भामतीव्याख्या
सन्ध्याधिकरणविषयाः
सन्ध्ये सृष्टिराह हि ।
इदानीं तु तस्यैव जीवस्यावस्थाभेदः स्वयञ्ज्योतिष्ट्वसिद्ध्यर्थं प्रपञ्च्यते
किं प्रबोध इव स्वप्नेऽपि पारमार्थिकी सृष्टिराहोस्विन्मायामयीति ।
यद्यपि ब्रह्मणोऽन्यस्यानिर्वाच्यतया जाग्रत्स्वप्नावस्थागतयोरुभयोरपि सर्गयोर्मायमयत्वं तथापि यथा जाग्रत्सृष्टिर्ब्रह्मात्मभावसाक्षात्कारात्प्रागनुवर्तते । ब्रह्मात्मभावसाक्षात्कारात्तु निवर्तते । एवं किं स्वप्नसृष्टिराहोस्वित्प्रतिदिनमेव निवर्तत इति विमर्शार्थः ॥ द्वयोः इहलोकपरलोकस्थानयोः । सन्धौ भवं सन्ध्यम् । ऐहलौकिकचक्षुराद्यव्यापाराद्रूपादिसाक्षात्कारोपजननादनैहलौकिकं पारलौकिकेन्द्रियादिव्यापारस्य च भविष्यतोऽप्रत्युत्पन्नत्वेन न पारलौकिकम् । नच न रूपादिसाक्षात्कारोऽस्ति स्वप्नदृशः । तस्मादुभयोर्लोकयोरस्यान्तरालत्वमिति ब्रह्मात्मभावसाक्षात्कारात्प्राक्तथ्यरूपैव सृष्टिर्भवितुमर्हति । अयमभिसन्धिः इह सर्वाण्येव मिथ्याज्ञानान्युदाहरणं तेषां सत्यत्वं प्रतिज्ञायते । प्रकृतोपयोगितया तु स्वप्नज्ञानमुदाहृतम् । ज्ञानं यमर्थमवबोधयति स तथैवेति युक्तम् । तथाभावस्य ज्ञानारोहात् । अतथात्वस्य त्वप्रतीयमानस्य तथाभावप्रमेयविरोधेन कल्पनास्पदत्वात्बाधकप्रत्ययादतथात्वमिति चेत् । न । तस्य बाधकत्वासिद्धेः । समानगोचरे हि विरुद्धार्थोपसंहारिणी ज्ञाने विरुध्येते । बलवदबलवत्त्वानिश्चयाच्च बाध्यबाधकभावं प्रतिपद्येते । न चेह समानविषयत्वं, कालभेदेन व्यवस्थोपपत्तेः । यथाहि क्षीरं दृष्टं कालान्तरे दधि भवति, एवं रजतं दृष्टं कालान्तरे शुक्तिर्भवेत् । नानारूपं वा तद्वस्तु । तद्यस्य तीव्रातपक्लान्तिसहितं चक्षुः स तस्य रजतरूपतां गृह्णाति । यस्य तु केवलमालोकमात्रोपकृतं, स तस्यैव शुक्तिरूपतां गृह्णाति । एवमुत्पलमपि नीललोहितं दिवा सौरीभिर्भाभिरभिव्यक्तं नीलतया गृह्यते । प्रदीपाभिव्यक्तं तु नक्तं लोहिततया । एवमसत्यां निद्रायां सतोऽपि रथादीन्न गृह्णाति निद्राणस्तु गृह्णातीति सामग्रीभेदाद्वा कालभेदाद्वा विरोधाभावः । नापि पूर्वोत्तरयोर्बलवदबलवत्त्वनिर्णयः । द्वयोरपि स्वगोचरचारितया समानत्वेन विनिगमनाहेतोरभावात् । तस्मादप्यवश्यमविरोधो व्यवस्थापनीयः । तत्सिद्धमेतत् । विवादास्पदं प्रत्ययाः, सम्यञ्चः, प्रत्ययत्वात् , जाग्रत्स्तम्भादिप्रत्ययवदिति । इममर्थं श्रुतिरपि दर्शयति “अथ रथान् रथयोगान् पथः सृजते”(बृ.उ. ४-३-१०) इति । नच “न तत्र रथा न रथयोगा न पन्थानो भवन्ति”(बृ. उ. ४ । ३ । १०) इति विरोधादुपचरितार्थां सृजत इति श्रुतिर्व्याख्येया । सृजत इति हि श्रुतेर्बहुश्रुतिसंवादात्प्रमाणान्तरसंवादाच्च बलीयस्त्वेन तदनुगुणतया न तत्र रथा इत्यस्या भाक्तत्वेन व्याख्यानात् । जाग्रदवस्थादर्शनयोग्या न सन्ति न तु रथा न सन्तीति । अत एव कर्तृश्रुतिः शाखान्तरश्रुतिरुदाहृता । प्राज्ञकर्तृकत्वाच्चास्य पारमार्थिकत्वं वियदादिसर्गवत् । नच जीवकर्तृकत्वान्न प्राज्ञकर्तृकत्वमिति साम्प्रतम् । “अन्यत्र धर्मादन्यत्राधर्मात्”(क. उ. १ । २ । १४) इति प्राज्ञस्यैव प्रकृतत्वात् । जीवकर्तृकत्वेऽपि च प्राज्ञादभेदेन जीवस्य प्राज्ञत्वात् । अपिच जाग्रत्प्रत्ययसंवादवन्तोऽपि स्वप्नप्रत्ययाः केचिद्दृश्यन्ते । तद्यथा स्वप्ने शुक्लाम्बरधरः शुक्लमाल्यानुलेपनो ब्राह्मणायनः प्रियव्रतं प्रत्याहप्रियव्रत, पञ्चमेऽहनि प्रातरेवोर्वराप्रायभूमिदानेन नरपतिस्त्वां मानयिष्यतीति । स च जाग्रत्तथात्मनो मानमनुभूय स्वप्नप्रत्ययं सत्यमभिमन्यते । तस्मात्सन्ध्ये पारमार्थिकी सृष्टिः ॥ १ ॥
निर्मातारं चैके पुत्रादयश्च ॥ २ ॥
इति प्राप्ते उच्यते –
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ।
इदमत्राकूतम् । न तावत्क्षीरस्येव दधि रजतस्य परिणामः शुक्तिः सम्भवति । नहि जात्वीश्वरगृहे चिरस्थितान्यपि रजतभाजनानि शुक्तिभावमनुभवन्ति दृश्यन्ते । न चेतरस्य रजतानुभवसमयेऽन्योऽनाकुलेन्द्रियो न तस्य शुक्तिभावमनुभवति प्रत्येति च । न चोभयरूपं वस्तु । सामग्रीभेदात्तु कदाचिदस्य तोयभावोऽनुभूयते कदाचिन्मरीचितेति साम्प्रतम् । पारमार्थिके ह्यास्य तोयभावे तत्साध्यामुदान्योपशमलक्षणार्थक्रियां कुर्यान्मरीचिसाध्यामपि रूपप्रकाशलक्षणाम् । न मरीचिभिः कस्यचित्तृष्णज उदन्योपशाम्यति । नच तोयमेव द्विविधमुदन्योपशमनमतदुपशमनमिति युक्तम् । तदर्थक्रियाकारित्वव्याप्तं तोयत्वं मात्रयापि तामकुर्वत्तोयमेव न स्यात् । अपिच तोयप्रत्ययसमीचीनत्वायास्य द्वैविध्यमभ्युपेयते तच्चाभ्युपगमेऽपि न सेद्धुमर्हति । तथाहि - असमर्थविधापाति तोयमेतदिति मन्वानो न तृष्णयापि मरीचितोयमभिधावेत्यथा मरीचीननुभवन् । अथाशक्तमभिमन्यमानोऽभिधावति । किमपराद्धं मरीचिषु तोयविपर्यासेन सर्वजनीनेन यत्तमतिलङ्घ्य विपर्यासान्तरं कल्प्यते । नच क्षीरदधिप्रत्ययवदाचार्यमातुलब्राह्मणप्रत्ययवद्वा तोयमरीचिविज्ञाने समुच्चितावगाहिनी स्वानुभवात्परस्परविरुद्धयोर्बाध्यबाधकभावावभासनात् । तत्रापि रजतज्ञानं पूर्वमुत्पन्नं बाध्यमुत्तरं तु बाधकं शुक्तिज्ञानं प्राप्तिपूर्वकत्वात्प्रतिषेधस्य । रजतज्ञानात्प्राक्प्रापकाभावेन शुक्तेरप्राप्तायाः प्रतिषेधासम्भवात्पूर्वज्ञानप्राप्तं तु रजतं शुक्तिज्ञानमपबाधितुमर्हति । तदपबाधात्मकं च स्वानुभवादवसीयते । यथाहुः “आगामित्वादबाधित्वा परं पूर्वं हि जायते । पूर्वं पुनरबाधित्वा परं नोत्पद्यते क्वचित्” । नच वर्तमानरजतावभासि ज्ञानं भविष्यत्तामस्यागोचरयन्न भविष्यता स्वसमयवर्तिनीं शुक्तिं गोचरयता प्रत्ययेन बाध्यते, कालभेदेन विरोधाभावादिति युक्तम् । मा नामास्य ज्ञासीत्प्रत्यक्षं भविष्यत्तां तत्पृष्ठभावि त्वनुमानमुपकारभावहेतुमिवासति विनाशप्रत्ययोपनिपाते स्थेमानमाकलयति । असति विनाशप्रत्ययोपनिपाते रजतमिदं स्थिरं रजतत्वादनुभूतप्रत्यभिज्ञातरजतवत् । तथाच रजतगोचरं प्रत्यक्षं वस्तुतः स्थिरमेव रजतं गोचरयेत् । तथाच भविष्यच्छुक्तिकाज्ञानकालं, रजतं व्याप्नुयादिति विरोधाच्छुक्तिज्ञानेन बाध्यते । यथाहुः “रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते । भविष्यच्छुक्तिकाज्ञानकालं व्याप्नोति तेन तत्” ॥ इति । प्रत्यक्षेण चिरस्थायीति गृह्यत इति केचिद्व्याचक्षते । तदयुक्तम् । यदि चिरस्थायित्वं योग्यता न सा प्रत्यक्षगोचरः शक्तेरतीन्द्रियत्वात् । अथ कालान्तरव्यापित्वं, तदप्ययुक्तं, कालान्तरेण भविष्यतेन्द्रियस्य संयोगायोगात्तदुपहितसीम्नो व्यापित्वस्यातीन्द्रियत्वात् । नच प्रत्यभिज्ञाप्रत्ययवदत्रास्ति संस्कारः सहकारी येनावर्तमानमप्याकलयेत् । तस्मादत्यन्ताभ्यासवशेन प्रत्यक्षानन्तरं शीघ्रतरोत्पन्नविनश्यदवस्थानुमानसहितप्रत्यक्षाभिप्रायमेव चिरस्थायीति गृह्यत इति मन्तव्यम् । अत एवैतत्सूक्ष्मतरं कालव्यवधानमविवेचयन्तः सौगताः प्राहुः, द्विविधो हि विषयः प्रत्यक्षस्य ग्राह्यश्चाध्यवसेयश्च । ग्राह्यक्षण एकः स्वलक्षणोऽध्यवसेयश्च सन्तान इति । एतेन स्वप्नप्रत्ययो मिथ्यात्वेन व्याख्यातः । यत्तु सत्यं स्वप्नदर्शनमुक्तं तत्राप्याख्यात्रा ब्राह्मणायनेनाख्याते संवादाभावात् । प्रियव्रतस्याख्यातसंवादस्तु काकतालीयो न स्वप्नज्ञानं प्रमाणयितुमर्हति । तादृशस्यैव बहुलं विसंवाददर्शनात् । दर्शितश्च विसंवादो भाष्यकृता कार्त्स्न्येनानभिव्यक्तिं विवृण्वता ।
रजन्यां सुप्त इति ।
रजनीसमयेऽपि हि भारताद्वर्षान्तरे केतुमालादौ वासरो भवतीति भारते वर्ष इत्युक्तम् ॥ ३ ॥
सूचकश्च हि श्रुतेराचक्षते च तद्विदः ।
दर्शनं सूचकं तच्च स्वरूपेण सत् । असत्तु दृश्यम् । अत एव स्त्रीदर्शनस्वरूपसाध्याश्चरमधातुविसर्गादयो जाग्रदवस्थायामनुवर्तन्ते । स्त्रीसाध्यास्तु माल्यविलेपनदन्तक्षतादयो नानुवर्तन्ते ।
न चास्माभिः स्वप्नेऽपि प्राज्ञव्यापार इति ।
प्राज्ञव्यापारत्वेन पारमार्थिकत्वानुमानं प्रत्यक्षेण बाधकप्रत्ययेन विरुध्यमानं नात्मानं लभत इति भावः । बन्धमोक्षयोरान्तरालिकं तृतीयमैश्वर्यमिति ॥ ४ ॥
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ।
देहयोगाद्वा सोऽपि
इति सूत्रद्वयं कृतोपपादनमस्माभिः प्रथमसूत्रे । निगदव्याख्यातं चैतयोर्भाष्यमिति ॥ ५ ॥
देहयोगाद्वा सोऽपि ॥ ६ ॥