अद्वैतशारदा

भामतीव्याख्या

कार्याधिकरणविषयाः

व्याख्याः

कार्यं बादरिरस्य गत्युपपत्तेः ।
तत्त्वदर्शीं बादरिर्ददर्श कार्य­म­प्रा­प्त­पू­र्व­त्वा­द­प्रा­प्त­प्रा­पणी गतिः । प्रापयेद्ब्रह्म न परं प्राप्त­त्वा­ज्ज­ग­दा­त्म­कम् ॥ तत्त्व­म­सि­वा­क्या­र्थ­सा­क्षा­त्का­रा­त्प्रा­क्किल जीवा­त्मा­वि­द्या­क­र्म­वा­स­ना­द्यु­पा­ध्य­व­च्छे­दा­द्व­स्तु­तोऽ­न­व­च्छि­न्नोऽ­व­च्छि­न्न­मि­वा­भि­न्नोऽपि लोकेभ्यो भिन्न­मि­वा­त्मा­न­म­भि­म­न्य­मानः स्वरू­पा­द­न्या­न­प्रा­प्ता­न­र्चि­रा­दीं­ल्लो­का­न्ग­त्या­प्नो­तीति युज्यते । अद्वै­त­ब्र­ह्म­त­त्त्व­सा­क्षा­त्का­र­व­तस्तु विग­लि­त­नि­खि­ल­प्र­प­ञ्चा­व­भा­स­वि­भ्र­मस्य न गन्तव्यं न गतिर्न गमयितार इति किं केन सङ्गतम् । तस्मादनिदर्शनं न्यग्रो­ध­सं­यो­ग­वि­भागा न्यग्रो­ध­वा­न­र­त­द्ग­ति­त­त्सं­यो­ग­वि­भा­गानां मिथो भेदात् । नच तत्रापि प्राप्त­प्राप्तिः कर्मजेन हि विभागेन निरुद्धायां पूर्व­प्रा­प्ता­व­प्रा­प्त­स्यै­वो­त्त­र­प्रा­प्ते­रु­त्पत्तेः । एतदपि वस्तुतो विचारासहतया सर्वमनिर्वचनीयं विजृ­म्भि­त­म­वि­द्यायाः समु­त्प­न्ना­द्वै­त­त­त्त्व­सा­क्षा­त्कारो न विद्वानभिमन्यते । विदुषोऽपि देहपातात्पूर्वं स्थितप्रज्ञस्य यथाभासमात्रेण सांसा­रि­क­ध­र्मा­नु­वृ­त्ति­र­भ्यु­पे­यते एव­मा­लि­ङ्ग­श­री­र­पा­ता­द्वि­दु­ष­स्त­द्ध­र्मा­नु­वृत्तिः । तथा­चा­प्रा­प्त­प्रा­प्ते­र्ग­त्यु­प­प­त्ति­स्त­द्दे­श­प्राप्तौ च लिङ्ग­दे­ह­नि­वृ­त्ते­र्मुक्तिः श्रुति­प्रा­मा­ण्या­दिति चेत् । न । परविद्यावत उत्क्रा­न्ति­प्र­ति­षे­धात् “ब्रह्मैव सन्ब्र­ह्मा­प्येति न तस्मात्प्राणा उत्क्रामन्ति अत्रैव समवनीयन्ते”(बृ. उ. ३ । २ । ११) इति । यथा विद्या­ब्र­ह्म­प्राप्त्योः समानकालता श्रूयते “ब्रह्म वेद ब्रह्मैव भवति”(मु. उ. ३ । २ । ९) “आनन्दं ब्रह्मणो विद्वान्न बिभेति”(तै. उ. २ । ९ । १) “तदा­त्मा­न­मे­वा­वे­दहं ब्रह्मास्मीति तत्सर्वमभवत्”(वाजसनेयि ब्रह्मण. उ. १ । ४ । १०) “तत्र को मोहः कः शोक एकत्वमनुपश्यतः”(ई. उ. ७) इति पौर्वा­प­र्या­श्र­व­णा­त्प­र­वि­द्या­वतो मुक्तिं प्रति नोपा­या­न्त­रा­पे­क्षेति लक्ष्य­तेऽ­भि­सन्धिः श्रुतेः । उपपन्नं चैतत् । न खलु ब्रह्मैवेदं विश्वमहं ब्रह्मास्मीति परिभावनाभुवा जीवात्मनो ब्रह्म­भा­व­सा­क्षा­त्का­रे­णो­न्मू­लि­ता­या­म­न­व­य­वे­ना­वि­द्या­या­मस्ति गन्त­व्य­ग­न्तृ­वि­भागो विदुषस्तदभावे कथ­म­य­म­र्चि­रा­दि­मार्गे प्रवर्तेत । नच छायामात्रेणापि सांसा­रि­क­ध­र्मा­नु­वृ­त्ति­स्तत्र प्रवृत्त्यङ्गं यादृ­च्छि­क­प्र­वृत्तेः । श्रद्धाविहीनस्य दृष्टार्थानि कर्माणि फलन्ति न फलन्ति च । अदृष्टार्थानां तु फले का कथेत्युक्तं प्रथमसूत्रे । न चार्चि­रा­दि­मा­र्ग­भा­व­नायाः पर­ब्र­ह्म­प्रा­प्त्य­र्थ­म­वि­दुषः प्रत्यु­प­दे­श­स्तथा च कर्मान्तरेष्विव नित्यादिषु तत्रापि स्यात्तस्य प्रवृत्तिरिति साम्प्रतम् । विकल्पासहत्वात् । किमियं परविद्यानपेक्षा पर­ब्र­ह्म­प्रा­प्ति­सा­धनं तदपेक्षा वा । न तावदनपेक्षा “तमेव विदि­त्वा­ति­मृ­त्यु­मेति नान्यः पन्था विद्यतेऽयनाय”(श्वे. उ. ३ । ८) इति पर­ब्र­ह्म­वि­ज्ञा­ना­द­न्य­स्या­ध्वनः साक्षा­त्प्र­ति­षे­धात् । पर­वि­द्या­पे­क्षत्वे तु मार्गभावनायाः किमियं विद्याकार्ये मार्गभावना साहायकमाचरत्यथ विद्योत्पादे । न ताव­द्वि­द्या­कार्ये तया सह तस्या द्वैता­द्वै­त­गो­च­र­तया मिथो विरोधेन सहासम्भवात् । नापि यज्ञा­दि­व­द्वि­द्यो­त्पादे साक्षा­त्ब्र­ह्म­प्रा­प्त्यु­पा­य­त्व­श्र­व­णा­दे­ता­न्ब्रह्म गमयतीति । यज्ञादेस्तु विविदिषासंयोगेन श्रव­णा­द्वि­द्यो­त्पा­दा­ङ्ग­त्वम् । तस्मा­दु­प­न्य­स्त­ब­हु­श्रु­त्य­नु­रो­धा­दु­प­प­त्तेश्च ब्रह्म­श­ब्दोऽ­स­म्भ­व­न्मु­ख्य­वृ­त्ति­र्ब्र­ह्म­सा­मी­प्या­द­प­र­ब्र­ह्मणि लक्षणया नेतव्यः । तथाच लोकेष्विति बहुवचनोपपत्तेः कार्य­ब्र­ह्म­लो­कस्य । परस्य त्वनवयवतया तद्द्वा­रे­णा­प्य­नु­प­पत्तेः । लोकत्वं चेला­वृ­त्ता­दि­व­त्स­न्नि­वे­श­वि­शे­ष­वति भोगभूमौ निरूढं न कथञ्चिद्योगेन प्रकाशे व्याख्यातं भवति । तस्मा­त्सा­धु­दर्शी स भग­वा­न्बा­द­रि­र­सा­धु­दर्शी जैमिनिरिति सिद्धम् । अप्रामाणिकानां बहुप्रलापाः सर्वगतस्य द्रव्यस्य गुणाः सर्वगता एव चैत­न्या­न­न्दा­द­यश्च गुणिनः परमात्मनो भेदाभेदवन्तो गुणा इत्यादयो दूष­णा­या­नु­भा­ष्य­माणा अप्य­प्रा­मा­णि­क­त्व­मा­व­ह­न्त्य­स्मा­क­मि­त्यु­पे­क्षिताः । ग्रन्थयोजना तु प्रत्य­गा­त्म­त्वाच्च गन्तॄणां प्रतिप्रति अञ्चति गच्छतीति प्रत्य­क्प्र­ति­भा­व­वृत्ति ब्रह्म तदा­त्म­त्वा­द्ग­न्तॄणां जीवात्मनामिति ।

गौणी त्वन्यत्रेति ।
यौगिक्यपि हि योगगुणापेक्षया गौण्येव ।

विशु­द्धो­पा­धि­स­म्ब­न्ध­मिति ।
मनोमयत्वादयः कल्पनाः कार्याः । कार्य­त्वा­द­वि­शुद्धा अपि श्रेयो­हे­तु­त्वा­द्वि­शुद्धाः । प्रतिसञ्चरो महाप्रलयः प्रति­प­त्त्य­भि­सन्धिः प्रति­प­त्ति­र्गतिः पदे­र्ग­त्य­र्थ­त्वात् । अभि­स­न्धि­स्ता­त्प­र्यम् । यस्य ब्रह्मणो नामाभिधानं यश इति ।

पूर्व­वा­क्य­वि­च्छे­दे­नेति ।
श्रुतिवाक्ये बलीयसी प्रकरणात् ।

सगुणेऽपि च ब्रह्मणीति ।
प्रशं­सा­र्थ­मि­त्यर्थः ।

चोदयति –
ननु गतस्यापि पारमार्थिकी गन्तव्यता देशा­न्त­र­वि­शि­ष्ट­स्येति ।
न्यग्रो­ध­वा­न­र­दृ­ष्टान्त उपपादितः ।

परिहरति –
न । प्रति­षि­द्ध­स­र्व­वि­शे­ष­त्वा­द्ब्र­ह्मण इति ।

अयमभिसन्धिः यथातथा न्यग्रोधावयवी परि­णा­म­वा­नु­प­ज­ना­पा­य­ध­र्मभिः कर्मजैः संयोगविभागैः संयुज्यतामयं पुनः परमात्मा निर­स्त­नि­खि­ल­भे­द­प्र­पञ्चः कूटस्थनित्यो न न्यग्रो­ध­व­त्सं­यो­ग­वि­भा­ग­भा­ग्भ­वि­तु­म­र्हति । काल्प­नि­क­सं­यो­ग­वि­भा­गस्तु काल्पनिकस्यैव कार्य­ब्र­ह्म­लो­क­स्यो­प­प­द्यते न परस्य । शङ्कते –
जग­दु­त्प­त्ति­स्थि­ति­प्र­ल­य­हे­तु­त्व­श्रु­ते­रिति ।
नह्यु­त्प­त्त्या­दि­हे­तु­भा­वोऽ­प­रि­णा­मिनः सम्भवति तस्मा­त्प­रि­णा­मीति । तथा च भावि­क­म­स्यो­प­प­द्यते गन्त­व्य­त्व­मि­त्यर्थः ।

निराकरोति –
न । विशे­ष­नि­रा­क­र­ण­श्रु­ती­ना­मिति ।
विशेषनिराकरणं सम­स्त­शो­का­दि­दुः­ख­श­म­न­तया पुरुषार्थफलवत् । अफलं तूत्प­त्त्या­दि­वि­धा­नम् । तस्मात्फलवतः संनि­धा­वा­म्ना­य­मानं तदर्थमेवोच्यत इत्युपपत्तिः । तद्वि­जि­ज्ञा­स­स्वेति च श्रुतिः । तस्मा­च्छ्रु­त्यु­प­प­त्तिभ्यां निर­स्त­स­म­स्त­वि­शे­ष­ब्र­ह्म­प्र­ति­पा­द­न­प­रोऽ­य­मा­म्नायो न तूत्प­त्त्या­दि­प्र­ति­पा­द­न­परः । तस्मान्न गतिस्तात्त्विकी ।

अपि चेयं गतिर्न विचारं सहत इत्याह –
गतिकल्पनायां चेति ।
अन्या­न­न्य­त्वा­श्र­या­व­व­य­व­वि­का­र­पक्षौ । अन्यो वात्यन्तम् ।

अथ कस्मा­दा­त्य­न्ति­क­म­न­न्यत्वं न कल्प्यत इत्यत आह –
अत्य­न्त­ता­दात्म्य इति ।
मृदात्मतया हि स्वभावेन घटादयो भावास्तद्विकारा व्याप्ताः, तदभावे न भवन्ति शिंशपेव वृक्षत्वाभाव इति । विका­रा­व­य­व­प­क्ष­योश्च तद्वतः सह विकारावयवैः स्थिर­त्वा­द­च­ल­त्वा­द्ब्र­ह्मणः संसारलक्षणं गमनं विका­रा­व­य­व­ये­र­नु­प­प­न्नम् । नहि स्थिरा­त्म­क­म­स्थिरं भवति । अन्यानन्यत्वे अपि चैकस्य विरो­धा­द­स­म्भ­वन्ती इति भावः ।

अथान्य एव जीवो ब्रह्मणः ।
तथाच ब्रह्म­ण्य­सं­स­र­त्यपि जीवस्य संसारः कल्पत इति ।

एतद्विकल्प्य दूषयति –
सोऽणुरिति ।

मध्यमपरिमाणत्व इति ।
मध्यमपरिमाणानां घटा­दी­ना­म­नि­त्य­त्व­द­र्श­नात् ।

न । मुख्यैकत्वेति ।
भेदा­भे­द­यो­र्वि­रो­धि­नो­रे­क­त्रा­स­म्भ­वा­द्बु­द्धि­व्य­प­दे­श­भे­दा­द­र्थ­भेदः । अयु­त­सि­द्ध­त­यो­प­चा­रे­णा­भि­न्न­मु­च्यत इत्य­मु­ख्य­म­स्यै­क­त्व­मि­त्यर्थः । अपिच जीवानां ब्रह्मा­व­य­व­त्व­प­रि­णा­मा­त्य­न्त­भे­द­प­क्षेषु तात्त्विकी संसारितेति मुक्तौ स्वभा­व­हा­ना­ज्जी­वानां विनाशप्रसङ्गः ।

ब्रह्म­वि­व­र्तत्वे तु ब्रह्मैवैषां स्वभावः प्रति­बि­म्बा­ना­मिव बिम्बं तच्चाविनाशीति न जीवविनाश इत्याह –
सर्वे­ष्वे­ते­ष्विति ।

मता­न्त­र­मु­प­न्य­स्यति दूषयितुम् –
यत्तु कैश्चि­ज्ज­ल्प्यते विनैव ब्रह्मज्ञानं नित्य­नै­मि­त्ति­का­नीति ।
यथा हि कफनिमित्तो ज्वर उपात्तस्य कफस्य विशेषणादिभिः प्रक्षये कफा­न्त­रो­त्प­त्ति­नि­मि­त्त­द­ध्या­दि­व­र्जने प्रशान्तोऽपि न पुनर्भवति । एवं कर्मनिमित्तो बन्ध उपात्तानां कर्म­णा­मु­प­भो­गा­त्प्र­क्षये प्रशाम्यति । कर्मान्तराणां च बन्ध­हे­तू­ना­म­न­नु­ष्ठा­ना­त्का­र­णा­भावे कार्या­नु­प­प­त्ते­र्ब­न्धा­भा­वा­त्स्व­भा­व­सिद्धो मोक्ष आरोग्यमिव । उपा­त्त­दु­रि­त­नि­ब­र्ह­णाय च नित्य­नै­मि­त्ति­क­क­र्मा­नु­ष्ठा­ना­द्दु­रि­त­नि­मि­त्त­प्र­त्य­वायो न भवति । प्रत्य­वा­या­नु­त्पत्तौ च स्वस्थस्वान्तो न निषि­द्धा­न्या­च­रे­दिति ।

तदेतद्दूषयति –
तदसत् । प्रमाणाभावादिति ।
शास्त्रं खल्व­स्मि­न्प्र­माणं तच्च मोक्ष­मा­ण­स्या­त्म­ज्ञा­न­मे­वो­प­दि­शति नतूक्तमाचारम् ।

न चात्रोपपत्तिः प्रभवति संसा­र­स्या­ना­दि­तया कर्मा­श­य­स्या­प्य­स­ङ्ख्ये­य­स्या­नि­य­त­वि­पा­क­का­लस्य भोगे­नो­च्छे­त्तु­म­श­क्य­त्वा­दि­त्याह –
न चैत­त्त­र्क­यि­तु­म­पीति ।

चोदयति –
स्यादेतदिति ।

नित्येति ।

परिहरति –
तन्न विरोधाभावादिति ।
यदि हि नित्य­नै­मि­त्ति­कानि कर्माणि सुकृतमपि दुष्कृतमिव निर्वहेयुस्ततः काम्यकर्मोपदेशा दत्तजलाञ्जलयः प्रसज्येरन् । नह्यस्ति कश्चि­च्चा­तु­र्वर्ण्ये चातुराश्रम्ये वा यो न नित्य­नै­मि­त्ति­कानि कर्माणि करोति । तस्मान्नैषां सुकृतविरोधितेति ।

अभ्यु­च्च­य­मा­त्र­माह –
नच नित्य­नै­मि­त्ति­का­नु­ष्ठा­ना­दिति ।

न चासति सम्यग्दर्शने इति ।
सम्यग्दर्शी हि विरक्तः काम्यनिषिद्धे वर्जयन्नपि प्रमा­दा­दु­प­नि­प­तिते तेनै­व­स­म्य­ग्द­र्श­नेन क्षपयति । ज्ञानपरिपाके च न करोत्येव । अज्ञस्तु निपुणोऽपि प्रमादात्करोति । कृते च न क्षपयितुं क्षमत इति विशेषः ।

न चान­भ्यु­प­ग­म्य­माने ज्ञानगम्ये ब्रह्मात्मत्व इति ।
कर्तृ­त्व­भो­क्तृत्वे समा­क्षि­प्त­क्रि­या­भोगे ते चेदात्मनः स्वभावावधारिते न त्वारोपिते ततो न शक्यावपनेतुम् । नहि स्वभा­वा­द्भा­वोऽ­व­रो­प­यितुं शक्यो भावस्य विनाशप्रसङ्गात् ।

न च भोगोऽपि सत्स्वभावः शक्योऽ­स­त्कर्तुं, नो खलु नीलमनीलं शक्यं शक्रेणापि कर्तुं तदिदमुक्तम् –
स्वभा­व­स्या­प­रि­हा­र्य­त्वा­दिति ।
समारोपितस्य त्वनिर्वचनीयस्य तत्स्वभावस्य शक्य­स्त­त्त्व­ज्ञा­ने­ना­व­रोपः कर्तुं सर्पस्येव रज्जु­त­त्त्व­ज्ञा­ने­नेति भावः ।

भाव­मि­म­म­वि­द्वा­न्प­रि­चो­द­यति –
स्यादेतत् । कर्तृ­त्व­भो­क्तृ­त्व­का­र्य­मिति ।

अप्रकाशितभावो यथोक्तमेव समाधत्ते –
तच्च नेति ।
कर्तृ­त्व­भो­क्तृ­त्व­यो­र्नि­मि­त्त­स­म्ब­न्धस्य च शक्तिद्वारेण नित्य­त्वा­द्भ­वि­ष्यति कदाचिदेषां समुदाचारो यतः सुखदुःखे भोज्येते इति सम्भावनातः कुतः कैवल्यनिश्चय इत्यर्थः ।

भूयोनिरस्तमपि मतिद्रढिम्ने पुनरुपन्यस्य दूषयति –
पर­स्मा­द­न­न्य­त्वेऽ­पीति ।
शेष­म­ति­रो­हि­ता­र्थम् ॥ ७ ॥

विशेषितत्वाच्च ॥ ८ ॥

सामीप्यात्तु तद्व्यपदेशः ॥ ९ ॥

कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ १० ॥

स्मृतेश्च ॥ ११ ॥

परं जैमि­नि­र्मु­ख्य­त्वात् ॥ १२ ॥

दर्शनाच्च ॥ १३ ॥

न च कार्ये प्रति­प­त्त्य­भि­सन्धिः ॥ १४ ॥