भामतीव्याख्या
अनियमाधिकरणविषयः
अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ।
प्रकरणं हि धर्माणां नियामकम् । यदि तु तन्नाद्रियते ततो दर्शपूर्णमासज्योतिष्टोमादिधर्माः सङ्कीर्येरन् । नच तेषां विकृतिषु सौर्यादिषु द्वादशाहादिषु चोदकतः प्राप्तिः । सर्वत्रौपदेशिकत्वात् । नच दर्विहोमस्याप्रकृतिविकारस्याधर्मकत्वम् । नच सर्वधर्मयुक्तं कर्म किञ्चिदपि शक्यमनुष्ठातुम् । न चैवं सति श्रुत्यादयोऽपि विनियोजकास्तेषामपि हि प्रकरणेन सामान्यसम्बन्धे सति विनियोजकत्वात् । यत्रापि विनाप्रकरणं श्रुत्यादिभ्यो विनियोगोऽवगम्यते तत्रापि तन्निर्वाहाय प्रकरणस्यावश्यं कल्पनीयत्वात् । तस्मात्प्रकरणं विनियोगाय तन्नियमाय चावश्याभ्युपेतव्यमन्यथा श्रुत्यदीनामप्रामाण्यप्रसक्तेः । तस्माद्यास्वेवोपासनासु देवयानः पितृयाणो वा पन्था आम्नातस्तास्वेव न तूपासनान्तरेषु तदनाम्नानात् । नच “ये चेमेऽरण्ये श्रद्धा तप इत्युपासते”(छा. उ. ५ । १० । १) इति सामान्यवचनात्सर्वविद्यासु तत्पथप्राप्तिः । श्रद्धातपःपरायणानामेव तत्र तत्पथप्राप्तिः श्रूयते, न तु विद्यापरायणानाम् । अपिचैवं सत्येकस्यां विद्यायां मार्गोपदेशः सर्वासु विद्यास्वित्येकत्रैव मार्गोपदेशः कर्तव्यो न विद्यान्तरे । विद्यान्तरे च श्रूयते । तस्मान्न सर्वोपासनासु पथिप्राप्तिरिति प्राप्तम् । एवं प्राप्ते उच्यते “ये चेमेऽरण्ये श्रद्धा तप इत्युपासते” इति न श्रद्धातपोमात्रस्य पथिप्राप्तिमाहापि तु विद्यया तदारोहन्तीत्यत्र नाविद्वांसस्तपस्विन इति केवलस्य तपसः श्रद्धायाश्च तत्प्राप्तिप्रतिषेधाद्विद्यासहिते श्रद्धातपसी तत्प्राप्युपायतया वदन् विद्यान्तरीलानामपि पञ्चाग्निविद्याविद्भिः समानमार्गतां दर्शयति । तथान्यत्रापि पञ्चाग्निविद्याधिकारेऽभिधीयते “य एवमेताद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते”(छा. उ. ५ । २ । १५) इति । सत्यशब्दस्य ब्रह्मण्येवानपेक्षप्रवृत्तित्वात् । तदेव हि सत्यमन्यस्य मिथ्यात्वेन कथञ्चिदापेक्षिकसत्यत्वात् । पञ्चाग्निविदां चेत्थंवित्तयैवोपात्तत्वात् । विद्यासाहचर्याच्च विद्यान्तरपरायणानामेवेदमुपादानं न्याय्यम् । मार्गद्वयभ्रष्टानां चाधोगतिश्रवणात् । तत्रापि च योग्यतया देवयानस्यैवेहाध्वनोऽभिसम्बन्धः । एतदुक्तं भवति - भवेत्प्रकरणं नियामकं यद्यनियमप्रतिपादकं वाक्यं श्रौतं स्मार्तं वा न स्यादस्ति तु तत्तस्य च प्रकरणाद्बलीयस्त्वम् । तस्मादनियमो विद्यान्तरेष्वपि सगुणेषु देवयानः पन्था असकृन्मार्गोपदेशस्य च प्रयोजनं वर्णितं भाष्यकृतेति ॥ ३१ ॥