अद्वैतशारदा

भामतीव्याख्या

अनियमाधिकरणविषयः

व्याख्याः

अनियमः सर्वासामविरोधः शब्दा­नु­मा­ना­भ्याम् ।
प्रकरणं हि धर्माणां नियामकम् । यदि तु तन्नाद्रियते ततो दर्श­पू­र्ण­मा­स­ज्यो­ति­ष्टो­मा­दि­धर्माः सङ्कीर्येरन् । नच तेषां विकृतिषु सौर्यादिषु द्वादशाहादिषु चोदकतः प्राप्तिः । सर्व­त्रौ­प­दे­शि­क­त्वात् । नच दर्वि­हो­म­स्या­प्र­कृ­ति­वि­का­र­स्या­ध­र्म­क­त्वम् । नच सर्वधर्मयुक्तं कर्म किञ्चिदपि शक्यमनुष्ठातुम् । न चैवं सति श्रुत्यादयोऽपि विनि­यो­ज­का­स्ते­षा­मपि हि प्रकरणेन सामान्यसम्बन्धे सति विनियोजकत्वात् । यत्रापि विनाप्रकरणं श्रुत्यादिभ्यो विनि­यो­गोऽ­व­ग­म्यते तत्रापि तन्निर्वाहाय प्रकरणस्यावश्यं कल्पनीयत्वात् । तस्मात्प्रकरणं विनियोगाय तन्नियमाय चाव­श्या­भ्यु­पे­त­व्य­म­न्यथा श्रुत्य­दी­ना­म­प्रा­मा­ण्य­प्र­सक्तेः । तस्मा­द्या­स्वे­वो­पा­स­नासु देवयानः पितृयाणो वा पन्था आम्नातस्तास्वेव न तूपासनान्तरेषु तदनाम्नानात् । नच “ये चेमेऽरण्ये श्रद्धा तप इत्युपासते”(छा. उ. ५ । १० । १) इति सामा­न्य­व­च­ना­त्स­र्व­वि­द्यासु तत्पथप्राप्तिः । श्रद्धा­त­पः­प­रा­य­णा­ना­मेव तत्र तत्पथप्राप्तिः श्रूयते, न तु विद्या­प­रा­य­णा­नाम् । अपिचैवं सत्येकस्यां विद्यायां मार्गोपदेशः सर्वासु विद्या­स्वि­त्ये­क­त्रैव मार्गोपदेशः कर्तव्यो न विद्यान्तरे । विद्यान्तरे च श्रूयते । तस्मान्न सर्वोपासनासु पथिप्राप्तिरिति प्राप्तम् । एवं प्राप्ते उच्यते “ये चेमेऽरण्ये श्रद्धा तप इत्युपासते” इति न श्रद्धा­त­पो­मा­त्रस्य पथि­प्रा­प्ति­मा­हापि तु विद्यया तदा­रो­ह­न्ती­त्यत्र नावि­द्वां­स­स्त­प­स्विन इति केवलस्य तपसः श्रद्धायाश्च तत्प्रा­प्ति­प्र­ति­षे­धा­द्वि­द्या­स­हिते श्रद्धातपसी तत्प्रा­प्यु­पा­य­तया वदन् विद्या­न्त­री­ला­ना­मपि पञ्चा­ग्नि­वि­द्या­विद्भिः समानमार्गतां दर्शयति । तथान्यत्रापि पञ्चा­ग्नि­वि­द्या­धि­का­रेऽ­भि­धी­यते “य एव­मे­ता­द्वि­दुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते”(छा. उ. ५ । २ । १५) इति । सत्यशब्दस्य ब्रह्म­ण्ये­वा­न­पे­क्ष­प्र­वृ­त्ति­त्वात् । तदेव हि सत्यमन्यस्य मिथ्यात्वेन कथ­ञ्चि­दा­पे­क्षि­क­स­त्य­त्वात् । पञ्चाग्निविदां चेत्थं­वि­त्त­यै­वो­पा­त्त­त्वात् । विद्या­सा­ह­च­र्याच्च विद्या­न्त­र­प­रा­य­णा­ना­मे­वे­द­मु­पा­दानं न्याय्यम् । मार्ग­द्व­य­भ्र­ष्टानां चाधोगतिश्रवणात् । तत्रापि च योग्यतया देव­या­न­स्यै­वे­हा­ध्व­नोऽ­भि­स­म्बन्धः । एतदुक्तं भवति - भवेत्प्रकरणं नियामकं यद्य­नि­य­म­प्र­ति­पा­दकं वाक्यं श्रौतं स्मार्तं वा न स्यादस्ति तु तत्तस्य च प्रक­र­णा­द्ब­ली­य­स्त्वम् । तस्मादनियमो विद्या­न्त­रे­ष्वपि सगुणेषु देवयानः पन्था अस­कृ­न्मा­र्गो­प­दे­शस्य च प्रयोजनं वर्णितं भाष्यकृतेति ॥ ३१ ॥