भामतीव्याख्या
इन्द्रियाधिकरणविषयाः
त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ।
मा भूत्प्राणो वृत्तिरिन्द्रियाणाम् । इन्द्रियाण्येवास्य ज्येष्ठस्य श्रेष्ठस्य च प्राणस्य वृत्तयो भविष्यन्ति । तद्भावाभावानुविधायिभावाभावत्वमिन्द्रियाणां श्रुत्यनुभवसिद्धं, तथाच प्राणशब्दस्यैकस्यान्याय्यमनेकार्थत्वं न भविष्यति । वृत्तीनां वृत्तिमतस्तत्त्वान्तरत्वाभावात् । तत्त्वान्तरत्वे त्विन्द्रियाणां, प्राणशब्दस्यानेकार्थत्वं प्रसज्येत । इन्द्रियेषु लाक्षणिकत्वं वा । नच मुख्यसम्भवे लक्षणा युक्ता जघन्यत्वात् । नच भेदेन व्यपदेशो भेदसाधनम् “एतस्माज्जायते प्राणः”(मु. उ. २ । १ । ३) इत्यादिर्मनसोऽपीन्द्रियेभ्योऽस्ति भेदेन व्यपदेश इत्यनिन्द्रियत्वप्रसङ्गः । स्मृतिवशात्तु तस्येन्द्रियत्वे इन्द्रियाणामपि प्राणाद्भेदेन व्यपदिष्टानामप्यस्ति प्राणस्वभावत्वे “हन्त अस्यैव रूपमसाम”(बृ. उ. १ । ५ । २१) इति श्रुतिः । तस्मादुपपत्तेः श्रुतेश्च प्राणस्यैव वृत्तय एकादशेन्द्रियाणि न तत्त्वान्तराणीति इति प्राप्तम् । एवं प्राप्त उच्यते - मुख्यात्प्राणात्तत्त्वान्तराणीन्द्रियाणि, तत्र तत्र भेदेन व्यपदेशात् । मृत्युप्राप्ताप्राप्तत्वलक्षणविरुद्धधर्मसंसर्गश्रुतेः । अर्थक्रियाभेदाच्च । देहधारणं हि प्राणस्य क्रियाऽर्थालोचनमनने चेन्द्रियाणाम् । नच तद्भावाभावानुविधानं तद्वृत्तितामावहति । देहेन व्यभिचारात् । प्राणादयो हि देहान्वयव्यतिरेकानुविधायिनो नच देहात्मनः । यापि च प्राणरूपतामिन्द्रियाणामभिदधाति श्रुतिः, तत्रापि पौर्वापर्यालोचनायां भेद एव प्रतीयत इत्युक्तं भाष्यकृता । तस्माद्बहुश्रुतिविरोधात्पूर्वापरविरोधाच्च प्राणरूपताभिधानमिन्द्रियाणां प्राणायत्ततया भाक्तं गमयितव्यम् । मनसस्त्विन्द्रियत्वे स्मृतेरवगते क्वचिदिन्द्रियेभ्यो भेदेनोपादानं गोबलीर्वदन्यायेन । अथवा इन्द्रियाणां वर्तमानमात्रविषयत्वान्मनसस्तु त्रैकाल्यगोचरत्वाद्भेदेनाभिधानम् । नच प्राणे भेदव्यपदेशबाहुल्यं तथा नेतुं युक्तम् । प्राणरूपताश्रुतेश्च गतिर्दर्शिता । तथा ज्येष्ठे प्राणशब्दस्य मुख्यत्वादिन्द्रियेषु ततस्तत्त्वान्तरेषु लाक्षणिकः प्राणशब्द इति युक्तम् । नच मुख्यत्वानुरोधेनावगतभेदयोरैक्यं युक्तं, मा भूद्गङ्गादीनां तीरादिभिरैक्यमिति । अन्ये तु भेदशब्दाध्याहारभिया भेदश्रुतेश्चेति पौनरुक्त्यभिया च तच्छब्दस्य चानन्तरोक्तपरामर्शकत्वादन्यथा वर्णयाञ्चक्रुः । किमेकादशैव वागादय इन्द्रियाण्याहो प्राणोऽपीति विशये इन्द्रस्यात्मनो लिङ्गमिन्द्रियं, तथाच वागादिवत्प्राणस्यापीन्द्रलिङ्गतास्ति नच रूपादिविषयालोचनकरणतेन्द्रियता, आलोकस्यापीन्द्रियत्वप्रसङ्गात् । तस्माद्भौतिकमिन्द्रलिङ्गमिन्द्रियमिति वागादिवत्प्राणोऽपीन्द्रियमिति प्राप्तम् । एवं प्राप्तेऽभिधीयते इन्द्रियाणि वागादीनि श्रेष्ठात्प्राणादन्यत्र । कुतः तेनेन्द्रियशब्देन तेषामेव वागादीनां व्यपदेशात् । नहि मुख्ये प्राणा इन्द्रियशब्दो दृष्टचरः । इन्द्रलिङ्गता तु व्युत्पत्तिमात्रनिमित्तं यथा गच्छतीति गौरिति । प्रवृत्तिनिमित्तं तु देहाधिष्ठानत्वे सति रूपाद्यालोचनकरणत्वम् । इदं चास्य देहाधिष्ठानत्वं यद्देहानुग्रहोपघाताभ्यां तदनुग्रहोपघातौ । तथाच नालोकस्येन्द्रियत्वप्रसङ्गः । तस्माद्रूढेर्वागादय एवेन्द्रियाणि न प्राण इति सिद्धम् । भाष्यकारीयं त्वधिकरणं भेदश्रुतेरित्यादिषु सूत्रेषु नेयम् ॥ १७ ॥
भेदश्रुतेः । ॥ १८ ॥
वैलक्षण्याच्च । ॥ १९ ॥