकं स्यादिति वाच्यम् ।

यतोऽ­न­धि­ग­ता­र्था­व­बो­ध­न­स्व­र­से­ना­म्ना­येन प्राण­भृ­न्मा­त्र­प्र­सि­द्ध­जी­वा­त्मा­धि­ग­मा­या­त्य­न्ता­न­व­ग­त­म­लौ­किकं ब्रह्मावबोध्यत इति सुभाषितम् -
यदापि पैङ्ग्यु­प­नि­ष­त्कृ­तेन व्याख्यानेनेति ।
तत्र हि “अन­श्न­न्न­न्योऽ­अ­भि­चा­क­शीति”(मु. उ. ३ । १ । १) इति जीव उपाधिरहितेन रूपेण ब्रह्मस्वभाव उदासीनोऽभोक्ता दर्शितः । तद­र्थ­मे­वा­चे­त­नस्य बुद्धि­स­त्त्व­स्या­पा­र­मा­र्थिकं भोक्तृ­त्व­मु­क्तम् । तथा चेत्थम्भूतं जीवं कथयतानेन मन्त्रवर्णेन द्युभ्वा­द्या­य­तनं ब्रह्मैव कथितं भवति, उपा­ध्य­व­च्छि­न्नश्च जीवः प्रतिषिद्धो भवतीति । न पैङ्गि­ब्रा­ह्म­ण­वि­रोध इत्यर्थः ।

प्रपञ्चार्थमिति ।
तन्मध्ये न पठितमिति कृत्वा­चि­न्त­ये­द­म­धि­क­रणं प्रवृ­त्त­मि­त्यर्थः ॥ ७ ॥

भूमा सम्प्र­सा­दा­द­ध्यु­प­दे­शात् ।
नारदः खलु देवर्षिः कर्म­वि­द­ना­त्म­वि­त्तया शोच्यमात्मानं मन्यमानो भग­व­न्त­मा­त्म­ज्ञ­मा­जा­न­सिद्धं महायोगिनं सन­त्कु­मा­र­मु­प­स­साद । उपसद्य चोवाच , भगवन् , अना­त्म­ज्ञ­ता­ज­नि­त­शो­क­सा­ग­र­पा­र­मु­त्ता­र­यतु मां भगवानिति । तदुपश्रुत्य सनत्कुमारेण ‘नाम ब्रह्मे­त्यु­पास्स्व’ इत्युक्ते नारदेन पृष्टं किंनाम्नोऽस्ति भूय इति । तत्र सनत्कुमारस्य प्रतिवचनम् - “वाग्वाव नाम्नो भूयसी”(छा. उ. ७ । २ । १) इति तदेवं नार­द­स­न­त्कु­मा­र­यो­र्भू­यसी । प्रश्नोत्तरे वागि­न्द्रि­य­मु­प­क्रम्य मनः­स­ङ्क­ल्प­चि­त्त­ध्या­न­वि­ज्ञा­न­ब­ला­न्न­तो­य­वा­यु­स­हि­त­ते­जो­न­भः­स्म­रा­शा­प्रा­णेषु पर्यवसिते । कर्त­व्या­क­र्त­व्य­वि­वेकः सङ्कल्पः, तस्य कारणं पूर्वा­प­र­वि­ष­य­नि­मि­त्त­प्र­यो­ज­न­नि­रू­पणं चित्तम् । स्मरः स्मरणम् । प्राणस्य च सम­स्त­क्रि­या­का­र­क­फ­ल­भे­देन पित्रा­द्या­त्म­त्वेन च रथा­र­ना­भि­दृ­ष्टा­न्तेन सर्व­प्र­ति­ष्ठ­त्वेन च प्राण­भू­य­स्त्व­द­र्शि­नोऽ­ति­वा­दि­त्वेन च नामा­दि­प्र­प­ञ्चा­दा­शा­न्ता­द्भू­य­स्त्व­मु­क्त्वा­पृष्ट एव नारदेन सनत्कुमार एकग्रन्थेन “एष तु वा अतिवदति यः सत्येनातिवदति”(छा. उ. ७ । १५ । १) इति सत्या­दी­न्कृ­ति­प­र्य­न्ता­नु­क्त्वो­प­दि­देश - “सुखं त्वेव विजि­ज्ञा­सि­त­व्यम्”(छा. उ. ७ । २२ । १) इति । तदुपश्रुत्य नारदेन - “सुखं त्वेव भगवो विजिज्ञासे”(छा. उ. ७ । २१ । १) इत्युक्ते सनत्कुमारः “यो वै भूमा तत्सुखम्”(छा. उ. ७ । २३ । १) इत्युपक्रम्य भूमानं व्युत्पा­द­या­म्ब­भूव - “यत्र नान्यत्पश्यति”(छा. उ. ७ । २४ । १) इत्यादिना । तदीदृशे विषये विचार आरभ्यते । तत्र संशयःकिं प्राणो भूमा स्यादाहो परमात्मेति । भाव­भ­वि­त्रो­स्ता­दा­त्म्य­वि­व­क्षया सामानाधिकरण्यं संशयस्य बीजमुक्तं भाष्यकृता । तत्र “एतस्मिन् ग्रन्थसन्दर्भे यदु­क्ता­द्भू­य­सोऽ­न्यतः । उच्यमानं तु तद्भूय उच्यते प्रश्नपूर्वकम्” ॥ नच प्राणात्किं भूय इति पृष्टम् । नापि भूमा वास्मा­द्भू­या­निति प्रत्युक्तम् । तस्मा­त्प्रा­ण­भू­य­स्त्वा­भि­धा­ना­न­न्त­र­म­पृ­ष्ठेन भूमोच्यमानः प्राणस्यैव भवितुमर्हति । अपिच भूमेति भावो न भवितारमन्तरेण शक्यो निरूपयितुमिति भवि­ता­र­म­पे­क्ष­माणः प्राण­स्या­न­न्त­र्येण बुद्धि­सं­नि­धा­ना­त्त­मेव भवितारं प्राप्य निर्वृणोति । “यस्योभयं हवि­रा­र्ति­मा­र्च्छेत्” इत्य­त्रा­र्ति­रि­वार्तं हविः । यथाहुः “मृष्यामहे हविषा विशेषणम्” इति । न चात्मनः प्रकरणादात्मैव बुद्धिस्थ इति तस्यैव भूमा स्यादिति युक्तम् । सनत्कुमारस्य ‘नाम ब्रह्मे­त्यु­पास्स्व’ इति प्रती­को­प­दे­श­रू­पे­णो­त्त­रेण नार­द­प्र­श्न­स्यापि तद्विषयत्वेन पर­मा­त्मो­प­दे­श­प्र­क­र­ण­स्या­नु­त्था­नात् । अतद्विषयत्वे चोत्तरस्य प्रश्नो­त्त­र­यो­र्वै­य­धि­क­र­ण्येन विप्र­ति­प­त्ते­र­प्रा­मा­ण्य­प्र­स­ङ्गात् । तस्मादसति प्रकरणे प्राण­स्या­न­न्त­र्या­त्त­स्यैव भूमेति युक्तम् । तदेतत्संशयबीजं दर्शयता भाष्यकारेण सूचितं पूर्व­प­क्ष­सा­ध­न­मिति न पुनरुक्तम् । नच भूयोभूयः प्रश्ना­त्प­र­मा­त्मैव नारदेन जिज्ञासित इति युक्तम् । प्राणो­प­दे­शा­न­न्तरं तस्योपरमात् । तदेवं प्राण एव भूमेति स्थिते यद्य­त्त­द्वि­रो­धि­तया वचः प्रतिभाति तत्तदनुगुणतया नेयम् । नीतं च भाष्यकृता ।

स्यादेतत् । “एष तु वा अतिवदति”(छा. उ. ७ । १७ । १) इति तुशब्देन प्राण­द­र्शि­नोऽ­ति­वा­दिनो व्यवच्छिद्य सत्ये­ना­ति­वा­दित्वं वदन् कथं प्राणस्य भूमा­न­म­भि­द­धी­ते­त्यत आह -
प्राणमेव त्विति ।

प्राण­द­र्शि­न­श्चा­ति­वा­दि­त्व­मिति ।
नामा­द्या­शा­न्त­म­तीत्य वद­न­शी­ल­त्व­मि­त्यर्थः । एतदुक्तं भवति - नायं तुशब्दः प्राणा­ति­वा­दि­त्वा­द्व­य­व­च्छि­नत्ति, अपितु तद­ति­वा­दि­त्व­म­प­रि­त्यज्य प्रत्युत तदनुकृष्य तस्यैव प्राणस्य सत्यस्य श्रव­ण­म­न­न­श्र­द्धा­नि­ष्ठा­कृ­ति­भि­र्वि­ज्ञा­नाय निश्चयाय सत्येनातिवदतीति प्राण­व्र­त­मे­वा­ति­वा­दि­त्व­मु­च्यते । तुशब्दो नामा­द्य­ति­वा­दि­त्वा­द्व्य­व­च्छि­नत्ति । न नामा­द्या­शा­न्त­वा­द्य­ति­वादि, अपितु सत्य­प्रा­ण­वा­द्य­ति­वा­दी­त्यर्थः । अत्र चाग­मा­चा­र्यो­प­दे­शाभ्यां सत्यस्य श्रवणम् । अथा­ग­मा­वि­रो­धि­न्या­य­नि­वे­शनं मननं, मत्वा च गुरु­शि­ष्य­स­ब्र­ह्म­चा­रि­भि­र­न­सू­युभिः सह संवाद्य तत्त्वं श्रद्धत्ते । श्रद्धानन्तरं च विषयान्तरदर्शी विरक्तस्ततो व्यावृ­त्त­स्त­त्त्व­ज्ञा­ना­भ्यासं करोति, सेयमस्य कृतिः प्रयत्नः । अथ तत्त्व­ज्ञा­ना­भ्या­स­निष्ठा भवति, यदनन्तरमेव तत्त्व­वि­ज्ञा­न­म­नु­भवः प्रादुर्भवति । तदेतद्बाह्या । अप्याहुः - “भूता­र्थ­भा­व­ना­प्र­क­र्ष­प­र्य­न्तजं योगिज्ञानम्” इति भावनाप्रकर्षस्य पर्यन्तो निष्ठा तस्माज्जायते तत्त्वानुभव इति । तस्मात्प्राण एव भूमेति प्राप्तेऽ­भि­धी­यते “एष तु वा अतिवदति यः सत्येनातिवदति”(छा. उ. ७ । १७ । १)“एष तु वा अतिवदति यः सत्येनातिवदति”(छा. उ. ७ । १७ । १) इत्युक्त्वा भूमोच्यते । तत्र सत्यशब्दः परमार्थे निरूढवृत्तिः श्रुत्या परमार्थमाह । परमार्थश्च परमात्मैव । ततो ह्यन्यत्सर्वं विकारजातमनृतं कयाचिदपेक्षया कथ­ञ्चि­त्स­त्य­मु­च्यते । तथाच “एष तु वा अतिवदति यः सत्येनातिवदति” इति ब्रह्म­णोऽ­ति­वा­दित्वं श्रुत्या­न्य­नि­र­पे­क्षया लिङ्गादिभ्यो बलीयस्यावगमितं कथमिव संनिधानमात्रात् श्रुत्या­द्य­पे­क्षा­द­ति­दु­र्ब­ला­त्कथं चित्प्रा­ण­वि­ष­य­त्वेन शक्यं व्याख्यातुम् । एवं च प्राणादूर्ध्वं ब्रह्मणि भूमावगम्यमानो न प्राणविषयो भवितुमर्हति, किन्तु सत्यस्य परमात्मन एव । एवं चानात्मविद आत्मानं विवि­दि­षो­र्ना­र­दस्य प्रश्ने पर­मा­त्मा­न­मे­वास्मै व्याख्या­स्या­मी­त्य­भि­स­न्धि­मा­न्स­न­त्कु­मारः सोपा­ना­रो­ह­ण­न्या­येन स्थूलादारभ्य तत्त­द्भू­म­व्यु­त्पा­द­न­क्र­मेण भूमा­न­म­ति­दु­र्ज्ञा­न­तया परमसूक्ष्मं व्युत्पादयामास । नच प्रश्न­पू­र्व­ता­प्र­वा­ह­प­ति­ते­नो­त्त­रेण सर्वेण प्रश्नपूर्वेणैव भवितव्यमिति निय­मोऽ­स्ती­त्या­दि­सु­ग­मेन भाष्येण व्युत्पादितम् । विज्ञा­ना­दि­सा­ध­न­प­र­म्परा मननश्रद्धादिः, प्राणान्ते चानुशासने तावन्मात्रेणैव प्रक­र­ण­स­मा­प्तेर्न प्राण­स्या­न्या­य­त्त­तो­च्येत । तदभिधाने हि सापेक्षत्वेन न प्रकरणं समाप्येत । तस्मान्नेदं प्राणस्य प्रकरणमपि तु यदायत्तः प्राणस्तस्य, स चात्मेत्यात्मन एव प्रकरणम् ।

शङ्कते -
प्रकरणान्त इति ।
प्राण­प्र­क­र­ण­स­मा­प्ता­वि­त्यर्थः ।

निराकरोति -
न ।

स भगव इति ।
सन्दंशन्यायेन हि भूम्न एतत्प्रकरणं, स चेद्भूमा प्राणः, प्राण­स्यै­त­त्प्र­क­रणं भवेत् । तच्चा­यु­क्त­मि­त्यु­क्तम् ॥ ८ ॥

न केवलं श्रुते­र्भू­मा­त्मता परमात्मनः, लिङ्गादपीत्याह सूत्रकारः -
धर्मोपपत्तेश्च ।

यदपि पूर्वपक्षिणा कथञ्चिन्नीतं तदनुभाष्य भाष्यकारो दूषयति -
योऽप्यसौ सुषु­प्ता­व­स्था­या­मिति ।
सुषु­प्ता­व­स्था­या­मि­न्द्रि­या­द्य­सं­यो­ग्या­त्मैव । न प्राणः । पर­मा­त्म­प्र­क­र­णात् । अन्यदार्तम् । विन­श्व­र­मि­त्यर्थः । अति­रो­हि­ता­र्थ­म­न्यत् ॥ ९ ॥

अक्ष­र­म­म्ब­रा­न्त­धृतेः ।
अक्षरशब्दः समु­दा­य­प्र­सिद्ध्या वर्णेषु रूढः । परमात्मनि चाव­य­व­प्र­सिद्ध्या यौगिकः । अव­य­व­प्र­सि­द्धेश्च समु­दा­य­प्र­सि­द्धि­र्ब­ली­य­सीति वर्णा एवाक्षरम् । नच वर्णे­ष्वा­का­श­स्यो­त­त्व­प्रो­तत्वे नोपपद्येते, सर्वस्यैव रूप­धे­य­स्य­ना­म­धे­या­त्म­क­त्वात् । सर्वं हि रूपधेयं नाम­धे­य­स­म्भि­न्न­म­नु­भू­यते, गौरयं वृक्षोऽयमिति । न चोपा­य­त्वा­त्त­त्स­म्भे­द­स­म्भवः । नहि धूमोपाया वह्नि­धी­र्धू­म­स­म्भिन्नं वह्निमवगाहते धूमोऽयं वह्निरिति, किन्तु वैयधिकरण्येन धूमाद्वह्निरिति । भवति तु नामधेयसम्भिन्नो रूपधेयप्रत्ययो डित्थोऽयमिति । अपिच शब्दानुपायेऽपि रूपधेयप्रत्यये लिङ्गे­न्द्रि­य­ज­न्मनि नामसम्भेदो दृष्टः । तस्मा­न्ना­म­स­म्भिन्ना पृथि­व्या­द­योऽ­म्ब­रान्ता नाम्ना ग्रथिताश्च विद्धाश्च, नामानि च ओङ्कारात्मकानि तद्व्या­प्त­त्वात् । “तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृ­ण्णा­न्ये­व­मो­ङ्का­रेण सर्वा वाक्”(छा. उ. २ । २३ । ३) इति श्रुतेः । अत ओङ्कारात्मकाः पृथि­व्या­द­योऽ­म्ब­रान्ता इति वर्णा एवाक्षरं न परमात्मेति प्राप्तम् । एवं प्राप्तेऽ­भि­धी­यते - अक्षरं परमात्मैव, न तु वर्णाः । कुतः । अम्बरान्तधृतेः । न खल्वम्बरान्तानि पृथिव्यादीनि वर्णा धार­यि­तु­म­र्हन्ति, किन्तु परमात्मैव । तेषां पर­मा­त्म­वि­का­र­त्वात् । नच नामधेयात्मकं रूपधेयमिति युक्तं, स्वरूपभेदात् , उपायभेदात् , अर्थ­क्रि­या­भे­दाच्च । तथाहि - शब्द­त्व­सा­मा­न्या­त्म­कानि श्रोत्र­ग्रा­ह्या­ण्य­भि­धे­य­प्र­त्य­या­र्थ­क्रि­याणि नाम­धे­या­न्य­नु­भू­यन्ते । रूपधेयानि तु घटपटादीनि घट­त्व­प­ट­त्वा­दि­सा­मा­न्या­त्म­कानि चक्षु­रा­दी­न्द्रि­या­ग्रा­ह्याणि मधु­धा­र­ण­प्रा­व­र­णा­द्य­र्थ­क्रि­याणि च भेदेनानुभूयन्ते इति कुतो नामसम्भेदः । नच डित्थोऽयमिति शब्द­सा­मा­ना­धि­क­र­ण्य­प्र­त्ययः । न खलु शब्दात्मकोऽयं पिण्ड इत्यनुभवः, किन्तु यो नाना­दे­श­का­ल­स­म्प्लुतः पिण्डः सोऽयं संनिहितदेशकाल इत्यर्थः । संज्ञा तु गृही­त­स­म्ब­न्धै­र­त्य­न्ता­भ्या­सा­त्पि­ण्डा­भि­नि­वे­शि­न्येव संस्का­रो­द्बो­ध­स­म्पा­ता­याता स्मर्यते । यथाहुः - “यत्सं­ज्ञा­स्म­रणं तत्र न तदप्यन्यहेतुकम् । पिण्ड एव हि दृष्टः सन्संज्ञां स्मारयितुं क्षमः ॥ १ ॥ संज्ञा हि स्मर्यमाणापि प्रत्यक्षत्वं न बाधते । संज्ञिनः सा तटस्था हि न रूपा­च्छा­द­न­क्षमा” ॥ २ ॥ इति । नच वर्णातिरिक्ते स्फोटात्मनि अलौ­कि­केऽ­क्ष­र­प­द­प्र­सि­द्धि­रस्ति लोके । न चैष प्रामाणिक इत्यु­प­रि­ष्टा­त्प्र­वे­द­यि­ष्यते । निवेदितं चास्मा­भि­स्त­त्त्व­बिन्दौ । तस्मा­च्छ्रो­त्र­ग्रा­ह्याणां वर्णा­ना­म­म्ब­रा­न्त­धृ­ते­र­नु­प­पत्तेः समु­दा­य­प्र­सि­द्धि­बा­ध­ना­व­य­व­प्र­सिद्ध्या पर­मा­त्मै­वा­क्ष­र­मिति सिद्धम् । ये तु प्रधानं पूर्व­प­क्ष­यि­त्वा­नेन सूत्रेण पर­मा­त्मै­वा­क्ष­र­मिति सिद्धान्तयन्ति तैर­म्ब­रा­न्त­र­धृ­ते­रि­त्य­नेन कथं प्रधानं निराक्रियत इति वाच्यम् । अथ नाधि­क­र­ण­त्व­मात्रं धृतिः अपि तु प्रशासनाधिकरणता । तथा च श्रुतिः - “एतस्य वाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः”(बृ. उ. ३ । ८ । ९) इति । तथा­प्य­म्ब­रा­न्त­धृ­ते­रि­त्य­न­र्थ­कम् । एतावद्वक्तव्यम् अक्षरं प्रशासनादिति । एतावतैव प्रधा­न­नि­रा­क­र­ण­सिद्धेः । तस्मा­द्व­र्णा­क्ष­र­ता­नि­रा­क्रि­यै­वा­स्यार्थः । नच स्थूलादीनां वर्णे­ष्व­प्रा­प्ते­र­स्थू­ल­मि­त्या­दि­नि­षे­धा­नु­प­प­त्ते­र्व­र्णेषु शङ्कैव नास्तीति वाच्यम् । नह्यवश्यं प्राप्तिपूर्वका एव प्रतिषेधा भवन्ति, अप्राप्तेष्वपि नित्यानुवादानां दर्शनात् । यथा नान्तरिक्षे न दिवी­त्य­ग्नि­च­य­न­नि­षे­धा­नु­वादः । तस्मात् यत्किञ्चिदेतत् ॥ १० ॥

सा च प्रशासनात् ।
प्रशासनमाज्ञा चेतनधर्मो नाचेतने प्रधाने वाऽव्याकृते वा सम्भवति । नच मुख्यार्थसम्भवे कूलं पिप­ति­ष­ती­ति­व­द्भा­क्त­त्व­मु­चि­त­मिति भावः ॥ ११ ॥

अन्य­भा­व­व्या­वृ­त्तेश्च ।
अम्ब­रा­न्त­वि­ध­र­ण­स्या­क्ष­र­स्ये­श्व­रा­ग­द्य­द­न्य­द्वर्णा वा प्रधानं वाव्याकृतं वा तेषामन्येषां भावोऽ­न्य­भा­व­स्त­म­त्यन्तं व्यावर्तयति श्रुतिः - “तद्वा एतदक्षरं गार्गि”(बृ. उ. ३ । ८ । ११) इत्यादिका ।

अनेनैव सूत्रेण जीव­स्या­प्य­क्ष­रता निषिद्धेत्यत आह -
तथेति ।
'नान्यत्” इत्यादिकया हि श्रुत्यात्मभेदः प्रतिषिध्यते । तथा चोपा­धि­भे­दा­द्भिन्ना जीवा निषिद्धा भव­न्त्य­भे­दा­भि­धा­ना­दि­त्यर्थः ।

इतोऽपि न शारी­र­स्या­क्ष­र­श­ब्द­ते­त्याह -
अचक्षुष्कमिति ।
अक्षरस्य चक्षु­रा­द्यु­पाधिं वारयन्ती श्रुति­रौ­पा­धि­कस्य जीवस्याक्षरतां निषेधतीत्यर्थः । तस्मा­द्व­र्ण­प्र­धा­ना­व्या­कृ­त­जी­वा­ना­म­स­म्भ­वात् , सम्भवाच्च परमात्मनः, पर­मा­त्मै­वा­क्ष­र­मिति सिद्धम् ॥ १२ ॥

ईक्ष­ति­क­र्म­व्य­प­दे­शात्सः ।
'कार्य­ब्र­ह्म­ज­न­प्रा­प्ति­फ­ल­त्वा­द­र्थ­भे­दतः । दर्श­न­ध्या­न­यो­र्ध्ये­य­म­परं ब्रह्म गम्यते” ॥ “ब्रह्म वेद ब्रह्मैव भवति”(मु. उ. ३ । २ । ९) इति श्रुतेः सर्व­ग­त­प­र­ब्र­ह्म­वे­दने तद्भावापत्तौ “स सामभिरुन्नीयते ब्रह्मलोकम्”(प्र. उ. ५ । ५) इति न देश­वि­शे­ष­प्रा­प्ति­रु­प­प­द्यते । तस्मादपरमेव ब्रह्मेह ध्येयत्वेन चोद्यते । न चेक्षणस्य लोके तत्त्वविषयत्वेन प्रसिद्धेः परस्यैव ब्रह्म­ण­स्त­था­भा­वात् , ध्यायतेश्च तेन समानविषयत्वात् , परब्रह्मविषयमेव ध्यानमिति साम्प्रतम् , समा­न­वि­ष­य­त्व­स्यै­वा­सिद्धेः । परो हि पुरुषो ध्यानविषयः, परात्परस्तु दर्शनविषयः । नच तत्त्वविषयमेव सर्वं दर्शनं, अनृतविषयस्यापि तस्य दर्शनात् । नच मननं दर्शनं, तच्च तत्त्व­वि­ष­य­मे­वेति साम्प्रतम् । मननाद्भेदेन तत्र तत्र दर्शनस्य निर्देशात् । नच मननमपि तर्का­प­र­ना­मा­वश्यं तत्त्वविषयम् । यथाहुः - “तर्कोऽ­प्र­तिष्ठः”(म.भा. ३-३१४-११९) इति । तस्मादपरमेव ब्रह्मेह ध्येयम् । तस्य च परत्वं शरीरापेक्षयेति । एवं प्राप्त उच्यते - “ईक्ष­ण­ध्या­न­यो­रेकः कार्यकारणभूतयोः । अर्थ औत्सर्गिकं तत्त्वविषयत्वं यथेक्षतेः” ॥ ध्यानस्य हि साक्षात्कारः फलम् । साक्षा­त्का­र­श्चो­त्स­र्ग­त­स्त­त्त्व­वि­षयः । क्वचित्तु बाधकोपनिपाते समारोपितगोचरो भवेत् । न चासत्यपवादे शक्य उत्स­र्ग­स्त्य­क्तुम् । तथा चास्य तत्त्व­वि­ष­य­त्वा­त्त­त्का­र­णस्य ध्यानस्यापि तत्त्वविषयत्वम् । अपिच वाक्य­शे­षे­णै­क­वा­क्य­त्व­स­म्भवे न वाक्यभेदो युज्यते । सम्भवति च पर­पु­रु­ष­वि­ष­य­त्वे­ना­र्थ­प्र­त्य­भि­ज्ञा­ना­त्स­म­भि­व्या­हा­रा­च्चै­क­वा­क्यता । तदनुरोधेन च परात्पर इत्यत्र परादिति जीवघनविषयं द्रष्टव्यम् । तस्मात्तु परः पुरुषो ध्यातव्यश्च द्रष्टव्यश्च भवति ।

तदिदमुक्तम् -
न चात्र जीवघनशब्देन प्रकृ­तोऽ­भि­ध्या­तव्यः परः पुरुषः परामृश्यते ।
किन्तु जीव­घ­ना­त्प­रा­त्परो यो ध्यातव्यो द्रष्टव्यश्च तमेव कथयितुं जीवघनो जीवः । खिल्य­भा­व­मु­पा­धि­व­शा­दा­पन्नः स उच्यते । “स सामभिरुन्नीयते ब्रह्मलोकम्”(प्र. उ. ५ । ५) इत्य­न­न्त­र­वा­क्य­नि­र्दिष्टो ब्रह्मलोको वा जीवघनः । स हि समस्तकरणात्मनः सूत्रात्मनो हिरण्यगर्भस्य भगवतो निवासभूमितया करणपरिवृतानां जीवानां सङ्घात इति भवति जीवघनः । तदेवं त्रिमा­त्रो­ङ्का­रा­य­तनं परमेव ब्रह्मोपास्यम् । अत एव चास्य देशविशेषाधिगतिः फल­मु­पा­धि­म­त्त्वात् , क्रमेण च सम्य­ग्द­र्श­नो­त्पत्तौ मुक्तिः । “ब्रह्म वेद ब्रह्मैव भवति”(मु. उ. ३ । २ । ९) इति तु निरु­पा­धि­ब्र­ह्म­वे­द­न­वि­षया श्रुतिः । अपरं तु ब्रह्मै­कै­क­मा­त्रा­य­त­न­मु­पा­स्य­मिति मन्तव्यम् ॥ १३ ॥

दहर उत्तरेभ्यः ।
'अथ यदिदमस्मिन् ब्रह्मपुरे दहरम्” सूक्ष्मं गुहाप्रायं पुण्ड­री­क­सं­नि­वेशं वेश्म “दह­रोऽ­स्मि­न्न­न्त­रा­का­श­स्त­स्मि­न्य­द­न्त­स्त­द­न्वे­ष्ट­व्यम्”(छा. उ. ८ । १ । १) आग­मा­चा­र्यो­प­दे­शाभ्यां श्रवणं च, तदविरोधिना तर्केण मननं च, तदन्वेषणम् । तत्पूर्वकेण चाद­र­नै­र­न्त­र्य­दी­र्घ­का­ला­से­वि­तेन ध्याना­भ्या­स­प­रि­पा­केन साक्षात्कारो विज्ञानम् । विशिष्टं हि तज्ज्ञानं पूर्वेभ्यः । तदिच्छा विजिज्ञासनम् ।

अत्र संशयमाह -
तत्रेति ।
तत्र प्रथमं तावदेवं संशयः - किं दहराकाशादन्यदेव किञ्चि­द­न्वे­ष्टव्यं विजिज्ञासितव्यं च उत दहराकाश इति । यदापि दह­रा­का­शोऽ­न्वे­ष्ट­व्य­स्त­दापि किं भूताकाश आहो शारीर आत्मा किं वा परमात्मेति ।

संशयहेतुं पृच्छति -
कुत इति ।

तद्धेतुमाह -
आका­श­ब्र­ह्म­पु­र­श­ब्दा­भ्या­मिति ।

तत्र प्रथमं तावद्भूताकाश एव दहर इति पूर्वपक्षयति -
तत्राकाशशब्दस्य भूताकाशे रूढत्वादिति ।

एष तु बहु­त­रो­त्त­र­स­न्द­र्भ­वि­रो­धा­त्तुच्छः पूर्वपक्ष इत्यपरितोषेण पक्षा­न्त­र­मा­ल­म्बते पूर्वपक्षी -
अथवा जीवो दहर इति प्राप्तम् ।
युक्तमित्यर्थः । तत्र “आधे­य­त्वा­द्वि­शे­षाच्च पुरं जीवस्य युज्यते । देहो न ब्रह्मणो युक्तो हेतु­द्व­य­वि­यो­गतः” ॥ असाधारण्येन हि व्यपदेशता भवन्ति । तद्यथा क्षिति­ज­ल­प­व­न­बी­जा­दि­सा­म­ग्री­स­म­व­धा­न­ज­न्मा­प्य­ङ्कुरः शालिबीजेन व्यपदिश्यते शाल्यङ्कुर इति । नतु क्षित्यादिभिः, तेषां कार्या­न्त­रे­ष्वपि साधारण्यात् । तदिह शरीरं ब्रह्मविकारोऽपि न ब्रह्मणा व्यपदेष्टव्यम् , ब्रह्मणः सर्व­वि­का­र­का­र­ण­त्वे­ना­ति­सा­धा­र­ण्यात् । जीव­भे­द­ध­र्मा­ध­र्मो­पा­र्जितं तदि­त्य­सा­धा­र­ण­का­र­ण­त्वा­ज्जी­वेन व्यपदिश्यत इति युक्तम् । अपिच ब्रह्मपुर इति सप्तम्यधिकरणे स्मर्यते, तेनाधेयेनानेन सम्बद्धव्यम् । नच ब्रह्मणः स्वे महिम्नि व्यव­स्थि­त­स्या­ना­धे­य­स्या­धा­र­स­म्बन्धः कल्पते । जीव­स्त्वा­रा­ग्र­मात्र इत्याधेयो भवति । तस्मा­द्ब्र­ह्म­शब्दो रूढिं परित्यज्य देहादिबृंहणतया जीवे यौगिके वा भाक्तो वा व्याख्येयः । चैतन्यं च भक्तिः । उपाधानानुपधाने तु विशेषः । वाच्यत्वं गम्यत्वम् ।

स्यादेतत् । जीवस्य पुरं भवतु शरीरं, पुण्ड­री­क­द­ह­र­गो­च­रता त्वन्यस्य भविष्यति, वत्सराजस्य पुर इवोज्जयिन्यां मैत्रस्य सद्मेत्यत आह -
तत्र पुरस्वामिन इति ।
अयमर्थः - वेश्म खल्व­धि­क­र­ण­म­नि­र्दि­ष्टा­धे­य­मा­धे­य­वि­शे­षा­पे­क्षायां पुरस्वामिनः प्रकृ­त­त्वा­त्ते­नै­वा­धे­येन सम्बद्धं सदनपेक्षं नाधेयान्तरेण सम्बन्धं कल्पयति ।

ननु तथापि शरीरमेवास्य भोगायतनमिति को हृदयपुण्डरीकस्य विशेषो यत्तदेवास्य सद्मेत्यत आह -
मनौपाधिकश्च जीव इति ।