अद्वैतशारदा

भामतीव्याख्या

श्रेष्ठाणुत्वाधिकरणमविषयः

व्याख्याः

अणुश्च ।

“सम­स्त्रि­भि­र्लोकैः” इति विभु­त्व­श्र­व­णा­द्विभुः प्राणः, “समः प्लुषिणा”(बृ. उ. १ । ३ । २२) इत्याद्यास्तु श्रुतयो विभो­र­प्य­व­च्छे­दा­द्भ­वि­ष्यन्ति । यथा विभुन आकाशस्य कुट­क­र­का­द्य­व­च्छे­दा­त्कु­टा­दि­सा­म्य­मिति प्राप्त आह
अणुश्च ।
उत्क्रा­न्ति­ग­त्या­ग­ति­श्रु­तिभ्य आध्यात्मिकस्य प्राण­स्या­व­च्छि­न्नता न विभुत्वम् । दुर­धि­ग­म­ता­मा­त्रेण च शरी­र­व्या­पि­नोऽ­प्य­णु­त्व­मु­प­च­र्यते न त्वणु­त्व­मि­त्यु­क्त­म­ध­स्तात् । यत्त्वस्य विभुत्वान्मानं तदाधिदैविकेन सूत्रात्मना सम­ष्टि­व्य­ष्टि­रू­पेण न त्वाध्यात्मिकेन रूपेण । तदाश्रयाश्च “समः प्लुषिणा” इत्येवमाद्याः श्रुतयो देहसाम्यमेव प्राणस्याहुः स्वरूपतो न तु कर­का­का­श­व­त्प­रो­पा­धि­क­तया कथञ्चिन्नेतव्या इति ॥ १३ ॥