अद्वैतशारदा

भामतीव्याख्या

पराधिकरणविषयाः

व्याख्याः

परमतः सेतू­न्मा­न­स­म्ब­न्ध­भे­द­व्य­प­दे­शेभ्यः ।
यद्यपि श्रुति­प्रा­चु­र्या­द्ब्र­ह्म­व्य­ति­रिक्तं तत्त्वं नास्ती­त्य­व­धा­रितं तथापि सेत्वा­दि­श्रु­ती­ना­मा­पा­त­त­स्त­द्वि­रो­ध­द­र्श­ना­त्त­त्प्र­ति­स­मा­धा­ना­र्थ­म­य­मा­रम्भः । जाङ्गलं स्थलम् । प्रका­श­व­द­न­न्त­व­ज्ज्यो­ति­ष्म­दा­य­त­न­व­दिति पादा ब्रह्म­ण­श्च­त्वा­र­स्तेषां पादा­ना­म­र्धा­न्यष्टौ शफाः । तेऽष्टावस्य ब्रह्मण इत्यष्टशफं ब्रह्म । षोडश कला अस्येति षोडशकलम् । तद्यथा प्राची प्रतीची दक्षिणोदीचीति चतस्रः कला अवयवा इव कलाः स प्रकाशवान्नाम प्रथमः पादः । एतदुपासनायां प्रका­श­वा­न्मुख्यो भवतीति प्रकाशवान् पादः । अथापराः पृथि­व्य­न्त­रिक्षं द्यौः समुद्र इति चतस्रः कला एष द्वितीयः पादोऽ­न­न्त­वा­न्नाम । सोऽय­म­न­न्त­व­त्त्वेन गुणे­नो­पा­स्य­मा­नोऽ­न­न्त­त्व­मु­पा­स­क­स्या­व­ह­तीति अनन्तवान् पादः । अथाग्निः सूर्यश्चन्द्रमा विद्युदिति चतस्रः कलाः स ज्योतिष्मान्नाम पाद­स्तृ­ती­य­स्त­दु­पा­स­ना­ज्ज्यो­ति­ष्मान् भवतीति ज्योतिष्मान् पादः । अथ घ्राणश्चक्षुः श्रोत्रं वागिति चतस्रः कलाश्चतुर्थः पाद आयतनवान्नाम । एते घ्राणादयो हि गन्धादिविषया मन आयतनमाश्रित्य भोगसाधनं भव­न्ती­त्या­य­त­न­वा­न्नाम पादः । तदेवं चतु­ष्पा­द्ब्र­ह्मा­ष्ट­शफं षोड­श­क­ल­मु­न्मि­षितं श्रुत्या । अतस्ततो ब्रह्मणः परमन्यदस्ति ।

स्यादेतत् । अस्ति चेत्प­रि­स­ङ्ख्या­यो­च्य­ता­मे­ता­व­दिति । अत आह –
अमितमस्तीति ।
प्रमाणसिद्धम् । न त्वेता­व­दि­त्यर्थः । भेदव्यपदेशश्च त्रिप्रकार आधा­र­त­श्चा­ति­दे­श­त­श्चा­व­धि­तश्च ॥ ३१ ॥

सामान्यात्तु ।
जग­त­स्त­न्म­र्या­दानां च विधारकत्वं च सेतुसामान्यम् । यथा हि तन्तवः पटं विधारयन्ति तदु­पा­दा­न­त्वा­देवं ब्रह्मापि जगद्विधारयति तदुपपादकत्वात् । तन्मर्यादानां च विधारकं ब्रह्म । इत­र­था­ति­च­प­ल­स्थू­ल­ब­ल­व­त्क­ल्लो­ल­मा­ला­क­लिलो जल­नि­धि­रि­ला­प­रि­म­ण्ड­ल­म­व­गि­लेत् । वडवानलो वा विस्फु­र्जि­त­ज्वा­ला­ज­टिलो जग­द्भ­स्म­सा­द्भा­व­येत् । पवनः प्रचण्डो वाकाण्डमेव ब्रह्माण्डं विघटयेदिति । तथाच श्रुतिः “भीषास्माद्वातः पवते”(तै. उ. २ । ८ । १) इत्यादिका ॥ ३२ ॥

बुद्ध्यर्थः पादवत् ।
मनसो ब्रह्मप्रतीकस्य समा­रो­पि­त­ब्र­ह्म­भा­वस्य वाग्घ्रा­ण­श्चक्षुः श्रोत्रमिति चत्वारः पादाः । मनो हि वक्त­व्य­घ्रा­त­व्य­द्र­ष्ट­व्य­श्रो­त­व्यान् गोचरान् वागादिभिः सञ्चरतीति सञ्चरणसाधारणतया मनसः पाद­स्त­दि­द­म­ध्या­त्मम् । आकाशस्य ब्रह्म­प्र­ती­क­स्या­ग्नि­र्वा­यु­रा­दित्यो दिश इति चत्वारः पादाः । ते हि व्यापिनो नभस उदर इव गोः पादा विलग्ना उपलक्ष्यन्त इति पादा­स्त­दि­द­म­धि­दै­व­तम् ।

तदनेन पादवदिति वैदिकं निदर्शनं व्याख्याय लौकिकं चेदं निदर्शनमित्याह –
अथवा पादवदिति ।

तद्वदिति ।
इहापि मन्द­बु­द्धी­ना­मा­ध्या­न­व्य­व­हा­रा­ये­त्यर्थः ॥ ३३ ॥

स्थान­वि­शे­षा­त्प्र­का­शा­दि­वत् ।
बुद्ध्या­द्यु­पा­धि­स्था­न­वि­शे­ष­यो­गा­दु­द्भू­तस्य जाग्र­त्स्व­प्न­यो­र्वि­शे­ष­वि­ज्ञा­न­स्यो­पा­ध्यु­प­श­मेऽ­भि­भवे सुषु­प्ता­व­स्था­न­मिति । तथा भेदव्यपदेशोऽपि त्रिविधो ब्रह्मण उपा­धि­भे­दा­पे­क्ष­येति । यथा सौध­जा­ल­मा­र्ग­नि­वे­शिन्यः सवितृभासो जाल­मा­र्गो­पा­धि­भे­दा­द्भिन्ना भासन्ते तद्विगमे तु गभ­स्ति­म­ण्ड­ले­नै­की­भ­व­न्त्य­त­स्तेन सम्बध्यन्त एवमिहापीति ॥ ३४ ॥

स्यादेतत् । एकीभावः कस्मादिह सम्बन्धः कथ­ञ्चि­द्व्या­ख्या­यते न मुख्य एवे­त्ये­त­त्सू­त्रेण परिहरति –
उपपत्तेश्च ।
स्वमपीत इति हि स्वरूपसम्बन्धं ब्रूते । स्वभावश्चेदनेन सम्बन्धत्वेन स्पृष्टस्ततः स्वाभा­वि­क­स्ता­दा­त्म्या­न्ना­ति­रि­च्यत इति तर्कपाद उप­पा­दि­त­मि­त्यर्थः । तथा भेदोऽपि त्रिविधो वान्यादृशः स्वाभाविक इत्यर्थः ॥ ३५ ॥

तथा­न्य­प्र­ति­षे­धात् ।
सुगमेन भाष्येण व्याख्यातम् ॥ ३६ ॥

अनेन सर्व­ग­त­त्व­मा­या­म­श­ब्दा­दिभ्यः ।

ब्रह्मा­द्वै­त­सि­द्धा­वपि न सर्वगतत्वं सर्वव्यापिता सर्वस्य ब्रह्मणा स्वरूपेण रूपवत्त्वं सिध्यतीत्यत आह –
अनेन सेत्वा­दि­नि­रा­क­र­णेन ।
पर­हे­तु­नि­रा­क­र­णे­ना­न्य­प्र­ति­षे­ध­स­मा­श्र­य­णेन च स्वसा­ध­नो­प­न्या­सेन च सर्व­ग­त­त्व­म­प्या­त्मनः सिद्धं भवति । अद्वैते सिद्धे सर्वोऽ­य­म­नि­र्व­च­नीयः प्रपञ्चावभासो ब्रह्माधिष्ठान इति सर्वस्य ब्रह्म­स­म्ब­न्धा­द्ब्रह्म सर्वगतमिति सिद्धम् ॥ ३७ ॥