अद्वैतशारदा

भामतीव्याख्या

जगद्व्यापाराधिकरणविषयाः

व्याख्याः

जग­द्व्या­पा­र­वर्जं प्रक­र­णा­द­सं­नि­हि­त­त्वाच्च ।
स्वारा­ज्य­का­म­चा­रा­दि­श्रु­तिभ्यः स्यान्निरङ्कुशः । स्वकार्य ईश्व­रा­धी­न­सि­द्धि­र­प्यत्र साधकः ॥ “आप्नोति स्वाराज्यम्”(तै. उ. १ । ६ । २) “सर्वेऽस्मै देवा बलिमावहन्ति”(तै. उ. १ । ५ । ३) “सर्वेषु लोकेषु कामचारो भवति”(छा. उ. ७ । २५ । २) इत्या­दि­श्रु­तिभ्यो विदुषः परब्रह्मण इवा­न्या­न­धी­न­त्व­मै­श्व­र्य­म­व­ग­म्यते । नन्वस्य ब्रह्मो­पा­स­ना­ल­ब्ध­मै­श्वर्यं कथं ब्रह्माधीनं न तु स्वभावः । नहि कारणाधीनजन्मानो भावाः स्वकार्ये स्वका­र­ण­म­पे­क्षन्ते । किं त्वत्र ते स्वतन्त्रा एव । यथाहुः मृत्पि­ण्ड­द­ण्ड­च­क्रादि घटो जन्मन्यपेक्षते । उदकाहरणे त्वस्य तदपेक्षा न विद्यते ॥ न च विदुषां पर­मे­श्व­रा­धी­नै­श्व­र्य­सि­द्धि­त्वा­त्त­द्ग­त­मै­श्वर्यं येन लौकिका इव राजानो महाराजाधीनः स्वव्यापारे विद्वांसः परमेश्वराधीना भवेयुः । न खलु यदधीनोत्पादं यस्य रूपं तत्तद्रूपादूनं भवतीति कश्चिन्नियमः । तत्समानां तदधिकानां च दर्शनात्तथा ह्यन्तेवासी गुर्वधीनविधः तत्समस्तदधिको वा दृश्यते । दुष्टसामन्ताश्च पार्थि­वा­धी­नै­श्वर्याः पार्थि­वा­न्स्प­र्ध­मा­ना­स्ता­न्वि­ज­य­माना वा दृश्यन्ते । तदिह निर­ति­श­यै­श्व­र्य­त्वा­त्प­र­मे­श्व­रस्य मा नाम भूव­न्वि­द्वां­स­स्त­तोऽ­धि­का­स्त­त्स­मास्तु भविष्यन्ति । तथाच न तदधीनाः । नहि सम­प्र­धा­न­भा­वा­ना­मस्ति मिथोऽपेक्षा । तदेते स्वतन्त्राः सन्त­स्त­द्व्या­पारे जगत्सर्जनेऽपि प्रवर्तेरन्निति प्राप्ते प्रत्यभिधीयते - नित्य­त्वा­द­न­पे­क्ष­त्वा­त्श्रु­ते­स्त­त्प्र­क्र­मा­दपि । एक्यमत्याच्च विदुषां पर­मे­श्व­र­त­न्त्रता ॥ जगत्सर्गलक्षणं हि कार्यं कार­णै­क­स्व­भा­व­स्यैव हि भवतु आहो कार्य­का­र­ण­स्व­भा­वस्य । तत्रो­भ­य­स्व­भा­वस्य स्वोत्पत्तौ मूल­का­र­णा­पे­क्षस्य पूर्वसिद्धः परमेश्वर एव कारणमभ्युपेतव्य इति स एवैकोऽस्तु जगत्कारणम् । तस्यैव नित्यत्वेन स्वका­र­णा­न­पे­क्षस्य कॢप्त­सा­म­र्थ्यात् । कल्प्य­सा­म­र्थ्यास्तु जगत्सर्जनं प्रति विद्वांसः । न च जग­त्स्र­ष्टृ­त्व­मेषां श्रूयते । श्रूयते त्वत्रभवतः परमेश्वरस्यैव । तमेव प्रकृत्य सर्वासां तच्छ्रुतीनां प्रवृत्तेः । अपिच समप्रधानानां हि न नियमवदैकमत्यं दृष्टमिति यदैकः सिसृक्षति तदैवेतरः सञ्जि­ही­र्ष­ती­त्य­प­र्या­येण सृष्टिसंहारौ स्याताम् । न चोभ­यो­र­पी­श्व­रत्वं व्याघातात् । एकस्य तु तदाधिपत्ये तद­भि­प्रा­या­नु­रो­धिनां सर्वे­षा­मै­क­म­त्यो­प­प­त्ते­र­दोषः । तत्रागन्तुकानां कार­णा­धी­न­ज­न्मै­श्व­र्याणां गृह्य­मा­ण­वि­शे­ष­त­या­स­म­त्वा­न्नि­त्यै­श्व­र्य­शा­लिनः स एव तेषामधीश इति तत्तन्त्रा विद्वांस इति पर­मे­श्व­र­व्या­पा­रस्य सर्गसंहारस्य नेशते ॥ १७ ॥

पूर्व­प­क्षि­णोऽ­नु­श­य­बी­ज­मा­शङ्क्य निराकरोति –
प्रत्य­क्षो­प­दे­शा­दिति चेन्ना­धि­का­रि­क­म­ण्ड­ल­स्थोक्तेः ।
यतः पर­मे­श्व­रा­धी­न­मै­श्वर्यं तस्मात्ततो न्यून­म­णि­मा­दि­मात्रं स्वाराज्यं न तु जद­त्स्र­ष्टृ­त्वम् । उक्तान्न्यायात् ॥ १८ ॥

विकारावर्ति च तथा हि स्थितिमाह ।
एतावानस्य महिमेति विकारवर्ति रूपमुक्तम् । ततो ज्यायांश्चेति निर्विकारं रूपम् । तथा पादोऽस्य विश्वा भूतानीति विकारवर्ति रूपम् , त्रिपादस्यामृतं दिवीति निर्विकारमाह रूपम् ॥ १९ ॥

दर्शयतश्चैवं प्रत्य­क्षा­नु­माने ।
दर्शयतश्चापरे श्रुतिस्मृती निर्विकारमेव रूपं भगवतस्ते च पठिते । एतदुक्तं भवतियदि ब्रूषे सगुणे ब्रह्म­ण्यु­पा­स्य­माने यथा तद्गुणस्य निरवग्रहत्वमपि वस्तुतोऽस्तीति निरवग्रहत्वे विदुषा प्राप्तव्यमिति तदनेन व्यभिचारयते । यथा सविकारे ब्रह्म­ण्यु­पा­स्य­माने वस्तुतः स्थितमपि निर्विकाररूपं न प्राप्यते तत्कस्य हेतोः, अत­त्क्र­तु­त्वा­दु­पा­स­कस्य । तथा तद्गुणोपासनया वस्तुतः स्थितमपि निरवग्रहत्वं नाप्यते । तत्त्वोपासनासु पुरु­ष­क्र­तु­त्वात् । उपासकस्य तदक्रतुत्वं च निर­व­ग्र­ह­त्व­स्यो­पा­स­न­वि­ध्य­गो­च­र­त्वा­द्वि­ध्य­धी­न­त्वा­च्चो­पा­स­नासु पुरु­ष­स्वा­त­न्त्र्या­भा­वा­त्स्वा­तन्त्र्ये वा प्राति­भ­त्व­प्र­स­ङ्गा­दिति ॥ २० ॥

भोग­मा­त्र­सा­म्य­लि­ङ्गाच्च ।
न केवलं स्वारा­ज्य­स्ये­श्व­रा­धी­न­त­या­ज­ग­त्स­र्ज­नम् , साक्षा­द्भो­ग­मा­त्रेण तेन परमेश्वरेण साम्याभिधानादपि व्यप­दे­श­लि­ङ्गा­दिति । भूतान्यवन्ति प्रीणयन्तीति भोजयन्तीति यावत् ।

सूत्रा­न्त­रा­व­ता­र­णाय शङ्कते –
नन्वेवं सति सातिशयत्वादिति ।
सह पर­मे­श्व­र­स्या­ति­श­येन वर्तत इति विदुष ऐश्वर्यं सातिशयम् । यच्च कार्यं सातिशयं तच्च यथा लौकिकमैश्वर्यम् । तदनेन कार्यत्वमुक्तम् । तथाच कार्य­त्वा­द­न्त­व­त्प्रा­प्त­मिति तच्च न युक्तमानन्त्येन तद्विदुषां तत्र प्रवृत्तेरिति ॥ २१ ॥

अत उत्तरं पठति –
अनावृत्तिः शब्दादनावृत्तिः शब्दात् ।
किम­र्चि­रा­दि­मा­र्गेण ब्रह्म­लो­क­प्रा­प्ता­ना­मै­श्व­र्य­स्या­न्त­वत्त्वं त्वया साध्यते । आहो­स्वि­च्च­न्द्र­लो­का­दिव ब्रह्म­लो­का­दे­त­ल्लो­क­प्रा­प्ति­र्मु­क्ते­र­न्त­व­त्त्वम् । तत्र पूर्वस्मिन् कल्पे सिद्धसाधनम् । उत्तरत्र तु श्रुति­स्मृ­ति­वि­रोधः । तद्विधानां च क्रम­मु­क्ति­प्र­ति­पा­द­ना­दिति ।

तत्त्व­म­सि­वा­क्या­र्थै­को­पा­स­ना­प­रान् प्रत्याह –
सम्य­ग्द­र्श­न­वि­ध्व­स्त­त­म­सा­मिति ।
द्विधाविद्यातमः । निरु­पा­धि­ब्र­ह्म­सा­क्षा­त्का­र­स्त­त्त्व­द­र्श­नम् ।

न चैतन्निर्वाणं स्वरू­पा­व­स्था­न­ल­क्षणं कार्यं येनानित्यं स्यादित्याह –
नित्यसिद्धेति ॥ २२ ॥
भङ्क्त्वा वाद्य­सु­रे­न्द्र­वृ­न्द­म­खि­ला­वि­द्यो­प­धा­ना­तिगं येना­म्ना­य­प­यो­नि­धे­र्न­य­पथा ब्रह्मामृतं प्राप्यते ।
सोऽयं शाङ्क­र­भा­ष्य­जा­त­वि­षयो वाचस्पतेः सादरं सन्दर्भः परिभाव्यतां सुमतयः स्वार्थेषु को मत्सरः ॥ १ ॥
अज्ञानसागरं तीर्त्वा ब्रह्म­त­त्त्व­म­भी­प्स­ताम् ।
नीतिनौकर्णधारेण मयापूरि मनोरथः ॥ २ ॥
यन्न्या­य­क­णि­का­त­त्त्व­स­मी­क्षा­त­त्त्व­बि­न्दुभिः ।
यन्न्या­य­सा­ङ्ख्य­यो­गानां वेदान्तानां निबन्धनैः ॥ ३ ॥
समचैषं महत्पुण्यं तत्फलं पुष्कलं मया ।
समर्पितमथैतेन प्रीयतां परमेश्वरः ॥ ४ ॥
नृपान्तराणां मनसाप्यगम्यां भ्रूक्षे­प­मा­त्रेण चकार कीर्तिम् ।
कार्त­स्व­रा­सा­र­सु­पू­रि­ता­र्थ­सार्थः स्वयं शास्त्र­वि­च­क्ष­णश्च ॥ ५ ॥
नरेश्वरा यच्च­रि­ता­नु­का­र­मि­च्छन्ति कर्तुं नच पारयन्ति ।
तस्मिन्महीपे महनीयकीर्तौ श्रीम­न्नृ­गेऽ­कारि मया निबन्धः ॥ ६ ॥
इति श्रीवा­च­स्प­ति­मि­श्र­वि­र­चिते शङ्क­र­भ­ग­व­त्पा­द­भा­ष्य­वि­भागे भामत्यां चतु­र्थ­स्या­ध्या­यस्य चतुर्थः पादः समाप्तः ।