भामतीव्याख्या
परायत्ताधिकरणविषयाः
परात्तु तच्छ्रुतेः ।
यदेतज्जीवानामौपाधिकं कर्तृत्वं तत्प्रवर्तनालक्षणेषु रागादिषु सत्सु नेश्वरमपरं प्रवर्तकं कल्पयितुमर्हति, अतिप्रसङ्गात् । नचेश्वरो द्वेषपक्षपातरहितो जीवान् साध्वसाधुनि कर्मणि प्रवर्तयितुमर्हति, येन धर्माधर्मापेक्षया जगद्वैचित्र्यमापद्येत । स हि स्वतन्त्रः कारुणिको धर्म एव जन्तून् प्रवर्तयेन्नाधर्मे । ततश्च तत्प्रेरिता जन्तवः सर्वे धार्मिका एवेति सुखिन एव स्युर्न दुःखिनः । स्वतन्त्रास्तु रागादिप्रयुक्ताः प्रवर्तमाना धर्माधर्मप्रचयवन्तो वैचित्र्यमनुभवन्तीति युक्तम् । एवंच विधिनिषेधयोरर्थवत्त्वमितरथा तु सर्वथा जीवा अस्वतन्त्रा इतीश्वरेणैव प्रवर्त्यन्त इति कृतं विधिनिषेधाभ्याम् । नहि बलवदनिलसलिलौघनुद्यमानं प्रत्युपदेशोऽर्थवान् । तस्मात् “एष ह्येव साधु कर्म कारयति”(कौ . ब्रा. ३ । ८) इत्यादयः श्रुतयः समस्तविधिनिषेधश्रुतिविरोधाल्लोकविरोधाच्चैश्वर्यप्रशंसापरतया नेया इति प्राप्तेऽभिधीयते । “एष ह्येव साधु कर्म कारयति” इत्यादयस्तावच्छछ्रुतयः सर्वव्यापारेषु जन्तूनामीश्वरतन्त्रतामाहुः, तदसति प्रतिबन्धके न प्रशंसापरतया व्याख्यातुमुचितम् । नच श्रुतिसिद्धस्य कल्पनीयता, येन प्रवर्तकेषु रागादिषु सत्सु तत्कल्पना विरुध्येत । न चेश्वरतन्त्रत्वे धर्म एव जन्तूनां प्रवृत्तेः सुखित्वमेव न वैचित्र्यमिति युक्तम् । यद्यप्ययमीश्वरो वीतरागस्तथापि पूर्वपूर्वजन्तुकर्मापेक्षय जन्तून् धर्माधर्मयोः प्रवर्तयन्न द्वेषपक्षपाताभ्यां विषमः । नापि निर्घृणः । नच कर्मप्रचयस्यादिरस्त्यनादित्वात्संसारस्य । न चेश्वरतन्त्रस्य कृतं विधिनिषेधाभ्यामिति साम्प्रतम् । नहीश्वरः प्रबलतरपवन इव जन्तून् प्रवर्तयत्यपि तु तच्चैतन्यमनुरुध्यमानो रागाद्युपहारमुखेन । एवं चेष्टानिष्टप्राप्तिपरिहारार्थिनो विधिनिषेधावर्थवन्तौ भवतः । तदनेनाभिसन्धिनोक्तम्
परायत्तेऽपि हि कर्तृत्वे करोत्येव जीव इति ।
तस्माद्विधिनिषेधशास्त्राविरोधाल्लोकस्य स्थूलदर्शित्वात् “एष ह्येव साधु कर्म कारयति”(कौ . ब्रा. ३ । ८)इत्यादिश्रुतेः । “अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥”(भारत.व. ३०-२८) इति स्मृतेश्चेश्वरतन्त्राणामेव जन्तूनां कर्तृत्वं, न तु स्वतन्त्राणामिति सिद्धम् । ईश्वर एव विधिनिषेधयोस्थाने नियुज्येत यद्विधिनिषेधयोः फलं तदीश्वरेण तत्प्रतिपादितधर्माधर्मनिरपेक्षेण कृतमिति विधिनिषेधयोरानर्थक्यम् । न केवलमानर्थक्यं विपरीतं चापद्येत इत्याह
तथा विहितकारिणमिति ।
पूर्वोक्तश्च दोषः कृतनाशाकृताभ्यागमः प्रसज्येत । अतिरोहितार्थमन्यत् ॥ ४१ ॥
कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः । ॥ ४२ ॥