बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥संबंधभाष्यवार्तिकम् ॥ (२)
वस्तुनोऽवगतिर्नापि लयाद्भवति कुत्रचित् ।।
अभावेऽप्युपपन्नत्वात्सुषुप्ते चाप्यनीक्षणात् ।। ३८६ ।।
स्वाभाविकः प्रपञ्चश्चेत्स निरोद्धुंं न शक्यते ।।
कार्यश्चेत्कारणोच्छेदे कार्योच्छेदः स्वतो न हि ।। ३८७ ।।
कृतस्रप्रपञ्चविलयः कर्तुं शक्यो न केनचित् ।।
स्वेन्द्रियादिलयः स्वापे स्वत एव न शास्रतः ।। ३८८ ।।
उत्थितस्य पुनर्भावादनुच्छेदोऽथ शङ्क्यते ।।
आयातस्तिर्ह्यनाश्वासस्त्वदभ्युपगतावपि ।। ३८९ ।।
प्रपञ्चनाश्नेनाथ नाश्यते भेदकारणम् ।।
नैवं न कार्यनाशेन कारणं नश्यति क्वचित् ।। ३९० ।।
कारणस्याप्यविद्याया वस्तुबोधाद्विनाशतः ।।
यतोऽतोऽविद्यानाशार्थं प्रपञ्चविलयोऽफलः ।। ३९१ ।।
रज्जुज्ञानाद्धि सर्पादिप्रपञ्चविलयो यतः ।।
सर्पाभासलयेऽपीयं रज्जुस्तमसि नेक्ष्यते ।। ३९२ ।।
लयनिष्ठे प्रमाणे नो वस्तुगोचरभेदतः ।।
अथ वस्तुनि तन्मानं न लये स्यान्न च द्वये ।। ३९३ ।।
भाव्युच्छेत्तुमशक्यस्ते, भूतोऽप्युपरतः स्वतः ।।
प्रपञ्चो वर्तमानस्तु कार्यत्वान्नश्यति स्वतः ।। ३९४ ।।
श्रुतेर्विलयतात्पर्ये फलमाकस्मिकं भवेत् ।।
फलार्था चेल्लये न स्यान्नोभयं वाक्यभेदतः ।। ३९५ ।।
प्रपञ्चविलयेनैव सर्वानर्थप्रहाणतः ।।
पुरुषार्थस्य संसिद्धेर्विद्या नैष्फल्यमापतेत् ।। ३९६ ।।
अत ऐकात्म्ययाथात्म्यज्ञानादज्ञानहानतः ।।
सिद्धे पुमर्थे विलयकल्पना निष्प्रयोजना ।। ३९७ ।।
स्वकार्योपक्षयादेव विधीनां च परस्परम् ।।
कुत एकाधिकारत्वमपेक्षाभावतो वद ।। ३९८ ।।
विधीनां चापि सर्वेषां निषेधवचसां तथा ।।
नामादिलयनिष्ठत्ये ह्यभ्युपेतेऽप्रमाणके ।।
अऩिमित्तोऽपवर्गोऽपि शास्रं चैवमनर्थकम् ।। ३९९ ।।
स्वर्गादिकार्यमार्गेण मन्यसे यदि कर्मणाम् ।।
सोपानपङ्लिगत्येव हर्म्यपृष्ठाधिरोहणम् ।।
आत्मज्ञानाधिकारानुप्रवोशित्वं भविष्यति ।। ४०० ।।
यथैव नगराध्वस्थग्रामगत्युपदेशनम् ।।
नगराध्वोपदेशस्य शेषत्वं प्रतिपद्यते ।।। ४०१ ।।
नाकामितत्वाद्ग्रामादिरातेर्युक्तैव शेषता ।।
स्वर्गादेर्न तु शेषत्वं पुरुषार्थत्वहेतुतः ।। ४०२ ।।
अथोपच्छन्दनार्थानि स्वर्गादीनि विमुक्तये ।।
नगराप्तौ तदध्वस्थग्रामादिगुणगीरिव ।। ४०३ ।।
नैवं मान्तरतः सिद्धेर्नृवाक्ये तत्समञ्जसम् ।।
वेदे तु वक्त्रभावत्वादभिप्रायाद्यसंभवः ।। ४०४ ।।
यद्वा तत्रैव तात्पर्यं यत्रोपच्छन्द्य नीयते ।।
नगराप्तौ तु माभावात्प्रयतेत पुमान्कुतः ।। ४०५ ।।
यदाऽपि वस्तुवृत्तेन नगरावाप्तिसाधनम् ।।
ग्रामाप्तिर्नगरप्राप्तिस्तदाऽप्यर्थान्न मानतः ।। ४०६ ।।
अर्थादपि न तात्पर्यं द्रव्यार्जनविधेरिव ।।
शब्दमात्रानुसारेण वेदे तात्पर्यधीर्यतः ।। ४०७ ।।
स्वर्गादौ यदि तात्पर्यं न स्यादैकात्म्यबोधने ।।
मुक्तौ चेन्न भवेत्स्वर्गे वाक्यभेदान्न च द्वये ।। ४०८ ।।
न च स्वर्गादिकार्याणां प्रयाजार्थसमानता ।।
अनुप्रवेशः कल्प्येत येन कार्यान्तरं प्रति ।। ४०९ ।।
वक्तव्यं च कथं त्वेते दृष्टेनैवोपकारिणः ।।
आत्मज्ञानाधिकारस्य यदि तावदिदं मतम् ।। ४१० ।।
रागाद्याक्षिप्तदृष्टार्थप्रवृत्तिप्रतिषेधतः ।।
अस्त्वेवं प्रतिषेधेषु निवृत्तेरूपकारतः ।। ४११ ।।
बिधयस्तु कथं रागं निरून्धन्तीति भण्यताम् ।।
न हि ते परिसंख्यार्था नापि चैते नियामकाः ।। ४१२ ।।
अत्यन्ताप्राप्तमर्थं हि विधयो बोधयन्ति नः ।।
प्रप्तार्थो यो विधिः सोऽन्यनिवृत्तिफल इष्यते ।। ४१३ ।।
सेवासांग्रहणीहावत्तुल्यकार्यतया न च ।।
यतोऽनियतकालीनफला वैधी क्रियेष्यते ।। ४१४ ।।
अदृष्टार्था हि दृष्टार्था रागाद्युत्थाः प्रवृत्तयः ।।
ग्रामोपयेन सेवायाः सांग्रहण्याऽविरुद्धता ।। ४१५ ।।
क्रियातः फलमित्येवं शास्त्रमेतावति प्रमा ।।
क्रमेण युगपद्वाऽतः सेवासांग्रहणीहयोः ।।
नानुष्ठाने विरोधोऽस्ति फलभूमार्थिनः क्वचित् ।। ४१६ ।।
रागाद्युत्थप्रवृत्तीनां कार्त्स्न्येन च विरोधतः ।।
नैयोगिक्योऽपि नैव स्युर्द्रव्याभावात्प्रवृ्त्तयः ।। ४१७ ।।
दृष्टादृष्टप्रवृत्त्योश्च न विशेषोऽस्ति कश्चन ।।
उपायत्वेन काम्यानां रागाद्याक्षिप्रहेतुतः ।। ४१८ ।।
प्रपञ्चाभिनिवेशित्वहेतौ तुल्येऽपि चानयोः ।।
कं विशेषमपेक्ष्यैका चेष्टा मुक्त्यनुरोधिनी ।। ४१९ ।।
कामोपायत्वमेवाथ नेष्टं यदि च कर्मणाम् ।।
उक्तो न्यायः प्रहीयेत फलं चाऽऽकस्मिकं भवेत् ।। ४२० ।।
सर्वकामाशनेनाथ कृत्स्रकामलयाध्वना ।।
यान्ति मुक्त्यानुगुण्यं चेद्विधयो वार्त्तमेव तत् ।। ४२१ ।।
यन्निमित्ता प्रवृत्तिः स्यात्सा कथं तन्निवर्तिका ।।
प्रवृत्तोऽपि निवर्तेत न कामोपायकर्मतः ।। ४२२ ।।
उद्विजेताथवा ज्ञानात्सर्वपुंभोगघस्मरात् ।।
अपि वृन्दावने शून्य इति कामिवचस्तथा ।। ४२३ ।।
उक्तं यदपि वेदेऽस्मिन्कस्यचिद्विलयः क्वचित् ।।
तन्नातत्परतस्तूक्तेर्न देहादिलयस्ततः ।। ४२४ ।।
श्रुतेऽपि स्वर्गतात्पर्ये कल्पना चेल्लयेऽर्थतः ।।
तन्न प्रत्यक्षवचनाद्देहादिलयसिद्धितः ।। ४२५ ।।
साक्षाद्धस्तिनि दृष्टेऽपि नहि हस्तिपदानुमा ।।
अस्थूलादिवचः साक्षाद्देहादिप्रतिषेधकृत् ।। ४२६ ।।
विपर्ययेण येऽप्याहुर्यथोक्तज्ञानकर्मणोः ।।
एकाधिकारितां वाच्यं मानं तैर्ज्ञानसंगतौ ।। ४२७ ।।
न तावत्प्रक्रियेहास्ति व्रूह्यादिप्रोक्षणे यथा ।।
प्रकृतापूर्वसंबन्धलक्षणापरतः स्थितेः ।। ४२८ ।।
व्रीहिशब्दस्य हि व्रीहिस्वरूपे तु निरर्थकम् ।।
प्रकृतापूर्वसंबन्धं बोधयेदिति युज्यते ।। ४२९ ।।
नापि वाक्येन संबन्धो जुहूपर्णमयीत्ववत् ।। ४३० ।।
जुह्वाद्यव्यभिचारित्वकर्मसंगतिकारणात् ।।
विनाऽपि प्रक्रियां तेन कर्मोपस्थापयेद्ध्रुवम् ।। ४३१ ।।
वाक्येनैवाभिसंबन्धस्तत्र तस्येति वर्णितम् ।।
आत्मज्ञानं तु नैवं स्यान्न तत्प्रकरणे श्रुतम् ।। ४३२ ।।
नापि चाव्यभिचारित्वमात्मनः कर्मणेक्ष्यते ।।
तेनास्य कर्मसंबन्धो न मानेनोपपद्यते ।। ४३३ ।।
एवं चाज्ञातपारार्थ्ये नार्थवादः फलश्रुतिः।।
पृथगेवाधिकारोऽतो यथोक्तज्ञानकर्मणोः ।। ४३४ ।।
अर्थाक्षेपोऽपि योग्यस्य कर्तुर्भोक्तुश्च युज्यते ।।
न तु विध्वस्तभेदस्य स्यादौपनिषदस्य सः ।। ४३५ ।।
प्रत्यक्षवेदवचनप्रामाण्याद्याश्रयत्वतः ।।
आदौ संन्याससंसिद्धेर्ऋणानीति ह्यपस्मृतिः ।। ४३६ ।।
न च केवलकर्मभ्यो मुक्तिर्युक्त्योपपद्यते ।।
तथाच वक्ष्यते स्पष्टमतो मुक्तिर्न कर्मतः ।। ४३७ ।।
न चैकात्म्यपरिज्ञानमभ्यासापेक्षमिष्यते ।।
मुक्तये भावनार्थं वा तथा चोर्ध्वं प्रवक्ष्यते ।। ४३८ ।।
स्वतोऽनुभवतः सिद्धेरैकात्म्याख्यस्य वस्तुनः।।
न स्यात्सांपादिकं ज्ञानमित्येतच्चापि वक्ष्यते ।। ४३९ ।।
अन्य आहुः पदार्थत्वात्प्रमाणान्तरगम्यताम् ।।
आत्मनो नाऽऽगमात्सिद्धिर्व्रीह्याद्यन्यपदार्थवत् ।। ४४० ।।
अऩ्वयव्यतिरेकाभ्यां जाग्रत्स्वप्नसुषुप्तितः ।।
विविच्यातः स्वमात्मानं प्रत्यभिज्ञानसस्तथा ।।
माव्यापारसमाप्तत्वान्न भूयस्तदपेक्षिता ।। ४४१ ।।
तद्वासनानिरोधेऽतः पुमाञ्श्रुत्या नियुज्यते ।। ४४२ ।।
मनसो वा निरोधेऽसौ न तु वस्त्ववबोधने ।।
मानान्तरेण तत्सिद्धेर्नात्र व्याप्रियते वचः ।। ४४३ ।।
स्वयंज्योतिःस्वभावत्वान्निरूद्धस्वान्तवासनः ।।
प्रमान्तरानपेक्षोऽपि स्वयमात्मा प्रकाशते ।। ४४४ ।।
एवं कार्यमुखेनैव ज्योतिष्टोमादिवाक्यवत् ।।
वेदान्तानां प्रमाणत्वं, नाक्षवद्वस्तुनीष्यते ।। ४४५ ।।
वासनामात्रहेतुत्वादात्मनोऽनर्थसंगतेः।।
अन्योपाये सत्यसति निरोधादेव मुक्तता ।। ४४६ ।।
संभाव्यं नानपेक्षत्वं नियोगविरहात्कचित् ।।
शब्दप्रवृत्तेः सिद्धे च न नियोगस्य संभवः ।। ४४७ ।।
न च वस्तुनि मानत्व उदाहरणमिष्यते ।।
विधर्गुणार्थस्तस्यापि व्यापारविषयत्वतः ।। ४४८ ।।
किंचानुभूयमानस्य ह्यर्थस्य पुरुषार्थता ।।
सर्वत्र गम्यते वेदे नानुभूतेः कथंचन ।। ४४९ ।।
ततश्च प्रतिभामात्रं शब्दादिति न मानतः।।
प्रतीयमान एवातः पुरुषार्थः प्रसिद्धितः ।। ४५० ।।
अप्युपादीयमानं च सिद्धं वस्तु न कर्मणि ।।
पुमर्थं साधयट्ट्टष्टमनिर्ज्ञाताङ्गभावकम् ।। ४५१ ।।
अनुपादीयमानश्च न च ज्ञाताङ्गभावकः।।
आत्मा चेन्नास्य शेषत्वं विधिं प्रत्युपपद्यते ।। ४५२ ।।
उपासीत स्वमात्मानमिति साक्षाद्वचःश्रवात् ।।
तत्राङ्गभाव इति चेन्मत्पन्थानं भवानितः ।। ४५३ ।।
क्रियाविधिपरत्वेन प्रामाण्यं वचसः स्थितम् ।।
इति व्याचक्षते केचिन्नियोगार्थौकरागिणः ।। ४५४ ।।
नैतत्साध्वभ्यधाय्युच्चैर्नियोगविरहादपि ।।
कामितार्थस्य संसिद्धेर्लौकिकादेव मानतः ।। ४५५ ।।
तद्भावभावतो लिङ्गाद्वासनैकसमाश्रयात् ।।
ज्ञातोऽनर्थेन संबन्ध आत्मनो न तु वास्तवः ।। ४५६ ।।
तस्मात्संसारसंबन्धनिदानस्य प्रसिद्धितः ।।
लिङ्गादेव ततस्तस्य ध्वंसेऽनर्थो निवर्तते ।। ४५७ ।।
अन्तरेणापि वचनं बौद्धादेरिव सिद्धितः ।।
मोक्षस्य पुरुषार्थस्य वचोऽतो निष्फलं भवेत् ।। ४५८।।
व्यतीतानेकजन्मोत्थवासनानामनन्ततः।।
तासां निरोधोऽसंभाव्यो जन्मन्येकत्र मानवै ।। ४५९ ।।
साक्षादात्मावबोधेन प्रत्यग्ध्वान्तच्छिदा न चेत् ।।
दुःखादिभावना ध्वस्ता कथं तद्भावना नुदेत् ।। ४६० ।।
नियोगवर्त्मना चेयं यथा मुक्तिर्न सिध्यति ।।
स्पष्टेन न्यायमार्गेण वक्ष्यामोऽवसरे तथा ।। ४६१ ।।
न पदार्थो न वाक्यार्थ आत्माऽयं वस्तुतो यतः ।।
तत्प्रत्याख्यानश्रुत्यैव तद्याथात्म्यावबोधनात् ।। ४६२ ।।
वासनानामभावेऽपि सुषुप्त्यादौ न मुक्तता ।।
मानव्यापारविरहात्प्रथनं वा दृगात्मनः ।। ४६३ ।।
सर्वानर्थाभिसंबन्धे ह्यविद्यैवास्य कारणम् ।।
वासनानामपि युतौ सैव यस्मादपेक्ष्यते ।। ४६४ ।।
संभाव्यतेऽनपेक्षत्वं नियोगविरहादपि ।।
यथा तथा च वक्ष्यामः स्पष्टेन न्यायवर्त्मना ।। ४६५ ।।
स्वानुभूतिबलादेव भवताऽपि विभाव्यते ।।
नियोगादिः प्रमाणार्थो नानुभूतिर्नियोगतः ।। ४६६ ।।
यस्याप्रसिद्धिर्नाज्ञानात्प्रसिद्धिर्नापि मानतः।।
तस्यानुभवतत्त्वस्य कुतः सापेक्षतोच्यते ।। ४६७ ।।
स्वप्रधानात्मबुद्ध्यैव तदन्यस्य प्रसिद्धितः ।।
कार्यबुद्धिव्यपेक्षातो नानुभूत्यात्मवस्तुनः ।। ४६८ ।।
क्व नु प्रतीयमानस्य पुमर्थत्वं समीक्षितम् ।।
मानान्मानफलस्यैव पुमर्थत्वसमन्वयात् ।। ४६९ ।।
प्रतीतेर्माफलत्वाच्च कथं मेयैकनिष्ठता ।।
माक्रियाफलयोगोऽयं यतो मातरि भोक्तरि ।। ४७० ।।
न चाऽऽत्मानुभावदन्यो विषयः किश्चिदिष्यते ।।
अपि सर्वप्रमाणानां, किमु वेदान्तशासने ।। ४७१ ।।
लौकिको वैदिकः सर्वो व्यवहारो जगत्यपि ।।
भोक्त्रर्थ एऴ नान्योऽतः प्रधानं भोक्तुरिष्यते ।। ४७२ ।।
न वा अरे पत्युरिति तदेतत्प्रेय इत्यपि ।।
निखिलेऽपि जगत्यस्मिन्प्रधानं नाऽऽत्मनोऽपरः ।। ४७३ ।।
न प्रमाता प्रमाणं वा क्रियामेयफलानि वा।।
प्राधान्यायेन कल्पन्ते भोक्तुरेव प्रधानतः ।। ४७४ ।।
आत्मनः कर्त्रवस्थाऽपि भोक्त्रर्थमिति निश्चयः ।।
यतोऽतोऽपरमप्येतद्भोक्त्रर्थं विनियुज्यते ।। ४७५ ।।
नापि चाऽऽत्मातिरेकेण वस्त्वन्यन्मानभूभिगम् ।।
संभाव्यते यथा चैतत्तथोदर्के प्रवक्ष्यते ।। ४७६ ।।
अनादृत्य यथोक्तार्थं नियोगार्थैकरागतः ।।
केचित्कार्यैकनिष्ठत्वं वेदान्तानां प्रचक्षते ।। ४७७ ।।
कार्यैकमात्रनिष्ठत्वात्प्रमाणस्याऽऽगमात्मनः ।।
कुत ऐकात्म्यनिष्ठत्वं त्वया यदुदितं पुरा ।। ४७८ ।।
नहि तस्यानपेक्षत्वं सिद्धवस्त्वबोधनात् ।।
यतो मानान्तरमितं सिद्धं वस्त्विति भण्यते ।। ४७९ ।।
शब्दसामर्थ्यनियमो लोकादेवावगम्यते ।।
लोके मान्तरसिद्धोऽर्थः कार्यायैवाभिधीयते ।। ४८० ।।
न प्रवृत्तिनिवृत्तिभ्यां शून्यस्य वचसो यतः ।।
कश्चिदर्थोऽत्र दृष्टोऽतो वस्तुनि स्यान्न मानता ।। ४८१ ।।
संबन्धावगमो नापि शब्दाद्भूतार्थवाचिनः ।।
प्रवर्तकात्प्रवृत्त्याऽर्थे प्रत्ययो ह्यनुमीयते ।। ४८२ ।।
ततः शब्दस्य सामर्थ्यं प्रतीतेरवधार्यते ।।
कार्यैकविषयैवेयं वाक्यस्यातः प्रमाणतः ।। ४८३ ।।
क्रियाकारकसंबन्धो वाक्यार्थो यैरपीष्यते ।।
अनुवादविसंवादात्तेषामुक्तेरमानता ।। ४८४ ।।
मान्तरानुप्रवेशित्वं कार्यस्य तु न शङ्क्यते ।।
शब्दादेव हि कार्यार्थप्रतिपत्तिर्न लोकतः ।। ४८५ ।।
प्रवर्तनां वदञ्शब्दः प्रवर्तनां वदञ्शब्दः प्रवर्तक इतीर्यते ।।
ज्ञापकत्वात्प्रमाणस्य प्रेरयन्कारको भवेत् ।। ४८६ ।।
शब्दात्प्रवर्तनाबुद्धौ रागादिर्न च शङ्क्यते ।।
रागादिः प्रेरणाकारी प्रेरणाज्ञापको ध्वनिः ।। ४८७ ।।
आज्ञापितार्थनिष्पत्तौ कृतिमत्त्वेक्षणात्प्रभोः ।।
रागाद्यर्थस्य चासिद्धौ कर्तृवृत्तिर्न रागतः ।। ४८८ ।।
स्वामिकोपप्रसादादिहृदयाकूतवेदनात् ।।
नापि श्रोतुः प्रवृत्तिः स्याच्छब्दात्कोपाद्यवेदनात् ।। ४८९ ।।
लिङादयो न कोपादेः स्मर्यन्ते प्रतिपादकाः ।।
मानान्तरमिताः सन्तस्ते हि पुंसां प्रवर्तकाः ।। ४९० ।।
धिगङ्गाद्यभिधानैस्तु लिङ्गभूतैरिहेङ्गिताः ।।
रागादयो नियोगस्य सिद्ध्यै विषयसाधनाः ।। ४९१ ।।
अत एव च रागादिसंसृष्टोऽपि विविच्यते ।।
लोडाद्यर्थो व्रजेत्युक्तो याति स्वर्थं विना यतः ।। ४९२ ।।
ननु दानादिसंबद्धमहावाक्यानुमानतः ।।
गच्छेत्याद्येकदेशोक्तौ लोभादेव प्रवर्तते ।। ४९३ ।।
महावाक्यप्रयोगेऽपि पदार्थप्रविवेचने ।।
पुंस्प्रवृत्तिस्तु दृष्टेयं लोडादेरेव नान्यतः ।। ४९४ ।।
लोडादेरेव श्रवणाद्यत्र रागाद्यसंभवः ।।
बालः प्रवर्तते तत्र ज्ञायते प्रेरणार्थता ।। ४९५ ।।
आह मानान्तरेणासौ किल नार्थोऽवगम्यते ।।
शब्दाच्च ज्ञायतेऽज्ञातसंबन्धादिति चित्रता ।। ४९६ ।।
यद्यनिर्ज्ञातसंबन्धोऽप्यर्थं शब्दः प्रबोधयेत् ।।
को द्वेषोऽस्मासु भवतो येनोपालम्भ ईर्यते ।। ४९७ ।।
यदाऽवगम्यते नान्यत्प्रवृत्तेः कारणान्तरम् ।।
शब्दश्च गम्यते स्पष्टस्तदाऽर्थः प्रविविच्यते ।। ४९८ ।।
अन्वयव्यतिरेकौ तु वाक्यार्थज्ञानपूर्वकौ ।।
वाक्यार्थस्तु तदायत्तो नेत्यन्येभ्यो विशिष्टता ।। ४९९ ।।
कर्तव्यताविवक्षैव नृवाक्येभ्योऽपि गम्यते ।।
विवक्षाया न कार्यत्वं शब्दार्थविषया हि सा ।। ५०० ।।
तद्वशान्न तु शब्दार्थः स हि पूर्वं प्रतीयते ।।
अतः प्रैषादिसंसृष्टोऽप्यर्थः सिद्धो विवेकतः ।। ५०१ ।।
शब्दार्थोपाधयो ह्येते पुरुषाशयपातिनः ।।
प्रैषादयो न शब्दार्था न चानेकार्थता मता ।। ५०२ ।।
अभिप्रायवतोऽभावादभिप्रायानुपातिनः ।।
शङ्क्यतेऽपि न वेदे तु कार्यं वाच्यमिति स्थितम् ।। ५०३ ।।
प्रयोगविधिशेषत्वात्तन्मूला एव नाऽऽशयात् ।।
वेदे प्रैषास्तु ये दृष्टा अग्नीदग्नीनितीदृशाः ।। ५०४ ।।
प्रैषादिभ्यो यथैवेयं भिन्ना कर्तव्यतेक्ष्यते ।।
शब्दशक्तिवशात्तद्वत्क्रियादेरपि वीक्ष्यताम् ।। ५०५ ।।
नानिष्पन्नस्वभावोऽपि भावः कर्तव्यता यतः ।।
लडादिश्रवणात्तस्या अप्रतीतिर्लिङादिवत् ।। ५०६ ।।
ननु कालोपबन्धोऽत्र कार्यबुद्धिविघातकृत् ।।
नैतत्संदेह एवात्र विवेकाभावतस्तव ।। ५०७ ।।
कालोपबन्धः किंत्वत्र कार्यबुद्धिविघातकृत् ।।
किं भावात्कार्यता भिन्ना लडादिर्यां न भाषते ।। ५०८ ।।
कर्तव्यः कट इत्यादावव्यापारेऽपि कार्यता ।।
वीक्ष्यतेऽतः पृथग्भावात्फलाच्च प्राक्प्रतीतितः ।। ५०९ ।।
ननु कर्मणि कृत्योऽयं तयोरेवेति शासनात् ।।
मैवं प्रैषादिवद्यस्मादुपाधित्वादवाच्यता ।। ५१० ।।
प्रैषादिष्वपि कृत्यानां तथाच स्मरणं मुनेः ।।
कृत्यानां युक्तितोऽपि स्यान्नैव कर्माभिधायिता ।। ५११ ।।
यथा कटं करोतीति कर्ममात्रावबोधनम् ।।
कर्तव्यः कट इत्यत्र तथैव स्यान्न चेक्ष्यते ।। ५१२ ।।
कर्तव्यत्वादभीष्टत्वसिद्धौ कर्मार्थलाभतः ।।
साक्षादनभिधानेऽपि न द्वितीया प्रसज्यते ।। ५१३ ।।
न चाभीष्टत्वकार्यत्वमभिन्नं व्यतिरेकतः ।।
इच्छेदेष्टव्यमित्येवं तत्रापि प्रत्ययो यतः ।। ५१४ ।।
तस्मात्कर्तव्यतावेशात्क्रिया वा यदि वा फलम् ।।
कारकं वाऽपि कार्यत्वं लभते न स्वतन्त्रतः ।। ५१५ ।।
लोकवन्ननु वेदेऽपि कार्यमात्रं न गम्यते ।।
साधनेहानुबन्धस्य वेदे कार्यस्य बोधनात् ।। ५१६ ।।
ततश्चोऽऽरोग्यकामस्य पथ्यभोजनवाक्यवत् ।।
मानान्तरप्रवेशेन सापेक्षत्वं प्रसज्यते ।। ५१७ ।।
अतः प्रैषादितुल्योऽयं क्रियाफलनिवन्धनः ।।
नियोगस्तदसंवादाच्चित्रादौ ते विहन्यते ।। ५१८ ।।
मैवं मानान्तरावेशाल्लोके प्रैषाद्युपाधिकम् ।।
कार्यं प्रयोजनार्था च प्रवृत्तिरिति युज्यते ।। ५१९ ।।
साध्यसाधनसंबन्धविषयत्वं पुमर्थतः ।।
नियोगस्यात एवात्र कर्तृत्वेन नियुज्यते ।। ५२० ।।
स्वत एव प्रवृत्तत्वात्कर्तुरेवाधिकारिता ।।
पदं चाऽऽरोग्यकामादि भवेत्कर्तृविशेषणम् ।। ५२१ ।।
वेदे तु सकलाक्षादिप्रमाणागोचरत्वतः ।।
साध्यसाधनताज्ञानं नियोगादेव नान्यतः ।। ५२२ ।।
तथा ह्यकारकः कामी स्वर्गकामपदार्पितः।।
नियोगात्कर्मसंबन्धे पश्चाद्यातीह कर्तृताम् ।। ५२३ ।।
कामस्य च प्रधानत्वात्तत्प्राधान्यानपायतः ।।
पुंविशेषणता तस्माद्भोगी कामी न कारकः ।। ५२४ ।।
अप्रवृत्तप्रवृत्तेश्च कारकत्वं न युज्यते ।।
प्रवृत्तस्य णिचोक्तिः स्यात्पचन्तं पाचयेद्यथा ।। ५२५ ।।
अक्रियाकर्तृसंबन्धे ननु षष्ठी प्रसज्जते ।।
नैवं नाम्नोः सदा योगे षष्ठीयं शैषिकी यतः ।। ५२६ ।।
क्रियाकारकयोगे च द्वितीयादिर्लडादि तु ।।
स्यात्प्रातिपदिकार्थस्य भावार्थेनेत्यसंकरः ।। ५२७ ।।
नीलोन्पले तु नामार्थावपहाय परस्परम् ।।
भेदमेकात्मतां याताविति षष्ठी न संमता ।। ५२८ ।।
लिङर्थे युज्यमानस्य कर्मत्वं न च कामिनः ।।
अक्रियात्वान्नियोगस्य द्वितीया चेद्भवेत्तथा ।। ५२९ ।।
तस्मादकारकः कामी स्वनियोगप्रसिद्धये ।।
नियुज्यमान एवेह विषयं साध्यमीक्षते ।। ५३० ।।
राजादिषु प्रसिद्धश्च नियोगः साध्यगोचरः ।।
भावार्थस्य च साध्यत्वमिति तेनापि युज्यते ।। ५३१ ।।
अविवक्षितमप्येवं लिङ्गसंख्यं विवक्ष्यते ।।
पश्चाद्विषयासिद्ध्यर्थं कारकादि च यच्छ्रुतम् ।। ५३२ ।।
ततश्च स्वर्गकामो यः स्वनियोगं स साधयेत् ।।
केन यागादिनिर्वृत्त्येत्येतच्छास्रात्प्रतीयते ।। ५३३ ।।
न चानपनयन्यागः कामिनः स्वर्गकामिताम् ।।
साधनं स्वाधिकारस्य भवतीह कथंचन ।। ५३४ ।।
अनुन्मृदितकामो हि पूर्वावस्थाविशेषतः ।।
निष्पादिताधिकारोऽपि नियोगार्हः पुनर्भवेत् ।। ५३५ ।।
अधिकारः स्वसिद्ध्यर्थमतः कामस्य साध्यताम् ।।
यागेनाऽऽपाद्य संसिध्यन्विषयस्यैति साध्यताम् ।। ५३६ ।।
नानन्तरफलाभावे विसंवादोऽत्र शङ्क्यते ।।
क्रियासाध्ये फले स स्याल्लिङर्थस्त्वक्रियात्मकः ।। ५३७ ।।
प्रत्यर्थिनि च शब्देऽस्मिन्नाभावोऽनुपलब्धितः ।।
मानाभावे ह्यसौ मानमानन्तर्यं त्वचोदितम् ।। ५३८ ।।
अतः कृताधिकारोऽपि यो विद्यादकृतार्थताम् ।।
तस्य शास्त्रानभिज्ञत्वान्नाधिकारोऽत्र वैदिके ।। ५३९ ।।
मत्रार्थवादनाम्नां च कार्यार्थानुप्रवेशतः ।।
प्रामाण्यं न स्वतस्तस्मात्कार्ये वेदस्य मानता ।। ५४० ।।
वेदान्तानामतो वाच्यं कार्यार्थानुप्रवेशनम् ।।
प्रामाण्यं वा निषेद्धव्यमत्र प्रतिविधीयते ।। ५४१ ।।
निःशेषमातृतद्वृत्तिजन्मनां तद्विलक्षण-
स्वतःसिद्धात्मसंबोधव्याप्तिर्वस्त्वनुरोधतः ।। ५४२ ।।
वियद्वस्तु्स्वभावानुरोधादेव न कारकात् ।।
वियत्संपूर्णतोत्पत्तौ कुम्भस्येव दृशा धियाम् ।। ५४३ ।।
घटदुःखादिरूपत्वं धियां धर्मादिहेतुतः ।।
निर्हेतुत्वात्मसंबोधरूपित्वं वस्तुरूपतः ।। ५४४ ।।
बुद्धितद्वृत्तिभावोऽयमभावश्चाप्यनन्यमात् ।।
यतः सिद्धायते सोऽर्थो ज्ञेयः सिद्धः स्वतः सदा ।। ५४५ ।।
ननु प्रमाणविरहात्स्वतःसिद्धो यदीष्यते ।।
वचसो बुद्धबोधित्वादप्रमाण्यं प्रसज्यते ।। ५४६ ।।
मैवमप्रतिपन्नत्वादनुभूत्यैव वस्तुनः ।।
तद्द्वयुत्पत्तेः पुरा साक्षाद्बोधो व्युत्पत्तिमात्रतः ।। ५४७ ।।
बोधाबोधौ यतो दृष्टौ स्वानुभूत्यनुसारतः ।।
दृष्टे चानुपपन्नत्वं किंबलादभिधीयते ।। ५४८ ।।
सुषुप्तादेश्च संसिद्धिर्मात्रादिविरहेऽपि या ।।
साऽपीहान्तरसंबुद्धमेयमात्रव्यपाश्रयात् ।। ५४९ ।।
न चाभावप्रमाणात्सा सति मातर्यभावमा ।।
मात्राद्यभावसंसिद्धिः कथं मात्रादिपूर्विका ।। ५५० ।।
यमप्रमीयमाणानि नानात्मानं प्रमिण्वते ।।
वस्तुवृत्तानुरोधेन कथं तत्राप्रमा वचः ।। ५५१ ।।
अमीमांसक इत्युच्चैरमीमांसक इत्यतः ।।
आक्षिपन्ति यदज्ञानात्तच्छान्त्या उत्तरं वचः ।। ५५२ ।।
सर्वोऽपि वेद इत्यादि यथोक्तपरिहारकृत् ।।
गुरुराह वचः स्पष्टं दृढन्यायोपबृंहितम् ।। ५५३ ।।
मानस्वभावमाश्रित्य सर्वोऽपीत्याद्युदीरणम् ।।
काण्डद्वयसमाख्या हि तत्प्रमेयानुरोधतः ।। ५५४ ।।
मानं हि व्य़ञ्जकं लोके सिद्धे तच्च स्वकारणात् ।।
स्वतः सिद्धेऽथ वा नित्यं मेयमात्रं विशिष्यते ।। ५५५ ।।
अतः सर्वोऽपि वेदोऽयं प्रमाणत्वैकहेतुतः ।।
प्रकाशनपरो ज्ञेयः सिद्धसाध्यात्मवस्तुनः ।। ५५६ ।।
एकवाक्यत्वतो यद्वा सर्वोऽपीत्यादि भण्यते ।।
पुरुषार्थावसायित्वाद्वेदाधीतिविधेरिति ।। ५५७ ।।
निःशेषसुखसंप्राप्तेः सर्वानर्थइनुतेस्तथा ।।
मुक्तेरर्वाक्पुमर्थोऽन्यो नेह कश्चित्समीक्ष्यते ।। ५५८ ।।
असिद्धार्थस्य वा सिद्धिरनुभूत्येकमात्रतः ।।
सर्वोऽपीति वचः सिद्धिः सर्वा ह्यात्मैकसंविदः ।। ५५९ ।।
यद्वाऽनवगतोऽतोन्यः संभाव्यो नाऽऽत्मनस्ततः ।।
सर्वोऽपीति वचः प्राह तथा चोर्ध्वं प्रवक्ष्यते ।। ५६० ।।
यद्धेतुकं प्रमाणत्वं वेदान्तानां समर्थ्यते ।।
तेनैव हेतुना कर्मकाण्डस्यापि प्रमाणता ।। ५६१ ।।
वेदान्तानाममानत्वं येन वा हेतुनोच्यते ।।
तेनैव हेतुना कर्मकाण्डस्यापि प्रसज्यते ।। ५६२ ।।
अपि सर्वप्रमाणानि स्वप्रमेयाभिसंगतेः ।।
प्रमामेवेह कुर्वन्ति प्रामाण्यं यान्ति नान्यथा ।। ५६३।।
विधिनैवैकवाक्यत्वं यतो मत्रार्थवादयोः ।।
ततो दर्शननिष्ठत्वं न तयोरुपपद्यते ।। ५६४ ।।
अर्थवादोक्तितो याऽपि प्रतिष्ठाकामिकल्पना ।।
विध्यर्थसंगतावेव साऽपि नैव ततोऽन्यतः ।। ५६५ ।।
विध्यर्थशेषभावश्च ततश्चार्थान्तरोक्तिता ।।
ऐकार्थ्याद्वचसोऽशक्या विरुद्धद्व्यर्थकल्पना ।। ५६६ ।।
विरोधे गुणवादः स्यादनुवादोऽवधारिते ।।
भूतार्थवादस्तद्धानादर्थवादस्रिधा मतः ।। ५६७ ।।
विधिशेषोऽपि यद्यर्थमर्थवादः समर्पयेत् ।।
अद्वैतविधिनाऽऽक्षिप्ता वेदान्ता नेति का मितिः ।। ५६८ ।।
प्रत्यक्षाद्यभिधानेन सर्वमानोपलक्षणम् ।।
मान्तरं नाऽऽगमादन्यद्यदैकात्म्यावबोधकृत् ।। ५६९ ।।
सिद्धेऽनवगते यस्मात्पुरस्ताद्व्यापृतिर्मितेः ।।
मानादज्ञाततासिद्धौ स्यादन्योन्यसमाश्रयः ।। ५७० ।।
तत्त्वमस्यादिक्यस्य विरोधोऽतो न केनचित् ।।
सर्वाश्रयत्वात्संवित्तेस्तथाऽऽत्मन्यप्रवृत्तितः ।। ५७१ ।।
कृत्स्रेष्टार्थस्य संप्राप्तिः कृत्स्रानर्थइनुतिस्तथा ।।
आत्मस्वरूपान्नान्यत्र संभाव्या सा हि मानतः ।।। ५७२ ।।
इत्येवमादिभाष्यार्थः क्रमेणैकात्म्यवस्तुनि ।।
यत्नेन वक्ष्यते न्यायात्पूर्वपक्षनिरासतः ।। ५७३ ।।
वेदान्तवचसां स्वार्थे प्रामाण्यं न विहन्यते ।।
मानलक्षणसद्भावाज्ज्योतिष्टोमादिवाक्यवत् ।। ५७४ ।।
नैव कार्यैकनिष्ठानि व्यवहारे वचांसि हि ।।
नियमेन प्रयुज्यन्त इत्यत्र मितिरस्ति ते ।। ५७५ ।।
दिष्ट्या त्वं वर्धसे भद्र जातः पुत्रस्तवर्धिमान् ।।
इति नेदं प्रवृत्त्यर्थं वचो नापि निवृत्तये ।। ५७६ ।।
सुखाद्युत्पत्तिहेतूनि दृश्यन्तेऽकार्यवन्त्यपि ।।
वचनानि व्रज ग्राममित्यादिनि यथा तथा ।। ५७७ ।।
सुख्येधीति न चानेन प्रवृत्तिरुपदिश्यते ।।
सुखीभवनमस्यार्थान्नोपदेशव्यपेक्षया ।। ५७८ ।।
विशेषोऽस्ति प्रवृत्तेश्चेत्तात्पर्यं वचसोऽपि च ।।
नैवं सुखादिसंभूतावर्थवत्त्वोपपत्तितः ।। ५७९ ।।
आनर्थक्यभयादेव श्रुतादन्यत्र कल्प्यते ।।
तात्पर्यं प्रोक्षणाद्युक्तेर्न स्वतत्रेऽधिकारवत् ।। ५८० ।।
किंचोपायेऽप्रवृत्तः सन्पुरुषोऽयं प्रवर्त्यते ।।
ज्ञातोपायत्वतो यद्वा विधिनोपेयसिद्धये ।। ५८१ ।।
तत्रेह तावन्नोपाये पुत्रजन्मादिलक्षणे ।।
तस्य निष्पन्नरूपत्वान्नाप्युपेये सुखे तथा ।। ५८२ ।।
न व्यापारान्तरं यस्मात्सुखार्थं किंचिदीक्ष्यते ।।
पुत्रजन्मोक्तिमात्रेण पुरुषार्थावसानतः ।। ५८३ ।।
किं चाध्यस्ताहिदृष्टस्य तद्विपव्याप्तचेतसः ।।
स्रगियं न फणीत्युक्ते दृष्टा विषनिराक्रिया ।। ५८४ ।।
मा भैषीरिति चोक्तेऽपि न नियोगः प्रतीयते ।।
स्रगुक्तेरेव निःशेषसाध्वसध्वंसलाभतः ।। ५८५ ।।
न्याय्यो नियोगस्तत्रैव यत्र बुद्धाऽस्य कार्यताम् ।।
अनन्तंर प्रवृ्त्तिः स्याद्विषये तस्य सिद्धये ।। ५८६ ।।
इह त्वैकात्म्यवाक्येषु तत्त्वमात्रावबोधतः ।।
सद्यः पुमर्थसंसिद्धेः कार्यसिद्धिर्न वीक्ष्यते ।। ५८७ ।।
कुतूहलवतां तद्वन्निर्वृत्ताख्यानमात्रतः ।।
दृष्टा नराणां निःशेषकुतूहलनिराक्रिया ।। ५८८ ।।
वस्तुमात्रावसायित्वात्तद्वचांसि न कनिचित् ।।
उपादानाय वाऽलं स्युर्नापि हानाय तद्विदः ।। ५८९ ।।
यत्रापि च प्रतीयेते हानादाने वचःश्रवात ।।
अयं चोराकुलः पन्था देशोऽयं निधिमानिति ।। ५९० ।।
तत्रापि नैव शब्दस्य व्यापारः सिद्धवेदनात् ।।
कृतार्थत्वान्नरस्यापि रागादेव प्रवृत्तितः ।। ५९१ ।।
कामैकपाशाकृष्टः सन्निच्छयैव प्रवर्तते ।।
निवर्तते च तद्दूेषान्न शब्दव्यापृतेर्नरः ।। ५९२ ।।
नन्वप्रयुक्तमप्येतद्वक्त्रा वाक्यं विवक्षितम् ।।
न गन्तव्यं पथाऽनेन, गृहाणेमं निधिं तथा ।। ५९३ ।।
मैवं, न वक्त्रभिप्रायाच्छब्दार्थत्वं प्रकल्पते ।।
शब्दसामर्थ्यतो यस्मात्तादर्थ्यं, नान्यहेतुकम् ।। ५९४ ।।
भवद्भिरपि चैवैतदभ्युपेयं प्रयत्नतः ।।
वक्तृतत्रे हि शब्दार्थे न विश्वासः श्रुतेर्भवेत् ।। ५९५ ।।
नानाविधपुमर्थाप्तिरपि वक्तुः समीहिता ।।
तस्या अपि त्वदुक्त्यैवं शब्दार्थत्वं प्रसज्यते ।। ५९६ ।।
प्रवृत्तिं वा निवृत्तिं वा यदाऽभिप्रेत्य चेतसा ।।
किंचिज्जिज्ञास्यते ज्ञात्रा प्रत्यक्षादिप्रमाणतः ।। ५९७ ।।
अभिप्रेताऽपि न तदा प्रवृत्तिर्यदि वेतरा ।।
प्रत्यक्षादिप्रमेयेति शक्या वक्तुं विपश्चिता ।। ५९८ ।।
इतश्चाभ्युपगन्तव्यमेततुल्येऽपि वस्तुनि ।।
एकस्य हानधीस्तस्मिन्नुपादित्सा परस्य च ।। ५९९ ।।
शब्दार्थत्वे हि सर्वेषामादानायैव धीर्भवेत् ।।
नोपेक्षायां, प्रहाणे वा, न चानेकार्थता मता ।। ६०० ।।
न च प्रवर्तकत्वेऽपि वाक्यस्याङ्गीकृते त्वया ।।
शक्यो विधायिनोऽन्येषां पदानां वक्तुमन्वयः ।। ६०१ ।।
किं स्वार्थमात्रनिष्ठत्वमुत कार्यै कनिष्ठता ।।
पदार्थमात्रसंसर्गपरता किं त्वितीर्यताम् ।। ६०२ ।।
स्वार्थमात्रावसायित्वे वाक्यार्थप्रत्ययः कुतः ।।
वैयर्थ्यं त प्रयोगस्य व्यवहाराक्षमत्वतः ।। ६०३ ।।
पदार्थमात्रसंसर्गे कार्यार्थविरहेऽपि ते ।।
व्यवहारस्य संसिद्धेर्व्यर्था कार्यप्रकल्पना ।। ६०४ ।।
कार्यैकव्यतिषङ्गे च वाक्याद्भूतानुवादकात् ।।
प्रतीतिः स्यान्न वाक्यार्थे स्यादुक्तेर्व्यर्थताऽपि च ।। ६०५ ।।
कार्यान्तरस्य चाभावात्कार्यार्थैकाभिधायिनः ।।
संबन्धो न भवेदन्यैः साधनाद्यभिद्यायिभिः ।। ६०६ ।।
कार्यान्वयित्वे सर्वेषामपि चेह परस्परम् ।।
पदार्थानामसंबन्धोऽनपेक्षत्वाद्भवेद् ध्रुवम् ।। ६०७ ।।
नियोगो न प्रतीयेत विशिष्टविषयस्तथा ।।
तदा चैकपदार्थस्य नियोगः साध्यतामियात् ।। ६०८ ।।
अथ सोमादिसंबद्धे यागादौ विपये मतः ।।
नियोगः कस्ततः पूर्वं संबन्धे हेतुरुच्यताम् ।। ६०९ ।।
सिद्धेऽसति विशिष्टे न विपये कार्यमिष्यते।।
अथ क्रियैव प्राक्कार्यात्सिद्धं नो यत्समीहितम् ।। ६१० ।।
तदेतरत्तदर्थमित्येवं चैतत्समञ्जसम् ।।
विषये यदि कार्यत्वं कार्यावगमपूर्वकम् ।। ६११ ।।
कार्ये कार्यान्तराभावात्कार्यवुद्धिः कुतो भवेत् ।।
तदभावादनुष्ठेयो विषयोऽपि न ते भवेत् ।। ६१२ ।।
कार्यार्थता ततश्चेष्टा हीयेतानुष्ठितिं विना ।।
अथ कार्यान्तराभावेऽप्यस्य कार्यत्वमिष्यते ।। ६१३ ।।
विषयस्यापि कार्यत्वं स्वत एव भवेत्तथा ।।
विषयोऽकार्यरूपत्वात्स्वसिद्ध्यै यद्यपेक्षते ।। ५१४ ।।
कार्यं तदपि विषयमीक्षेतासाध्यरूपतः ।।
कार्येऽपि कार्यतैवं च भवेद्विषयहेतुका ।। ६१५ ।।
अन्योन्याश्रयता च स्यान्न च कार्यप्रधानता ।।
पुंव्यापारव्यपेक्षायं स्वासिद्धौ कार्यमुच्यते ।। ६१६ ।।
यागादिः स च नो कार्यं स्वतःकार्यैकरूपतः ।।
कार्यस्यैव न कार्यत्वमकार्थे कार्यतेष्यते ।। ६१७ ।।
न शौक्ल्ये शुक्लतापत्तिः पटादेः सा विधीयते ।।
घटकार्ययजत्यादि स्वस्वभावतया स्थितम् ।। ६१८ ।।
सिद्धसाध्यादिभेदेन स्वशब्देनाभिधीयते ।।
यदा तदा ध्वनेर्न स्यादज्ञातार्थावबोधने ।।
विशेषः कश्चिदित्येवं न प्रवृत्तिर्विधेर्भवेत् ।। ६१९ ।।
अवबुद्धे तु शब्दार्थे पुरुषार्थनुरोधतः ।।
स्वत एव प्रवृत्तिः स्यान्न शब्दान्नार्थतस्तथा ।। ६२० ।।
साधनादित्रयाद्वाह्यं पुरुषार्थबहिष्कृतम् ।।
क एतत्साधयेेद्धीमान्किं वा रूपमितीर्यताम् ।। ६२१ ।।
न तावत्प्रेरणा कार्यं, कार्यार्थविप्रया हि सा ।।
नाऽऽन्तरोऽपि प्रयत्नः स्यान्मानान्तरगतेस्तथा ।। ६२२ ।।
न क्रिया कर्तृसंबन्धात्फलं नानिष्टरूपतः ।।
कारकं नाप्यसिद्धत्वान्नाप्यन्यदनिरूपणात् ।। ६२३ ।।
न च कालत्रयास्पर्शवाच्यत्वं कार्यलक्षणम् ।।
घटशब्दाद्धटे मा भूत्कालास्पर्शेन कार्यता ।। ६२४ ।।
नियोगोऽपि नियोज्यस्य व्यापारः, स कथं भवेत् ।।
अतीन्द्रियो लिङाद्यर्थः सिद्धिश्चास्य कथं भवेत् ।। ६२५ ।।
सिद्धिर्विषयसिद्धौ चेन्नैवं स्यात्कर्मणा न हि ।।
आप्त्युत्पत्त्यादिकं शक्यमनारोप्यस्वभावतः ।। ६२६ ।।
कार्यं स्वेनाऽऽत्मना सिद्धं पुमर्थं साधयेद्यदि ।।
सर्वदा तस्य तादृक्त्वात्पुमर्थः सर्वदा भवेत् ।। ६२७ ।।
पुंव्यापारप्रसिद्ध्याऽथ सिद्धं स्वार्थकरं मतम् ।।
तस्यानाधेयरूपत्वान्न कदाचित्फलं भवेत् ।।। ६२८ ।।
संभाव्यमानसिद्धेर्हि यागादेः कार्यता मता ।।
व्योमतत्पुष्पयोर्न स्यात्सिद्धात्यन्ताप्रसिद्धयोः ।। ६२९ ।।
कर्तव्यो याग इत्येवं यागाद्भिन्ना यथेक्ष्यते ।।
कर्तव्यं कार्यमित्येवं ततोऽपि व्यतिरिच्यते ।। ६३० ।।
कार्यकर्तव्यता कार्येत्येवमेवातिरिच्यते ।।
तस्मान्न वस्तुधर्मोऽयं शब्दादेव प्रकर्षतः ।। ६३१ ।।
अतो यदेव साध्यार्थसाधनत्वेन गम्यते ।।
वेदात्तदेव साध्यत्वात्कार्यं नान्यत्ततः पृथक् ।। ६३२ ।।
लिङादिः प्रेरणावाची कुतः कार्यमितीर्यताम् ।।
विषयत्वेन नाऽऽक्षेपो भावार्थो विषयो मतः ।। ६३३ ।।
प्रेरणाऽपीह नैव स्यादज्ञातज्ञापनात्पृथक् ।।
समस्तकार्यदोषोक्तिप्रसङ्गान्मित्यभावतः ।। ६३४ ।।
न स्वरूपं लिङादीनां प्रेरणाज्ञापकत्वतः ।।
अन्योन्यरूपभेदेऽपि प्रेरणानुगमात्तथा ।। ६३५ ।।
शक्तेरनभिधेयत्वात्तद्व्यापारोऽपि नेष्यते ।।
प्रेरकाभावतो वेदे तद्व्यापारोऽपि नेरणा ।। ६३६ ।।
अतः समीहितोपायतया वस्त्ववबोधयन् ।।
अबुद्धं प्रेरको वेदो ज्ञापना प्रेरणा मता ।। ६३७ ।।
तथा च वस्तुयाथात्म्यज्ञापनेन प्रमाणता ।।
न प्रेरकतया सा स्यात्प्रत्यक्षादेरनीक्षणात् ।। ६३८ ।।
निष्पादितनियोगस्य वेदप्रामाण्यतो यथा ।।
नियमेन फलं तद्वत्साधनानुष्ठितेर्भवेत् ।। ६३९ ।।
विसंवादोऽपि नाऽऽशङ्क्यो नियोगार्थे यथा तथा ।।
वैदिकत्वादुपायेऽपि नृतत्रे व्यभिचारिता ।। ६४० ।।
नानन्तरफलो यागो दृष्टो लोकेऽपि हि क्वचित् ।।
अतः सामान्यतो दृष्टं क्रियात्वादित्यदूषणम् ।। ६४१ ।।
स्वसामर्थ्याद्यथा कार्यं कालास्पृष्टं प्रभाषते ।।
लिङादिर्यागमप्येवं वक्ष्यतीत्यविशिष्टता ।। ६४२ ।।
साक्षादेवं च संबन्धः साध्यसाधनयोर्भवेत् ।।
नातिरिक्तलिङाद्यर्थव्यवधानविडम्बना ।। ६४३ ।।
साक्षादसति संबन्धे पारंपर्यं, न तु क्वचित् ।।
गतौ सत्यां, तदप्यत्र नान्यत्रेवोपलभ्यते ।। ६४४ ।।
श्रुत्या क्रयाभिसंबन्धो व्यवच्छिद्यैव साधनम् ।।
अरुणः साधको दृष्टो नानपेक्षो वृथा च सः ।। ६४५ ।।
यागः कार्याभिसंबन्धोऽप्यनुत्पाद्य फलं न ते ।।
कथंचित्साधयेत्कार्यं तच्च नास्तीत्यसाधकः ।। ६४६ ।।
नचान्या व्यापृतिस्तस्य कार्यसिद्धौ त्वयेष्यते ।।
फलानुत्पत्तितस्तस्मान्न कार्येणापि संगाति ।। ६४७ ।।
अथ शास्रप्रमाणत्वाददृष्टाऽप्यभ्युपेयते ।।
फलोत्पत्तिर्ममाप्येवं तथा सति भविष्यति ।। ६४८ ।।
मम शास्रप्रमाणत्वात्पश्चादपि भवेत्फलम् ।।
पूर्वं तु भवतो न्याय्यं तदभावे ह्यसाधकम् ।। ३४९ ।।
कार्यसिद्ध्या फलावाप्तावशेषफलसंभवः ।।
सकृत्करण एव स्यात्कार्यस्याभेदतस्तव ।। ६५० ।।
अनुबन्धाभिसंबन्धात्फलं चेत्स्याद्व्यवस्थया ।।
तत एव न कार्यात्स्यात्तदा तद्भावभावतः ।। ६५१ ।।
औपाधिकश्च मिथ्या स्यात्साध्यसाधनलक्षणः ।।
व्यवहारः श्रुतेर्ज्ञातः परमार्थैकवादिनः ।। ६५२ ।।
एवं ते कर्मकाण्डेऽपि कार्यं तावन्न युज्यते ।।
ऐकात्म्ये तु यथा नास्ति विशेषेणोच्यते तथा ।। ६५३ ।।
प्रतिपत्तिविधिस्तावन्नाऽऽत्मा द्रष्टव्य इत्ययम् ।।
तस्य भावार्थनिष्ठत्वाद्वस्तुन्यनुपपत्तितः ।। ६५४ ।।
सिद्धेऽसिद्धेऽथ वैकात्म्ये विधिर्नैवोपपद्यते ।।
नाऽऽकाशे नापि तत्पुष्पे पुंव्यापारानपेक्षता ।। ६५५ ।।
न विधिर्दर्शनेऽपि स्यादन्योन्याश्रयदोषतः ।।
दर्शनाद्विधिसंसिद्धेर्विधेर्दर्शनसिद्धितः ।। ६५६ ।।
न च यूपादिवच्छक्यं वेदेनैव समर्पणम् ।।
ऐकात्म्यस्य स्वतः सिद्धेः साध्यत्वाद्यूपवस्तुनः ।। ६५७ ।।
सिद्धं चेद्दर्शयेद्वेदः प्रसिद्धं दर्शनं तथा ।।
तन्निष्ठं च भवेद्वाक्यं व्यर्थता च विधेस्तदा ।। ६५८ ।।
सर्वमात्मेति वाक्यास्य न च वस्तुन्यसंभवः ।।
येनार्थस्यासमाप्तात्वात्क्रियेताध्याहृतिः पदे ।। ६५९ ।।
आत्मा ब्रह्मेति विज्ञानं विधिं नैव व्यपेक्षतेः ।।
यस्मात्तच्छ्रुतवाक्यस्य स्वयमेवोपजायते ।। ६६० ।।
यजेतेतिविधिज्ञानं न विध्यन्तरमीक्षते ।।
विध्यन्तरेऽनवस्था स्यान्न चायं कर्मणि स्थितेः ।। ६६१ ।।
प्रतिपन्ने विधेयार्थे प्रवृत्तिः फलमिष्यते ।।
प्रवृत्तेश्च विधिज्ञानमेवमन्योसंश्रयः ।। ६६२ ।।
बोधेऽस्मिञ्शब्दतो जाते न प्रवर्त्योऽकलत्वतः ।।
अऩुत्पन्ने च नितरां प्रवृत्तेर्हेत्वसंभवात् ।। ६६३ ।।
अथ निश्चयसिद्ध्यर्थमुत्पन्नेऽपि प्रवर्त्यते ।।
स निश्चयो वः किं शब्दादथान्यस्मादितीर्यताम् ।। ६६४ ।।
शब्दाद्यदि तदेदेदमायातं पूर्वदूषणम् ।।
अन्यस्मिन्निष्यमाणे च सापेक्षत्वं प्रसज्यते ।। ६६५ ।।
अविवक्षितनुत्त्यर्थमथात्र विधिरिष्यते ।।
अयं ज्ञेयोऽर्थ इत्युक्तौ स्याद्विवक्षितधीर्यतः ।। ६६६ ।।
नैवमुत्सर्गतो यस्माच्छब्दानां लोकवेदयोः ।।
विशिष्टार्थैकनिष्ठत्वं स्वतो न विधिहेतुतः ।। ६६७ ।।
अविशिष्टश्च वाक्यार्थस्तथा लौकिकवैदिक -
वाक्ययोर्गम्यते यस्माद्विधिर्नातो विवक्षितः ।। ६६८ ।।
अपि दृष्टार्थतैकात्म्ये कर्मस्विव न भिद्यते ।।
वेदाधीतिविधेस्तस्माद्विधिरत्र निरर्थकः ।। ६६९ ।।
विधेर्विध्यन्तरेऽभीष्टे कृत्स्नोऽर्थोऽप्यविवक्षितः ।।
पूर्वोक्तेनैव न्यायेन नैव कल्प्यो विधिस्ततः ।। ६७० ।।
मतं पुमर्थसिद्ध्यर्थः ज्ञानस्य विधिरिष्यते ।।
फलस्य विध्यधीनत्वादुपेक्षाफलताऽन्यथा ।। ६७१ ।।
ज्ञेयव्याप्त्यतिरेकेण न विज्ञानात्फलान्तरम् ।।
इष्यते कर्मवन्नातस्तदर्थं विधिकल्पना ।। ६७२ ।।
यदाऽपि मातरि फलं तदाऽपि विधिनाऽत्र किम् ।।
मातृमानप्रमेयादौ तत्सिद्धेर्विधिना विना ।। ६७३ ।।
अथापि कार्यविरहात्सिद्धार्थमनुवादकम् ।।
वचो नैव प्रमाणं स्यात्तस्य मान्तरसंगतेः ।। ६७४ ।।
विध्यर्थाङ्गीकृतौ त्वेतदनपेक्षं प्रमाणताम् ।।
अश्नुते मान्तराभावाज्ज्योतिष्टोमादिवाक्यवत् ।। ६७५ ।।
वस्तु मान्तरयोग्यं चेद्विधौ सत्यपि तत्तथा ।।
अथ तन्मान्तरायोग्यं विध्यभावेऽपि तत्तथा ।। ६७६ ।।
किं वाक्यस्यानुवादत्वं सिद्धेऽर्थे मान्तरेण वा ।।
मिते तत्र न पूर्वस्मिन्सिद्धेऽप्यर्थेऽनुवादता ।। ६७७ ।।
मानान्तरानधिगतं सिद्धं वस्त्ववबोधयत् ।।
मानं किं नानपेक्षं स्यात्पुमर्थश्च स्वरूपतः ।। ६७८ ।।
पुंबुद्धिविषयो ह्यर्थो मानान्तरमपेक्षते ।।
अभावात्पुरुषस्येह न तु सिद्धोऽपि वैदिकः ।। ६७९ ।।
न च सिद्धत्वमात्रेण शङ्क्यते मान्तरं क्वचित् ।।
शङ्क्य़मानस्य मानस्य तुल्या सापेक्षता यतः ।। ६८० ।।
न च सापेक्षताऽप्यस्ति मितेर्मानत्वतः क्वचित् ।।
मान्तरानवबुद्धं हि बोधयन्मानमुच्यते ।। ६८१ ।।
मानान्तरानपेक्षं चेन्मानं मेयं ज्ञबोधयेत् ।।
मानमेव तदा तत्स्यान्नातोऽन्यन्मानलक्षणम् ।। ६८२ ।।
अथ मानान्तरापेक्षं तन्मानं मेयबोधकम् ।।
द्वयोरेकक्रियावेशात्तथाऽप्यन्यानपेक्षता ।। ६८३ ।।
अथानधिगताभावादुत्तरस्याप्रमाणता ।।
तत्सद्भावात्तु पूर्वस्य ज्ञानस्यास्तु प्रमाणता ।। ६८४ ।।
मातोऽनधिगतत्वस्य सिद्धिः स्यादथवाऽन्यतः ।।
स्वतो वा ज्ञाततायाश्च कुतः सिद्धिरितीर्यताम् ।। ६८५ ।।
अज्ञातत्वस्य माव्याप्तेः पूर्वमेव प्रसिद्धितः ।।
ततश्च मानतः सिद्धिर्नाज्ञातत्वस्य कुत्रचित् ।। ६८६ ।।
मानव्याप्तिक्षमं चेत्स्यादज्ञातत्वं घटादिवत् ।।
वास्तवं स्यात्तदा रूपमज्ञातं च सदा भवेत् ।। ६८७ ।।
तथा संशयमिथ्यात्वबुद्ध्योरेष यथोदितः ।।
न्यायो वाच्यस्ततः सर्वो व्यवहारो न सिध्यति ।। ६८८ ।।
अज्ञातत्वाविशेषेऽपि मानानां यदि मानता ।।
ज्ञातस्याज्ञाततोऽन्यत्वात्तत्र स्यात्किं न मानता ।। ६८९ ।।
एकार्थोपनिपातित्वात्सापेक्षत्वं यदीष्यते ।।
तथाच सर्वमानानां सापेक्षत्वं प्रसज्यते ।। ६९० ।।
एकस्यामपि सत्तायां सर्वाक्षाणां प्रमाणता ।।
द्रव्ये त्वक्चक्षुषोस्तद्वत्प्रसज्येताप्रमाणता ।। ६९१ ।।
नियोगे लोकिके चाऽपि हरीतक्यादिभक्षणे ।।
मानान्तरासंभवेन प्रसज्येतानपेक्षता ।। ६९२ ।।
नैष दोषो नरज्ञानपूर्विका विनियोगधीः।।
येन लोकेऽस्त्यतोऽपेक्षा वेदे तु स्याद्विपर्ययः ।। ६९३ ।।
नैवं सत्यनपेक्षत्वं वचसः कार्यसंश्रयात् ।।
पुंबुद्धिपूर्वकत्वेन यतः सापेक्षतोच्यते ।। ६९४ ।।
नैवं नियोगनिष्ठत्वाद्वेदे तेनानपेक्षता ।।
सापेक्षत्वं च लोके स्याद्विनियोगप्रधानतः ।। ६९५ ।।
नैवं शब्दार्थयोरैक्यं यदा स्याल्लोकवेदयोः।।
तदा न शक्यते वक्तुं वैलक्षण्यं तयोरिति ।। ६९६ ।।
स्वरूपलाभः सिद्धश्चेत्स्वतो वा यदि वाऽन्यतः ।।
स्वरूपेऽनुपयोगित्वान्न प्रमणव्यपेक्षणम् ।। ६९७ ।।
अभिव्यक्तोऽथ सिद्धोऽयं स्वतो वा यदि वाऽन्यतः ।।
अभिव्यक्तस्य भूयोऽपि निष्फलं मान्तरेक्षणम् ।। ६९८ ।।
तस्मान्न सिद्ध इत्येव संभाव्येत प्रमान्तरम् ।।
नरोक्तौ मान्तरापेक्षा तेन मान्तरसंभवः ।। ६९९ ।।
क्रियां विना न संसर्गः पदार्थानामथोच्यते ।।
क्रियैवापेक्ष्यतां तर्हि किं न सिद्धं विधिं विना ।। ७०० ।।
क्रिया चापेक्ष्यमाणाऽपि न या काचिदपेक्ष्यते ।।
योग्यत्वहेतुतस्तर्हि साऽस्त्येवास्यादिका श्रुतौ ।। ७०१ ।।
अकर्मकत्वादस्यादेर्न तावत्कर्म विद्यते ।।
अभूतभवनं चार्थे नित्यत्वादात्मनश्च न ।। ७०२ ।।
असंसृष्टात्मबोधित्वान्नापि संसर्गधीरतः ।।
स आत्मेत्यभिसंबन्धान्नापि सत्ता सतोच्यते ।। ७०३ ।।
शब्दाद्यगोचरोऽर्थोऽतो लक्षणापाश्रयाच्छ्रुतौ ।।
सदित्यादिपदैरात्मा साक्षान्नः प्रतिपाद्यते ।। ७०४ ।।
यदाऽपि मानयोग्यत्वं सत्त्वं तच्च प्रतीयते ।।
तदाऽपि वस्तुपरता नाऽऽगमस्य विहन्यते ।। ७०५ ।।
मान्तरेणापि संबद्धमर्थं वाक्यं प्रबोधयत् ।।
मानतां न जहात्येव जगत्याप्तवचो यथा ।। ७०६ ।।
ज्ञातः सोऽर्थो मयेत्यत्र नाऽऽप्तवाक्यं विहन्यते ।।
मानान्तरव्यपेक्षत्वाद्विहन्येतार्थनिश्चितौ ।। ७०७ ।।
मायोगेऽपि न मानत्वमनाप्तवचसः क्वचित् ।।
तेनाऽऽप्तवाक्यं मायोगे मानादर्थेऽपि निष्ठितम् ।। ७०८ ।।
एवं च सति वेदान्ता यदि मानमलौकिकम् ।।
प्रबोधयन्ति विध्वस्तनिखिलद्वैतगौचरम् ।। ७०९ ।।
कथं तेषाममानत्वं तदा स्यादाप्तवाक्यवत् ।।
अर्थसिद्धिश्च मासिद्धौ सिद्धैवेति न साध्यते ।। ७१० ।।
किंच सिद्धत्वसंबन्धादैकात्म्ये मान्तरानुमा ।।
यथैवं कार्यतायोगान्नियोगेऽप्यनुमा न किम् ।। ७११ ।।
नियोगस्यापि कार्यत्वं प्रेषणाध्येषणादिभिः ।।
समं तद्वर्त्मनैवास्य संबन्धग्रहणं यतः ।। ७१२ ।।
परायत्तात्मलाभत्वं नियोगस्येह कार्यता ।।
कार्यैर्मान्तरगम्यैः सा न कथंचिद्विशिष्यते ।। ७१३ ।।
यत्त्वसाधारणं तस्य कार्यत्वमिति भण्यते ।।
लौकिकेष्वपि कार्येषु तन्नेैव विनिवार्यते ।। ७१४ ।।
अथासाधारणज्ञानपरिच्छेद्यत्वमिष्यते ।।
तच्च सर्वपदार्थानां न दण्डैर्विनिवार्यते ।। ७१५ ।।
प्रमाणायत्तमेतावत्स्वप्रमेयावभासनम् ।।
कार्यताऽकार्यतावत्स्वप्रमेयावभासनम् ।।
कार्यताऽकार्यता वाऽत्र मेयायत्ता, न मानतः ।। ७१६ ।।
सिद्धत्वहेतुको योऽपि दोष ऐकात्म्य उच्यते ।।
नियोगस्यापि संसिद्धौ स दोषो नापनुद्यते ।। ७१७ ।।
यागादिविषयासिद्ध्या न चासौ न प्रसिध्यति ।।
विध्युक्तेस्तदसंसिद्धौ निष्फलत्वं प्रसज्यते ।। ७१८ ।।
ऐकात्म्यवस्तुयाथात्म्यप्रकाशनपटीयतः ।।
वचसस्त्वतिरेकेण किं मानं तद्धुरं वहेत् ।। ७१९ ।।
मात्रादिसव्यपेक्षं सद्यत्र ज्ञानं प्रजायते ।।
तत्रैव मान्तरापेक्षा न तु विध्वस्तभेदके ।। ७२० ।।
विध्यर्थाधीनसंसर्गाः पदार्था वैदिकोक्तिषु ।।
लोके मान्तरसंसिद्धसंसर्गा रचनाबलात् ।। ७२१ ।।
रचना च पदार्थानां विवक्षापूर्विकैव तु ।।
प्रमाणान्तरगम्येऽर्थे विवक्षा च व्यवस्थिता ।। ७२२ ।।
एवं च सति वेेदान्तवाक्यार्थप्रत्ययो भ्रमः ।।
उत्खातविधिको लोके तोयबुद्धिरिवोषरे ।। ७२३ ।।
इत्युक्ते परिहाराय शृणु यद्भण्यतेऽधुना ।। ७२४ ।।
पदार्थसंगतेः कस्माद्विध्यधीनत्वमादृतम् ।।
पदार्थान्तरतत्रत्वं कस्माद्धेतोर्न कल्प्यते ।। ७२५ ।।
संसर्गश्चेत्पदार्थानां विनाऽपि विधिना भवेत् ।।
अनर्थको भवेदेवं विधिर्निर्विषयत्वतः ।। ७२६ ।।
ननु दोषः समानोऽयं विधेरन्यपदेष्वपि ।।
विशिष्टार्थावगत्यर्थं प्रयुज्यन्तेऽपराण्यपि ।। ७२७ ।।
एवं सति विधिः कस्मान्नानर्थक इतीर्यताम् ।।
योगक्षेमसमानत्वादविध्यर्थपदान्तरैः ।। ७२८ ।।
उच्यते विधिशब्दो हि मान्तराज्ञातगोचरः।।
न तस्य विषयाक्षेपं मुक्त्वाऽन्यत्र कृतार्थता ।। ७२९ ।।
मानान्तरप्रसिद्धार्थवादित्वादनुवादकम् ।।
विधेरन्यपदं यस्मान्नाऽऽक्षेपोऽतः प्रतीयते ।। ७३० ।।
अव्युत्पन्नेऽपि संबन्धे विध्यर्थावगमस्तथा ।।
अथ विज्ञातसंबन्धं सिद्धार्थं स्याद्विधायकम् ।। ७३१ ।।
स्वधर्मं च पदं जह्यात्संबन्धज्ञाननिह्नुतौ।।
तस्माद्विज्ञातसंबन्धं पदं सर्वत्र बोधकम् ।। ७३२ ।।
इतोऽन्यथा कल्प्यमाने सर्वं स्यादसमञ्जसम् ।।
वाक्यवाक्यार्थयोगश्चेद्वाच्यवाचकलक्षणः ।। ७३३ ।।
तद्विशेषैकनिष्ठत्वान्न वः संबन्धधीर्भवेत् ।।
न विशेषान्तरे वृत्तिर्विशेषस्यास्ति गोत्ववत् ।।
नैराकाङक्ष्येण तत्सिद्धेः संबन्धोऽतो न गृह्यते ।। ७३४ ।।
संबन्धं मन्यते योऽपि शाब्दबोधानुसारिणीम् ।। ७३५ ।।
दृष्ट्वेहां श्रोतृगां सोऽपि न सम्यगभिमन्यते ।।
श्रोतृस्थकार्यलिङ्गत्वात्कथं शब्दैकगोचरः ।। ७३६ ।।
तस्यापि शब्दपूर्वत्वादिति चेल्लिङ्गपूर्वतः ।।
कस्मान्न शब्दबोधोऽपि ह्यनुमानपुरःसरः ।। ७३७ ।।
नियोग शब्दतो बुद्ध्वा योऽपि श्रोता प्रवर्तते ।।
तस्याप्यनुमितेरेव शब्दार्थप्रत्ययो भवेत् ।। ७३८ ।।
प्रत्यक्षगम्यकार्येण नियोगस्यानुमेयतः ।।
प्रत्थक्षकार्यवत्तस्य लौकिकत्वं प्रसज्यते ।। ७३९ ।।
न चेत्कार्यं नियोगः स्यात्कोऽर्थो यागादिसिद्धितः ।।
सिद्धवस्त्ववबोधत्वं विधेरपि तदा भवेत् ।। ७४० ।।
प्राथम्यं चात्र दुर्लक्ष्यं बीजतत्कार्ययोरिव ।।
शब्दानुमानयोर्नातः शब्दप्रथमतेष्यते ।। ७४१ ।।
यद्वाऽनुमानमेवात्र शब्दात्पूर्वं हि युज्यते ।।
नावित्तसंगतिः शब्दो गमकोऽतोऽनुवादकः ।। ७४२ ।।
बुध्यते योऽनुमानेन शब्दबुद्धं न वेत्ति सः ।
भिन्ने भिन्नेऽपि मेये धीर्नानुवादोऽन्यबोद्धरि ।। ७४३ ।।
प्रवृत्तिहेतुमात्रं च प्रवृत्त्याऽत्रानुमीयते ।।
लोकिकेनापि तत्सिद्धेर्नास्ति मानमलौकिके ।। ७४४ ।।
कार्यबुद्ध्यैव संव्याप्तिः प्रवृत्तेर्न च गम्यते ।।
सर्पादिवस्तुबोधेऽपि प्रवृत्तिर्वीक्ष्यते यतः ।। ७४५ ।।
पुंस्प्रवृत्तेः फलं कार्यं विध्यर्थश्चापि कारणम् ।।
प्रवृत्तिहेतुर्न फलं भवतैवाभिधीयते ।। ७४६ ।।
अपसर्प्यस्य सर्पादेर्न च कार्यं फलं मतम् ।।
अमर्थाभावमात्रत्वान्नचाभावः फलं क्वचित् ।। ७४७ ।।
नियोगोऽथ प्रमारूपो विधिशब्दप्रकाशितः ।।
मानान्तरानपेक्षः सन्नाक्षेपकतया प्रमा ।। ७४८ ।।
आक्षेप्तृत्वं न शब्दोत्थं न च मानान्तरात्तथा ।।
अव्युत्पन्नप्रवृत्तिश्चेत्युक्तदोषप्रसङ्गतः ।। ७४९ ।।
स्वाभ्युपेतनयस्यैव त्यागः प्राप्नोत्यनीप्सितः ।।
प्रामाण्यं चास्य यत्रेष्टं श्रुतेस्तत्रास्त्वनेन किम् ।। ७५० ।।
क्व चेष्टमस्य मानत्वं न यागादौ स्वशब्दमे ।।
लोकिकोऽपि न संसर्गो विध्यायत्तः स्थितो यतः ।।
विध्यभावे हि संसर्गः श्रोतुरस्त्यविधावपि ।। ७५१ ।।
फलसाधनशक्तिश्चेद्विध्यायत्ता भविष्यति ।।
नैवं तत्रापि शब्दस्य सामर्थ्यं केन वार्यते ।। ७५२ ।।
तस्मादितरतुल्यत्वान्न विध्यर्थनिबन्धनः ।।
संसर्गः स्यात्पदार्थानां सुस्थमेवं विधिं विना ।। ७५३ ।।
तस्मात्सर्वपदार्थानामाकाङ्क्षायोग्यसंनिधेः ।।
परस्पराभिसंबन्धाद्विशिष्टार्थावबोधिता ।। ७५४ ।।
ननूत्पत्तिविधिर्यद्वत्कर्मबोधे व्यवस्थितः ।।
आत्मज्ञानविधिस्तद्वदात्मबोधेऽवतिष्ठताम् ।। ७५५ ।।
कर्माधिकारवच्चात्र प्रवृत्तिरपि सेत्स्यति ।।
अप्रवृत्तप्रवृत्तिश्च तथा बुद्धार्थबोधनम् ।। ७५६ ।।
एवं विधिमिहेच्छन्ति विध्ययोग्येऽपि वस्तुनि ।।
विधिरागवशात्केचित्तान्प्रतीदमथोच्यते ।। ७५७ ।।
कर्मस्वरूपबोधे हि व्यापारो नेष्यते विधेः ।।
किं तूत्पन्नस्य सापेक्ष्यादधिकारेण संगतिः ।। ७५८ ।।
अधिकारप्रवेशित्वं नाऽऽत्मज्ञानस्य युज्यते ।।
यस्याधिकारसंबन्धः स आत्मा न विधीयते ।। ७५९ ।।
व्रीह्यादिविषयं यद्वद्यत्नेनापि निरूपितम् ।।
प्रत्यक्षं नाधिकारानुप्रवेशंं प्रतिपद्यते ।। ७६० ।।