भामतीव्याख्या
अन्तरत्वाधिकरणविषयाः
अन्तरा भूतग्रामवत्स्वात्मनः ।
कौषीतकेयकहोलचाक्रायणोषस्तप्रश्नोपक्रमयोर्विद्योर्नैरन्तर्येणाम्नातयोः किमस्ति भेदो न वेति विशये भेद एवेति भ्रूमः । कुतः यद्यप्युभयत्र प्रश्नोत्तरयोरभेदः प्रतीयते, तथापि तत्स्यैवैकस्य पुनः श्रुतेरविशेषादानर्थक्यप्रसङ्गाद्यजत्यभ्यासवद्भेदः प्राप्तः । न चैकस्यैव ताण्डिनां नवकृत्व उपदेशेऽपि यथा भेदो न भवति “स आत्मा तत्त्वमसि श्वेतकेतो”(छा. उ. ६ । १४ । ३) इत्यत्र तथेहाप्यभेद इति युक्तम् । भूय एव मा भगवान् विज्ञापयतु, इति हि तत्र श्रूयते तेनाभेदो युज्यते । न चेह तथास्ति । तेन यद्यपीह वेद्याभेदोऽवगम्यते तथाप्येकत्र तस्यैवाशनायादिमात्रात्ययोपाधेरुपासनादेकत्र च कार्यकरणविरहोपाधेरुपासनाद्विद्याभेद एवेति प्राप्ते प्रत्युच्यते । नैतदुपासनाविधानपरमपि तु वस्तुस्वरूपप्रतिपादनपरं प्रश्नप्रतिवचनालोचनेनोपलभ्यते । किमतो यद्येवम् । एतदतो भवतिविधेरप्राप्तप्रापणार्थत्वात्प्राप्तावनुपपत्तिः । वस्तुस्वरूपं तु पुनःपुनरुच्यमानमपि न दोषमावहति शतकृत्वोऽपि हि पथ्यं वदन्त्याप्ताः । विशेषतस्तु वेदः पितृभ्यामप्यभ्यर्हितः । नच सर्वथा पौनरुक्त्यम् । एकत्राशनायाद्यत्ययादन्यत्र च कार्यकारणप्रविलयात् । तस्मादेका विद्या प्रत्यभिज्ञानात् । उभाभ्यामपि विद्याभ्यां भिन्न आत्मा प्रतिपाद्यते इति यो मन्यते पूर्वपक्षैकदेशी तं प्रति सर्वान्तरत्वविरोधो दर्शितः ॥ ३५ ॥
अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवदिति।
अस्य तु पूर्वपक्षतत्त्वाभिप्रायो दर्शितः । सुगममन्यत् ॥ ३६ ॥