भामतीव्याख्या
सुषुप्त्युत्क्रान्त्यधिकरणविषयौ
सुषुप्त्युत्क्रान्त्योर्भेदेन ।
'आदिमध्यावसानेषु संसारिप्रतिपादनात् । तत्परे ग्रन्थसन्दर्भे सर्वं तत्रैव योज्यते” ॥ संसार्येव तावदात्माहङ्कारास्पदप्राणादिपरीतः सर्वजनसिद्धः । तमेव च “योऽयं विज्ञानमयः प्राणेषु”(बृ. उ. ४ । ३ । ७) इत्यादिश्रुतिसन्दर्भ आदिमध्यावसानेष्वामृशतीति तदनुवादपरो भवितुमर्हति । एवं च संसार्यात्मैव किञ्चिदपेक्ष्य महान् , संसारस्य चानादित्वेनानादित्वादज उच्यते, न तु तदतिरिक्तः कश्चिदत्र नित्यशुद्धबुद्धमुक्तस्वभावः प्रतिपाद्यः । यत्तु सुषुप्त्युत्क्रान्त्योः प्राज्ञेनात्मना सम्परिष्वक्त इति भेदं मन्यसे, नासौ भेदः किन्त्वयमात्मशब्दः स्वभाववचनः, तेन सुषुप्त्युत्क्रान्त्यवस्थायां विशेषविषयाभावात्सम्पिण्डितप्रज्ञेन प्राज्ञेनात्मना स्वभावेन परिष्वक्तो न किञ्चिद्वेदेत्यभेदेऽपि भेदवदुपचारेण योजनीयम् । यथाहुः - “प्राज्ञः सम्पिण्डितप्रज्ञः” इति । प्रत्यादयश्च शब्दाः संसारिण्येव कार्यकरणसङ्घातात्मकस्य जगतो जीवकर्मार्जिततया तद्भोग्यतया च योजनीयाः । तस्मात्संसार्येवानूद्यते न तु परमात्मा प्रतिपाद्यत इति प्राप्तम् । एवं प्राप्तेऽभिधीयते - सुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशादित्यनुवर्तते । अयमभिसन्धिः - किं संसारिणोऽन्यः परमात्मा नास्ति, तस्मात्संसार्यात्मपरं “योऽयं विज्ञानमयः प्राणेषु” इति वाक्यम् , आहोस्विदिह संसारिव्यतिरेकेण परमात्मनोऽसङ्कीर्तनात्संसारिणश्चादिमध्यावसानेष्ववमर्शनात्संसार्यात्मपरं, न तावत्संसार्यतिरिक्तस्य तस्याभावः । तत्प्रतिपादका हि शतश आगमाः “ईक्षतेर्नाशब्दम्”(ब्र. सू. १ । १ । ५) “गतिसामान्यात्”(ब्र. सू. १ । १ । १०) इत्यादिभिः सूत्रसन्दर्भैरुपपादिताः । न चात्रापि संसार्यतिरिक्तपरमात्मसङ्कीर्तनाभावः, सुषुप्त्युत्क्रान्त्योस्तत्सङ्कीर्तनात् । नच प्राज्ञस्य परमात्मनो जीवाद्भेदेन सङ्कीर्तनं सति सम्भवे राहोः शिर इतिवदौपचारिकं युक्तम् । नच प्राज्ञशब्दः प्रज्ञाप्रकर्षशालिनि निरूढवृत्तिः कथञ्चिदज्ञविषयो व्याख्यातुमुचितः । नच प्रज्ञाप्रकर्षोऽसङ्कुचद्वृत्तिर्विदितसमस्तवेदितव्यात्सर्वविदोऽन्यत्र सम्भवति । न चेत्थम्भूतो जीवात्मा । तस्मात्सुषुप्त्युत्क्रान्त्योर्भेदेन जीवात्प्राज्ञस्य परमात्मनो व्यपदेशात् “योऽयं विज्ञानमयः”(बृ. उ. ४ । ३ । ७) इत्यादिना जीवात्मानं लोकसिद्धमनूद्य तस्य परमात्मभावोऽनधिगतः प्रतिपाद्यते । नच जीवात्मानुवादमात्रपराण्येतानि वचांसि । अनधिगतार्थावबोधनपरं हि शाब्दं प्रमाणं, न त्वनुवादमात्रनिष्ठं भवितुमर्हति । अत एव च संसारिणः परमात्मभावविधानायादिमध्यावसानेष्वनुवाद्यतयाऽवमर्श उपपद्यते । एवं च महत्त्वं चाजत्वं च सर्वगतस्य नित्यस्यात्मनः सम्भवान्नापेक्षिकं कल्पयिष्यते ।
यस्तु मध्ये बुद्धान्ताद्यवस्थोपन्यासादिति ।
नानेनावस्थावत्त्वं विवक्ष्यते । अपि त्ववस्थानामुपजनापायधर्मकत्वेन तदतिरिक्तमवस्थारहितं परमात्मानं विवक्षति, उपरितनवाक्यसन्दर्भालोचनादिति ॥ ४२ ॥
पत्यादिशब्देभ्यः ।
सर्वस्य वशी ।
वशः सामर्थ्यं सर्वस्य जगतः प्रभवत्ययम् , व्यूहावस्थानसमर्थ इति । अत एव सर्वस्येशानः, सामर्थ्येन ह्ययमुक्तेन सर्वस्येष्टे, तदिच्छानुविधानाज्जगतः । अत एव सर्वस्याधिपतिः सर्वस्य नियन्ता । अन्तर्यामीति यावत् । किञ्च स एवंभूतो हृद्यन्तर्ज्योतिः पुरुषो विज्ञानमयो न साधुना कर्मणा भूयानुत्कृष्टो भवतीत्येवमाद्याः श्रुतयोऽसंसारिणं परमात्मानमेव प्रतिपादयन्ति । तस्माज्जीवात्मानं मानान्तरसिद्धमनूद्य तस्य ब्रह्मभावप्रतिपादनपरो “योऽयं विज्ञानमयः”(बृ. उ. ४ । ३ । ७) इत्यादिवाक्यसन्दर्भ इति सिद्धम् ॥ ४३ ॥
इति श्रीमद्वाचस्पतिमिश्रविरचितशारीरकभगवत्पादभाष्यविभागे भामत्यां प्रथमस्याध्यायस्य तृतीयः पादः ॥ ३ ॥
॥ इति प्रथमाध्यायस्य ज्ञेयब्रह्मप्रतिपादकास्पष्टश्रुतिसमन्वयाख्यस्तृतीयः पादः ॥