अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥संबंधभाष्यवार्तिकम् ॥ (२)

वस्तु­नोऽ­व­ग­ति­र्नापि लयाद्भवति कुत्रचित् ।।
अभा­वेऽ­प्यु­प­प­न्न­त्वा­त्सु­षुप्ते चाप्यनीक्षणात् ।। ३८६ ।।

स्वाभाविकः प्रपञ्चश्चेत्स निरोद्धुंं न शक्यते ।।
कार्य­श्चे­त्का­र­णो­च्छेदे कार्योच्छेदः स्वतो न हि ।। ३८७ ।।

कृत­स्र­प्र­प­ञ्च­वि­लयः कर्तुं शक्यो न केनचित् ।।
स्वेन्द्रि­या­दि­लयः स्वापे स्वत एव न शास्रतः ।। ३८८ ।।

उत्थितस्य पुन­र्भा­वा­द­नु­च्छे­दोऽथ शङ्क्यते ।।
आया­त­स्ति­र्ह्य­ना­श्वा­स­स्त्व­द­भ्यु­प­ग­ता­वपि ।। ३८९ ।।

प्रप­ञ्च­ना­श्ने­नाथ नाश्यते भेदकारणम् ।।
नैवं न कार्यनाशेन कारणं नश्यति क्वचित् ।। ३९० ।।

कार­ण­स्या­प्य­वि­द्याया वस्तु­बो­धा­द्वि­ना­शतः ।।
यतोऽ­तोऽ­वि­द्या­ना­शार्थं प्रप­ञ्च­वि­ल­योऽ­फलः ।। ३९१ ।।

रज्जुज्ञानाद्धि सर्पा­दि­प्र­प­ञ्च­वि­लयो यतः ।।
सर्पा­भा­स­ल­येऽ­पीयं रज्जुस्तमसि नेक्ष्यते ।। ३९२ ।।

लयनिष्ठे प्रमाणे नो वस्तुगोचरभेदतः ।।
अथ वस्तुनि तन्मानं न लये स्यान्न च द्वये ।। ३९३ ।।

भाव्यु­च्छे­त्तु­म­श­क्यस्ते, भूतोऽप्युपरतः स्वतः ।।
प्रपञ्चो वर्तमानस्तु कार्य­त्वा­न्न­श्यति स्वतः ।। ३९४ ।।

श्रुते­र्वि­ल­य­ता­त्पर्ये फलमाकस्मिकं भवेत् ।।
फलार्था चेल्लये न स्यान्नोभयं वाक्यभेदतः ।। ३९५ ।।

प्रपञ्चविलयेनैव सर्वा­न­र्थ­प्र­हा­णतः ।।
पुरुषार्थस्य संसि­द्धे­र्विद्या नैष्फल्यमापतेत् ।। ३९६ ।।

अत ऐका­त्म्य­या­था­त्म्य­ज्ञा­ना­द­ज्ञा­न­हा­नतः ।।
सिद्धे पुमर्थे विलयकल्पना निष्प्रयोजना ।। ३९७ ।।

स्वका­र्यो­प­क्ष­या­देव विधीनां च परस्परम् ।।
कुत एका­धि­का­र­त्व­म­पे­क्षा­भा­वतो वद ।। ३९८ ।।

विधीनां चापि सर्वेषां निषेधवचसां तथा ।।
नामा­दि­ल­य­नि­ष्ठत्ये ह्यभ्यु­पे­तेऽ­प्र­मा­णके ।।
अऩि­मि­त्तोऽ­प­व­र्गोऽपि शास्रं चैवमनर्थकम् ।। ३९९ ।।

स्वर्गा­दि­का­र्य­मा­र्गेण मन्यसे यदि कर्मणाम् ।।
सोपा­न­प­ङ्लि­ग­त्येव हर्म्य­पृ­ष्ठा­धि­रो­ह­णम् ।।
आत्म­ज्ञा­ना­धि­का­रा­नु­प्र­वो­शित्वं भविष्यति ।। ४०० ।।

यथैव नग­रा­ध्व­स्थ­ग्रा­म­ग­त्यु­प­दे­श­नम् ।।
नगराध्वोपदेशस्य शेषत्वं प्रतिपद्यते ।।। ४०१ ।।

नाका­मि­त­त्वा­द्ग्रा­मा­दि­रा­ते­र्यु­क्तैव शेषता ।।
स्वर्गादेर्न तु शेषत्वं पुरु­षा­र्थ­त्व­हे­तुतः ।। ४०२ ।।

अथो­प­च्छ­न्द­ना­र्थानि स्वर्गादीनि विमुक्तये ।।
नगराप्तौ तद­ध्व­स्थ­ग्रा­मा­दि­गु­ण­गी­रिव ।। ४०३ ।।

नैवं मान्तरतः सिद्धे­र्नृ­वाक्ये तत्समञ्जसम् ।।
वेदे तु वक्त्र­भा­व­त्वा­द­भि­प्रा­या­द्य­सं­भवः ।। ४०४ ।।

यद्वा तत्रैव तात्पर्यं यत्रोपच्छन्द्य नीयते ।।
नगराप्तौ तु माभावात्प्रयतेत पुमान्कुतः ।। ४०५ ।।

यदाऽपि वस्तुवृत्तेन नग­रा­वा­प्ति­सा­ध­नम् ।।
ग्रामा­प्ति­र्न­ग­र­प्रा­प्ति­स्त­दाऽ­प्य­र्थान्न मानतः ।। ४०६ ।।

अर्थादपि न तात्पर्यं द्रव्या­र्ज­न­वि­धे­रिव ।।
शब्द­मा­त्रा­नु­सा­रेण वेदे तात्पर्यधीर्यतः ।। ४०७ ।।

स्वर्गादौ यदि तात्पर्यं न स्यादै­का­त्म्य­बो­धने ।।
मुक्तौ चेन्न भवेत्स्वर्गे वाक्यभेदान्न च द्वये ।। ४०८ ।।

न च स्वर्गा­दि­का­र्याणां प्रया­जा­र्थ­स­मा­नता ।।
अनुप्रवेशः कल्प्येत येन कार्यान्तरं प्रति ।। ४०९ ।।

वक्तव्यं च कथं त्वेते दृष्टे­नै­वो­प­का­रिणः ।।
आत्म­ज्ञा­ना­धि­का­रस्य यदि तावदिदं मतम् ।। ४१० ।।

रागा­द्या­क्षि­प्त­दृ­ष्टा­र्थ­प्र­वृ­त्ति­प्र­ति­षे­धतः ।।
अस्त्वेवं प्रतिषेधेषु निवृ­त्ते­रू­प­का­रतः ।। ४११ ।।

बिधयस्तु कथं रागं निरून्धन्तीति भण्यताम् ।।
न हि ते परिसंख्यार्था नापि चैते नियामकाः ।। ४१२ ।।

अत्य­न्ता­प्रा­प्त­मर्थं हि विधयो बोधयन्ति नः ।।
प्रप्तार्थो यो विधिः सोऽन्य­नि­वृ­त्ति­फल इष्यते ।। ४१३ ।।

सेवा­सां­ग्र­ह­णी­हा­व­त्तु­ल्य­का­र्य­तया न च ।।
यतोऽ­नि­य­त­का­ली­न­फला वैधी क्रियेष्यते ।। ४१४ ।।

अदृष्टार्था हि दृष्टार्था रागाद्युत्थाः प्रवृत्तयः ।।
ग्रामोपयेन सेवायाः सांग्र­ह­ण्याऽ­वि­रु­द्धता ।। ४१५ ।।

क्रियातः फलमित्येवं शास्त्रमेतावति प्रमा ।।
क्रमेण युगपद्वाऽतः सेवा­सां­ग्र­ह­णी­हयोः ।।
नानुष्ठाने विरोधोऽस्ति फलभूमार्थिनः क्वचित् ।। ४१६ ।।

रागा­द्यु­त्थ­प्र­वृ­त्तीनां कार्त्स्न्येन च विरोधतः ।।
नैयोगिक्योऽपि नैव स्युर्द्र­व्या­भा­वा­त्प्र­वृ्त्तयः ।। ४१७ ।।

दृष्टा­दृ­ष्ट­प्र­वृ­त्त्योश्च न विशेषोऽस्ति कश्चन ।।
उपायत्वेन काम्यानां रागा­द्या­क्षि­प्र­हे­तुतः ।। ४१८ ।।

प्रप­ञ्चा­भि­नि­वे­शि­त्व­हेतौ तुल्येऽपि चानयोः ।।
कं विशे­ष­म­पे­क्ष्यैका चेष्टा मुक्त्यनुरोधिनी ।। ४१९ ।।

कामोपायत्वमेवाथ नेष्टं यदि च कर्मणाम् ।।
उक्तो न्यायः प्रहीयेत फलं चाऽऽकस्मिकं भवेत् ।। ४२० ।।

सर्वकामाशनेनाथ कृत्स्र­का­म­ल­या­ध्वना ।।
यान्ति मुक्त्या­नु­गुण्यं चेद्विधयो वार्त्तमेव तत् ।। ४२१ ।।

यन्निमित्ता प्रवृत्तिः स्यात्सा कथं तन्निवर्तिका ।।
प्रवृत्तोऽपि निवर्तेत न कामोपायकर्मतः ।। ४२२ ।।

उद्विजेताथवा ज्ञाना­त्स­र्व­पुं­भो­ग­घ­स्म­रात् ।।
अपि वृन्दावने शून्य इति कामिवचस्तथा ।। ४२३ ।।

उक्तं यदपि वेदेऽ­स्मि­न्क­स्य­चि­द्वि­लयः क्वचित् ।।
तन्ना­त­त्प­र­त­स्तू­क्तेर्न देहादिलयस्ततः ।। ४२४ ।।

श्रुतेऽपि स्वर्गतात्पर्ये कल्पना चेल्लयेऽर्थतः ।।
तन्न प्रत्य­क्ष­व­च­ना­द्दे­हा­दि­ल­य­सि­द्धितः ।। ४२५ ।।

साक्षाद्धस्तिनि दृष्टेऽपि नहि हस्तिपदानुमा ।।
अस्थूलादिवचः साक्षा­द्दे­हा­दि­प्र­ति­षे­ध­कृत् ।। ४२६ ।।

विपर्ययेण येऽप्या­हु­र्य­थो­क्त­ज्ञा­न­क­र्मणोः ।।
एकाधिकारितां वाच्यं मानं तैर्ज्ञानसंगतौ ।। ४२७ ।।

न ताव­त्प्र­क्रि­ये­हास्ति व्रूह्या­दि­प्रो­क्षणे यथा ।।
प्रकृ­ता­पू­र्व­सं­ब­न्ध­ल­क्ष­णा­प­रतः स्थितेः ।। ४२८ ।।

व्रीहिशब्दस्य हि व्रीहिस्वरूपे तु निरर्थकम् ।।
प्रकृ­ता­पू­र्व­सं­बन्धं बोधयेदिति युज्यते ।। ४२९ ।।

नापि वाक्येन संबन्धो जुहू­प­र्ण­म­यी­त्व­वत् ।। ४३० ।।
जुह्वा­द्य­व्य­भि­चा­रि­त्व­क­र्म­सं­ग­ति­का­र­णात् ।।
विनाऽपि प्रक्रियां तेन कर्मो­प­स्था­प­ये­द्ध्रु­वम् ।। ४३१ ।।

वाक्ये­नै­वा­भि­सं­ब­न्ध­स्तत्र तस्येति वर्णितम् ।।
आत्मज्ञानं तु नैवं स्यान्न तत्प्रकरणे श्रुतम् ।। ४३२ ।।

नापि चाव्य­भि­चा­रि­त्व­मा­त्मनः कर्मणेक्ष्यते ।।
तेनास्य कर्मसंबन्धो न मानेनोपपद्यते ।। ४३३ ।।

एवं चाज्ञा­त­पा­रार्थ्ये नार्थवादः फलश्रुतिः।।
पृथ­गे­वा­धि­का­रोऽतो यथो­क्त­ज्ञा­न­क­र्मणोः ।। ४३४ ।।

अर्थाक्षेपोऽपि योग्यस्य कर्तु­र्भो­क्तुश्च युज्यते ।।
न तु विध्वस्तभेदस्य स्यादौपनिषदस्य सः ।। ४३५ ।।

प्रत्य­क्ष­वे­द­व­च­न­प्रा­मा­ण्या­द्या­श्र­य­त्वतः ।।
आदौ संन्या­स­सं­सि­द्धे­र्ऋ­णा­नीति ह्यपस्मृतिः ।। ४३६ ।।

न च केवलकर्मभ्यो मुक्ति­र्यु­क्त्यो­प­प­द्यते ।।
तथाच वक्ष्यते स्पष्टमतो मुक्तिर्न कर्मतः ।। ४३७ ।।

न चैका­त्म्य­प­रि­ज्ञा­न­म­भ्या­सा­पे­क्ष­मि­ष्यते ।।
मुक्तये भावनार्थं वा तथा चोर्ध्वं प्रवक्ष्यते ।। ४३८ ।।

स्वतोऽनुभवतः सिद्धे­रै­का­त्म्या­ख्यस्य वस्तुनः।।
न स्यात्सांपादिकं ज्ञान­मि­त्ये­त­च्चापि वक्ष्यते ।। ४३९ ।।

अन्य आहुः पदा­र्थ­त्वा­त्प्र­मा­णा­न्त­र­ग­म्य­ताम् ।।
आत्मनो नाऽऽग­मा­त्सि­द्धि­र्व्री­ह्या­द्य­न्य­प­दा­र्थ­वत् ।। ४४० ।।

अऩ्व­य­व्य­ति­रे­काभ्यां जाग्र­त्स्व­प्न­सु­षु­प्तितः ।।
विविच्यातः स्वमात्मानं प्रत्य­भि­ज्ञा­न­स­स्तथा ।।
माव्या­पा­र­स­मा­प्त­त्वान्न भूयस्तदपेक्षिता ।। ४४१ ।।

तद्वा­स­ना­नि­रो­धेऽतः पुमाञ्श्रुत्या नियुज्यते ।। ४४२ ।।
मनसो वा निरोधेऽसौ न तु वस्त्ववबोधने ।।
मानान्तरेण तत्सि­द्धे­र्नात्र व्याप्रियते वचः ।। ४४३ ।।

स्वयं­ज्यो­तिः­स्व­भा­व­त्वा­न्नि­रू­द्ध­स्वा­न्त­वा­सनः ।।
प्रमा­न्त­रा­न­पे­क्षोऽपि स्वयमात्मा प्रकाशते ।। ४४४ ।।

एवं कार्यमुखेनैव ज्योति­ष्टो­मा­दि­वा­क्य­वत् ।।
वेदान्तानां प्रमाणत्वं, नाक्ष­व­द्व­स्तु­नी­ष्यते ।। ४४५ ।।

वास­ना­मा­त्र­हे­तु­त्वा­दा­त्म­नोऽ­न­र्थ­सं­गतेः।।
अन्योपाये सत्यसति निरोधादेव मुक्तता ।। ४४६ ।।

संभाव्यं नानपेक्षत्वं नियो­ग­वि­र­हा­त्क­चित् ।।
शब्दप्रवृत्तेः सिद्धे च न नियोगस्य संभवः ।। ४४७ ।।

न च वस्तुनि मानत्व उदाहरणमिष्यते ।।
विध­र्गु­णा­र्थ­स्त­स्यापि व्यापा­र­वि­ष­य­त्वतः ।। ४४८ ।।

किंचा­नु­भू­य­मा­नस्य ह्यर्थस्य पुरुषार्थता ।।
सर्वत्र गम्यते वेदे नानुभूतेः कथंचन ।। ४४९ ।।

ततश्च प्रतिभामात्रं शब्दादिति न मानतः।।
प्रतीयमान एवातः पुरुषार्थः प्रसिद्धितः ।। ४५० ।।

अप्युपादीयमानं च सिद्धं वस्तु न कर्मणि ।।
पुमर्थं साध­य­ट्ट्ट­ष्ट­म­नि­र्ज्ञा­ता­ङ्ग­भा­व­कम् ।। ४५१ ।।

अनुपादीयमानश्च न च ज्ञाता­ङ्ग­भा­वकः।।
आत्मा चेन्नास्य शेषत्वं विधिं प्रत्युपपद्यते ।। ४५२ ।।

उपासीत स्वमात्मानमिति साक्षा­द्व­चः­श्र­वात् ।।
तत्राङ्गभाव इति चेन्मत्पन्थानं भवानितः ।। ४५३ ।।

क्रिया­वि­धि­प­र­त्वेन प्रामाण्यं वचसः स्थितम् ।।
इति व्याचक्षते केचि­न्नि­यो­गा­र्थौ­क­रा­गिणः ।। ४५४ ।।

नैत­त्सा­ध्व­भ्य­धा­य्यु­च्चै­र्नि­यो­ग­वि­र­हा­दपि ।।
कामितार्थस्य संसि­द्धे­र्लौ­कि­का­देव मानतः ।। ४५५ ।।

तद्भावभावतो लिङ्गा­द्वा­स­नै­क­स­मा­श्र­यात् ।।
ज्ञातोऽनर्थेन संबन्ध आत्मनो न तु वास्तवः ।। ४५६ ।।

तस्मा­त्सं­सा­र­सं­ब­न्ध­नि­दा­नस्य प्रसिद्धितः ।।
लिङ्गादेव ततस्तस्य ध्वंसेऽनर्थो निवर्तते ।। ४५७ ।।

अन्तरेणापि वचनं बौद्धादेरिव सिद्धितः ।।
मोक्षस्य पुरुषार्थस्य वचोऽतो निष्फलं भवेत् ।। ४५८।।

व्यती­ता­ने­क­ज­न्मो­त्थ­वा­स­ना­ना­म­न­न्ततः।।
तासां निरोधोऽसंभाव्यो जन्मन्येकत्र मानवै ।। ४५९ ।।

साक्षा­दा­त्मा­व­बो­धेन प्रत्य­ग्ध्वा­न्त­च्छिदा न चेत् ।।
दुःखादिभावना ध्वस्ता कथं तद्भावना नुदेत् ।। ४६० ।।

नियोगवर्त्मना चेयं यथा मुक्तिर्न सिध्यति ।।
स्पष्टेन न्यायमार्गेण वक्ष्यामोऽवसरे तथा ।। ४६१ ।।

न पदार्थो न वाक्यार्थ आत्माऽयं वस्तुतो यतः ।।
तत्प्र­त्या­ख्या­न­श्रु­त्यैव तद्या­था­त्म्या­व­बो­ध­नात् ।। ४६२ ।।

वासनानामभावेऽपि सुषुप्त्यादौ न मुक्तता ।।
मान­व्या­पा­र­वि­र­हा­त्प्र­थनं वा दृगात्मनः ।। ४६३ ।।

सर्वा­न­र्था­भि­सं­बन्धे ह्यविद्यैवास्य कारणम् ।।
वासनानामपि युतौ सैव यस्मादपेक्ष्यते ।। ४६४ ।।

संभा­व्य­तेऽ­न­पे­क्षत्वं नियोगविरहादपि ।।
यथा तथा च वक्ष्यामः स्पष्टेन न्यायवर्त्मना ।। ४६५ ।।

स्वानु­भू­ति­ब­ला­देव भवताऽपि विभाव्यते ।।
नियोगादिः प्रमाणार्थो नानु­भू­ति­र्नि­यो­गतः ।। ४६६ ।।

यस्या­प्र­सि­द्धि­र्ना­ज्ञा­ना­त्प्र­सि­द्धि­र्नापि मानतः।।
तस्या­नु­भ­व­त­त्त्वस्य कुतः सापेक्षतोच्यते ।। ४६७ ।।

स्वप्र­धा­ना­त्म­बु­द्ध्यैव तदन्यस्य प्रसिद्धितः ।।
कार्य­बु­द्धि­व्य­पे­क्षातो नानु­भू­त्या­त्म­व­स्तुनः ।। ४६८ ।।

क्व नु प्रतीयमानस्य पुमर्थत्वं समीक्षितम् ।।
माना­न्मा­न­फ­ल­स्यैव पुम­र्थ­त्व­स­म­न्व­यात् ।। ४६९ ।।

प्रती­ते­र्मा­फ­ल­त्वाच्च कथं मेयैकनिष्ठता ।।
माक्रि­या­फ­ल­यो­गोऽयं यतो मातरि भोक्तरि ।। ४७० ।।

न चाऽऽत्मा­नु­भा­व­दन्यो विषयः किश्चिदिष्यते ।।
अपि सर्वप्रमाणानां, किमु वेदान्तशासने ।। ४७१ ।।

लौकिको वैदिकः सर्वो व्यवहारो जगत्यपि ।।
भोक्त्रर्थ एऴ नान्योऽतः प्रधानं भोक्तुरिष्यते ।। ४७२ ।।

न वा अरे पत्युरिति तदेतत्प्रेय इत्यपि ।।
निखिलेऽपि जग­त्य­स्मि­न्प्र­धानं नाऽऽत्मनोऽपरः ।। ४७३ ।।

न प्रमाता प्रमाणं वा क्रियामेयफलानि वा।।
प्राधान्यायेन कल्पन्ते भोक्तुरेव प्रधानतः ।। ४७४ ।।

आत्मनः कर्त्रवस्थाऽपि भोक्त्रर्थमिति निश्चयः ।।
यतोऽ­तोऽ­प­र­म­प्ये­त­द्भो­क्त्रर्थं विनियुज्यते ।। ४७५ ।।

नापि चाऽऽत्मातिरेकेण वस्त्व­न्य­न्मा­न­भू­भि­गम् ।।
संभाव्यते यथा चैतत्तथोदर्के प्रवक्ष्यते ।। ४७६ ।।

अनादृत्य यथोक्तार्थं नियो­गा­र्थै­क­रा­गतः ।।
केचि­त्का­र्यै­क­नि­ष्ठत्वं वेदान्तानां प्रचक्षते ।। ४७७ ।।

कार्यै­क­मा­त्र­नि­ष्ठ­त्वा­त्प्र­मा­ण­स्याऽऽ­ग­मा­त्मनः ।।
कुत ऐका­त्म्य­नि­ष्ठत्वं त्वया यदुदितं पुरा ।। ४७८ ।।

नहि तस्यानपेक्षत्वं सिद्ध­व­स्त्व­बो­ध­नात् ।।
यतो मानान्तरमितं सिद्धं वस्त्विति भण्यते ।। ४७९ ।।

शब्द­सा­म­र्थ्य­नि­यमो लोकादेवावगम्यते ।।
लोके मान्त­र­सि­द्धोऽर्थः कार्या­यै­वा­भि­धी­यते ।। ४८० ।।

न प्रवृ­त्ति­नि­वृ­त्तिभ्यां शून्यस्य वचसो यतः ।।
कश्चिदर्थोऽत्र दृष्टोऽतो वस्तुनि स्यान्न मानता ।। ४८१ ।।

संबन्धावगमो नापि शब्दा­द्भू­ता­र्थ­वा­चिनः ।।
प्रव­र्त­का­त्प्र­वृ­त्त्याऽर्थे प्रत्ययो ह्यनुमीयते ।। ४८२ ।।

ततः शब्दस्य सामर्थ्यं प्रती­ते­र­व­धा­र्यते ।।
कार्यै­क­वि­ष­यै­वेयं वाक्यस्यातः प्रमाणतः ।। ४८३ ।।

क्रिया­का­र­क­सं­बन्धो वाक्यार्थो यैरपीष्यते ।।
अनु­वा­द­वि­सं­वा­दा­त्ते­षा­मु­क्ते­र­मा­नता ।। ४८४ ।।

मान्त­रा­नु­प्र­वे­शित्वं कार्यस्य तु न शङ्क्यते ।।
शब्दादेव हि कार्या­र्थ­प्र­ति­प­त्तिर्न लोकतः ।। ४८५ ।।

प्रवर्तनां वदञ्शब्दः प्रवर्तनां वदञ्शब्दः प्रवर्तक इतीर्यते ।।
ज्ञाप­क­त्वा­त्प्र­मा­णस्य प्रेरयन्कारको भवेत् ।। ४८६ ।।

शब्दा­त्प्र­व­र्त­ना­बुद्धौ रागादिर्न च शङ्क्यते ।।
रागादिः प्रेरणाकारी प्रेरणाज्ञापको ध्वनिः ।। ४८७ ।।

आज्ञा­पि­ता­र्थ­नि­ष्पत्तौ कृति­म­त्त्वे­क्ष­णा­त्प्रभोः ।।
रागाद्यर्थस्य चासिद्धौ कर्तृवृत्तिर्न रागतः ।। ४८८ ।।

स्वामि­को­प­प्र­सा­दा­दि­हृ­द­या­कू­त­वे­द­नात् ।।
नापि श्रोतुः प्रवृत्तिः स्याच्छ­ब्दा­त्को­पा­द्य­वे­द­नात् ।। ४८९ ।।

लिङादयो न कोपादेः स्मर्यन्ते प्रतिपादकाः ।।
मानान्तरमिताः सन्तस्ते हि पुंसां प्रवर्तकाः ।। ४९० ।।

धिग­ङ्गा­द्य­भि­धा­नैस्तु लिङ्ग­भू­तै­रि­हे­ङ्गिताः ।।
रागादयो नियोगस्य सिद्ध्यै विषयसाधनाः ।। ४९१ ।।

अत एव च रागा­दि­सं­सृ­ष्टोऽपि विविच्यते ।।
लोडाद्यर्थो व्रजेत्युक्तो याति स्वर्थं विना यतः ।। ४९२ ।।

ननु दाना­दि­सं­ब­द्ध­म­हा­वा­क्या­नु­मा­नतः ।।
गच्छे­त्या­द्ये­क­दे­शोक्तौ लोभादेव प्रवर्तते ।। ४९३ ।।

महा­वा­क्य­प्र­यो­गेऽपि पदा­र्थ­प्र­वि­वे­चने ।।
पुंस्प्र­वृ­त्तिस्तु दृष्टेयं लोडादेरेव नान्यतः ।। ४९४ ।।

लोडादेरेव श्रवणाद्यत्र रागाद्यसंभवः ।।
बालः प्रवर्तते तत्र ज्ञायते प्रेरणार्थता ।। ४९५ ।।

आह मानान्तरेणासौ किल नार्थोऽवगम्यते ।।
शब्दाच्च ज्ञाय­तेऽ­ज्ञा­त­सं­ब­न्धा­दिति चित्रता ।। ४९६ ।।

यद्य­नि­र्ज्ञा­त­सं­ब­न्धोऽ­प्यर्थं शब्दः प्रबोधयेत् ।।
को द्वेषोऽस्मासु भवतो येनोपालम्भ ईर्यते ।। ४९७ ।।

यदाऽवगम्यते नान्य­त्प्र­वृत्तेः कारणान्तरम् ।।
शब्दश्च गम्यते स्पष्ट­स्त­दाऽर्थः प्रविविच्यते ।। ४९८ ।।

अन्वयव्यतिरेकौ तु वाक्या­र्थ­ज्ञा­न­पू­र्वकौ ।।
वाक्यार्थस्तु तदायत्तो नेत्यन्येभ्यो विशिष्टता ।। ४९९ ।।

कर्त­व्य­ता­वि­व­क्षैव नृवाक्येभ्योऽपि गम्यते ।।
विवक्षाया न कार्यत्वं शब्दार्थविषया हि सा ।। ५०० ।।

तद्वशान्न तु शब्दार्थः स हि पूर्वं प्रतीयते ।।
अतः प्रैषा­दि­सं­सृ­ष्टोऽ­प्यर्थः सिद्धो विवेकतः ।। ५०१ ।।

शब्दार्थोपाधयो ह्येते पुरुषाशयपातिनः ।।
प्रैषादयो न शब्दार्था न चानेकार्थता मता ।। ५०२ ।।

अभि­प्रा­य­व­तोऽ­भा­वा­द­भि­प्रा­या­नु­पा­तिनः ।।
शङ्क्यतेऽपि न वेदे तु कार्यं वाच्यमिति स्थितम् ।। ५०३ ।।

प्रयो­ग­वि­धि­शे­ष­त्वा­त्त­न्मूला एव नाऽऽशयात् ।।
वेदे प्रैषास्तु ये दृष्टा अग्नी­द­ग्नी­नि­ती­दृशाः ।। ५०४ ।।

प्रैषादिभ्यो यथैवेयं भिन्ना कर्त­व्य­ते­क्ष्यते ।।
शब्द­श­क्ति­व­शा­त्त­द्व­त्क्रि­या­दे­रपि वीक्ष्यताम् ।। ५०५ ।।

नानि­ष्प­न्न­स्व­भा­वोऽपि भावः कर्तव्यता यतः ।।
लडा­दि­श्र­व­णा­त्तस्या अप्र­ती­ति­र्लि­ङा­दि­वत् ।। ५०६ ।।

ननु कालोपबन्धोऽत्र कार्य­बु­द्धि­वि­घा­त­कृत् ।।
नैतत्संदेह एवात्र विवेकाभावतस्तव ।। ५०७ ।।

कालोपबन्धः किंत्वत्र कार्य­बु­द्धि­वि­घा­त­कृत् ।।
किं भावात्कार्यता भिन्ना लडादिर्यां न भाषते ।। ५०८ ।।

कर्तव्यः कट इत्या­दा­व­व्या­पा­रेऽपि कार्यता ।।
वीक्ष्यतेऽतः पृथ­ग्भा­वा­त्फ­लाच्च प्राक्प्रतीतितः ।। ५०९ ।।

ननु कर्मणि कृत्योऽयं तयोरेवेति शासनात् ।।
मैवं प्रैषा­दि­व­द्य­स्मा­दु­पा­धि­त्वा­द­वा­च्यता ।। ५१० ।।

प्रैषादिष्वपि कृत्यानां तथाच स्मरणं मुनेः ।।
कृत्यानां युक्तितोऽपि स्यान्नैव कर्माभिधायिता ।। ५११ ।।

यथा कटं करोतीति कर्म­मा­त्रा­व­बो­ध­नम् ।।
कर्तव्यः कट इत्यत्र तथैव स्यान्न चेक्ष्यते ।। ५१२ ।।

कर्त­व्य­त्वा­द­भी­ष्ट­त्व­सिद्धौ कर्मार्थलाभतः ।।
साक्षा­द­न­भि­धा­नेऽपि न द्वितीया प्रसज्यते ।। ५१३ ।।

न चाभी­ष्ट­त्व­का­र्य­त्व­म­भिन्नं व्यतिरेकतः ।।
इच्छे­दे­ष्ट­व्य­मि­त्येवं तत्रापि प्रत्ययो यतः ।। ५१४ ।।

तस्मा­त्क­र्त­व्य­ता­वे­शा­त्क्रिया वा यदि वा फलम् ।।
कारकं वाऽपि कार्यत्वं लभते न स्वतन्त्रतः ।। ५१५ ।।

लोकवन्ननु वेदेऽपि कार्यमात्रं न गम्यते ।।
साध­ने­हा­नु­ब­न्धस्य वेदे कार्यस्य बोधनात् ।। ५१६ ।।

तत­श्चोऽऽ­रो­ग्य­का­मस्य पथ्य­भो­ज­न­वा­क्य­वत् ।।
माना­न्त­र­प्र­वे­शेन सापेक्षत्वं प्रसज्यते ।। ५१७ ।।

अतः प्रैषा­दि­तु­ल्योऽयं क्रिया­फ­ल­नि­व­न्धनः ।।
नियो­ग­स्त­द­सं­वा­दा­च्चि­त्रादौ ते विहन्यते ।। ५१८ ।।

मैवं माना­न्त­रा­वे­शा­ल्लोके प्रैषा­द्यु­पा­धि­कम् ।।
कार्यं प्रयोजनार्था च प्रवृत्तिरिति युज्यते ।। ५१९ ।।

साध्य­सा­ध­न­सं­ब­न्ध­वि­ष­यत्वं पुमर्थतः ।।
नियोगस्यात एवात्र कर्तृत्वेन नियुज्यते ।। ५२० ।।

स्वत एव प्रवृ­त्त­त्वा­त्क­र्तु­रे­वा­धि­का­रिता ।।
पदं चाऽऽरोग्यकामादि भवे­त्क­र्तृ­वि­शे­ष­णम् ।। ५२१ ।।

वेदे तु सक­ला­क्षा­दि­प्र­मा­णा­गो­च­र­त्वतः ।।
साध्य­सा­ध­न­ता­ज्ञानं नियोगादेव नान्यतः ।। ५२२ ।।

तथा ह्यकारकः कामी स्वर्ग­का­म­प­दा­र्पितः।।
नियो­गा­त्क­र्म­सं­बन्धे पश्चाद्यातीह कर्तृताम् ।। ५२३ ।।

कामस्य च प्रधा­न­त्वा­त्त­त्प्रा­धा­न्या­न­पा­यतः ।।
पुंविशेषणता तस्माद्भोगी कामी न कारकः ।। ५२४ ।।

अप्र­वृ­त्त­प्र­वृ­त्तेश्च कारकत्वं न युज्यते ।।
प्रवृत्तस्य णिचोक्तिः स्यात्पचन्तं पाचयेद्यथा ।। ५२५ ।।

अक्रि­या­क­र्तृ­सं­बन्धे ननु षष्ठी प्रसज्जते ।।
नैवं नाम्नोः सदा योगे षष्ठीयं शैषिकी यतः ।। ५२६ ।।

क्रियाकारकयोगे च द्विती­या­दि­र्ल­डादि तु ।।
स्यात्प्रा­ति­प­दि­का­र्थस्य भावा­र्थे­ने­त्य­सं­करः ।। ५२७ ।।

नीलोन्पले तु नामार्थावपहाय परस्परम् ।।
भेदमेकात्मतां याताविति षष्ठी न संमता ।। ५२८ ।।

लिङर्थे युज्यमानस्य कर्मत्वं न च कामिनः ।।
अक्रि­या­त्वा­न्नि­यो­गस्य द्वितीया चेद्भवेत्तथा ।। ५२९ ।।

तस्मादकारकः कामी स्वनि­यो­ग­प्र­सि­द्धये ।।
नियुज्यमान एवेह विषयं साध्यमीक्षते ।। ५३० ।।

राजादिषु प्रसिद्धश्च नियोगः साध्यगोचरः ।।
भावार्थस्य च साध्यत्वमिति तेनापि युज्यते ।। ५३१ ।।

अवि­व­क्षि­त­म­प्येवं लिङ्गसंख्यं विवक्ष्यते ।।
पश्चा­द्वि­ष­या­सि­द्ध्यर्थं कारकादि च यच्छ्रुतम् ।। ५३२ ।।

ततश्च स्वर्गकामो यः स्वनियोगं स साधयेत् ।।
केन यागा­दि­नि­र्वृ­त्त्ये­त्ये­त­च्छा­स्रा­त्प्र­ती­यते ।। ५३३ ।।

न चानपनयन्यागः कामिनः स्वर्गकामिताम् ।।
साधनं स्वाधिकारस्य भवतीह कथंचन ।। ५३४ ।।

अनुन्मृदितकामो हि पूर्वा­व­स्था­वि­शे­षतः ।।
निष्पा­दि­ता­धि­का­रोऽपि नियोगार्हः पुनर्भवेत् ।। ५३५ ।।

अधिकारः स्वसि­द्ध्य­र्थ­मतः कामस्य साध्यताम् ।।
यागेनाऽऽपाद्य संसि­ध्य­न्वि­ष­य­स्यैति साध्यताम् ।। ५३६ ।।

नानन्तरफलाभावे विसंवादोऽत्र शङ्क्यते ।।
क्रियासाध्ये फले स स्याल्लि­ङ­र्थ­स्त्व­क्रि­या­त्मकः ।। ५३७ ।।

प्रत्यर्थिनि च शब्देऽ­स्मि­न्ना­भा­वोऽ­नु­प­ल­ब्धितः ।।
मानाभावे ह्यसौ मानमानन्तर्यं त्वचोदितम् ।। ५३८ ।।

अतः कृताधिकारोऽपि यो विद्या­द­कृ­ता­र्थ­ताम् ।।
तस्य शास्त्रा­न­भि­ज्ञ­त्वा­न्ना­धि­का­रोऽत्र वैदिके ।। ५३९ ।।

मत्रा­र्थ­वा­द­नाम्नां च कार्या­र्था­नु­प्र­वे­शतः ।।
प्रामाण्यं न स्वत­स्त­स्मा­त्कार्ये वेदस्य मानता ।। ५४० ।।

वेदान्तानामतो वाच्यं कार्या­र्था­नु­प्र­वे­श­नम् ।।
प्रामाण्यं वा निषेद्धव्यमत्र प्रतिविधीयते ।। ५४१ ।।

निःशे­ष­मा­तृ­त­द्वृ­त्ति­ज­न्मनां तद्विलक्षण-
स्वतः­सि­द्धा­त्म­सं­बो­ध­व्या­प्ति­र्व­स्त्व­नु­रो­धतः ।। ५४२ ।।

विय­द्व­स्तु्स्व­भा­वा­नु­रो­धा­देव न कारकात् ।।
विय­त्सं­पू­र्ण­तो­त्पत्तौ कुम्भस्येव दृशा धियाम् ।। ५४३ ।।

घट­दुः­खा­दि­रू­पत्वं धियां धर्मादिहेतुतः ।।
निर्हे­तु­त्वा­त्म­सं­बो­ध­रू­पित्वं वस्तुरूपतः ।। ५४४ ।।

बुद्धि­त­द्वृ­त्ति­भा­वोऽ­य­म­भा­व­श्चा­प्य­न­न्य­मात् ।।
यतः सिद्धायते सोऽर्थो ज्ञेयः सिद्धः स्वतः सदा ।। ५४५ ।।

ननु प्रमा­ण­वि­र­हा­त्स्व­तः­सिद्धो यदीष्यते ।।
वचसो बुद्ध­बो­धि­त्वा­द­प्र­माण्यं प्रसज्यते ।। ५४६ ।।

मैव­म­प्र­ति­प­न्न­त्वा­द­नु­भू­त्यैव वस्तुनः ।।
तद्द्व­यु­त्पत्तेः पुरा साक्षाद्बोधो व्युत्प­त्ति­मा­त्रतः ।। ५४७ ।।

बोधाबोधौ यतो दृष्टौ स्वानु­भू­त्य­नु­सा­रतः ।।
दृष्टे चानुपपन्नत्वं किंबलादभिधीयते ।। ५४८ ।।

सुषुप्तादेश्च संसि­द्धि­र्मा­त्रा­दि­वि­र­हेऽपि या ।।
साऽपी­हा­न्त­र­सं­बु­द्ध­मे­य­मा­त्र­व्य­पा­श्र­यात् ।। ५४९ ।।

न चाभा­व­प्र­मा­णात्सा सति मातर्यभावमा ।।
मात्रा­द्य­भा­व­सं­सिद्धिः कथं मात्रा­दि­पू­र्विका ।। ५५० ।।

यमप्रमीयमाणानि नानात्मानं प्रमिण्वते ।।
वस्तु­वृ­त्ता­नु­रो­धेन कथं तत्राप्रमा वचः ।। ५५१ ।।

अमीमांसक इत्यु­च्चै­र­मी­मां­सक इत्यतः ।।
आक्षिपन्ति यद­ज्ञा­ना­त्त­च्छान्त्या उत्तरं वचः ।। ५५२ ।।

सर्वोऽपि वेद इत्यादि यथो­क्त­प­रि­हा­र­कृत् ।।
गुरुराह वचः स्पष्टं दृढ­न्या­यो­प­बृं­हि­तम् ।। ५५३ ।।

मान­स्व­भा­व­मा­श्रित्य सर्वोऽ­पी­त्या­द्यु­दी­र­णम् ।।
काण्ड­द्व­य­स­माख्या हि तत्प्र­मे­या­नु­रो­धतः ।। ५५४ ।।

मानं हि व्य़ञ्जकं लोके सिद्धे तच्च स्वकारणात् ।।
स्वतः सिद्धेऽथ वा नित्यं मेयमात्रं विशिष्यते ।। ५५५ ।।

अतः सर्वोऽपि वेदोऽयं प्रमा­ण­त्वै­क­हे­तुतः ।।
प्रकाशनपरो ज्ञेयः सिद्ध­सा­ध्या­त्म­व­स्तुनः ।। ५५६ ।।

एकवाक्यत्वतो यद्वा सर्वोऽपीत्यादि भण्यते ।।
पुरु­षा­र्था­व­सा­यि­त्वा­द्वे­दा­धी­ति­वि­धे­रिति ।। ५५७ ।।

निःशे­ष­सु­ख­सं­प्राप्तेः सर्वा­न­र्थ­इ­नु­ते­स्तथा ।।
मुक्ते­र­र्वा­क्पु­म­र्थोऽन्यो नेह कश्चि­त्स­मी­क्ष्यते ।। ५५८ ।।

असिद्धार्थस्य वा सिद्धि­र­नु­भू­त्ये­क­मा­त्रतः ।।
सर्वोऽपीति वचः सिद्धिः सर्वा ह्यात्मैकसंविदः ।। ५५९ ।।

यद्वाऽ­न­व­ग­तोऽ­तोन्यः संभाव्यो नाऽऽत्मनस्ततः ।।
सर्वोऽपीति वचः प्राह तथा चोर्ध्वं प्रवक्ष्यते ।। ५६० ।।

यद्धेतुकं प्रमाणत्वं वेदान्तानां समर्थ्यते ।।
तेनैव हेतुना कर्मकाण्डस्यापि प्रमाणता ।। ५६१ ।।

वेदा­न्ता­ना­म­मा­नत्वं येन वा हेतुनोच्यते ।।
तेनैव हेतुना कर्मकाण्डस्यापि प्रसज्यते ।। ५६२ ।।

अपि सर्वप्रमाणानि स्वप्र­मे­या­भि­सं­गतेः ।।
प्रमामेवेह कुर्वन्ति प्रामाण्यं यान्ति नान्यथा ।। ५६३।।

विधि­नै­वै­क­वा­क्यत्वं यतो मत्रार्थवादयोः ।।
ततो दर्शननिष्ठत्वं न तयोरुपपद्यते ।। ५६४ ।।

अर्थवादोक्तितो याऽपि प्रति­ष्ठा­का­मि­क­ल्पना ।।
विध्य­र्थ­सं­ग­ता­वेव साऽपि नैव ततोऽन्यतः ।। ५६५ ।।

विध्य­र्थ­शे­ष­भा­वश्च तत­श्चा­र्था­न्त­रो­क्तिता ।।
ऐका­र्थ्या­द्व­च­सोऽ­शक्या विरु­द्ध­द्व्य­र्थ­क­ल्पना ।। ५६६ ।।

विरोधे गुणवादः स्याद­नु­वा­दोऽ­व­धा­रिते ।।
भूता­र्थ­वा­द­स्त­द्धा­ना­द­र्थ­वा­द­स्रिधा मतः ।। ५६७ ।।

विधिशेषोऽपि यद्यर्थमर्थवादः समर्पयेत् ।।
अद्वै­त­वि­धि­नाऽऽ­क्षिप्ता वेदान्ता नेति का मितिः ।। ५६८ ।।

प्रत्य­क्षा­द्य­भि­धा­नेन सर्व­मा­नो­प­ल­क्ष­णम् ।।
मान्तरं नाऽऽग­मा­द­न्य­द्य­दै­का­त्म्या­व­बो­ध­कृत् ।। ५६९ ।।

सिद्धेऽनवगते यस्मा­त्पु­र­स्ता­द्व्या­पृ­ति­र्मितेः ।।
माना­द­ज्ञा­त­ता­सिद्धौ स्याद­न्यो­न्य­स­मा­श्रयः ।। ५७० ।।

तत्त्व­म­स्या­दि­क्यस्य विरोधोऽतो न केनचित् ।।
सर्वा­श्र­य­त्वा­त्सं­वि­त्ते­स्त­थाऽऽ­त्म­न्य­प्र­वृ­त्तितः ।। ५७१ ।।

कृत्स्रे­ष्टा­र्थस्य संप्राप्तिः कृत्स्रा­न­र्थ­इ­नु­ति­स्तथा ।।
आत्म­स्व­रू­पा­न्ना­न्यत्र संभाव्या सा हि मानतः ।।। ५७२ ।।

इत्ये­व­मा­दि­भा­ष्यार्थः क्रमे­णै­का­त्म्य­व­स्तुनि ।।
यत्नेन वक्ष्यते न्याया­त्पू­र्व­प­क्ष­नि­रा­सतः ।। ५७३ ।।

वेदान्तवचसां स्वार्थे प्रामाण्यं न विहन्यते ।।
मान­ल­क्ष­ण­स­द्भा­वा­ज्ज्यो­ति­ष्टो­मा­दि­वा­क्य­वत् ।। ५७४ ।।

नैव कार्यैकनिष्ठानि व्यवहारे वचांसि हि ।।
नियमेन प्रयुज्यन्त इत्यत्र मितिरस्ति ते ।। ५७५ ।।

दिष्ट्या त्वं वर्धसे भद्र जातः पुत्र­स्त­व­र्धि­मान् ।।
इति नेदं प्रवृत्त्यर्थं वचो नापि निवृत्तये ।। ५७६ ।।

सुखा­द्यु­त्प­त्ति­हे­तूनि दृश्य­न्तेऽ­का­र्य­व­न्त्यपि ।।
वचनानि व्रज ग्राममित्यादिनि यथा तथा ।। ५७७ ।।

सुख्येधीति न चानेन प्रवृ­त्ति­रु­प­दि­श्यते ।।
सुखी­भ­व­न­म­स्या­र्था­न्नो­प­दे­श­व्य­पे­क्षया ।। ५७८ ।।

विशेषोऽस्ति प्रवृ­त्ते­श्चे­त्ता­त्पर्यं वचसोऽपि च ।।
नैवं सुखा­दि­सं­भू­ता­व­र्थ­व­त्त्वो­प­प­त्तितः ।। ५७९ ।।

आनर्थक्यभयादेव श्रुतादन्यत्र कल्प्यते ।।
तात्पर्यं प्रोक्ष­णा­द्यु­क्तेर्न स्वत­त्रेऽ­धि­का­र­वत् ।। ५८० ।।

किंचो­पा­येऽ­प्र­वृत्तः सन्पुरुषोऽयं प्रवर्त्यते ।।
ज्ञातोपायत्वतो यद्वा विधि­नो­पे­य­सि­द्धये ।। ५८१ ।।

तत्रेह तावन्नोपाये पुत्र­ज­न्मा­दि­ल­क्षणे ।।
तस्य निष्प­न्न­रू­प­त्वा­न्ना­प्यु­पेये सुखे तथा ।। ५८२ ।।

न व्यापारान्तरं यस्मात्सुखार्थं किंचिदीक्ष्यते ।।
पुत्र­ज­न्मो­क्ति­मा­त्रेण पुरु­षा­र्था­व­सा­नतः ।। ५८३ ।।

किं चाध्य­स्ता­हि­दृ­ष्टस्य तद्वि­प­व्या­प्त­चे­तसः ।।
स्रगियं न फणीत्युक्ते दृष्टा विषनिराक्रिया ।। ५८४ ।।

मा भैषीरिति चोक्तेऽपि न नियोगः प्रतीयते ।।
स्रगुक्तेरेव निःशे­ष­सा­ध्व­स­ध्वं­स­ला­भतः ।। ५८५ ।।

न्याय्यो नियोगस्तत्रैव यत्र बुद्धाऽस्य कार्यताम् ।।
अनन्तंर प्रवृ्त्तिः स्याद्विषये तस्य सिद्धये ।। ५८६ ।।

इह त्वैका­त्म्य­वा­क्येषु तत्त्व­मा­त्रा­व­बो­धतः ।।
सद्यः पुमर्थसंसिद्धेः कार्यसिद्धिर्न वीक्ष्यते ।। ५८७ ।।

कुतूहलवतां तद्व­न्नि­र्वृ­त्ता­ख्या­न­मा­त्रतः ।।
दृष्टा नराणां निःशे­ष­कु­तू­ह­ल­नि­रा­क्रिया ।। ५८८ ।।

वस्तु­मा­त्रा­व­सा­यि­त्वा­त्त­द्व­चांसि न कनिचित् ।।
उपादानाय वाऽलं स्युर्नापि हानाय तद्विदः ।। ५८९ ।।

यत्रापि च प्रतीयेते हानादाने वचःश्रवात ।।
अयं चोराकुलः पन्था देशोऽयं निधिमानिति ।। ५९० ।।

तत्रापि नैव शब्दस्य व्यापारः सिद्धवेदनात् ।।
कृता­र्थ­त्वा­न्न­र­स्यापि रागादेव प्रवृत्तितः ।। ५९१ ।।

कामैकपाशाकृष्टः सन्निच्छयैव प्रवर्तते ।।
निवर्तते च तद्दूेषान्न शब्द­व्या­पृ­ते­र्नरः ।। ५९२ ।।

नन्व­प्र­यु­क्त­म­प्ये­त­द्वक्त्रा वाक्यं विवक्षितम् ।।
न गन्तव्यं पथाऽनेन, गृहाणेमं निधिं तथा ।। ५९३ ।।

मैवं, न वक्त्र­भि­प्रा­या­च्छ­ब्दा­र्थत्वं प्रकल्पते ।।
शब्दसामर्थ्यतो यस्मा­त्ता­दर्थ्यं, नान्यहेतुकम् ।। ५९४ ।।

भवद्भिरपि चैवैतदभ्युपेयं प्रयत्नतः ।।
वक्तृतत्रे हि शब्दार्थे न विश्वासः श्रुतेर्भवेत् ।। ५९५ ।।

नाना­वि­ध­पु­म­र्था­प्ति­रपि वक्तुः समीहिता ।।
तस्या अपि त्वदुक्त्यैवं शब्दार्थत्वं प्रसज्यते ।। ५९६ ।।

प्रवृत्तिं वा निवृत्तिं वा यदाऽभिप्रेत्य चेतसा ।।
किंचि­ज्जि­ज्ञा­स्यते ज्ञात्रा प्रत्य­क्षा­दि­प्र­मा­णतः ।। ५९७ ।।

अभिप्रेताऽपि न तदा प्रवृत्तिर्यदि वेतरा ।।
प्रत्य­क्षा­दि­प्र­मे­येति शक्या वक्तुं विपश्चिता ।। ५९८ ।।

इत­श्चा­भ्यु­प­ग­न्त­व्य­मे­त­तु­ल्येऽपि वस्तुनि ।।
एकस्य हान­धी­स्त­स्मि­न्नु­पा­दित्सा परस्य च ।। ५९९ ।।

शब्दार्थत्वे हि सर्वे­षा­मा­दा­ना­यैव धीर्भवेत् ।।
नोपेक्षायां, प्रहाणे वा, न चानेकार्थता मता ।। ६०० ।।

न च प्रवर्तकत्वेऽपि वाक्य­स्या­ङ्गी­कृते त्वया ।।
शक्यो विधा­यि­नोऽ­न्येषां पदानां वक्तुमन्वयः ।। ६०१ ।।

किं स्वार्थ­मा­त्र­नि­ष्ठ­त्व­मुत कार्यै कनिष्ठता ।।
पदा­र्थ­मा­त्र­सं­स­र्ग­प­रता किं त्वितीर्यताम् ।। ६०२ ।।

स्वार्थ­मा­त्रा­व­सा­यित्वे वाक्या­र्थ­प्र­त्ययः कुतः ।।
वैयर्थ्यं त प्रयोगस्य व्यव­हा­रा­क्ष­म­त्वतः ।। ६०३ ।।

पदा­र्थ­मा­त्र­सं­सर्गे कार्या­र्थ­वि­र­हेऽपि ते ।।
व्यवहारस्य संसि­द्धे­र्व्यर्था कार्यप्रकल्पना ।। ६०४ ।।

कार्यै­क­व्य­ति­षङ्गे च वाक्या­द्भू­ता­नु­वा­द­कात् ।।
प्रतीतिः स्यान्न वाक्यार्थे स्यादु­क्ते­र्व्य­र्थ­ताऽपि च ।। ६०५ ।।

कार्यान्तरस्य चाभा­वा­त्का­र्या­र्थै­का­भि­धा­यिनः ।।
संबन्धो न भवेदन्यैः साध­ना­द्य­भि­द्या­यिभिः ।। ६०६ ।।

कार्यान्वयित्वे सर्वेषामपि चेह परस्परम् ।।
पदा­र्था­ना­म­सं­ब­न्धोऽ­न­पे­क्ष­त्वा­द्भ­वेद् ध्रुवम् ।। ६०७ ।।

नियोगो न प्रतीयेत विशि­ष्ट­वि­ष­य­स्तथा ।।
तदा चैकपदार्थस्य नियोगः साध्यतामियात् ।। ६०८ ।।

अथ सोमादिसंबद्धे यागादौ विपये मतः ।।
नियोगः कस्ततः पूर्वं संबन्धे हेतुरुच्यताम् ।। ६०९ ।।

सिद्धेऽसति विशिष्टे न विपये कार्यमिष्यते।।
अथ क्रियैव प्राक्का­र्या­त्सिद्धं नो यत्समीहितम् ।। ६१० ।।

तदे­त­र­त्त­द­र्थ­मि­त्येवं चैतत्समञ्जसम् ।।
विषये यदि कार्यत्वं कार्या­व­ग­म­पू­र्व­कम् ।। ६११ ।।

कार्ये कार्या­न्त­रा­भा­वा­त्का­र्य­वुद्धिः कुतो भवेत् ।।
तदभावादनुष्ठेयो विषयोऽपि न ते भवेत् ।। ६१२ ।।

कार्यार्थता ततश्चेष्टा हीयेतानुष्ठितिं विना ।।
अथ कार्या­न्त­रा­भा­वेऽ­प्यस्य कार्यत्वमिष्यते ।। ६१३ ।।

विषयस्यापि कार्यत्वं स्वत एव भवेत्तथा ।।
विष­योऽ­का­र्य­रू­प­त्वा­त्स्व­सिद्ध्यै यद्यपेक्षते ।। ५१४ ।।

कार्यं तदपि विष­य­मी­क्षे­ता­सा­ध्य­रू­पतः ।।
कार्येऽपि कार्यतैवं च भवेद्विषयहेतुका ।। ६१५ ।।

अन्योन्याश्रयता च स्यान्न च कार्यप्रधानता ।।
पुंव्या­पा­र­व्य­पे­क्षायं स्वासिद्धौ कार्यमुच्यते ।। ६१६ ।।

यागादिः स च नो कार्यं स्वतः­का­र्यै­क­रू­पतः ।।
कार्यस्यैव न कार्यत्वमकार्थे कार्यतेष्यते ।। ६१७ ।।

न शौक्ल्ये शुक्लतापत्तिः पटादेः सा विधीयते ।।
घटकार्ययजत्यादि स्वस्वभावतया स्थितम् ।। ६१८ ।।

सिद्ध­सा­ध्या­दि­भे­देन स्वश­ब्दे­ना­भि­धी­यते ।।
यदा तदा ध्वनेर्न स्याद­ज्ञा­ता­र्था­व­बो­धने ।।
विशेषः कश्चिदित्येवं न प्रवृ­त्ति­र्वि­धे­र्भ­वेत् ।। ६१९ ।।

अवबुद्धे तु शब्दार्थे पुरु­षा­र्थ­नु­रो­धतः ।।
स्वत एव प्रवृत्तिः स्यान्न शब्दा­न्ना­र्थ­त­स्तथा ।। ६२० ।।

साध­ना­दि­त्र­या­द्वाह्यं पुरु­षा­र्थ­ब­हि­ष्कृ­तम् ।।
क एत­त्सा­ध­येे­द्धी­मान्किं वा रूपमितीर्यताम् ।। ६२१ ।।

न तावत्प्रेरणा कार्यं, कार्या­र्थ­वि­प्रया हि सा ।।
नाऽऽन्तरोऽपि प्रयत्नः स्यान्मा­ना­न्त­र­ग­ते­स्तथा ।। ६२२ ।।

न क्रिया कर्तृ­सं­ब­न्धा­त्फलं नानिष्टरूपतः ।।
कारकं नाप्य­सि­द्ध­त्वा­न्ना­प्य­न्य­द­नि­रू­प­णात् ।। ६२३ ।।

न च काल­त्र­या­स्प­र्श­वा­च्यत्वं कार्यलक्षणम् ।।
घटशब्दाद्धटे मा भूत्का­ला­स्प­र्शेन कार्यता ।। ६२४ ।।

नियोगोऽपि नियोज्यस्य व्यापारः, स कथं भवेत् ।।
अतीन्द्रियो लिङाद्यर्थः सिद्धिश्चास्य कथं भवेत् ।। ६२५ ।।

सिद्धि­र्वि­ष­य­सिद्धौ चेन्नैवं स्यात्कर्मणा न हि ।।
आप्त्यु­त्प­त्त्या­दिकं शक्य­म­ना­रो­प्य­स्व­भा­वतः ।। ६२६ ।।

कार्यं स्वेनाऽऽत्मना सिद्धं पुमर्थं साधयेद्यदि ।।
सर्वदा तस्य तादृ­क्त्वा­त्पु­मर्थः सर्वदा भवेत् ।। ६२७ ।।

पुंव्या­पा­र­प्र­सि­द्ध्याऽथ सिद्धं स्वार्थकरं मतम् ।।
तस्या­ना­धे­य­रू­प­त्वान्न कदाचित्फलं भवेत् ।।। ६२८ ।।

संभा­व्य­मा­न­सि­द्धेर्हि यागादेः कार्यता मता ।।
व्योम­त­त्पु­ष्प­योर्न स्यात्सि­द्धा­त्य­न्ता­प्र­सि­द्धयोः ।। ६२९ ।।

कर्तव्यो याग इत्येवं यागाद्भिन्ना यथेक्ष्यते ।।
कर्तव्यं कार्यमित्येवं ततोऽपि व्यतिरिच्यते ।। ६३० ।।

कार्यकर्तव्यता कार्ये­त्ये­व­मे­वा­ति­रि­च्यते ।।
तस्मान्न वस्तुधर्मोऽयं शब्दादेव प्रकर्षतः ।। ६३१ ।।

अतो यदेव साध्या­र्थ­सा­ध­न­त्वेन गम्यते ।।
वेदात्तदेव साध्य­त्वा­त्कार्यं नान्यत्ततः पृथक् ।। ६३२ ।।

लिङादिः प्रेरणावाची कुतः कार्य­मि­ती­र्य­ताम् ।।
विषयत्वेन नाऽऽक्षेपो भावार्थो विषयो मतः ।। ६३३ ।।

प्रेरणाऽपीह नैव स्याद­ज्ञा­त­ज्ञा­प­ना­त्पृ­थक् ।।
सम­स्त­का­र्य­दो­षो­क्ति­प्र­स­ङ्गा­न्मि­त्य­भा­वतः ।। ६३४ ।।

न स्वरूपं लिङादीनां प्रेर­णा­ज्ञा­प­क­त्वतः ।।
अन्यो­न्य­रू­प­भे­देऽपि प्रेर­णा­नु­ग­मा­त्तथा ।। ६३५ ।।

शक्ते­र­न­भि­धे­य­त्वा­त्त­द्व्या­पा­रोऽपि नेष्यते ।।
प्रेरकाभावतो वेदे तद्व्यापारोऽपि नेरणा ।। ६३६ ।।

अतः समीहितोपायतया वस्त्ववबोधयन् ।।
अबुद्धं प्रेरको वेदो ज्ञापना प्रेरणा मता ।। ६३७ ।।

तथा च वस्तु­या­था­त्म्य­ज्ञा­प­नेन प्रमाणता ।।
न प्रेरकतया सा स्यात्प्र­त्य­क्षा­दे­र­नी­क्ष­णात् ।। ६३८ ।।

निष्पा­दि­त­नि­यो­गस्य वेदप्रामाण्यतो यथा ।।
नियमेन फलं तद्व­त्सा­ध­ना­नु­ष्ठि­ते­र्भ­वेत् ।। ६३९ ।।

विसंवादोऽपि नाऽऽशङ्क्यो नियोगार्थे यथा तथा ।।
वैदि­क­त्वा­दु­पा­येऽपि नृतत्रे व्यभिचारिता ।। ६४० ।।

नानन्तरफलो यागो दृष्टो लोकेऽपि हि क्वचित् ।।
अतः सामान्यतो दृष्टं क्रिया­त्वा­दि­त्य­दू­ष­णम् ।। ६४१ ।।

स्वसा­म­र्थ्या­द्यथा कार्यं कालास्पृष्टं प्रभाषते ।।
लिङा­दि­र्या­ग­म­प्येवं वक्ष्य­ती­त्य­वि­शि­ष्टता ।। ६४२ ।।

साक्षादेवं च संबन्धः साध्य­सा­ध­न­यो­र्भ­वेत् ।।
नाति­रि­क्त­लि­ङा­द्य­र्थ­व्य­व­धा­न­वि­ड­म्बना ।। ६४३ ।।

साक्षादसति संबन्धे पारंपर्यं, न तु क्वचित् ।।
गतौ सत्यां, तदप्यत्र नान्य­त्रे­वो­प­ल­भ्यते ।। ६४४ ।।

श्रुत्या क्रयाभिसंबन्धो व्यवच्छिद्यैव साधनम् ।।
अरुणः साधको दृष्टो नानपेक्षो वृथा च सः ।। ६४५ ।।

यागः कार्या­भि­सं­ब­न्धोऽ­प्य­नु­त्पाद्य फलं न ते ।।
कथं­चि­त्सा­ध­ये­त्कार्यं तच्च नास्तीत्यसाधकः ।। ६४६ ।।

नचान्या व्यापृतिस्तस्य कार्यसिद्धौ त्वयेष्यते ।।
फला­नु­त्प­त्ति­त­स्त­स्मान्न कार्येणापि संगाति ।। ६४७ ।।

अथ शास्र­प्र­मा­ण­त्वा­द­दृ­ष्टाऽ­प्य­भ्यु­पे­यते ।।
फलो­त्प­त्ति­र्म­मा­प्येवं तथा सति भविष्यति ।। ६४८ ।।

मम शास्र­प्र­मा­ण­त्वा­त्प­श्चा­दपि भवेत्फलम् ।।
पूर्वं तु भवतो न्याय्यं तदभावे ह्यसाधकम् ।। ३४९ ।।

कार्यसिद्ध्या फला­वा­प्ता­व­शे­ष­फ­ल­सं­भवः ।।
सकृत्करण एव स्यात्का­र्य­स्या­भे­द­त­स्तव ।। ६५० ।।

अनु­ब­न्धा­भि­सं­ब­न्धा­त्फलं चेत्स्या­द्व्य­व­स्थया ।।
तत एव न कार्या­त्स्या­त्तदा तद्भावभावतः ।। ६५१ ।।

औपाधिकश्च मिथ्या स्यात्सा­ध्य­सा­ध­न­ल­क्षणः ।।
व्यवहारः श्रुतेर्ज्ञातः परमार्थैकवादिनः ।। ६५२ ।।

एवं ते कर्मकाण्डेऽपि कार्यं तावन्न युज्यते ।।
ऐकात्म्ये तु यथा नास्ति विशेषेणोच्यते तथा ।। ६५३ ।।

प्रति­प­त्ति­वि­धि­स्ता­व­न्नाऽऽत्मा द्रष्टव्य इत्ययम् ।।
तस्य भावा­र्थ­नि­ष्ठ­त्वा­द्व­स्तु­न्य­नु­प­प­त्तितः ।। ६५४ ।।

सिद्धेऽसिद्धेऽथ वैकात्म्ये विधि­र्नै­वो­प­प­द्यते ।।
नाऽऽकाशे नापि तत्पुष्पे पुंव्या­पा­रा­न­पे­क्षता ।। ६५५ ।।

न विधिर्दर्शनेऽपि स्याद­न्यो­न्या­श्र­य­दो­षतः ।।
दर्श­ना­द्वि­धि­सं­सि­द्धे­र्वि­धे­र्द­र्श­न­सि­द्धितः ।। ६५६ ।।

न च यूपादिवच्छक्यं वेदेनैव समर्पणम् ।।
ऐकात्म्यस्य स्वतः सिद्धेः साध्य­त्वा­द्यू­प­व­स्तुनः ।। ६५७ ।।

सिद्धं चेद्द­र्श­ये­द्वेदः प्रसिद्धं दर्शनं तथा ।।
तन्निष्ठं च भवेद्वाक्यं व्यर्थता च विधेस्तदा ।। ६५८ ।।

सर्वमात्मेति वाक्यास्य न च वस्तुन्यसंभवः ।।
येना­र्थ­स्या­स­मा­प्ता­त्वा­त्क्रि­ये­ता­ध्या­हृतिः पदे ।। ६५९ ।।

आत्मा ब्रह्मेति विज्ञानं विधिं नैव व्यपेक्षतेः ।।
यस्मा­त्त­च्छ्रु­त­वा­क्यस्य स्वयमेवोपजायते ।। ६६० ।।

यजे­ते­ति­वि­धि­ज्ञानं न विध्य­न्त­र­मी­क्षते ।।
विध्य­न्त­रेऽ­न­वस्था स्यान्न चायं कर्मणि स्थितेः ।। ६६१ ।।

प्रतिपन्ने विधेयार्थे प्रवृत्तिः फलमिष्यते ।।
प्रवृत्तेश्च विधि­ज्ञा­न­मे­व­म­न्यो­सं­श्रयः ।। ६६२ ।।

बोधेऽ­स्मि­ञ्श­ब्दतो जाते न प्रव­र्त्योऽ­क­ल­त्वतः ।।
अऩुत्पन्ने च नितरां प्रवृ­त्ते­र्हे­त्व­सं­भ­वात् ।। ६६३ ।।

अथ निश्च­य­सि­द्ध्य­र्थ­मु­त्प­न्नेऽपि प्रवर्त्यते ।।
स निश्चयो वः किं शब्दा­द­था­न्य­स्मा­दि­ती­र्य­ताम् ।। ६६४ ।।

शब्दाद्यदि तदेदेदमायातं पूर्वदूषणम् ।।
अन्य­स्मि­न्नि­ष्य­माणे च सापेक्षत्वं प्रसज्यते ।। ६६५ ।।

अवि­व­क्षि­त­नु­त्त्य­र्थ­म­थात्र विधिरिष्यते ।।
अयं ज्ञेयोऽर्थ इत्युक्तौ स्याद्वि­व­क्षि­त­धी­र्यतः ।। ६६६ ।।

नैवमुत्सर्गतो यस्माच्छब्दानां लोकवेदयोः ।।
विशि­ष्टा­र्थै­क­नि­ष्ठत्वं स्वतो न विधिहेतुतः ।। ६६७ ।।

अविशिष्टश्च वाक्यार्थस्तथा लौकिकवैदिक -
वाक्ययोर्गम्यते यस्मा­द्वि­धि­र्नातो विवक्षितः ।। ६६८ ।।

अपि दृष्टा­र्थ­तै­कात्म्ये कर्मस्विव न भिद्यते ।।
वेदा­धी­ति­वि­धे­स्त­स्मा­द्वि­धि­रत्र निरर्थकः ।। ६६९ ।।

विधे­र्वि­ध्य­न्त­रेऽ­भीष्टे कृत्स्नोऽ­र्थोऽ­प्य­वि­व­क्षितः ।।
पूर्वोक्तेनैव न्यायेन नैव कल्प्यो विधिस्ततः ।। ६७० ।।

मतं पुम­र्थ­सि­द्ध्यर्थः ज्ञानस्य विधिरिष्यते ।।
फलस्य विध्य­धी­न­त्वा­दु­पे­क्षा­फ­ल­ताऽ­न्यथा ।। ६७१ ।।

ज्ञेय­व्या­प्त्य­ति­रे­केण न विज्ञा­ना­त्फ­ला­न्त­रम् ।।
इष्यते कर्म­व­न्ना­त­स्त­दर्थं विधिकल्पना ।। ६७२ ।।

यदाऽपि मातरि फलं तदाऽपि विधिनाऽत्र किम् ।।
मातृ­मा­न­प्र­मे­यादौ तत्सि­द्धे­र्वि­धिना विना ।। ६७३ ।।

अथापि कार्य­वि­र­हा­त्सि­द्धा­र्थ­म­नु­वा­द­कम् ।।
वचो नैव प्रमाणं स्यात्तस्य मान्तरसंगतेः ।। ६७४ ।।

विध्य­र्था­ङ्गी­कृतौ त्वेतदनपेक्षं प्रमाणताम् ।।
अश्नुते मान्त­रा­भा­वा­ज्ज्यो­ति­ष्टो­मा­दि­वा­क्य­वत् ।। ६७५ ।।

वस्तु मान्तरयोग्यं चेद्विधौ सत्यपि तत्तथा ।।
अथ तन्मा­न्त­रा­योग्यं विध्यभावेऽपि तत्तथा ।। ६७६ ।।

किं वाक्य­स्या­नु­वा­दत्वं सिद्धेऽर्थे मान्तरेण वा ।।
मिते तत्र न पूर्व­स्मि­न्सि­द्धेऽ­प्य­र्थेऽ­नु­वा­दता ।। ६७७ ।।

मानान्तरानधिगतं सिद्धं वस्त्ववबोधयत् ।।
मानं किं नानपेक्षं स्यात्पुमर्थश्च स्वरूपतः ।। ६७८ ।।

पुंबुद्धिविषयो ह्यर्थो माना­न्त­र­म­पे­क्षते ।।
अभा­वा­त्पु­रु­ष­स्येह न तु सिद्धोऽपि वैदिकः ।। ६७९ ।।

न च सिद्धत्वमात्रेण शङ्क्यते मान्तरं क्वचित् ।।
शङ्क्य़मानस्य मानस्य तुल्या सापेक्षता यतः ।। ६८० ।।

न च सापे­क्ष­ताऽ­प्यस्ति मितेर्मानत्वतः क्वचित् ।।
मान्तरानवबुद्धं हि बोध­य­न्मा­न­मु­च्यते ।। ६८१ ।।

माना­न्त­रा­न­पेक्षं चेन्मानं मेयं ज्ञबोधयेत् ।।
मानमेव तदा तत्स्या­न्ना­तोऽ­न्य­न्मा­न­ल­क्ष­णम् ।। ६८२ ।।

अथ मानान्तरापेक्षं तन्मानं मेयबोधकम् ।।
द्वयो­रे­क­क्रि­या­वे­शा­त्त­थाऽ­प्य­न्या­न­पे­क्षता ।। ६८३ ।।

अथा­न­धि­ग­ता­भा­वा­दु­त्त­र­स्या­प्र­मा­णता ।।
तत्सद्भावात्तु पूर्वस्य ज्ञानस्यास्तु प्रमाणता ।। ६८४ ।।

मातोऽ­न­धि­ग­त­त्वस्य सिद्धिः स्यादथवाऽन्यतः ।।
स्वतो वा ज्ञाततायाश्च कुतः सिद्धि­रि­ती­र्य­ताम् ।। ६८५ ।।

अज्ञातत्वस्य माव्याप्तेः पूर्वमेव प्रसिद्धितः ।।
ततश्च मानतः सिद्धि­र्ना­ज्ञा­त­त्वस्य कुत्रचित् ।। ६८६ ।।

मान­व्या­प्ति­क्षमं चेत्स्या­द­ज्ञा­तत्वं घटादिवत् ।।
वास्तवं स्यात्तदा रूपमज्ञातं च सदा भवेत् ।। ६८७ ।।

तथा संश­य­मि­थ्या­त्व­बु­द्ध्यो­रेष यथोदितः ।।
न्यायो वाच्यस्ततः सर्वो व्यवहारो न सिध्यति ।। ६८८ ।।

अज्ञा­त­त्वा­वि­शे­षेऽपि मानानां यदि मानता ।।
ज्ञात­स्या­ज्ञा­त­तोऽ­न्य­त्वा­त्तत्र स्यात्किं न मानता ।। ६८९ ।।

एका­र्थो­प­नि­पा­ति­त्वा­त्सा­पे­क्षत्वं यदीष्यते ।।
तथाच सर्वमानानां सापेक्षत्वं प्रसज्यते ।। ६९० ।।

एकस्यामपि सत्तायां सर्वाक्षाणां प्रमाणता ।।
द्रव्ये त्वक्च­क्षु­षो­स्त­द्व­त्प्र­स­ज्ये­ता­प्र­मा­णता ।। ६९१ ।।

नियोगे लोकिके चाऽपि हरी­त­क्या­दि­भ­क्षणे ।।
मानान्तरासंभवेन प्रस­ज्ये­ता­न­पे­क्षता ।। ६९२ ।।

नैष दोषो नरज्ञानपूर्विका विनियोगधीः।।
येन लोकेऽ­स्त्य­तोऽ­पेक्षा वेदे तु स्याद्विपर्ययः ।। ६९३ ।।

नैवं सत्यनपेक्षत्वं वचसः कार्यसंश्रयात् ।।
पुंबु­द्धि­पू­र्व­क­त्वेन यतः सापेक्षतोच्यते ।। ६९४ ।।

नैवं नियो­ग­नि­ष्ठ­त्वा­द्वेदे तेनानपेक्षता ।।
सापेक्षत्वं च लोके स्याद्वि­नि­यो­ग­प्र­धा­नतः ।। ६९५ ।।

नैवं शब्दा­र्थ­यो­रैक्यं यदा स्याल्लो­क­वे­दयोः।।
तदा न शक्यते वक्तुं वैलक्षण्यं तयोरिति ।। ६९६ ।।

स्वरूपलाभः सिद्ध­श्चे­त्स्वतो वा यदि वाऽन्यतः ।।
स्वरू­पेऽ­नु­प­यो­गि­त्वान्न प्रम­ण­व्य­पे­क्ष­णम् ।। ६९७ ।।

अभिव्यक्तोऽथ सिद्धोऽयं स्वतो वा यदि वाऽन्यतः ।।
अभिव्यक्तस्य भूयोऽपि निष्फलं मान्तरेक्षणम् ।। ६९८ ।।

तस्मान्न सिद्ध इत्येव संभाव्येत प्रमान्तरम् ।।
नरोक्तौ मान्तरापेक्षा तेन मान्तरसंभवः ।। ६९९ ।।

क्रियां विना न संसर्गः पदा­र्था­ना­म­थो­च्यते ।।
क्रियै­वा­पे­क्ष्यतां तर्हि किं न सिद्धं विधिं विना ।। ७०० ।।

क्रिया चापे­क्ष्य­मा­णाऽपि न या काचिदपेक्ष्यते ।।
योग्य­त्व­हे­तु­त­स्तर्हि साऽस्त्ये­वा­स्या­दिका श्रुतौ ।। ७०१ ।।

अक­र्म­क­त्वा­द­स्या­देर्न तावत्कर्म विद्यते ।।
अभूतभवनं चार्थे नित्य­त्वा­दा­त्म­नश्च न ।। ७०२ ।।

असं­सृ­ष्टा­त्म­बो­धि­त्वा­न्नापि संसर्गधीरतः ।।
स आत्मे­त्य­भि­सं­ब­न्धा­न्नापि सत्ता सतोच्यते ।। ७०३ ।।

शब्दा­द्य­गो­च­रोऽ­र्थोऽतो लक्ष­णा­पा­श्र­या­च्छ्रुतौ ।।
सदि­त्या­दि­प­दै­रात्मा साक्षान्नः प्रतिपाद्यते ।। ७०४ ।।

यदाऽपि मानयोग्यत्वं सत्त्वं तच्च प्रतीयते ।।
तदाऽपि वस्तुपरता नाऽऽगमस्य विहन्यते ।। ७०५ ।।

मान्तरेणापि संबद्धमर्थं वाक्यं प्रबोधयत् ।।
मानतां न जहात्येव जगत्याप्तवचो यथा ।। ७०६ ।।

ज्ञातः सोऽर्थो मयेत्यत्र नाऽऽप्तवाक्यं विहन्यते ।।
माना­न्त­र­व्य­पे­क्ष­त्वा­द्वि­ह­न्ये­ता­र्थ­नि­श्चितौ ।। ७०७ ।।

मायोगेऽपि न मान­त्व­म­ना­प्त­व­चसः क्वचित् ।।
तेनाऽऽप्तवाक्यं मायोगे मानादर्थेऽपि निष्ठितम् ।। ७०८ ।।

एवं च सति वेदान्ता यदि मानमलौकिकम् ।।
प्रबोधयन्ति विध्व­स्त­नि­खि­ल­द्वै­त­गौ­च­रम् ।। ७०९ ।।

कथं तेषाममानत्वं तदा स्यादा­प्त­वा­क्य­वत् ।।
अर्थसिद्धिश्च मासिद्धौ सिद्धैवेति न साध्यते ।। ७१० ।।

किंच सिद्ध­त्व­सं­ब­न्धा­दै­कात्म्ये मान्तरानुमा ।।
यथैवं कार्य­ता­यो­गा­न्नि­यो­गेऽ­प्य­नुमा न किम् ।। ७११ ।।

नियोगस्यापि कार्यत्वं प्रेष­णा­ध्ये­ष­णा­दिभिः ।।
समं तद्व­र्त्म­नै­वास्य संबन्धग्रहणं यतः ।। ७१२ ।।

परा­य­त्ता­त्म­ला­भत्वं नियोगस्येह कार्यता ।।
कार्यै­र्मा­न्त­र­गम्यैः सा न कथं­चि­द्वि­शि­ष्यते ।। ७१३ ।।

यत्त्वसाधारणं तस्य कार्यत्वमिति भण्यते ।।
लौकिकेष्वपि कार्येषु तन्नेैव विनिवार्यते ।। ७१४ ।।

अथा­सा­धा­र­ण­ज्ञा­न­प­रि­च्छे­द्य­त्व­मि­ष्यते ।।
तच्च सर्वपदार्थानां न दण्डै­र्वि­नि­वा­र्यते ।। ७१५ ।।

प्रमा­णा­य­त्त­मे­ता­व­त्स्व­प्र­मे­या­व­भा­स­नम् ।।
कार्य­ताऽ­का­र्य­ता­व­त्स्व­प्र­मे­या­व­भा­स­नम् ।।
कार्यताऽकार्यता वाऽत्र मेयायत्ता, न मानतः ।। ७१६ ।।

सिद्धत्वहेतुको योऽपि दोष ऐकात्म्य उच्यते ।।
नियोगस्यापि संसिद्धौ स दोषो नापनुद्यते ।। ७१७ ।।

यागा­दि­वि­ष­या­सिद्ध्या न चासौ न प्रसिध्यति ।।
विध्यु­क्ते­स्त­द­सं­सिद्धौ निष्फलत्वं प्रसज्यते ।। ७१८ ।।

ऐका­त्म्य­व­स्तु­या­था­त्म्य­प्र­का­श­न­प­टी­यतः ।।
वचसस्त्वतिरेकेण किं मानं तद्धुरं वहेत् ।। ७१९ ।।

मात्रा­दि­स­व्य­पेक्षं सद्यत्र ज्ञानं प्रजायते ।।
तत्रैव मान्तरापेक्षा न तु विध्वस्तभेदके ।। ७२० ।।

विध्य­र्था­धी­न­सं­सर्गाः पदार्था वैदिकोक्तिषु ।।
लोके मान्त­र­सं­सि­द्ध­सं­सर्गा रचनाबलात् ।। ७२१ ।।

रचना च पदार्थानां विव­क्षा­पू­र्वि­कैव तु ।।
प्रमा­णा­न्त­र­ग­म्येऽर्थे विवक्षा च व्यवस्थिता ।। ७२२ ।।

एवं च सति वेेदा­न्त­वा­क्या­र्थ­प्र­त्ययो भ्रमः ।।
उत्खातविधिको लोके तोय­बु­द्धि­रि­वो­षरे ।। ७२३ ।।

इत्युक्ते परिहाराय शृणु यद्भण्यतेऽधुना ।। ७२४ ।।
पदार्थसंगतेः कस्मा­द्वि­ध्य­धी­न­त्व­मा­दृ­तम् ।।
पदा­र्था­न्त­र­त­त्रत्वं कस्माद्धेतोर्न कल्प्यते ।। ७२५ ।।

संस­र्ग­श्चे­त्प­दा­र्थानां विनाऽपि विधिना भवेत् ।।
अनर्थको भवेदेवं विधि­र्नि­र्वि­ष­य­त्वतः ।। ७२६ ।।

ननु दोषः समानोऽयं विधे­र­न्य­प­दे­ष्वपि ।।
विशि­ष्टा­र्था­व­ग­त्यर्थं प्रयु­ज्य­न्तेऽ­प­रा­ण्यपि ।। ७२७ ।।

एवं सति विधिः कस्मान्नानर्थक इतीर्यताम् ।।
योग­क्षे­म­स­मा­न­त्वा­द­वि­ध्य­र्थ­प­दा­न्तरैः ।। ७२८ ।।

उच्यते विधिशब्दो हि मान्त­रा­ज्ञा­त­गो­चरः।।
न तस्य विषयाक्षेपं मुक्त्वाऽन्यत्र कृतार्थता ।। ७२९ ।।

माना­न्त­र­प्र­सि­द्धा­र्थ­वा­दि­त्वा­द­नु­वा­द­कम् ।।
विधेरन्यपदं यस्मा­न्नाऽऽ­क्षे­पोऽतः प्रतीयते ।। ७३० ।।

अव्युत्पन्नेऽपि संबन्धे विध्य­र्था­व­ग­म­स्तथा ।।
अथ विज्ञातसंबन्धं सिद्धार्थं स्याद्विधायकम् ।। ७३१ ।।

स्वधर्मं च पदं जह्या­त्सं­ब­न्ध­ज्ञा­न­नि­ह्नुतौ।।
तस्मा­द्वि­ज्ञा­त­सं­बन्धं पदं सर्वत्र बोधकम् ।। ७३२ ।।

इतोऽन्यथा कल्प्यमाने सर्वं स्यादसमञ्जसम् ।।
वाक्य­वा­क्या­र्थ­यो­ग­श्चे­द्वा­च्य­वा­च­क­ल­क्षणः ।। ७३३ ।।

तद्वि­शे­षै­क­नि­ष्ठ­त्वान्न वः संबन्धधीर्भवेत् ।।
न विशेषान्तरे वृत्ति­र्वि­शे­ष­स्यास्ति गोत्ववत् ।।
नैराकाङक्ष्येण तत्सिद्धेः संबन्धोऽतो न गृह्यते ।। ७३४ ।।

संबन्धं मन्यते योऽपि शाब्द­बो­धा­नु­सा­रि­णीम् ।। ७३५ ।।
दृष्ट्वेहां श्रोतृगां सोऽपि न सम्यगभिमन्यते ।।
श्रोतृ­स्थ­का­र्य­लि­ङ्ग­त्वा­त्कथं शब्दैकगोचरः ।। ७३६ ।।

तस्यापि शब्द­पू­र्व­त्वा­दिति चेल्लि­ङ्ग­पू­र्वतः ।।
कस्मान्न शब्दबोधोऽपि ह्यनुमानपुरःसरः ।। ७३७ ।।

नियोग शब्दतो बुद्ध्वा योऽपि श्रोता प्रवर्तते ।।
तस्या­प्य­नु­मि­ते­रेव शब्दा­र्थ­प्र­त्ययो भवेत् ।। ७३८ ।।

प्रत्य­क्ष­ग­म्य­का­र्येण नियो­ग­स्या­नु­मे­यतः ।।
प्रत्थ­क्ष­का­र्य­व­त्तस्य लौकिकत्वं प्रसज्यते ।। ७३९ ।।

न चेत्कार्यं नियोगः स्यात्कोऽर्थो यागादिसिद्धितः ।।
सिद्ध­व­स्त्व­व­बो­धत्वं विधेरपि तदा भवेत् ।। ७४० ।।

प्राथम्यं चात्र दुर्लक्ष्यं बीज­त­त्का­र्य­यो­रिव ।।
शब्दा­नु­मा­न­यो­र्नातः शब्द­प्र­थ­म­ते­ष्यते ।। ७४१ ।।

यद्वाऽ­नु­मा­न­मे­वात्र शब्दात्पूर्वं हि युज्यते ।।
नावित्तसंगतिः शब्दो गमकोऽतोऽनुवादकः ।। ७४२ ।।

बुध्यते योऽनुमानेन शब्दबुद्धं न वेत्ति सः ।
भिन्ने भिन्नेऽपि मेये धीर्ना­नु­वा­दोऽ­न्य­बो­द्धरि ।। ७४३ ।।

प्रवृ­त्ति­हे­तु­मात्रं च प्रवृ­त्त्याऽ­त्रा­नु­मी­यते ।।
लोकिकेनापि तत्सि­द्धे­र्नास्ति मानमलौकिके ।। ७४४ ।।

कार्यबुद्ध्यैव संव्याप्तिः प्रवृत्तेर्न च गम्यते ।।
सर्पा­दि­व­स्तु­बो­धेऽपि प्रवृ­त्ति­र्वी­क्ष्यते यतः ।। ७४५ ।।

पुंस्प्रवृत्तेः फलं कार्यं विध्यर्थश्चापि कारणम् ।।
प्रवृ­त्ति­हे­तुर्न फलं भवतैवाभिधीयते ।। ७४६ ।।

अपसर्प्यस्य सर्पादेर्न च कार्यं फलं मतम् ।।
अम­र्था­भा­व­मा­त्र­त्वा­न्न­चा­भावः फलं क्वचित् ।। ७४७ ।।

नियोगोऽथ प्रमारूपो विधि­श­ब्द­प्र­का­शितः ।।
माना­न्त­रा­न­पेक्षः सन्नाक्षेपकतया प्रमा ।। ७४८ ।।

आक्षेप्तृत्वं न शब्दोत्थं न च मानान्तरात्तथा ।।
अव्यु­त्प­न्न­प्र­वृ­त्ति­श्चे­त्यु­क्त­दो­ष­प्र­स­ङ्गतः ।। ७४९ ।।

स्वाभ्यु­पे­त­न­य­स्यैव त्यागः प्राप्नो­त्य­नी­प्सितः ।।
प्रामाण्यं चास्य यत्रेष्टं श्रुते­स्त­त्रा­स्त्व­नेन किम् ।। ७५० ।।

क्व चेष्टमस्य मानत्वं न यागादौ स्वशब्दमे ।।
लोकिकोऽपि न संसर्गो विध्यायत्तः स्थितो यतः ।।
विध्यभावे हि संसर्गः श्रोतु­र­स्त्य­वि­धा­वपि ।। ७५१ ।।

फल­सा­ध­न­श­क्ति­श्चे­द्वि­ध्या­यत्ता भविष्यति ।।
नैवं तत्रापि शब्दस्य सामर्थ्यं केन वार्यते ।। ७५२ ।।

तस्मा­दि­त­र­तु­ल्य­त्वान्न विध्य­र्थ­नि­ब­न्धनः ।।
संसर्गः स्यात्प­दा­र्थानां सुस्थमेवं विधिं विना ।। ७५३ ।।

तस्मा­त्स­र्व­प­दा­र्था­ना­मा­का­ङ्क्षा­यो­ग्य­सं­निधेः ।।
पर­स्प­रा­भि­सं­ब­न्धा­द्वि­शि­ष्टा­र्था­व­बो­धिता ।। ७५४ ।।

ननू­त्प­त्ति­वि­धि­र्य­द्व­त्क­र्म­बोधे व्यवस्थितः ।।
आत्म­ज्ञा­न­वि­धि­स्त­द्व­दा­त्म­बो­धेऽ­व­ति­ष्ठ­ताम् ।। ७५५ ।।

कर्मा­धि­का­र­व­च्चात्र प्रवृत्तिरपि सेत्स्यति ।।
अप्र­वृ­त्त­प्र­वृ­त्तिश्च तथा बुद्धार्थबोधनम् ।। ७५६ ।।

एवं विधिमिहेच्छन्ति विध्ययोग्येऽपि वस्तुनि ।।
विधि­रा­ग­व­शा­त्के­चि­त्ता­न्प्र­ती­द­म­थो­च्यते ।। ७५७ ।।

कर्मस्वरूपबोधे हि व्यापारो नेष्यते विधेः ।।
किं तूत्पन्नस्य सापे­क्ष्या­द­धि­का­रेण संगतिः ।। ७५८ ।।

अधि­का­र­प्र­वे­शित्वं नाऽऽत्मज्ञानस्य युज्यते ।।
यस्या­धि­का­र­सं­बन्धः स आत्मा न विधीयते ।। ७५९ ।।

व्रीह्यादिविषयं यद्वद्यत्नेनापि निरूपितम् ।।
प्रत्यक्षं नाधि­का­रा­नु­प्र­वेशंं प्रतिपद्यते ।। ७६० ।।