अद्वैतशारदा

भामतीव्याख्या

अभावाधिकरणविषयाः

व्याख्याः

नाभाव उपलब्धेः ।

पूर्वा­धि­क­र­ण­स­ङ्ग­ति­माह
एवमिति ।

बाह्या­र्थ­वा­दिभ्यो विज्ञा­न­मा­त्र­वा­दिनां सुगताभिप्रेततया विशेषमाह
केषा­ञ्चि­त्कि­लेति ।
अथ प्रमाता प्रमाणं प्रमेयं प्रमितिरिति हि चतसृषु विधासु तत्त्व­प­रि­स­मा­प्ति­रा­सा­म­न्य­त­मा­भा­वेऽपि तत्त्व­स्या­व्य­व­स्था­नात् । तस्मादनेन विज्ञा­न­स्क­न्ध­मात्रं तत्त्वं व्यवस्थापयता चतस्रो विधा एषितव्याः, तथाच न विज्ञा­न­स्क­न्ध­मात्रं तत्त्वम् । नह्यस्ति सम्भवो विज्ञानमात्रं चतस्रो विधाश्चेत्यत आह

तस्मिंश्च विज्ञानवादे बुद्ध्यारूढेन रूपेणेति ।
यद्य­प्य­नु­भ­वा­न्ना­न्योऽ­नु­भा­व्योऽ­नु­भ­वि­ता­नु­भ­वनं, तथापि बुद्ध्यारूढेन बुद्धि­प­रि­क­ल्पि­ते­ना­न्तस्थ एवैष प्रमा­ण­प्र­मे­य­फ­ल­व्य­व­हारः प्रमा­तृ­व्य­व­हा­र­श्चे­त्यपि द्रष्टव्यम् । न पारमार्थिक इत्यर्थः । एवं च न सिद्धसाधनम् । न हि ब्रह्मवादिनो नीलाद्याकारां वित्ति­म­भ्यु­प­ग­च्छन्ति, किन्त्व­नि­र्व­च­नीयं नीलादीति । तथाहि स्वरूपं विज्ञा­न­स्या­स­त्या­का­र­युक्तं प्रमेयं प्रमेयप्रकाशनं प्रमाणफलं, तत्प्र­का­श­न­शक्तिः प्रमाणम् । बाह्यवादिनोरपि वैभा­षि­क­सौ­त्रा­न्ति­कयोः काल्पनिक एव प्रमा­ण­फ­ल­व्य­व­हा­रोऽ­भि­मत इत्याह

सत्यपि बाह्येऽर्थ इति ।
भिन्नाधिकरणत्वे हि प्रमा­ण­फ­ल­यो­स्त­द्भावो न स्यात् । नहि खदिरगोचरे परशौ पलाशे द्वैधीभावो भवति । तस्मा­द­न­यो­रै­का­धि­क­रण्यं वक्तव्यम् । कथं च तद्भवति । यदि ज्ञानस्थे एव प्रमाणफले भवतः । न च ज्ञानं स्वल­क्ष­ण­म­नं­श­मं­शाभ्यां वस्तुसद्भ्यां युज्यते । तदेव ज्ञान­म­ज्ञा­न­व्या­वृ­त्ति­क­ल्पि­त­ज्ञा­न­त्वांशं फलम् । अश­क्ति­व्या­वृ­त्ति­प­रि­क­ल्पि­ता­त्मा­ना­त्म­प्र­का­श­न­श­क्त्यंशं प्रमाणम् । प्रमेयं त्वस्य बाह्यमेव । एवं सौत्रा­न्ति­क­स­म­येऽपि । ज्ञान­स्या­र्थ­सा­रू­प्य­म­नी­ला­का­र­व्या­वृत्त्या कल्पि­त­नी­ला­का­रत्वं प्रमाणं व्यव­स्था­प­न­हे­तु­त्वात् । अज्ञा­न­व्या­वृ­त्ति­क­ल्पितं च ज्ञानत्वं फलं व्यव­स्था­प्य­त्वात् । तथा चाहुः “नहि वित्तिसत्तैव तद्वेदना युक्ता, तस्याः सर्व­त्रा­वि­शे­षात् । तां तु सारू­प्य­मा­वि­श­त्स­रू­प­य­त्त­द्घ­ट­येत्” इति । प्रश्नपूर्वकं बाह्यार्थाभाव उपपत्तीराह

कथं पुनरवगम्यत इति ।
स हि विज्ञा­ना­ल­म्ब­न­त्वा­भि­मतो बाह्योऽर्थः परमाणुस्तावन्न सम्भवति । एकस्थूलनीलाभासं हि ज्ञानं न पर­म­सू­क्ष्म­प­र­मा­ण्वा­भा­सम् । न चान्या­भा­स­म­न्य­गो­चरं भवितुमर्हति । अतिप्रसङ्गेन सर्वगोचरतया सर्व­स­र्व­ज्ञ­त्व­प्र­स­ङ्गात् । न च प्रतिभासधर्मः स्थौल्यमिति युक्तम् । विकल्पासहत्वात् । किमयं प्रतिभासस्य ज्ञानस्य धर्म उत प्रति­भा­स­न­का­लेऽ­र्थस्य धर्मः । यदि पूर्वः कल्पः, अद्धा, तथासति हि स्वांशालम्बनमेव विज्ञा­न­म­भ्यु­पेतं भवति । एवं च कः प्रति­कू­ली­भ­व­त्य­नु­कू­ल­मा­च­रति । द्वितीय इति चेत् । तथा हि रूपपरिमाणव एव निर­न्त­र­मु­त्पन्ना एक­वि­ज्ञा­नो­पा­रो­हिणः स्थौल्यम् । न चात्र कस्य­चि­द्भ्रा­न्तता । नहि न ते रूपपरमाणवः । नच न निर­न्त­र­मु­त्पन्नाः । न चैक­वि­ज्ञा­ना­नु­पा­रो­हिणः । तेन मा भून्नी­ल­त्वा­दि­व­त्प­र­मा­णु­धर्मः, प्रत्येकं परमाणुष्वभावात् । प्रति­भा­स­द­शा­प­न्नानां तु तेषां भविष्यति बहु­त्वा­दि­व­त्सां­वृतं स्थौल्यम् । यथाहुः “ग्रहेऽनेकस्य चैकेन किञ्चिद्रूपं हि गृह्यते । सांवृतं प्रतिभासस्थं तदे­का­त्म­न्य­स­म्भ­वात् ॥ १ ॥ नच तद्दर्शनं भ्रान्तं नाना­व­स्तु­ग्र­हा­द्यतः । सांवृतं ग्रहणं नान्यन्न च वस्तुग्रहो भ्रमः ॥ २ ॥' इति । तन्न । नैर­न्त­र्या­व­भा­सस्य भ्रान्तत्वात् । गन्ध­र­स­स्प­र्श­प­र­मा­ण्व­न्त­रिता हि ते रूपपरमाणवो न निरन्तराः तस्मा­दा­रा­त्सा­न्त­रेषु वृक्षे­ष्वे­क­ध­न­व­न­प्र­त्य­य­व­देष स्थूलप्रत्ययः परमाणुषु सान्तरेषु भ्रान्त एवेति पश्यामः । तस्मा­त्क­ल्प­ना­पो­ढ­त्वेऽपि भ्रान्त­त्वा­द्घ­टा­दि­प्र­त्य­यस्य पीत­श­ङ्खा­दि­ज्ञा­न­वन्न प्रत्यक्षता पर­मा­णु­गो­च­र­त्वा­भ्यु­प­गमे । तदिदमुक्तम् , न तावत्परमाणवः स्तम्भा­दि­प्र­त्य­य­प­रि­च्छेद्या भवितुमर्हन्ति । नापि तत्समूहा वा स्तम्भा­द­योऽ­व­य­विनः । तेषामभेदे परमाणुभ्यः परमाणव एव । तत्र चोक्तं दूषणम् । भेदे तु गवा­श्व­स्ये­वा­त्य­न्त­वै­ल­क्ष­ण्य­मिति न तादात्म्यम् । समवायश्च निराकृत इति । एवं भेदाभेदविकल्पेन जाति­गु­ण­क­र्मा­दी­नपि प्रत्याचक्षीत । तस्मा­द्य­द्य­त्प्र­ति­भा­सते तस्य सर्वस्य विचारासहत्वात् , अप्र­ति­भा­स­मा­न­स­द्भावे च प्रमाणाभावान्न बाह्यालम्बनाः प्रत्यया इति । अपि च न ताव­द्वि­ज्ञा­न­मि­न्द्रि­य­व­न्नि­ली­न­मर्थं प्रत्य­क्ष­यि­तु­म­र्हति । नहि यथे­न्द्रि­य­म­र्थ­वि­षयं ज्ञानं जनयत्येवं विज्ञानमपरं विज्ञानं जनयितुमर्हति । तत्रापि समा­न­त्वा­द­नु­यो­ग­स्या­न­व­स्था­प्र­स­ङ्गात् । न चार्थाधारं प्राकट्यलक्षणं फल­मा­धा­तु­मु­त्स­हते । अतीतानागतेषु तदसम्भवात् । नह्यस्ति सम्भ­वोऽ­प्र­त्यु­त्पन्नो धर्मी धर्माश्चास्य प्रत्युत्पन्ना इति । तस्मा­ज्ज्ञा­न­स्व­रू­प­प्र­त्य­क्ष­तै­वा­र्थ­प्र­त्य­क्ष­ता­भ्यु­पेया । तच्चानाकारं सदाजानतो भेदा­भा­वा­त्क­थ­म­र्थ­भेदं व्यवस्थापयेदिति तद्भे­द­व्य­व­स्था­प­ना­या­का­र­भे­दोऽ­स्यै­षि­तव्यः । तदुक्तम् “न हि वित्तिसत्तैव तद्वेदना युक्ता, तस्याः सर्व­त्रा­वि­शे­षात् । तां तु सारू­प्य­मा­वि­श­त्स­रू­प­य­त्त­द्घ­ट­येत्” इति । एक­श्चा­य­मा­का­रोऽ­नु­भू­यते । स चेद्विज्ञानस्य नार्थसद्भावे किञ्चन प्रमा­ण­म­स्ती­त्याह

अपि­चा­नु­भ­व­मा­त्रेण साधारणात्मनो ज्ञानस्येति ।

अपि च सहो­प­ल­म्भ­नि­य­मा­दिति ।
यद्येन सह नियतसहोपलम्भनं तत्ततो न भिद्यते, यथै­क­स्मा­च्च­न्द्र­मसो द्विती­य­श्च­न्द्रमाः । निय­त­स­हो­प­ल­म्भ­श्चार्थो ज्ञानेनेति व्याप­क­वि­रु­द्धो­प­लब्धिः । निषेध्यो हि भेदः सहोपलम्भानियमेन व्याप्तो यथा भिन्नावश्विनौ नावश्यं सहोपलभ्येते कदा­चि­द­भ्रा­पि­धा­नेऽ­न्य­त­र­स्यै­क­स्यो­प­लब्धेः । सोऽयमिह भेद­व्या­प­का­नि­य­म­वि­रूद्धो नियम उप­ल­भ्य­मा­न­स्त­द्व्याप्यं भेदं निवर्तयतीति । तदुक्तम् “सहो­प­ल­म्भ­नि­य­मा­द­भेदो नीलतद्धियोः । भेदश्च भ्रान्ति­वि­ज्ञा­नै­र्द्दृ­श्य­ते­न्दा­वि­वा­द्वये ॥' इति । स्वप्ना­दि­व­च्चेदं द्रष्टव्यम् । यो यः प्रत्ययः स सर्वो बाह्यानालम्बनः, यथा स्वप्न­मा­या­दि­प्र­त्ययः, तथा चैष विवादाध्यासितः प्रत्यय इति स्वभावहेतुः । बाह्यानालम्बनता हि प्रत्य­य­त्व­मा­त्रा­नु­ब­न्धिनी वृक्षतेव शिंश­पा­त्व­मा­त्रा­नु­ब­न्धि­नीति तन्मा­त्रा­नु­ब­न्धिनि निरालम्बनत्वे साध्ये भवति प्रत्ययत्वं स्वभावहेतुः । अत्रान्तरे सौत्रा­न्ति­क­श्चो­द­यति

कथं पुनरसति बाह्येऽर्थे नीलमिदं पीत­मि­त्या­दि­प्र­त्य­य­वै­चि­त्र्य­मु­प­प­द्यते ।
स हि मेने ये यस्मिन् सत्यपि कादाचित्कास्ते सर्वे तद­ति­रि­क्त­हे­तु­सा­पेक्षाः, यथा विव­क्ष­त्य­जि­ग­मि­षति मयि वच­न­ग­म­न­प्र­ति­भासाः प्रत्य­या­श्चे­त­न­स­न्ता­ना­न्त­र­सा­पेक्षाः । तथा च विवादाध्यासिताः सत्य­प्या­ल­य­वि­ज्ञा­न­स­न्ताने षडपि प्रवृ­त्ति­प्र­त्यया इति स्वभावहेतुः । यश्चा­सा­वा­ल­य­वि­ज्ञा­न­स­न्ता­ना­ति­रिक्तः कादा­चि­त्क­प्र­वृ­त्ति­ज्ञा­न­भे­द­हेतुः स बाह्योऽर्थमिति । वास­ना­प­रि­पा­क­प्र­त्य­य­का­दा­चि­त्क­त्वा­त्क­दा­चि­दु­त्पाद इति चेत् । नन्वे­क­स­न्त­ति­प­ति­ता­ना­मा­ल­य­वि­ज्ञा­नानां तत्प्र­वृ­त्ति­वि­ज्ञा­न­ज­न­न­श­क्ति­र्वा­सना, तस्याश्च स्वकार्योपजनं प्रत्याभिमुख्यं परिपाकस्तस्य च प्रत्ययः स्वसन्तानवर्ती पूर्वक्षणः सन्ता­ना­न्त­रा­पे­क्षा­न­भ्यु­प­ग­मात् , तथाच सर्वेऽ­प्या­ल­य­स­न्ता­न­प­तिताः परिपाकहेतवो भवेयुः । न वा कश्चिदपि, आल­य­स­न्ता­न­पा­ति­त्वा­वि­शे­षात् । क्षण­भे­दा­च्छ­क्ति­भे­द­स्तस्य च कादा­चि­त्क­त्वा­त्का­र्य­का­दा­चि­त्क­त्व­मिति चेत् । नन्वेवमेकस्यैव नील­ज्ञा­नो­प­ज­न­सा­मर्थ्यं तत्प्र­बो­ध­सा­मर्थ्यं चेति क्षणा­न्त­र­स्यै­तन्न स्यात् । सत्त्वे वा कथं क्षण­भे­दा­त्सा­म­र्थ्य­भेद इत्या­ल­य­स­न्ता­न­व­र्तिनः सर्वे समर्था इति सम­र्थ­हे­तु­स­द्भावे कार्य­क्षे­पा­नु­प­पत्तेः । स्वस­न्ता­न­मा­त्रा­धी­नत्वे निषेध्यस्य कादाचित्कत्वस्य विरुद्धं सदातनत्वं तस्योपलब्ध्या कादाचित्कत्वं निवर्तमानं हेत्व­न्त­रा­पे­क्षत्वे व्यवतिष्ठत इति प्रति­ब­न्ध­सिद्धिः । नच ज्ञान­स­न्ता­ना­न्त­र­नि­ब­न्ध­नत्वं सर्वेषामिष्यते प्रवृ­त्ति­वि­ज्ञा­नानां विज्ञा­न­वा­दि­भि­रपि तु कस्यचिदेव विच्छि­न्न­ग­म­न­व­च­न­प्र­ति­भा­सस्य प्रवृ­त्ति­वि­ज्ञा­नस्य । अपि च सत्त्वा­न्त­र­स­न्ता­न­नि­मि­त्तत्वे तस्यापि सदा संनिधानान्न कादाचित्कत्वं स्यात् । न हि सत्त्वा­न्त­र­स­न्ता­नस्य देशतः कालतो वा विप्रकर्षसम्भवः । विज्ञानवादे विज्ञा­ना­ति­रि­क्त­दे­शा­ना­भ्यु­प­ग­मा­द­मू­र्त­त्वाच्च विज्ञा­ना­ना­म­दे­शा­त्म­क­त्वा­त्सं­सा­र­स्या­दि­म­त्त्व­प्र­स­ङ्गे­ना­पू­र्व­स­त्त्व­प्रा­दु­र्भा­वा­न­भ्यु­प­ग­माच्च न कालतोऽपि विप्रकर्षसम्भवः । तस्मादसति बाह्येऽर्थे प्रत्य­य­वै­चि­त्र्या­नु­प­प­त्ते­र­स्त्या­नु­मा­निको बाह्यार्थ इति सौत्रान्तिकाः प्रतिपेदिरे, तान्निराकरोति

वास­ना­वै­चि­त्र्या­दि­त्याह
विज्ञानवादी । इदमत्राकूतम् स्वस­न्ता­न­मा­त्र­प्र­भ­व­त्वेऽपि प्रत्य­य­का­दा­चि­त्क­त्वो­प­पत्तौ सन्दि­ग्ध­वि­प­क्ष­व्या­वृ­त्ति­क­त्वेन हेतुरनैकान्तिकः । तथाहि बाह्य­नि­मि­त्त­क­त्वेऽपि कथं कदा­चि­त्नी­ल­सं­वे­दनं कदा­चि­त्पी­त­सं­वे­द­नम् । बाह्य­नी­ल­पी­त­सं­नि­धा­ना­सं­नि­धा­ना­भ्या­मिति चेत् । अथ पीतसंनिधानेऽपि किमिति नीलज्ञानं न भवति, पीतज्ञानं भवति । तत्र तस्य साम­र्थ्या­द­सा­म­र्थ्या­च्चे­त­र­स्मि­न्निति चेत् । कुतः पुनरयं साम­र्थ्या­सा­म­र्थ्य­भेदः । हेतुभेदादिति चेत् । एवं तर्हि क्षणानामपि स्वका­र­ण­भे­द­नि­बन्धः शक्तिभेदो भविष्यति । सन्तानिनो हि क्षणाः कार्य­भे­द­हे­त­वस्ते च प्रतिकार्यं भिद्यन्ते च । न च सन्तानो नाम कश्चिदेक उत्पादकः क्षणानां यदभेदात्क्षणा न भिद्येरन् । ननूक्तं न क्षण­भे­दा­भे­दाभ्यां शक्तिभेदाभेदौ, भिन्नानामपि क्षणा­ना­मे­क­सा­म­र्थ्यो­प­लब्धेः । अन्यथैक एव क्षणे नील­ज्ञा­न­ज­न­न­सा­म­र्थ्य­मिति न भूयो नीलज्ञानानि जायेरन् । तत्स­म­र्थ­स्या­ती­त­त्वात् , क्षणान्तराणां चासामर्थ्यात् । तस्मा­त्क्ष­ण­भे­देऽपि न सामर्थ्यभेदः, सन्तानभेदे तु सामर्थ्यं भिद्यत इति । तन्न । यदि भिन्नानां सन्तानानां नैकं सामर्थ्यं, हन्त तर्हि नीलसन्तानानामपि मिथो भिन्नानां नैकमस्ति नीला­का­रा­धा­न­सा­म­र्थ्य­मिति संनिधानेऽपि नील­स­न्ता­ना­न्त­रस्य न नील­ज्ञा­न­मु­प­जा­येत । तस्मा­त्स­न्ता­ना­न्त­रा­णा­मिव क्षणान्तराणामपि स्वका­र­ण­भे­दा­धी­नो­प­ज­नानां केषाञ्चिदेव सामर्थ्यभेदः केषाञ्चिन्नेति वक्तव्यम् । तथा चैका­ल­य­ज्ञा­न­स­न्ता­न­प­ति­तेषु कस्यचिदेव ज्ञानक्षणस्य स तादृशः सामर्थ्यातिशयो वासनापरनामा स्वप्र­त्य­या­सा­दितः । यतो नीलाकारं प्रवृ­त्ति­वि­ज्ञानं जायते न पीताकारम् । कस्यचित्तु स तादृशो यतः पीताकारं ज्ञानं न नीलाकारमिति वास­ना­वै­चि­त्र्या­देव स्वप्र­त्य­या­सा­दि­ता­ज्ज्ञा­न­वै­चि­त्र्य­सि­द्धेर्न तद­ति­रि­क्ता­र्थ­स­द्भावे किञ्चनास्ति प्रमाणमिति पश्यामः । आल­य­वि­ज्ञा­न­स­न्ता­न­प­ति­त­मे­वा­सं­वि­दितं ज्ञानं वासना तद्वै­चि­त्र्या­न्नी­ला­द्य­नु­भ­व­वै­चित्र्यं, पूर्व­नी­ला­द्य­नु­भ­व­वै­चि­त्र्याच्च वास­ना­वै­चि­त्र्य­मि­त्य­ना­दि­ता­न­यो­र्वि­ज्ञा­न­वा­स­नयोः । तस्मान्न पर­स्प­रा­श्र­य­दो­ष­स­म्भवो बीजा­ङ्कु­र­स­न्ता­न­व­दिति । अन्व­य­व्य­ति­रे­का­भ्या­मपि वास­ना­वै­चि­त्र्य­स्यैव ज्ञान­वै­चि­त्र्य­हे­तुता नार्थ­वै­चि­त्र्य­स्ये­त्याह

अपि चान्व­य­व्य­ति­रे­का­भ्या­मिति ।

एवं प्राप्ते ब्रूमः । नाभाव उपलब्धेरिति ।
न खल्वभावो बाह्य­स्या­र्थ­स्या­ध्य­व­सातुं शक्यते । स ह्युप­ल­म्भा­भा­वा­द्वा­ध्य­व­सी­येत, सत्यप्युपलम्भे तस्य बाह्या­वि­ष­य­त्वाद्वा, सत्यपि बाह्यविषयत्वे बाह्या­र्थ­बा­ध­क­प्र­मा­ण­स­द्भा­वाद्वा । न ताव­त्स­र्व­थो­प­ल­म्भा­भाव इति प्रश्नपूर्वकमाह

कस्मात् । उपलब्धेरिति ।
नहि स्फुटतरे सर्वजनीन उपलम्भे सति तदभावः शक्यो वक्तुमित्यर्थः ।

द्वितीयं पक्षमवलम्बते
ननु नाहमेवं ब्रवीमीति ।

निराकरोति
बाढमेवं ब्रवीषि ।
उपलब्धिग्राहिणा हि साक्षि­णो­प­ल­ब्धि­र्गृ­ह्य­माणा बाह्य­वि­ष­य­त्वे­नैव गृह्यते नोप­ल­ब्धि­मा­त्र­मि­त्यर्थः । अतश्च इति वक्ष्य­मा­णो­प­प­त्ति­प­रा­मर्शः । तृतीयं पक्षमालम्बते

ननु बाह्य­स्या­र्थ­स्या­स­म्भ­वा­दिति ।

निराकरोति
नायं साधुरध्यवसाय इति ।
इदमत्राकूतम् घटपटादयो हि स्थूला भासन्ते न तु परमसूक्ष्माः । तत्रेदं नाना­दि­ग्दे­श­व्या­पि­त्व­ल­क्षणं स्थौल्यं यद्यपि ज्ञाना­का­र­त्वे­ना­व­र­णा­ना­व­र­ण­ल­क्ष­णेन विरु­द्ध­ध­र्म­सं­स­र्गेण युज्यते ज्ञानो­पा­धे­र­ना­वृ­त­त्वा­देव तथापि तद्दे­श­त्वा­त­द्दे­श­त्व­क­म्पा­क­म्प­त्व­र­क्ता­र­क्त­त्व­ल­क्ष­णै­र्वि­रु­द्ध­ध­र्म­सं­स­र्गै­रस्य नानात्वं प्रसज्यमानं ज्ञाना­का­र­त्वेऽपि न शक्यं शक्रेणापि वारयितुम् । व्यति­रे­का­व्य­ति­रे­क­वृ­त्ति­वि­कल्पौ च पर­मा­णो­रं­श­वत्त्वं चोपपादितानि वैशे­षि­क­प­री­क्षा­याम् । तस्मा­द्बा­ह्या­र्थ­वन्न ज्ञानेऽपि स्थौल्यसम्भवः । न च ताव­त्प­र­मा­ण्वा­भा­स­मे­क­ज्ञा­नम् , एकस्य नाना­त्म­त्वा­नु­प­पत्तेः । आकाराणां वा ज्ञान­ता­दा­त्म्या­दे­क­त्व­प्र­स­ङ्गात् । न च यावन्त आका­रा­स्ता­व­न्त्येव ज्ञानानि, तावतां ज्ञानानां मिथो वार्तानभिज्ञतया स्थूला­नु­भ­वा­भा­व­प्र­स­ङ्गात् । न च तत्पृष्ठभावी सम­स्त­ज्ञा­ना­का­र­स­ङ्क­ल­ना­त्मक एकः स्थूलविकल्पो विजृम्भत इति साम्प्रतम् । तस्यापि साकारतया स्थौल्यायोगात् । यथाह धर्मकीर्तिः “तस्मान्नार्थे न च ज्ञाने स्थूला­भा­स­स्त­दा­त्मनः । एकत्र प्रति­षि­द्ध­त्वा­द्ब­हु­ष्वपि न सम्भवः ॥' इति । तस्माद्भवतापि ज्ञानाकारं स्थौल्यं सम­र्थ­य­मा­ने­न­प्र­मा­ण­प्र­वृ­त्त्य­प्र­वृ­त्ति­पू­र्वकौ सम्भ­वा­स­म्भ­वा­वा­स्थेयौ । तथा चेद­न्ता­स्प­द­म­शक्यं ज्ञानाद्भिन्नं बाह्य­म­प­ह्नो­तु­मिति । यच्च ज्ञानस्य प्रत्यर्थं व्यवस्थायै विष­य­सा­रू­प्य­मा­स्थितं, नैतेन विषयोऽपह्नोतुं शक्यः, असत्यर्थे तत्सारूप्यस्य तद्व्य­व­स्था­या­श्चा­नु­प­प­त्ते­रि­त्याह

न च ज्ञानस्य विष­य­सा­रू­प्या­दिति ॥
यश्च सहोपलम्भनियम उक्तः सोऽपि विकल्पं न सहते । यदि ज्ञानार्थयोः साहि­त्ये­नो­प­ल­म्भ­स्ततो विरुद्धो हेतुर्नाभेदं साधयितुमर्हति, साहित्यस्य तद्वि­रु­द्ध­भे­द­व्या­प्त­त्वा­द­भेदे तदनुपपत्तेः । अथैकोपलम्भनियमः । न एकत्वस्यावाचकः सहशब्दः । अपि च किमे­क­त्वे­नो­प­लम्भ आहो एक उपलम्भो ज्ञानार्थयोः । न ताव­दे­क­त्वे­नो­प­लम्भ इत्याह

बहिरुपलब्धेश्च विषयस्य ।

अथै­को­प­ल­म्भ­नि­यमः, तत्राह
अत एव सहो­प­ल­म्भ­नि­य­मोऽपि प्रत्य­य­वि­ष­य­योऽ­रु­पा­यो­पे­य­भा­व­हे­तुको नाभेदहेतुक इत्यवगन्तव्यम् ।
यथा हि सर्वं चाक्षुषं प्रभा­रू­पा­नु­विद्धं बुद्धिबोध्यं नियमेन मनुजैरुपलभ्यते, न चैतावता घटादिरूपं प्रभात्मकं भवति, किन्तु प्रभो­पा­य­त्वा­न्नि­यमः, एव­मि­हा­प्या­त्म­सा­क्षि­का­नु­भ­वो­पा­य­त्वा­द­र्थ­स्यै­को­प­ल­म्भ­नि­यम इति । अपि च यत्रै­क­वि­ज्ञा­न­गो­चरौ घटपटौ तत्रार्थभेदं विज्ञानभेदं चाद्यवस्यन्ति प्रतिपत्तारः । न चैत­दै­का­त्म्येऽ­व­क­ल्पत इत्याह

अपिच घटज्ञनं पटज्ञानमिति ।

तथार्थाभेदेऽपि विज्ञा­न­भे­द­द­र्श­नान्न विज्ञा­ना­त्म­क­त्व­म­र्थ­स्ये­त्याह
तथा घटदर्शनं घटस्मरणमिति ।
अपि च स्वरू­प­मा­त्र­प­र्य­व­सितं ज्ञानं ज्ञाना­न्त­र­वा­र्ता­न­भि­ज्ञ­मिति ययोर्भेदस्ते द्वे न गृहीते इति भेदोऽपि तद्गतो न गृहीत इति । एवं क्षणि­क­शू­न्या­ना­त्म­त्वा­द­योऽ­प्य­ने­क­प्र­ति­ज्ञा­हे­तु­दृ­ष्टा­न्त­ज्ञा­न­भे­द­साध्याः । एवं स्वम­सा­धा­र­ण­म­न्यतो व्यावृत्तं लक्षणं यस्य तदपि यद्व्यावर्तते यतश्च व्यावर्तते तद­ने­क­ज्ञा­न­सा­ध्यम् । एवं सामान्यलक्षणमपि विधि­रू­प­म­न्या­पो­ह­रूपं वाने­क­ज्ञा­न­ग­म्यम् । एवं वास्य­वा­स­क­भा­वोऽ­ने­क­ज्ञा­न­साध्यः । एव­म­वि­द्यो­प­प्ल­व­व­शेन यत्स­द­स­द्ध­र्मत्वं यथा नीलमिति सद्धर्मः, नर­वि­षा­ण­मि­त्य­स­द्धर्मः, अमूर्तमिति सदसद्धर्मः । शक्यं हि शशविषाणममूर्तं वक्तुम् । शक्यं च विज्ञानममूर्तं वक्तुम् । यथोक्तम् “अना­दि­वा­स­नो­द्भू­त­वि­क­ल्प­प­रि­नि­ष्ठितः । शब्दा­र्थ­स्त्रि­विधो धर्मो भावा­भा­वो­भ­या­श्रयः ॥”(प्रमा­ण­वा­र्ति­कम् ३-२०४) इति । एवं मोक्षप्रतिज्ञा च यो मुच्यते यतश्च मुच्यते येन मुच्यते तद­ने­क­ज्ञा­न­साध्या । एवं विप्रतिपन्नं प्रतिपादयितुं प्रतिज्ञेति यत्प्रतिपादयति येन प्रतिपादयति यश्च पुरुषः प्रतिपाद्यते यश्च प्रतिपादयति तद­ने­क­ज्ञा­न­सा­ध्ये­त्य­स­त्ये­क­स्मि­न्न­ने­का­र्थ­ज्ञा­न­प्र­ति­स­न्धा­तरि नोपपद्यते । तत्सर्वं विज्ञानस्य स्वांशा­ल­म्ब­नेऽ­नु­प­प­न्न­मि­त्याह

अपि च द्वयो­र्वि­ज्ञा­नयोः पूर्वो­त्त­र­का­ल­यो­रिति ।
अपि च भेदाश्रयः कर्मफलभावो नाभिन्ने ज्ञाने भवितुमर्हति । नो खलु छिदा छिद्यते किन्तु दारु । नापि पाकः पच्यतेऽपि तु तण्डुलाः । तदिहापि न ज्ञानं स्वांशेन ज्ञेयमात्मनि वृत्तिविरोधादपि तु तद­ति­रि­क्तोऽर्थः, पाच्या इव तण्डुलाः पाकातिरिक्ता इति । भूमि­र­च­ना­पू­र्व­क­माह

किञ्चान्यत् । विज्ञानं विज्ञा­न­मि­त्य­भ्यु­प­ग­च्छे­तेति ।

चोदयति
ननु विज्ञानस्य स्वरू­प­व्य­ति­रि­क्त­ग्रा­ह्यत्व इति ।
अयमर्थः स्वरू­पा­द­ति­रि­क्त­मर्थं चेद्विज्ञानं गृह्णाति तत­स्त­द­प्र­त्यक्षं सन्नर्थं प्रत्य­क्ष­यि­तु­म­र्हति । न हि चक्षुरिव तन्निलीनमर्थे कञ्च­ना­ति­श­य­मा­धत्ते, येना­र्थ­म­प्र­त्यक्षं सत्प्र­त्य­क्ष­येत् । अपितु तत्प्र­त्य­क्ष­तै­वा­र्थ­प्र­त्य­क्षता । यथाहुः “अप्र­त्य­क्षो­प­ल­म्भस्य नार्थदृष्टिः प्रसिध्यति” इति । तच्चे­त्ज्ञा­ना­न्त­रेण प्रतीयेत तदप्रतीतं नार्थविषयं ज्ञान­म­प­रो­क्ष­यि­तु­म­र्हति । एवं तत्तदित्यनवस्था तस्मादनवस्थाया बिभ्यता वरं स्वात्मनि वृत्तिरास्थिता । अपिच यथा प्रदीपो न दीपा­न्त­र­म­पे­क्षते, एवं ज्ञानमपि न ज्ञाना­न्त­र­म­पे­क्षि­तु­म­र्हति समत्वादिति । तदेतत्परिहरति

तदुभयमप्यसत् । विज्ञा­न­ग्र­ह­ण­मात्र एव विज्ञानसाक्षिणो ग्रह­णा­का­ङ्क्षा­नु­त्पा­दा­द­न­व­स्था­श­ङ्का­नु­प­पत्तेः ।
अयमर्थः सत्य­म­प्र­त्य­क्ष­स्यो­प­ल­म्भस्य नार्थदृष्टिः प्रसिध्यति, न तूपलब्धारं प्रति तत्प्र­त्य­क्ष­त्वा­यो­प­ल­म्भा­न्तरं प्रार्थनीयम् , अपितु तस्मि­न्नि­न्द्रि­या­र्थ­सं­नि­क­र्षा­द­न्तः­क­र­ण­वि­का­र­भेद उत्पन्नमात्र एव प्रमा­तु­र­र्थ­श्चो­प­ल­म्भश्च प्रत्यक्षौ भवतः । अर्थो हि निलीनस्वभावः प्रमातारं प्रति स्वप्र­त्य­क्ष­त्वा­या­न्तः­क­र­ण­वि­का­र­भे­द­म­नु­भ­व­म­पे­क्षते, अनुभवस्तु जडोऽपि स्वच्छतया चैत­न्य­बि­म्बो­द्ग्र­ह­णाय नानु­भ­वा­न्त­र­म­पे­क्षते, येनानवस्था भवेत् । नह्यस्ति सम्भवोऽनुभव उत्पन्नश्च, न च प्रमातुः प्रत्यक्षो भवति, यथा नीलादिः । तस्माद्यथा छेत्ता छिदया छेद्यं वृक्षादि व्याप्नोति, न तु छिदा छिदान्तरेण, नापि छिदैव छेत्री, किन्तु स्वत एव देवदत्तादिः, यथा वा पक्ता पाक्यं पाकेन व्याप्नोति ननु पाकं पाकान्तरेण, नापि पाक एव पक्ता किन्तु स्वत एव देवदेत्तादिः, एवं प्रमाता प्रमेयं नीलादि प्रमया व्याप्नोति न तु प्रमां प्रमान्तरेण, नापि प्रमैव प्रमात्री, किन्तु स्वत एव प्रमायाः प्रमाता व्यापकः । न च प्रमातरि कूट­स्थ­नि­त्य­चै­तन्ये प्रमा­पे­क्षा­स­म्भवो यतः प्रमातुः प्रमायाः प्रमा­त्र­न्त­रा­पे­क्षा­या­म­न­वस्था भवेत् । तस्मा­त्सु­ष्ठूक्तं “विज्ञा­न­ग्र­ह­ण­मात्र एव विज्ञानसाक्षिणः प्रमातुः कूट­स्थ­नि­त्य­चै­त­न्यस्य ग्रह­णा­का­ङ्क्षा­नु­त्पा­दात्” इति । यदुक्तं “सम­त्वा­द­व­भा­स्या­व­भा­स­क­भा­वा­नु­प­पत्तेः” इति । तत्राह

साक्षि­प्र­त्य­य­योश्च स्वभा­व­वै­ष­म्या­दु­प­ल­ब्ध्रु­प­ल­भ्य­भा­वो­प­पत्तेः ।
मा भूत्ज्ञानयोः साम्येन ग्राह्य­ग्रा­ह­क­भावः । ज्ञातृ­ज्ञा­न­योस्तु वैषम्यादुपपद्यत एव । ग्राह्यत्वं च ज्ञानस्य न ग्राह­क­क्रि­या­ज­नि­त­फ­ल­शा­लि­तया यथा बाह्यार्थस्य, फले फला­न्त­रा­नु­प­पत्तेः । यथाहुः “न संविदर्यते फलत्वात्” इति । अपि तु प्रमातारं प्रति स्वतः­सि­द्ध­प्र­क­ट­तया । ग्राह्योऽ­प्यर्थः प्रमातारं प्रति सत्यां संविदि प्रकटः संविदपि प्रकटा । यथा­हु­र­न्ये­नास्याः कर्मभावो विद्यते इति । स्यादेतत् यत्प्रकाशते तदन्येन प्रकाश्यते यथा ज्ञानार्थौ तथा च साक्षिति नास्ति प्रत्य­य­सा­क्षि­णो­र्वै­ष­म्य­मि­त्यत आह

स्वयंसिद्धस्य च साक्षि­णोऽ­प्र­त्या­ख्ये­य­त्वात् ।
तथाहि - अस्य साक्षिणः सदा­स­न्दि­ग्धा­वि­प­री­तस्य नित्य­सा­क्षा­त्का­र­ता­ना­ग­न्तु­क­प्र­का­शत्वे घटते । तथाहिप्रमाता सन्दि­हा­नोऽ­प्य­स­न्दिग्धो विप­र्य­स्य­न्न­प्य­वि­प­रीतः परो­क्ष­म­र्थ­मु­त्प्रे­क्ष­मा­णोऽ­प्य­प­रोक्षः स्मर­न्न­प्य­नु­भ­विकः प्राण­भृ­न्मा­त्रस्य । न चैत­द­न्या­धी­न­सं­वे­द­नत्वे घटते । अन­व­स्था­प्र­स­ङ्ग­श्चोक्तः । तस्मा­त्स्व­यं­सि­द्ध­ता­स्या­नि­च्छ­ता­प्य­प्र­त्या­ख्येया प्रमा­ण­मा्र्गा­य­त्त­त्वा­दिति । किञ्चोक्तेन क्रमेण ज्ञानस्य स्वय­म­व­ग­न्तृ­त्वा­भा­वा­त्प्र­मा­तु­र­न­भ्यु­प­गमे च प्रदी­प­व­द्वि­ज्ञा­न­म­व­भा­स­का­न्त­र­नि­र­पेक्षं स्वयमेव प्रथत इति ब्रुव­ता­प्र­मा­ण­गम्यं विज्ञा­न­म­न­व­ग­न्तृ­क­मि­त्युक्तं स्यात् । शिला­घ­न­म­ध्य­स्थ­प्र­दी­प­स­ह­स्र­प्र­थ­न­वत् । अव­ग­न्तु­श्चे­त्क­स्य­चि­दपि न प्रकाशते कृतमवगमेन स्वय­म्प्र­का­शे­नेति । विज्ञा­न­मे­वा­व­ग­न्त्रिति मन्वानः शङ्कते

बाढमेवम् । अनु­भ­व­रू­प­त्वा­दिति ।

न फलस्य कर्तृत्वं कर्मत्वं वास्तीति प्रदी­प­व­त्क­र्त्र­न्त­र­मे­षि­तव्यं, तथा च न सिद्धसाधनमिति परिहरति
न । अन्य­स्या­व­ग­न्तु­रिति ।

ननु साक्षि­स्था­नेऽ­स्त्व­स्म­द­भि­म­त­मेव विज्ञानं तथा च नाम्न्येव विप्र­ति­प­त्ति­र्नार्थ इति शङ्कते
साक्षि­णोऽ­व­गन्तुः स्वयं­सि­द्ध­ता­मु­प­क्षि­पता अभिप्रेयता स्वयं प्रथते विज्ञानमित्येष एवेति ।

निराकरोति
नेति ।
भवन्ति हि विज्ञा­न­स्यो­त्पा­दा­दयो धर्मा अभ्युपेतास्तथा चास्य फलतया नावगन्तृत्वं, कर्तृ­फ­ल­भा­व­स्यै­कत्र विरोधात् । किन्तु प्रदी­पा­दि­तु­ल्य­ते­त्यर्थः ॥ २८ ॥

वैधर्म्याच्च न स्वप्नादिवत् ।
बाधाबाधौ वैधर्म्यम् । स्वप्नप्रत्ययो बाधितो जाग्र­त्प्र­त्य­य­श्चा­बा­धितः । त्वयापि चावश्यं जाग्र­त्प्र­त्य­य­स्या­बा­धि­त­त्व­मा­स्थेयं, तेन हि स्वप्नप्रत्ययो बाधितो मिथ्ये­त्य­व­ग­म्यते । जाग्र­त्प्र­त्य­यस्य तु बाध्यत्वे स्वप्न­प्र­त्य­य­स्यासौ न बाधको भवेत् । नहि बाध्यमेव बाधकं भवितुमर्हति । तथा च न स्वप्नप्रत्ययो मिथ्येति साध्यविकलो दृष्टान्तः स्यात्स्व­प्न­व­दिति । तस्मा­द्बा­धा­बा­धाभ्यां वैधर्म्यान्न स्वप्न­प्र­त्य­य­दृ­ष्टा­न्तेन जाग्र­त्प्र­त्य­यस्य शक्यं निरा­ल­म्ब­न­त्व­म­ध्य­व­सा­तुम् ।

निद्राग्लानमिति ।
करणदोषाभिधानम् । मिथ्यात्वाय वैध­र्म्या­न्त­र­माह

अपि च स्मृतिरेवेति ।
संस्कारमात्रजं हि विज्ञानं स्मृतिः । प्रत्यु­त्प­न्ने­न्द्रि­य­स­म्प्र­यो­ग­लि­ङ्ग­श­ब्द­सा­रू­प्या­न्य­था­नु­प­प­द्य­मा­न­यो­ग्य­प्र­मा­णा­नु­त्प­त्ति­ल­क्ष­ण­सा­म­ग्री­प्र­भवं तु ज्ञानमुपलब्घिः । तदिह निद्राणस्य साम­ग्र्य­न्त­र­वि­र­हा­त्सं­स्कारः परिशिष्यते, तेन संस्का­र­ज­त्वा­त्स्मृतिः, सापि च निद्रा­दो­षा­द्वि­प­री­ता­व­र्त­मा­न­मपि पित्रादि वर्तमानतया भासयति । तेन स्मृतेरेव ताव­दु­प­ल­ब्धे­र्वि­शे­ष­स्त­स्याश्च स्मृते­र्वै­प­री­त्य­मिति । अतो मह­द­न्त­र­मि­त्यर्थः । अपि च स्वतःप्रामाण्ये सिद्धे जाग्र­त्प्र­त्य­यानां यथा­र्थ­त्व­म­नु­भ­व­सिद्धं नानु­मा­ने­ना­न्य­थ­यितुं शक्यम् , अनुभवविरोधेन तदनुत्पादात् । अबा­धि­त­वि­ष­य­ता­प्य­नु­मा­नो­त्पा­द­सा­म­ग्री­ग्रा­ह्य­तया प्रमाणम् । न च कारणाभावे कार्य­मु­त्प­त्तु­म­र्ह­ती­त्या­श­य­वा­नाह

अपि चानु­भ­व­वि­रो­ध­प्र­स­ङ्गा­दिति ॥ २९ ॥

न भावोऽनुपलब्धेः ।
यथालोकदर्शनं चान्व­य­व्य­ति­रे­का­व­नु­श्रि­य­मा­णा­वर्थ एवोपलब्धेर्भवतो नार्था­न­पे­क्षायां वासनायाम् । वासनाया अप्य­र्थो­प­ल­ब्ध्य­धी­न­त्व­द­र्श­ना­दि­त्यर्थः । अपि चाश्रयाभावादपि न लौकिकी वासनोपपद्यते । न च क्षणि­क­मा­ल­य­वि­ज्ञानं वासनाधारो भवितुमर्हति । द्वयो­र्यु­ग­प­दु­त्प­द्य­मा­नयोः सव्य­द­क्षि­ण­शृ­ङ्ग­व­दा­धा­रा­धे­य­भा­वा­भा­वात् । प्रागुत्पन्नस्य चाधे­यो­त्पा­द­स­म­येऽ­सतः क्षणि­क­त्व­व्या­घात इत्याशयवानाह

अपि च वासना नामेति ।
शेष­म­ति­रो­हि­ता­र्थम् ॥ ३० ॥

क्षणिकत्वाच्च ।
स्यादेतत् । यदि साकारं विज्ञानं सम्भवति बाह्यश्चार्थः स्थूल­सू­क्ष्म­वि­क­ल्पे­ना­स­म्भवी हन्तै­व­म­र्थ­ज्ञाने सत्त्वेन तावद्विचारं न सहेते । नाप्यसत्त्वेन, असतो भासनायोगात् । नोभयत्वेन, विरो­धा­त्स­द­स­तो­रे­क­त्रा­नु­प­पत्तेः । नाप्यनुभयत्वेन, एक­नि­षे­ध­स्ये­त­र­वि­धा­न­ना­न्त­री­य­क­त्वात् । तस्मा­द्वि­चा­रा­स­ह­त्व­मे­वास्तु तत्त्वं वस्तूनाम् । यथाहुः “इदं वस्तु बलायातं यद्वदन्ति विपश्चितः । यथा यथा­र्था­श्चि­न्त्यन्ते विविच्यन्ते तथा तथा ॥' इति ॥ न क्वचिदपि पक्षे व्यवतिष्ठन्त इत्यर्थः । तदे­त­न्नि­रा­चि­की­र्षु­राह

शून्य­वा­दि­प­क्षस्तु सर्व­प्र­मा­ण­वि­प्र­ति­षिद्ध इति तन्निराकरणाय नादरः क्रियते ।
लौकिकानि हि प्रमाणानि सदसत्त्वगोचराणि । तैः खलु सत्सदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते । असच्चासदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते । सदसतोश्च विचारासहत्वं व्यवस्थापयता सर्व­प्र­मा­ण­वि­प्र­ति­षिद्धं व्यवस्थापितं भवति । तथा च सर्व­प्र­मा­ण­वि­प्र­ति­षे­धा­न्नेयं व्यवस्थोपपद्यते । यद्युच्येत तात्त्विकं प्रामाण्यं प्रमाणानामनेन विचारेण व्युदस्यते न सांव्यवहारिकम् । तथाच भिन्न­वि­ष­य­त्वान्न सर्व­प्र­मा­ण­वि­प्र­ति­षेध इत्यत आह

नह्येयं सर्व­प्र­मा­ण­प्र­सिद्धो लोक­व्य­व­हा­रोऽ­न्य­त्त­त्त्व­म­न­धि­गम्य शक्य­तेऽ­प­ह्नो­तुम् ।
प्रमाणानि हि स्वगोचरे प्रवर्तमानानि तत्त्व­मि­द­मि­त्येव प्रवर्तन्ते । अतात्त्विकत्वं तु तद्गो­च­र­स्या­न्यतो बाध­का­द­व­ग­न्त­व्यम् । न पुनः सांव्यवहारिकं नः प्रामाण्यं न तु तात्त्वि­क­मि­त्येव प्रवर्तन्ते । बाधकं चाता­त्त्वि­क­त्व­मेषां तद्गो­च­र­वि­प­री­त­त­त्त्वो­प­द­र्श­नेन दर्शयेत् । यथा शुक्तिकेयं न रजतं मरीचयो न तोयमेकश्चन्द्रो न चन्द्र­द्व­य­मि­त्यादि, तद्वदिहापि सम­स्त­प्र­मा­ण­गो­च­र­वि­प­री­त­त­त्त्वा­न्त­र­व्य­व­स्था­प­ने­ना­ता­त्त्वि­क­त्व­मेषां प्रमाणानां बाधकेन दर्शनीयं न त्वव्य­व­स्था­पि­त­त­त्त्वा­न्त­रेण प्रमाणानि शक्यानि बाधितुम् । विचारासहत्वं वस्तूनां तत्त्वं व्यव­स्था­प­य­द्बा­ध­क­म­ता­त्त्वि­कत्वं प्रमाणानां दर्शयतीति चेत् , किं पुनरिदं विचारासहत्वं वस्तु यत्त­त्त्व­म­भि­मतं, किं तद्वस्तु परमार्थतः सदा­दी­ना­म­न्य­त­म­त्के­वलं विचारं न सहते, अथ विचारासहत्वेन निस्तत्त्वमेव । तत्र परमार्थतः सदा­दी­ना­म­न्य­त­म­द्वि­चारं न सहत इति विप्रतिषिद्धम् । न सहते चेन्न सदादीनामन्यतमत् । अन्यतमच्चेत्कथं न विचारं सहते । अथ निस्तत्त्वं चेत्क­थ­म­न्य­त­म­त्त­त्त्व­म­व्य­व­स्थाप्य शक्यमेवं वक्तुम् । न च निस्तत्त्वतैव तत्त्वं भावानाम् । तथा सति हि तत्त्वाभावः स्यात् । सोऽपि च विचारं न सहत इत्युक्तं भवद्भिः । अपि चारोपितं निषेधनीयम् । आरोपश्च तत्त्वाधिष्ठानो दृष्टो यथा शुक्तिकादिषु रजतादेः । न चेत्किञ्चिदस्ति तत्त्वं कस्य कस्मिन्नारोपः । तस्मा­न्नि­ष्प्र­पञ्चं पर­मा­र्थ­स­द्ब्र­ह्मा­नि­र्वा­च्य­प्र­प­ञ्चा­त्म­ना­रो­प्यते, तच्च तत्त्वं व्यव­स्था­प्या­ता­त्त्वि­क­त्वेन सांव्य­व­हा­रि­कत्वं प्रमाणानां बाधकेनोपपद्यत इति युक्त­मु­त्प­श्यामः ॥ ३१ ॥

सर्व­था­नु­प­प­त्तेश्च ।

विभजते
किं बहुना उक्तेन यथा­य­था­ग्र­न्थ­तोऽ­र्थ­तश्च अयं वैनाशिकसमय इति ।
ग्रन्थ­त­स्ता­व­त्प­श्य­ना­ति­ष्ठ­ना­मि­द्ध­पो­ष­धा­द्य­सा­धु­प­द­प्र­योगः । अर्थतश्च नैरा­त्म्य­म­भ्यु­पे­त्या­ल­य­वि­ज्ञानं सम­स्त­वा­स­ना­धा­र­म­भ्यु­प­ग­च्छ­न्न­क्ष­र­मा­त्मा­न­म­भ्यु­पैति । एवं क्षणि­क­त्व­म­भ्यु­पेत्य “उत्पादाद्वा तथा­ग­ता­ना­म­नु­त्पा­दाद्वा स्थितैवैषां धर्माणां धर्मता धर्मस्थितिता” इति नित्य­ता­मु­पै­ती­त्यादि बहून्नेतव्यमिति ॥ ३२ ॥