भामतीव्याख्या
सर्वान्नानुमत्यधिकरणविषयाः
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ।
प्राणसंवादे सर्वेन्द्रियाणां श्रूयते । एष किल विचारविषयः सर्वाणि खलु वागादीन्यवजित्य प्राणो मुख्य उवाचैतानि किं मेऽन्नं भविष्यतीति, तानि होचुः । यदिदं लोकेऽन्नमा च श्वभ्य आ च शकुनिभ्यः सर्वप्राणिनां यदन्नं तत्तवान्नमिति । तदनेन सन्दर्भेण प्राणस्य सर्वमन्नमित्यनुचिन्तनं विधायाह श्रुतिः “न ह वा एवंविदि किञ्चनानन्नं भवति”(छा. उ. ५ । २ । १) इति । सर्वं प्राणस्यान्नमित्येवंविदि न किञ्चिनानन्नं भवतीति । तत्र संशयः - किमेतत्सर्वान्नाभ्यनुज्ञानं शमादिवदेतद्विद्याङ्गतया विधीयत उत स्तुत्यर्थं सङ्कीर्त्यत इति । तत्र यद्यपि भवतीति वर्तमानापदेशान्न विधिः प्रतीयते । तथापि यथा यस्य पर्णमयी जुहूर्भवतीति वर्तमानापदेशादपि पलाशमयीत्वविधिप्रतिपत्तिः पञ्चमलकारापत्त्या तथेहापि प्रवृत्तिविशेषकरतालाभे विधिप्रतिपत्तिः । स्तुतौ हि अर्थवादमात्रं न तथार्थवद्यथा विधौ । भक्ष्याभक्ष्यशास्त्रं च सामान्यतः प्रवृत्तमनेन विशेषशास्त्रेण बाध्यते । गम्यागम्यविवेकशास्त्रमिव सामान्यतः प्रवृत्तं वामदेवविद्याङ्गभूतसमस्तस्त्र्यपरिहारशास्त्रेण विशेषविषयेणेति प्राप्त उच्यते अशक्तेः कल्पनीयत्वाच्छास्त्रान्तरविरोधतः । प्राणस्यान्नमिदं सर्वमिति चिन्तनसंस्तवः ॥ न तावत्कौलेयकमर्यादमन्नं मनुष्यजातिना युगपत्पर्यायेण वा शक्यमत्तुम् । इभकरभकादीनामन्नस्य शमीकरीरकण्टकवटकाष्ठादेरेकस्यापि अशक्यादनत्वात् । न चात्र लिङ्ग इव स्फुटतरा विधिप्रतिपत्तिरस्ति । नच कल्पनीयो विधिरपूर्वत्वाभावात् । स्तुत्यापि च तदुपपत्तेः । नच सत्यां गतौ सामान्यतः प्रवृत्तस्य शास्त्रस्य विषयसङ्कोचो युक्तः । तस्मात्सर्वं प्राणस्यान्नमित्यनुचिन्तनविधानस्तुतिरिति साम्प्रतम् । शक्यत्वे च प्रवृत्तिविशेषकरतोपयुज्यते नाशक्यविधानत्वे । प्राणात्यय इति चावधारणपरं प्राणात्यय एव सर्वान्नत्वम् । तत्रोपाख्यानाच्च स्फुटतरविधिस्मृतेश्च सुरावर्जं विद्वांसमविद्वांसं प्रति विधानात् । न त्वन्यत्रेति । इभ्येन हस्तिपकेन सामिस्वादितान् अर्धभक्षितान् । स हि चाक्रायणो हस्तिपकोच्छिष्टान्कुल्माषान्भुञ्जानो हस्तिपकेनोक्तः । कुल्माषानिव मदुच्छिष्टमुदकं कस्मान्नानुपिबसीति । एवमुक्तस्तदुदकमुच्छिष्टदोषात्प्रत्याचचक्षे । कारणं चात्रोवाच । न वाजीविष्यं न जीविष्यामीतीमान्कुल्माषानखादम् । कामो म उदकपानमिति स्वातन्त्र्यं मे उदकपाने नदीकूपतडागप्रापादिषु यथाकामं प्राप्नोमीति नोच्छिष्टोदकाभावे प्राणात्यय इति तत्रोच्छिष्टभक्षणदोष इति मटचीहतेषु कुरुषु ग्लायन्नशनायया मुनिर्निरपत्रप इभ्येन सामिजग्धान्खादयामास ॥ २८ ॥
अबाधाच्च ॥ २९ ॥
अपि च स्मर्यते ॥ ३० ॥
शब्दश्चातोऽकामकारे ॥ ३१ ॥