भामतीव्याख्या
आदराधिकरणविषयः
आदरादलोपः ।
अस्ति वैश्वानरविद्यायां तदुपासकस्यातिथिभ्यः पूर्वभोजनम् । तेन यद्यपीयमुपासनागोचरा न चिन्ता साक्षात्तथापि तत्सम्बद्धप्रथमभोजनसम्बन्धादस्ति सङ्गतिः ।
विचारगोचरं दर्शयति –
छान्दोग्ये वैश्वानरविद्यां प्रकृत्येति ।
विचारप्रयोजकं सन्देहमाह –
किं भोजनलोप इति ।
अत्र पूर्वपक्षाभावेन संशयमाक्षिपति –
तद्यद्भक्तमिति भक्तागमनसंयोगश्रवणादिति ।
उक्तं खल्वेतत्प्रथम एव तन्त्रे “पदकर्माप्रयोजकं नयनस्य परार्थत्वात्”(जै.सू. ४-१-२५) इत्यनेन । यथा सोमक्रयार्थानीयमानैकहायनीसप्तमपदपांशुग्रहणमप्रयोजकं न पुनरेकहायन्या नयनं प्रयोजयति । तत्कस्य हेतोः । सोमक्रयेण तन्नयनस्य प्रयुक्तत्वात्तदुपजीवित्वात्सप्तमपदपांशुग्रहणस्येति । तथेहापि भोजनार्थभक्तागमनसंयोगात्प्राणाहुतेर्भोजनाभावे भक्तं प्रत्यप्रयोजकत्वमिति नास्ति पूर्वपक्ष इत्यपूर्वपक्षमिदमधिकरणमित्यर्थः ।
पूर्वपक्षमाक्षिप्य समाधत्ते –
एवं प्राप्ते, न लुप्येतेति तावदाह ।
तावच्छब्दः सिद्धान्तशङ्कानिराकरणार्थः ।
पृच्छति –
कस्मात् ।
उत्तरमादरात् ।
तदेव स्फोरयति –
तथाहीति ।
जाबाला हि श्रावयन्ति “पूर्वोऽतिथिभ्योऽश्नीयात्” इति । अश्नीयादिति च प्राणाग्निहोत्रप्रधानं वचः । “यथा हि श्रुधिता बाला मातरं पर्युपासते । एवं सर्वाणि भूतान्यग्निहोत्रमुपासते” इति वचनादग्निहोत्रस्यातिथीन्भूतानि प्रत्युपजीव्यत्वेन श्रवणात्तदेकवाक्यतयेहापि पूर्वोऽतिथिभ्योऽश्नीयादिति प्राणाहुतिप्रधानं लक्ष्यते । तदेवं सति “यथाह वै स्वयमहुत्वाग्निहोत्रं परस्य जुहुयादित्येवं तत्” इत्यतिथिभोजनस्य प्राथम्यं निन्दित्वास्वामिभोजनं स्वामिनः प्राणाग्निहोत्रं प्रथमं प्रापयन्ती प्राणाग्निहोत्रादरं करोति ।
नन्वाद्रियतामेषा श्रुतिः प्राणहुतिं किन्तु स्वामिभोजनपक्ष एव नाभोजनेऽपीत्यत आह –
या हि न प्राथम्यलोपं सहते नतरां सा प्राथम्यवतोऽग्निहोत्रस्य लोपं सहेतेति मन्यते ।
ईदृशः खल्वयमादरः प्राणाग्निहोत्रस्य यदतिथिभोजनोत्तरकालविहितं स्वामिभोजनं समयादपकृष्यातिथिभोजनस्य पुरस्ताद्विहितम् । तद्यदाग्निहोत्रस्य धर्मिणः प्राथम्यधर्मलोपमपि न सहते श्रुतिस्तदास्याः कैव कथा धर्मिलोपं सहत इत्यर्थः ।
पूर्वपक्षाक्षेपमनुभाष्य दूषयति –
ननु भोजनार्था इति ।
यथा हि कौण्डपायिनामयनगते अग्निहोत्रे प्रकरणान्तरान्नैयमिकाग्निहोत्राद्भिन्ने द्रव्यदेवतारूपधर्मान्तररहिततया तदाकाङ्क्षे साध्यसादृश्येन नैयमिकाग्निहोत्रसमाननामतया तद्धर्मातिदेशेन रूपधर्मान्तरप्राप्तिरेवं प्राणाग्निहोत्रेऽपि नैयमिकाग्निहोत्रगतपयःप्रभृतिप्राप्तौ भोजनागतभक्तद्रव्यता विधीयते । न चैतावता भोजनस्य प्रयोजकत्वम् । उक्तमेतद्यथा भोजनकालातिक्रमात्प्राणाग्निहोत्रस्य न भोजनप्रयुक्तत्वमिति । न चैकदेशद्रव्यतयोत्तरार्धात्स्विष्टकृते समवद्यतीतिवदप्रयोजकत्वमेकदेशद्रव्यसाधनस्यापि प्रयोजकत्वात् । यथा जाघन्या पत्नीः संयाजयन्तीति पत्नीसंयाजानां जाघन्येकदेशद्रव्यजुषां जाघनीप्रयोजकत्वम् । स हि नामाप्रयोजको भवति यस्य प्रयोजकग्रहणमन्तरेणार्थो न ज्ञायते । यथा न प्रयोजकपुरोडाशग्रहणमन्तरेणोत्तरार्धं ज्ञातुं शक्यम् । शक्यं तु जाघनीवद्भक्तं ज्ञातुम् । तस्माद्यथा जाघन्यन्तरेणापि पशूपादानं परप्रयुक्तपशूपजीवनं वा खण्डशो मांसविक्रयिणो मुण्डादिवदाकृतिरूपादीयते । एवं भक्तमपि शक्यमुपादातुम् । तस्मान्न भोजनस्य लोपे प्राणाग्निहोत्रलोप इति मन्यते पूर्वपक्षी । अद्भिरिति तु प्रतिनिध्युपादानमावश्यकत्वसूचनार्थं भाष्यकारस्य ॥ ४० ॥
उपस्थितेऽतस्तद्वचनात् ।
तद्धोमीयमिति हि वचन किमपि संनिहितद्रव्यं होमे विनियुङ्क्ते तदः सर्वनाम्नः संनिहितावगममन्तरेणाभिधानापर्यवसानात्तदनेन स्वाभिधानपर्यवसानाय तद्यद्भक्तं प्रथममागच्छेदिति संनिहितमपेक्ष्य निर्वर्तितव्यम् । तच्च संनिहितं भक्तं भोजनार्थमित्युत्तरार्धात्स्विष्टकृते समवद्यतीतिवन्न भक्तं वापो वा द्रव्यान्तरं वा प्रयोक्तुमर्हति । जाघन्यास्त्ववयवभेदस्य नाग्नीषोमीयपश्वधीनं निरूपणं स्वतन्त्रस्यापि तस्य सूनास्थस्य दर्शनात्तस्मादस्त्येतस्य जाघनीतो विशेषः ।
यच्चोक्तं चोदकप्राप्तद्रव्यबाधया भक्तद्रव्यविधानमिति । तदयुक्तम् । विध्युद्देशगतस्याग्निहोत्रनाम्नस्तथाभावादार्थवादिकस्य तु सिद्धं किञ्चित्सादृश्यमुपादाय स्तावकत्वेनोपपत्तेर्न तद्भावं विधातुमर्हतीत्याह –
न चात्र प्राकृताग्निहोत्रधर्मप्राप्तिरिति ।
अपि चाग्निहोत्रस्य चोदकतो धर्मप्राप्तावभ्युपगम्यमानायां बहुतरं प्राप्तं बाध्यते । नच सम्भवे बाधनिचयो न्याय्यः ।
कृष्णलचरौ खल्वगत्या प्राप्तबाधोऽभ्युपेयत इत्याह –
तद्धर्मप्राप्तौ चाभ्युपगम्यमानायामिति ।
चोदकाभावमुपोद्बलयति –
अत एव चेहापीति ।
यत एवोक्तेन क्रमेणातिदेशाभावोऽत एव साम्पादिकत्वमग्निहोत्राङ्गानाम् । तत्प्राप्तौ तु साम्पादिकत्वं नोपपद्येत । कामिन्यां किल कुचवदनाद्यसता चक्रवाकनलिनादिरूपेण सम्पाद्यते । न तु नद्यां चक्रवाकादय एव चक्रवाकादिना सम्पाद्यन्ते । अतोऽप्यवगच्छामो न चोदकप्राप्तिरिति । यत्त्वादरदर्शनमिति तद्भोजनपक्षे प्राथम्यविधानार्थम् । यस्मिन्पक्षे धर्मानवलोपस्तस्मिन्धर्मिणोऽपि न त्वेतावता धर्मिनित्यता सिध्यतीति भावः ।
नन्वतिथिभोजनोत्तरकालता स्वामिभोजनस्य विहितेति कथमसौ बाध्यत इत्यत आह –
नास्ति वचनस्यातिभारः ।
सामान्यशास्त्रबाधायां विशेषशास्त्रस्यातिभारो नास्तीत्यर्थः ॥ ४१ ॥