अद्वैतशारदा

भामतीव्याख्या

अध्यक्षाधिकरणविषयाः

व्याख्याः

सोऽध्यक्षे तदुपगमादिभ्यः ।
प्राणस्तेजसीति तेजःशब्दस्य भूत­वि­शे­ष­व­च­न­त्वा­द्वि­ज्ञा­ना­त्मनि चाप्रसिद्धेः प्राणस्य जीवा­त्म­न्यु­प­ग­मा­नु­ग­मा­व­स्था­न­श्रु­तीनां च तेजो­द्धा­रे­णा­प्यु­प­पत्तेः । तेजसि समापन्नवृत्तिः खलु प्राणः । तेजस्तु जीवात्मनि समापन्नवृत्ति । तद्द्वारा जीवा­त्म­स­मा­प­न्न­वृत्तिः प्राण इत्युपपद्यते । तस्मात्तेजस्येव प्राण­वृ­त्ति­प्र­वि­लय इति प्राप्तेऽ­भि­धी­यते स प्रकृतः प्राणोऽध्यक्षे विज्ञा­ना­त्म­न्य­व­ति­ष्ठते तत्त­न्त्र­वृ­त्ति­र्भ­वति । कुतः उप­ग­मा­नु­ग­मा­व­स्था­नेभ्यो हेतुभ्यः ।

तत्रो­प­ग­म­श्रु­ति­माह –
एव­मे­वे­म­मा­त्मा­न­मिति ।

अनुगमनश्रुतिमाह –
तमु­त्क्रा­म­न्त­मिति ।

अव­स्था­न­श्रु­ति­माह –
सविज्ञानो भवतीति चेति ।
विज्ञा­य­तेऽ­ने­नेति विज्ञानं पञ्च­वृ­त्ति­प्रा­ण­स­हित इन्द्रि­य­ग्रा­म­स्तेन सहावतिष्ठत इति सविज्ञानः ।

चोदयति –
ननु प्राणस्तेजसीति श्रूयत इति ।
अधि­का­वा­पोऽ­श­ब्दा­र्थ­व्या­ख्या­नम् ।

परिहरति –
नैष दोष इति ।
यद्यपि प्राण­स्ते­ज­सी­त्य­त­स्ते­जसि प्राणवृत्तिलयः प्रतीयते, तथापि सर्व­शा­खा­प्र­त्य­य­त्वेन विद्यानां श्रुत्य­न्त­रा­लो­च­नया विज्ञानात्मनि लयोऽवगम्यते । न च तेजसस्तत्रापि लय इति साम्प्रतम् । तस्या­नि­ला­का­श­क्र­मेण परमात्मनि तत्त्वलयावगमात् । तस्मा­त्ते­जो­ग्र­ह­णे­नो­प­ल­क्ष्यते तेजः सह­च­रि­त­दे­ह­बी­ज­भू­त­प­ञ्च­भू­त­सू­क्ष्म­प­रि­चा­रा­ध्यक्षो जीवात्मा तस्मिन् प्राण­वृ­त्ति­र­प्ये­तीति ।

चोदयति –
ननु चेयं श्रुतिरिति ।
तेजःसहचरितानि भूता­न्यु­प­ल­क्ष्यन्तां तेजः­श­ब्दे­ना­ध्यक्षे तु किमायातं तस्य तद­सा­ह­च­र्या­दि­त्यर्थः ।

परिहरति –
सोऽध्यक्ष इत्य­ध्य­क्ष­स्या­पीति ।
यदा ह्ययं प्राणोऽ­न्त­रा­लेऽ­ध्यक्षं प्राप्या­ध्य­क्ष­स­म्प­र्क­व­शा­देव तेजःप्रभृतीनि भूतसूक्ष्माणि प्राप्नोति तदोपपद्यते प्राणस्तेजसीति ।

अत्रैव दृष्टान्तमाह –
योऽपि स्रुघ्नादिति ॥ ४ ॥

भूतेषु तच्छ्रुतेः ॥ ५ ॥

सूत्रा­न्त­र­म­व­ता­र­यितुं पृच्छति –
कथं तेजः­स­ह­च­रि­ते­ष्विति ।

नैकस्मिन् दर्शयतो हि ।

अत्र भाष्य­का­रोऽ­नु­मा­न­द­र्श­न­माह –
कार्यस्य शरीरस्येति ।
स्थूल­श­री­रा­नु­रू­प­म­नु­मेयं सूक्ष्ममपि शरीरं पञ्चा­त्म­क­मि­त्यर्थः ।

दर्शयत इति सूत्रावयवं व्याचष्टे –
दर्श­य­त­श्चै­त­म­र्थ­मिति ।
प्रश्न­प्र­ति­व­च­ना­भि­प्रायं द्विवचनं श्रुति­स्मृ­त्य­भि­प्रायं वा । अण्व्यो मात्राः सूक्ष्मा दशार्धानां पञ्चभूतानामिति ।

श्रुत्य­न्त­र­वि­रोधं चोदयति –
ननु चोपसंहृतेषु वागादिष्विति ।
कर्माश्रयतेति प्रतीयते न भूता­श्र­य­ते­त्यर्थः ।

परिहरति –
अत्रोच्यत इति ।
ग्रहा इन्द्रियाणि अति­ग्र­हा­स्त­द्वि­षयाः । कर्मणां प्रयो­ज­क­त्वे­ना­श्र­यत्वं भूतानां तूपा­दा­न­त्वे­ने­त्य­वि­रोधः ।

प्रशंसाशब्दोऽपि कर्मणां प्रयोजकतया प्रकृ­ष्ट­मा­श्र­यत्वं ब्रूते सति निकृष्ट आश्रयान्तरे तदु­प­प­त्ते­रि­त्याह –
प्रशंसाशब्दादपि तत्रेति ॥ ६ ॥