भामतीव्याख्या
उभयलिङ्गाधिकरणविषयाः
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ।
अवान्तरसङ्गतिमाह –
येन ब्रह्मणा सुषुप्तादिष्विति ।
यद्यपि “तदनन्यत्वमारम्भणशब्दादिभ्यः”(ब्र. सू. २ । १ । १४) इत्यत्र निष्प्रपञ्चमेव ब्रह्मोपपादितं तथापि प्रपञ्चलिङ्गानां बह्वीनां श्रुतीनां दर्शनाद्भवति पुनर्विचिकित्सा अतस्तन्निवारणायारम्भः । तस्य च तत्त्वज्ञानमपवर्गोपयोगीति प्रयोजनवान् विचारः । तत्रोभयलिङ्गश्रवणादुभयरूपत्वं ब्रह्मणः प्राप्तम् । तत्रापि सविशेषत्वनिर्विशेषत्वयोर्विरोधात्स्वाभाविकत्वानुपपत्तेरेकं स्वतोऽपरं तु परतः । नच यत्परतस्तदपारमार्थिकम् । नहि चक्षुरादीनां स्वतःप्रमाणभूतानां दोषतोऽप्रामाण्यमपारमार्थिकम् । विपर्ययज्ञानलक्षणकार्यानुत्पादप्रसङ्गात् । तस्मादुभयलिङ्गकशास्त्रप्रामाण्यादुभयरूपता ब्रह्मणः पारमार्थिकीति प्राप्त उच्यते न स्थानत उपाधितोऽपि परस्य ब्रह्मण उभयचिह्नत्वसम्भवः । एकं हि पारमार्थिकमन्यदध्यारोपितम् । पारमार्थिकत्वे ह्युपाधिजनितस्य रूपस्य ब्रह्मणः परिणामो भवेत् । स च प्राक्प्रतिषिद्धः । तत्पारिशेष्यात्स्फटिकमणेरिव स्वभावस्वच्छधवलस्य लाक्षारसावसेकोपाधिररूणिमा सर्वगन्धत्वादिरौपाधिको ब्रह्मण्यध्यस्त इति पश्यामो निर्विशेषताप्रतिपादनार्थत्वाच्छ्रुतीनाम् । सविशेषतायामपि “यश्चायमस्यां पृथिव्यां तेजोमयः”(बृ. उ. २ । ५ । १) इत्यादीनां श्रुतीनां ब्रह्मैकत्वप्रतिपादनपरत्वादेकत्वनानात्वयोश्चैकस्मिन्नसम्भवादेकत्वाङ्गत्वेनैव नानात्वप्रतिपादनपर्यवसानात् , नानात्वस्य प्रमाणान्तरसिद्धतयानुवाद्यत्वादेकत्वस्य चानधिगतेर्विधेयत्वोपपत्तेर्भेददर्शननिन्दया च साक्षाद्भूयसीभिः श्रुतिभिरभेदप्रतिपादनादाकारवद्ब्रह्मविषयाणां च कासाञ्चिच्छ्रुतीनामुपासनापरत्वमसति बाधकेऽन्यपराद्वचनात्प्रतीयमानमपि गृह्यते । यथा देवतानां विग्रहवत्त्वम् । सन्ति चात्र साक्षाद्वैतापवादेनाद्वैतप्रतिपादनपराः शतशः श्रुतयः । कासाञ्चिच्च द्वैताभिधायिनीनां तत्प्रविलयपरत्वम् । तस्मान्निर्विशेषमेकरूपं चैतन्यैकरसं सद्ब्रह्म परमार्थतः, विशेषाश्च सर्वगन्धत्ववामनीत्वादय उपाधिवशादध्यस्ता इति सिद्धम् । शेषमतिरोहितार्थम् ॥ ११ ॥
न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ १२ ॥
अपि चैवमेके ॥ १३ ॥
अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥
प्रकाशवच्चावैयर्थ्यात् ॥ १५ ॥
आह च तन्मात्रम् ॥ १६ ॥
दर्शयति चाथो अपि स्मर्यते ॥ १७ ॥
अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥
अम्बुवदग्रहणात्तु न तथात्वम् ॥ १९ ॥
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॥ २० ॥
दर्शनाच्च ॥ २१ ॥
अत्र केचिद्द्वे अधिकरणे कल्पयन्तीति ।
किं सल्लक्षणं च प्रकाशलक्षणं च ब्रह्म किं सल्लक्षणमेव ब्रह्मोत प्रकाशलक्षणमेवेति तत्र पूर्वपक्षं गृह्णाति –
प्रकाशवच्चावैयर्थ्यात् ।
चकारात्सच्च । अवैयर्थ्यात् ।
ब्रह्मणि सच्छ्रुतेः सिद्धान्तयति –
आह च तन्मात्रम् ।
प्रकाशमात्रम् । नहि सत्त्वं नाम प्रकाशरूपादन्यत् , यथा सर्वगन्धत्वादयोऽपि तु प्रकाशरूपमेव सदिति नोभयरूपत्वं ब्रह्मण इत्यर्थः । तदेतदनेनोपन्यस्य दूषितम् । सत्ताप्रकाशयोरेकत्वे नोभयलक्षणत्वम् । भेदे न स्थानतोऽपीति निराकृतमिति नाधिकरणान्तरं प्रयोजयति । परमार्थतस्त्वभेद एव प्रकर्षप्रकाशवदिति । सर्वेषां च साधारणे प्रविलयार्थत्वे सति” अरूपवदेव हि तत्प्रधानत्वात्” इति विनिगमनकारणवचनमनवकाशं स्यात् । एवं हि तस्यावकाशः स्याद्याद काश्चिदुपासनापरतया रूपमाचक्षीरन् काश्चिन्नीरूपब्रह्मप्रतिपादनपरा भवेयुः । सर्वासां तु प्रविलयार्थत्वेन नीरूपब्रह्मप्रतिपादनार्थत्वे उक्तो विनिगमनहेतुर्न स्यादित्यर्थः । एकनियोगप्रतीतेः प्रयाजदर्शपूर्णमासवाक्यवदित्यधिकाराभिप्रायम् , अनुबन्धभेदात्तु भिन्नोऽनयोरपि नियोग इति ।
कोऽयं प्रपञ्चप्रविलय इति ।
वास्तवस्य वा प्रपञ्चस्य प्रविलयः सर्पिष इवाग्निसंयोगात् । समारोपितस्य वा रज्ज्वां सर्पभावस्येव रज्जुतत्त्वपरिज्ञानात् । न तावद्वास्तवः सर्वसाधारणः पृथिव्यादिप्रपञ्चः पुरुषमात्रेण शक्यः समुच्छेत्तुम् । अपिच प्रह्लादशुकादिभिः पुरुषधौरेयैः समूलमुन्मूलितः प्रपञ्च इति शून्यं जगद्भवेत् । नच वास्तवं तत्त्वज्ञानेन शक्यं समुच्छेत्तुम् । आरोपितरूपविरोधित्वात्तत्त्वज्ञानस्येत्युक्तम् । समारोपितरूपस्तु प्रपञ्चो ब्रह्मतत्त्वज्ञापनपरैरेव वाक्यैर्ब्रह्मतत्त्वमवबोधयद्भिः शक्यः समुच्छेत्तुमिति कृतमत्र विधिना । नहि विधिशतेनापि विना तत्त्वावबोधनं प्रवर्तस्वात्मज्ञान इति वा कुरु प्रपञ्चप्रविलयं वेति प्रवर्तितः शक्नोति प्रपञ्चप्रविलयं कर्तुम् । न चास्यात्मज्ञानविधिं विना वेदान्तार्थब्रह्मतत्त्वावबोधो न भवति । मौलिकस्य स्वाध्यायाध्ययनविधेरेव विवक्षितार्थतया सकलस्य वेदराशेः फलवदर्थावबोधनपरतामापादयतो विद्यमानत्वात् । अन्यथा कर्मविधिवाक्यान्यपि विध्यन्तरमपेक्षेरन्निति । नच चिन्तासाक्षात्कारयोर्विधिरिति तत्त्वसमीक्षायामस्माभिरुपपादितम् । विस्तरेण चायमर्थस्तत्रैव प्रपञ्चितः । तस्मात् “जर्तिलयवाग्वा जुहुयात्” इतिवद्विधिसरूपा एते “आत्मा वा अरे द्रष्टव्य”(बृ. उ. २ । ४ । ५) इत्यादयो न तु विधय इति ।
तदिदमुक्तम् –
द्रष्टव्यादिशब्दा अपि तत्त्वाभिमुखीकरणप्रधाना न तत्त्वावबोधविधिप्रधाना इति ।
अपिच ब्रह्मतत्त्वं निष्प्रपञ्चमुक्तं न तत्र नियोज्यः कश्चित्सम्भवति । जीवो हि नियोज्यो भवेत् , स चेत्प्रपञ्चपक्षे वर्तते को नियोज्यस्तस्योच्छिन्नत्वात् । अथ ब्रह्मपक्षे तथाप्यनियोज्यः, ब्रह्मणोऽनियोज्यत्वात् । अथ ब्रह्मणोऽनन्योऽप्यविद्ययान्य इवेति नियोज्यः । तदयुक्तम् । ब्रह्मभावं पारमार्थिकमवगमयतागमेनाविद्याया निरस्तत्वात् । तस्मान्नियोज्याभावादपि न नियोगः ।
तदिदमुक्तम् –
जीवो नाम प्रपञ्चपक्षस्यैवेति ।
अपिच ज्ञानविधिपरत्वे तन्मात्रात्तु ज्ञानस्यानुत्पत्तेस्तत्त्वप्रतिपादनपरत्वमभ्युपगमनीयम् । तत्र वरं तत्त्वप्रतिपादनपरत्वमेवास्तु तस्यावश्याभ्युपगन्तव्यत्वेनोभयवादिसिद्धत्वात् ।
एवं च कृतं तत्त्वज्ञानविधिनेत्याह –
ज्ञेयाभिमुखस्यापीति ।
नच ज्ञानाधाने प्रमाणानपेक्षस्यास्ति कश्चिदुपयोगो विधेः । एवं हि तदुपयोगो भवेद्यद्यन्यथाकारं ज्ञानमन्यथादधीत ।
नच तच्छक्यं वापि युक्तमित्याह –
नच प्रमाणान्तरेणेति ।
किञ्चान्यन्नियोगनिष्ठतयैव च पर्यवस्यत्याम्नाये यदभ्युपगतम्भवद्भिः शास्त्रपर्यालोचनयानियोज्यब्रह्मात्मत्वं जीवस्येति तदेतच्छास्त्राविरोधादप्रमाणकम् ।
अथैतच्छास्त्रमनियोज्यब्रह्मात्मत्वं च जीवस्य प्रतिपादयति जीवं च नियुक्तं ततो द्व्यर्थं च विरुद्धार्थं च स्यादित्याह –
अथेति ।
दर्शपौर्णमासादिवाक्येषु जीवस्यानियोज्यस्यापि वस्तुतोऽध्यस्तनियोज्यभावस्य नियोज्यता युक्ता । नहि तद्वाक्यं तस्य नियोज्यतामाहापि तु लौकिकप्रमाणसिद्धां नियोज्यतामाश्रित्य दर्शपूर्णमासौ विधत्ते । इदं तु नियोज्यतामपनयति च नियुङ्क्ते चेति दुर्घटमिति भावः ।
नियोगपरतायां चेति ।
पौर्वापर्यालोचनया वेदान्तानां तत्त्वनिष्ठता श्रुता न श्रुता नियोगनिष्ठतेत्यर्थः ।
अपिच नियोगनिष्ठत्वे वाक्यस्य दर्शपौर्णामासकर्मण इवापूर्वावान्तरव्यापारादात्मज्ञानकर्मणोऽप्यपूर्वावान्तरव्यापारादेव स्वर्गादिफलवन्मोक्षस्यानन्दरूपफलस्य सिद्धिः । तथा चानित्यत्वं सातिशयत्वं स्वर्गवद्भवेदित्याह –
कर्मफलवदिति ।
अपिच ब्रह्मवाक्येष्विति ।
सप्रपञ्चनिष्प्रपञ्चोपदेशेषु हि साध्यानुबन्धभेदादेकनियोगत्वमसिद्धम् । दर्शपौर्णमासप्रयाजवाक्येषु तु यद्यप्यनुबन्धभेदस्तथाप्यधिकारांशस्य साध्यस्य भेदाभावादभेद इति ॥ २१ ॥