भामतीव्याख्या
तदभावाधिकरणविषयाः
तदभावो नाडीषु तच्छ्रुतेरात्मनि च ।
इह हि नाडीपुरीतत्परमात्मानो जीवस्य सुषुप्तावस्थायां स्थानत्वेन श्रूयन्ते । तत्र किमेषां स्थानानां विकल्प आहोस्वित्समुच्चयः । किमतो यद्येवम् । एतदतो भवति । यदा नाड्यो वा पुरीतद्वा सुषुप्तस्थानं तदा विपरीतग्रहणनिवृत्तावपि न जीवस्य परमात्मभाव इति । अविद्यानिवृत्तावपि जीवस्य परमात्मभावाय कारणान्तरमपेक्षितव्यं तच्च कर्मैव न तु तत्त्वज्ञानं विपरीतज्ञाननिवृत्तिमात्रेण तस्योपयोगात् , विपरीतज्ञाननिवृत्तेश्च विनापि तत्त्वज्ञानं सुषुप्तावपि सम्भवात् । ततश्च कर्मणैवापवर्गो न ज्ञानेन । यथाहुः “कर्मणैव तु संसिद्धिमास्थिता जनकादयः”(भ.गी. ३-२०) इति । अथ तु परमात्मैव नाडीपुरीतस्मृतिद्वारा सुषुप्तिस्थानं ततो विपरीतज्ञाननिवृत्तेरस्ति मात्रया परमात्मभाव उपयोगः । तया हि तावदेष जीवस्तदवस्थानो भवति केवलम् । तत्त्वज्ञानाभावेन समूलकाषमविद्याया अकाषाज्जाग्रत्स्वप्नलक्षणं जीवस्य व्युत्थानं भवति । तस्मात्प्रयोजनवत्येषा विचारणेति । किं तावत्प्राप्तं, नाडीपुरीतत्परमात्मसु स्थानेषु सुषुप्तस्य जीवस्य निलयं प्रति विकल्पः । यथा बहुषु प्रासादेष्वेको नरेन्द्रः कदाचित्क्वचिन्निलीयते कदाचित्क्वचिदेवमेको जीवः कदाचिन्नाडीषु कदाचित्पुरीतति कदाचिद्ब्रह्मणीति । यथा निरपेक्षा व्रीहियवाः क्रतुसाधनीभूतपुरोडाशप्रकृतितया श्रुता एकार्था विकल्प्यन्ते, एवं सप्तमीश्रुत्या वायतनश्रुत्या वैकनिलयनार्थाः परस्परानपेक्षा नाड्यादयोऽपि विकल्पमर्हन्ति । यत्रापि नाडीभिः प्रत्यवसृप्य पुरीतति शेत इति नाडीपुरीततोः समुच्चयश्रवणम् “तथा तासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यति । अथास्मिन् प्राण एवैकधा भवति”(कौ . ब्रा. ४ । २०) इति नाडीब्रह्मणोराधारयोः समुच्चयश्रवणम् । प्राणशब्दं च ब्रह्म “अथास्मिन् प्राणे ब्रह्मणि स जीव एकधा भवति” इति वचनात् । तथाप्यासु तदा नाडीषु सृप्तो भवतीति च पुरीतति शेत इति च निरपेक्षयोर्नाडीपुरीततोराधारत्वेन निर्देशान्निरपेक्षयोरेवाधारत्वम् । इयांस्तु विशेषः । कदाचिन्नाड्य एवाधारः कदाचिन्नाडीभिः सञ्चरमाणस्य पुरीतदेव । एवं ताभिरेव सञ्चरमाणस्य कदाचिद्ब्रह्मैवाधार इति सिद्धमाधारत्वे नाडीपुरीतत्परमात्मनामनपेक्षत्वम् । तथा च विकल्पो व्रीहियववद्बृहद्रथन्तरवद्वेति प्राप्तम् । एवं प्राप्तेऽभिधीयते जीवः समुच्चयेनैवैतानि नाड्यादीनि स्वापायोपैति न विकल्पेन । अयमभिसन्धिः नित्यवदाम्नातानां नाम तद्गत्यन्तराभावे कल्प्यते । यथाहुः “एवमेषोऽष्टदोषोऽपि यद्व्रीहियववाक्ययोः । विकल्प आश्रितस्तत्र गतिरन्या न विद्यते” इति । प्रकृतक्रतुसाधनीभूतपुरोडाशद्रव्यप्रकृतितया हि परस्परानपेक्षौ व्रीहियवौ विहितौ शक्नुतश्चैतौ प्रत्येकं पुरोडाशमभिनिर्वर्तयितुम् । तत्र यदि मिश्राभ्यां पुरोडाशोऽभिनिर्वर्त्येत परस्परानपेक्षव्रीहियवविधातृणी उभे अपि शास्त्रे बाध्येयाताम् । न चैतौ प्रयोगवचनः समुच्चेतुमर्हति । स हि यथा विहितान्यङ्गान्यभिसमीक्ष्य प्रवर्तमानो नैतान्यन्यथयितुं शक्नोति । मिश्रणे चान्यथात्वमेतेषाम् । न चाङ्गानुरोधेन प्रधानाभ्यासो ‘गोसवे उभे कुर्यात्’ इतिवद्युक्तः । अश्रुतो ह्यत्र प्रधानाभ्यासोऽङ्गानुरोधेन च सोऽन्याय्यः । न चाङ्गभूतैन्द्रवायवादिग्रहानुरोधेन यथा प्रधानस्य सोमयागस्यावृत्तिरेवमत्रापीति युक्तम् । ‘सोमेन यजेत’ इति हि तत्रापूर्वयागविधिः । तत्र च दशमुष्टिपरिमितस्य सोमद्रव्यस्य ‘सोममभिषुणोति’ , ‘सोममभिप्लावयति’ इति च वाक्यान्तरानुलोचनया रसद्वारेण यागसाधनीभूतस्येन्द्रवाय्वाद्युद्देशेन प्रादेशमात्रेषूर्ध्वपात्रेषु ग्रहणानि पृथक्प्रकल्पनानि संस्कारा विधीयन्ते, नतु सोमयागोद्देशेनेन्द्रवाय्वादयो देवताश्चोद्यन्ते, येन तासां यागनिष्पत्तिलक्षणैकार्थत्वेन विकल्पः स्यात् । नच प्रादेशमात्रमेकैकमूर्ध्वपात्रं दशमुष्टिपरिमितसोमरसग्रहणाय कल्पते, येन तुल्यार्थतया ग्रहणानि विकल्पेरन् । नच यावन्मात्रमेकमूर्ध्वपात्रं व्याप्नोति तावन्मात्रं गृहीत्वा परिशिष्टं त्यज्येतेति युज्यते । दशमुष्टिपरिमितोपादानस्यादृष्टार्थत्वप्रसङ्गात् । एवं तद्दृष्टार्थं भवेद्यदि तत्सर्वं याग उपयुज्येत । नच दृष्टे सम्भवत्यदृष्टकल्पना न्याय्या । तस्मात्सकलस्य सोमरसस्य यागशेषत्वेन संस्कारार्हत्वादेकैकेन च ग्रहणेन सकलस्य संस्कर्तुमशक्यत्वात्तदवयवस्यैकेन संस्कारेऽवयवान्तरस्य ग्रहणान्तरेण संस्कार इति कार्यभेदाद्ग्रहणानि समुच्चीयेरन् । अत एव समुच्चयदर्शनं “दशैतानध्वर्युः प्रातःसवने ग्रहान् गृह्णाति” इति । समुच्चये च सति क्रमोऽप्युपपद्यते । “आश्विनो दशमो गृह्यते तृतीयो हूयते” । तथैव “ऐन्द्रवायवाग्रान्ग्रहान्गृह्णाति” इति । तेषां च समुच्चये सति यावद्यदुद्देशेन गृहीतं तावत्तस्यै देवतायै त्यक्तव्यमित्यर्थाद्यागस्यावृत्त्या भवितव्यम् । यदि पुनः पृथक्कृतान्यप्येकीकृत्य काञ्चन देवतामुद्दिश्य त्यजेरन् , पृथक्करणानि च देवतोद्देशाश्चादृष्टार्था भवेयुः । नच दृष्टे सम्भवत्यदृष्टकल्पना न्याय्येत्युक्तम् । तस्मात्तत्र समुच्चयस्यावश्यम्भावित्वाद्गुणानुरोधेनापि प्रधानाभ्यास आस्थीयते । इह त्वभ्यासकल्पनाप्रमाणाभावात्पुरोडाशद्रव्यस्य चानियमेन प्रकृतिद्रव्ये यस्मिन्कस्मिंश्चित्प्राप्ते एकैका परस्परानपेक्षा व्रीहिश्रुतिर्यवश्रुतिश्च नियामिकैकार्थतया विकल्पमर्हतः । न तु नाडीपुरीतत्परमात्मनामन्योन्यानपेक्षणामेकनिलयनार्थसम्भवो येन विकल्पो भवेत् । नह्येकविभक्तिनिर्देशमात्रेणैकार्थता भवति समुच्चितानामप्येकविभक्तिनिर्देशदर्शनात् पर्यङ्के शेते प्रसादे शेत इति । तस्मादेकविभक्तिनिर्देशस्यानैकान्तिकत्वादन्यतो विनिगमना वक्तव्या ।
सा चोक्ता भाष्यकृता –
यत्रापि निरपेक्षा इव नाडीः सुप्तिस्थानत्वेन श्रावयतीत्यादिना ।
सापेक्षश्रुत्यनुरोधेन निरपेक्षश्रुतिर्नेतव्येत्यर्थः । शेषमतिरोहितार्थम् ।
ननु यदि ब्रह्मैव निलयनस्थानं तावन्मात्रमुच्यतां कृतं नाड्युपन्यासेनेत्यत आह –
अपिचात्रेति ।
अपिचेति समुच्चये न विकल्पे । एतदुपपत्तिसहिता पूर्वोपपत्तिरर्थसाधिनीति । मार्गोपदेशोपयुक्तानां नाडीनां स्तुत्यर्थमत्र नाडीसङ्कीर्तनमित्यर्थः । पित्तेनाभिव्याप्तकरणो न बाह्यान्विषयान्वेदेति तद्द्वारा सुखदुःखाभावेन तत्कारणपाप्मास्पर्शेन नाडीस्तुतिः । यदा तु तेजो ब्रह्म तदा सुगमम् ।
अपिच –
नाड्यः पुरीतद्वा जीवस्योपाध्याधार एव भवतीति ।
अयमर्थः अभ्युपेत्य जीवस्याधेयत्वमिदमुक्तम् । परमार्थतस्तु न जीवस्याधेयत्वमस्ति । तथाहि नाड्यः पुरीतद्वा जीवस्योपाधीनां करणानामाश्रयो जीवस्तु ब्रह्माव्यतिरेकात्स्वमहिमप्रतिष्ठः । न चापि ब्रह्म जीवस्याधारः, तादात्म्यात् । विकल्प्य तु व्यतिरेकं ब्रह्मण आधारत्वमुच्यते जीवं प्रति । तथाच सुषुप्तावस्थायामुपाधीनामसमुदाचाराज्जीवस्य ब्रह्मात्मत्वमेव ब्रह्माधारत्वं न तु नाडीपुरीतदाधारत्वम् । तदुपाधिकरणमात्राधारतया तु सुषुप्तदशारम्भाय जीवस्य नाडीपुरीतदाधारत्वमित्यतुल्यार्थतया न विकल्प इति ।
अपिच न कदाचिज्जीवस्येति ।
औत्सगिकं ब्रह्मस्वरूपत्वं जीवस्यासति जाग्रत्स्वप्नदशारूपेऽपवादे सुषुप्तावस्थायां नान्यथयितुं शक्यमित्यर्थः । अपिच येऽपि स्थानविकल्पमास्थिषत तैरपि विशेषविज्ञानोपशमलक्षणा सुषुप्त्यवस्थाङ्गीकर्तव्या । न चेयमात्मतादात्म्यं विना नाड्यादिषु परमात्मव्यतिरिक्तेषु स्थानेषूपपद्यते । तत्र हि स्थितोऽयं जीव आत्मव्यतिरेकाभिमानी सन्नवश्यं विशेषज्ञानवान् भवेत् । तथाहि श्रुतिः “यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्”(बृ. उ. ४ । ५ । १५) इति ।
आत्मस्थानत्वे त्वदोषः । “यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येद्विजानीयात्”(बृ. उ. ४ । ५ । १५) इति श्रुतेः । तस्मादप्यात्मस्थानत्वस्य द्वारं नाड्यादीत्याह –
अपिच स्थानविकल्पाभ्युपगमेऽपीति ।
अत्र चोदयति ननु भेदविषयस्यापीति । भिद्यत इति भेदः । भिद्यमानस्यापि विषयस्येत्यर्थः ।
परिहरति –
बाढमेवं स्यादिति ।
न तावज्जीवस्यास्ति स्वतःपरिच्छेदस्तस्य ब्रह्मात्मत्वेन विभुत्वात् औपाधिके तु परिच्छेदे यत्रोपाधिरसंनिहितस्तन्मात्रं न जानीयान्न तु सर्वम् । नह्यसंनिधानात्सुमेरुमविद्वान् देवदत्तः संनिहितमपि न वेद । तस्मात्सर्वविशेषविज्ञानप्रत्यस्तमयीं सुषुप्तिं प्रसाधयता तदास्य सर्वोपाध्युपसंहारो वक्तव्यः । तथाच सिद्धमस्य तदा ब्रह्मात्मत्वमित्यर्थः ।
गुणप्रधानभावेन समुच्चयो न समप्रधानतयाग्नेयादिवदिति वदन्विकल्पमप्यपाकरोति –
नच वयमिहेति ।
स्वाध्यायाध्ययनविध्यापादितपुरुषार्थत्वस्य वेदराशेरेकेनापि वर्णेन नापुरुषार्थेन भवितुं युक्तम् । नच सुषुप्तावस्थायां जीवस्य स्वरूपेण नाड्यादिस्थानत्वप्रतिपादने किञ्चित्प्रयोजनं ब्रह्मभूयप्रतिपादने त्वस्ति । तस्मान्न समप्रधानभावेन समुच्चयो नापि विकल्प इति भावः । नीतार्थमन्यत् ॥ ७ ॥
अतः प्रबोधोऽस्मात् ॥ ८ ॥