अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ प्रथमाध्यायस्य चतुर्थं ब्राह्मणम् ॥ (२)

मोहतत्कार्यनीडं यत्कू­ट­स्था­भा­स­रू­प­कम् ।।
ज्ञानं तदविनाभूतः परः साक्षीति भण्यते ।। ३७४ ।।

इदं तत्सर्ववेदेषु यथा­भू­ता­र्थ­वि­त्तये ।।
सदे­वे­त्या­दि­भि­र्वाक्यैः कारणं ब्रह्म गीयते ।। ३७५ ।।

सर्वज्ञः सर्वशक्तिश्च सर्वात्मा सर्वगो ध्रुवः ।।
जग­ज्ज­नि­स्थि­ति­ध्वं­स­हे­तु­रेष सदेश्चरः ।। ३७६ ।।

यः पृथि­व्या­मि­ती­शोऽ­सा­व­न्त­र्यामी जगद्गुरुः ।।
हरिर्ब्रह्या पिनाकीति बहुधैकोऽपि गीयते ।। ३७७ ।।

कूटस्थस्य न साक्षित्वं द्विती­या­सं­ग­ते­र्भ­वेत् ।।
नाशिनोऽपि न साक्षित्वं नाशे­ना­व्य­ति­रे­कतः ।। ३७८ ।।

अज्ञानमात्रहेतौ तु सर्व­मे­त­त्स­म­ञ्ज­सम् ।।
कर्तृ­त्वा­द्य­न्य­था­ज्ञा­न­हे­तु­त्वा­दा­त्म­रू­पिणः ।। ३७९ ।।

प्रत्यग्रूपस्य स्थास्रु­त्वा­ज्ज्ञा­तु­र्मो­हेन चान्वयात् ।।
कूटस्थस्यापि साक्षि­त्व­मा­ग­मा­पा­यिनं प्रति ।। ३८० ।।

आत्मा­त्म­व­त्त्व­सं­बन्ध आत्मा­त्मा­ज्ञा­न­यो­र्मतः ।।
परोऽविवेको भूता­ना­मा­त्माा­वि­द्येति कथ्यते ।। ३८१ ।।

ईशादिविषयान्तं यत्त­द­वि­द्या­वि­जृ­म्भि­तम् ।।
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।।
इति वेद­शि­रः­सू­क्ति­स्तथा चोद्घुष्यते स्फुटा ।। ३८२ ।।

दैवी ह्येषा गुणमयी मम मायेति च स्मृतिः ।।
वैष्णवी खल्वियं मायेत्यपि लोकेऽपि गीयते ।। ३८३ ।।

मानान्तरानधिगतं मेयं तावन्निरूपितम् ।।
स्वानु­भू­त्य­नु­सा­रेण प्रत्य­ड्म­त्र­स­त­त्त्व­कम् ।। ३८४ ।।

एतन्निदानमधुना मिथ्याज्ञानं निरूप्यते ।।
यतो बिभ्यति भूतानि संसा­रा­न­र्थ­ल­क्ष­णात् ।। ३८५ ।।

यदेव नित्यमज्ञानं मिथ्याज्ञानं तदेव तु ।।
कारणेतररूपेण तयोरव्यभिचारतः ।। ३८६ ।।

हेत्व­न्त­रा­न­पेक्षं सत्त­द­व्या­कृ­त­रू­प­कम् ।।
व्यक्ततां स्वयमेवैति, निमित्तं नास्त्यसंहृतम् ।। ३८७ ।।

सुषु­प्ता­दु­त्थिती राज्ञः स्वयमेव यथा तथा ।।
जग्धा­शे­ष­ज­ग­न्मू­र्ते­र­व्य­क्ता­द्व्या­कृ­ति­र्मुहुः ।। ३८८ ।।

अनिश्चिता यथा रज्जुरिति न्यायोपबृंहितम् ।।
स्फुटार्थं गौडपादीयं वचोऽर्थेऽत्रैव गीयते ।। ३८९ ।।

तदिदं नाम­रू­पा­भ्या­म­ना­म­क­म­रू­प­कम् ।।
एवं व्याक्रि­य­ता­ज्ञा­न­हे­तु­मा­त्र­व्य­पा­श्र­यात् ।। ३९० ।।

अभि­धा­ना­कृ­ति­र्ना­म­श­ब्दे­ने­हा­भि­धी­यते ।।
अभि­धे­या­कृ­ति­स्त­द्व­द्रू­प­मि­त्यु­प­दि­श्यते ।। ३९१ ।।

एवं द्वाभ्यां प्रकाराभ्यामीशो व्याकृतजन्मनाम् ।।
व्यवहाराय पर्याप्तो न त्वव्यक्तात्मना यतः ।। ३९२ ।।

नाम्नः सामान्यमात्रस्य त्वसाविति समीरषम् ।।
विशेषनाम्ना संयोज्य देव­द­त्ता­दि­नो­त्यते ।। ३९३ ।।

तदूद्रूपस्य सामान्यं रूप­मि­त्यु­प­दि­श्यते ।।
तदुपात्तविशेषं सच्छु­क्ल­कृ­ष्णा­दि­नो­च्यते ।। ३९४ ।।

एवे­त्य­व­धृ­ता­वे­त­दा­त्म­वृ­त्त­व्य­पे­क्षया ।।
आत्मा­वि­द्या­स­मु­त्था­भ्या­मेव व्याक्रियते परः ।। ३९५ ।।

न तु विध्व­स्त­निः­शे­ष­प्र­त्य­ग­ज्ञा­न­त­द्भव -
सामा­न्य­भे­दै­का­त्म्या­ख्य­त­द­न­न्य­प्र­मा­त्मना ।। ३९६ ।।

आदावव्याकृतं तत्त्वं नाम­रू­प­क्रि­या­त्मना ।।
स्वयं तद्व्या­कृ­ति­म­गा­द्य­थै­तर्हि तथैव तत् ।। ३९७ ।।

नाम­रू­पा­भ्या­मे­वेति न समुच्चयनिश्चितौ ।।
सम­स्त­व्य­स्त­रू­पाभ्यां लोकेऽपि व्याकृतिर्यतः ।। ३९८ ।।

जातितो बधिरस्येह व्यक्तिः स्याद्रू­प­मा­त्रजा ।।
जात्यन्धादेश्च नाम्नैव तथा चोभयथाऽप्यसौ ।। ३९९ ।।

अज्ञा­ता­त्मै­क­हे­तूनां मिथो­पे­क्षा­त्मनां श्रुतौ ।।
नेयत्ताऽस्तीह तत्त्वा­ना­मा­न­न्त्यान्न क्रमस्तथा ।। ४०० ।।

प्रक्रियानियमो नापि पुंव्यु­त्प­त्ति­प्र­धा­नतः ।।
प्रति­श्रु­ति­वि­गी­तिश्च प्रक्रियाणां समीक्ष्यते ।। ४०१ ।।

यया यया भवेत्पुंसां व्युत्पत्तिः प्रत्यगात्मनि।।
सा सैव प्रक्रियेह स्यात्साध्वी सा चानवस्थिता ।। ४०२ ।।

उद्भू­ति­स्थि­ति­हा­नीनां न कचित्संभवो यथा ।।
मुख्यां वृत्तिं समाश्रित्य तथोदर्केऽपि वक्ष्यते ।। ४०३ ।।

न जायते जन्यते वा नापि हन्ति न हन्यते ।।
तमः­सं­वृ­त­दृ­ष्टीनां पाड्वि­का­रा­दि­वी­क्ष­णम् ।। ४०४ ।।

यदर्थं सर्वशास्राणां प्रवृ­त्ति­र­ति­वि­स्तरा ।।
आत्म­ज्ञा­ना­व­ता­रार्थः सर्व­शा­स्र­स­मु­द्यमः ।। ४०५ ।।

विरोधः सर्वशास्राणां स्वाभि­धे­य­व्य­पे­क्षया ।।
निवृ­त्त्य­र्थेऽ­वि­रो­धि­त्वा­दत एतत्समीरितम् ।। ४०६ ।।

स्वत एव यतः पुंसां प्रवृत्तिः स्वार्थ­सि­द्धये।।
तत्रानुवादि शास्रं स्यान्नि­वृ­त्ता­वेव तन्मिति ।। ४०७ ।।

अपि वात्स्या­य­ना­दीनां शास्रा­णा­मु­क्त­हे­तुतः ।।
प्रामा­ण्य­म­वि­रुद्धं स्यादै­का­त्म्य­ज्ञा­न­ज­न्मने ।। ४०८ ।।

प्रवर्तमानः पुरुषः शास्रो­द्दी­पि­त­व­र्त्मना ।।
प्रवृत्तिविषयं दुष्टं दृष्ट्वाऽतो विनिवर्तते ।। ४०९ ।।

अनि­त्य­दुः­ख­शू­न्यत्वं पदार्थानां ब्रुवन्स्फुटम् ।।
बुद्धोऽपि रागापुच्छित्तौ यतते नाऽऽत्मनिहुतौ ।। ४१० ।।

त्याग एव हि सर्वेषां मोक्ष­सा­ध­न­मु­त्त­मम् ।।
त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम् ।। ४११ ।।

एकवाक्यत्वतो यद्वा ऐका­त्म्य­ज्ञा­न­ज­न्मने ।।
वेदशास्रस्य कृत्स्नस्य तथा पूर्वमवादिषम् ।। ४१२ ।।

प्रमाणानि च शास्राणि तत्प्रामाण्यं न चान्यतः ।।
अज्ञा­ता­त्मा­व­बो­धि­त्वा­त्तथा पूर्वमवादिषम् ।। ४१३।।

यस्मिं­श्चा­वि­द्य­या­ध्यासः संसा­रा­न­र्थ­ल­क्षणः ।।
स्वाभाविक्या कृतो मिथ्या शुक्त्यादौ रजतादिवत् ।। ४१४ ।।

ननु सामा­न्य­वि­ज्ञा­न­वि­शे­षा­ज्ञा­न­सं­श्र­यात् ।।
जात­रू­प्य­स्मृ­ते­र्लोके मिथ्याज्ञानं प्रसिध्यति ।। ४१५ ।।

यत्राध्यासो यदध्यस्तं भेदसिद्धौ तयोर्मृषा ।।
ज्ञानं जगति संसिद्धं सा चैका­त्म्येऽ­ति­दु­र्लभा ।। ४१६ ।।

सम­स्त­व्य­स्त­मै­कात्म्यं येपां चापास्तभेदकम् ।।
चोद्यमेतत्समानं स्यादुभयोरपि पक्षयोः ।। ४१७ ।।

न नः परि­हृ­ते­ना­र्थ­श्चो­द्ये­ना­नेन कश्चन ।।
प्रत्य­ङ्भो­है­क­हे­तु­त्वा­त्स­र्वा­न­र्थ­मृ­षा­मतेः ।। ४१८ ।।

अज्ञानमेव वाध्यं नो मानस्येह यतस्ततः ।।
तच्चो­द्य­प­रि­हा­रोऽतः क्रियते नाफलत्वतः ।। ४१९ ।।

मिथ्या­ज्ञा­ना­ति­रे­केण नान्य­द­ज्ञा­न­मि­ष्यते ।।
येषां तान्प्रति चोद्यं स्यान्न त्वज्ञा­ता­त्म­वा­दि­नाम् ।। ४२० ।।

नन्व­ज्ञा­न­म­व­स्तु­त्वा­त्कथं संसारकारणम् ।।
मिथ्याज्ञानस्य वस्तु­त्वा­त्त­दे­वा­स्त्विह कारणम् ।। ४२१ ।।

तथाच युक्ति­म­द्य­त्ना­न्म­ह­द्भि­रपि भाषितम् ।।
अप्रामाण्यं पुनस्रेधेत्यत एतत्सुसंस्थितम् ।। ४२२ ।।

किं भोः सदपि मानेन वस्तु साक्षा­न्नि­र­स्यते ।।
तस्मिन्निरस्ते किं शेषं यस्मिन्मानस्य मानता ।। ४२३ ।।

व्यञ्ज­क­त्वा­त्प्र­मा­णानां मेया­भि­व्य­क्ति­तोऽ­प­रम् ।।
कार्यान्तरं न संभाव्यं नितरां वस्त्वपाक्रिया ।। ४२४ ।।

मिथ्याज्ञानं कथं वस्तु न हि मिथ्येति वस्तु सत् ।।
मिथ्या तद्वस्तु चेत्यु­क्ति­र्म­ह­ता­मेव शोभते ।। ४२५ ।।

स्वतोऽपि यदि सा वस्तु रज्ज्वां सर्पादिका मतिः ।।
रज्ज्वात्मना तथाऽ­पी­य­म­व­स्त्वे­वात्र वाध्यते ।। ४२६ ।।

मिथ्याज्ञानस्य कार्यत्वाक्तिं तत्का­र­ण­मु­च्य­ताम् ।।
अकारणं सत्कार्यं चेडिम्भकैरपि हस्यते ।। ४२७ ।।

रागादिकारणं चेत्स्या­त्कार्यंं सत्कारणं कथम् ।।
अवस्त्वपि च वस्त्वेव वस्तु­रू­पा­त्त­द­न्यतः ।। ४२८ ।।

उपा­त्त­मे­य­रू­पत्वं मानानां सत्यतोच्यते ।।
तद्वलेनैव मेयस्थं घ्नन्ति मोहादि नान्यतः ।। ४२९ ।।

तद्विपर्ययतो मिथ्या सर्वं मोहादि भण्यते ।।
वस्त्वसाधारणं रूपं मोहादेर्न प्रमीयते ।। ४३० ।।

न च वस्तु सतत्त्वं तद्वाधात्तस्य प्रमाणतः ।।
मेयप्रबोधनं मुक्त्वा न मितेः सत्यताऽन्यतः ।। ४३१ ।।

कारकाणां हि सत्यत्वं स्वका­र्या­पे­क्ष­ये­ष्यते ।।
इतोऽन्यथा तत्सत्यत्वं निष्फलं न च लभ्यते ।। ४३२ ।।

यद्वस्तु स्वात्मनैवास्ति तत्परार्थं न बोधवत् ।।
पारार्थ्येनैव सद्यच्च तत्प­र­स्मा­द्धि­रुङ्न सत् ।। ४३३ ।।

सर्व­म­न्या­न­पेक्षं सदीक्ष्यमाणं स्वमात्रया ।।
स्वात्म­रू­पा­त्पृ­थ­ग्रपं न वस्तू­त्प्रे­क्ष्य­तेऽ­ण्वपि ।। ४३४ ।।

आत्मनैव स्वभावेन वस्त्वात्मानं विभर्ति हि ।।
नाऽऽत्मनो विद्यतेऽपेक्षा वस्तु­नोऽ­न्य­स­मा­श्रया ।। ४३५ ।।

तस्मा­द­वि­द्या­सं­भूतं नानात्वं प्रत्यगात्मनि ।।
ब्रह्मास्मीति हि तद्ध्वंसान्न कचिद्भेदधीर्यतः ।। ४३६ ।।

मित्यु­त्प­त्ता­व­नु­त्प­त्ति­र्वि­रो­धा­द्बा­ध्यते यतः ।।
तद्बाधे नाप्य­पे­क्षाऽस्ति मिथ्याधीबाधनं प्रति ।। ४३७ ।।

मिथ्याधियोऽपि बाध्य­त्व­म­ज्ञा­नै­क­स­म­न्व­यात् ।।
मूलध्वस्तौ हतं तच्चे­न्मि­थ्याधीः किं करोति नः ।। ४३८ ।।

मेय­रू­पा­नु­रो­धित्वं मिथ्या­सं­श­य­यो­र्यदि ।।
सम्य­ग्ज्ञा­ना­त्त­यो­र्भेदो गम्यतां केन हेतुना ।। ४३९ ।।

अज्ञानं संशयत्वान्नो मिथ्या­ज्ञा­ना­त्त­थैव च ।।
तयो­स्त­त्त्व­वि­व­क्षा­या­म­ज्ञानं तत्त्वमुच्यते ।। ४४० ।।

अज्ञात एव यद्यत्र ज्ञाते तस्मिन्न तद्भवेत् ।।
सर्व­त्रा­सि­द्धि­रू­प­त्वा­न्मि­थ्या­ज्ञा­न­मिदं मतम् ।। ४४१ ।।

मिथ्याज्ञानस्य वस्तुत्वं येनैव स्यात्सदात्मना ।।
अज्ञानस्यापि तेनैव सत्यत्वं केन वार्यते ।। ४४२ ।।

रज्जुसर्पो यथा रज्ज्वा सात्मकः प्राग्विवेकतः ।।
अवस्तु सन्नपि ह्येष इति पूज्यैरपीरितम् ।। ४४३ ।।

स्वतस्तु सत्यता साक्षा­न्नो­भ­यो­रपि विद्यते ।।
अवि­चा­रि­त­सि­द्धि­त्वान्न स्वतः परतोऽपि ते ।। ४४४ ।।

तदे­वा­नु­प्र­वि­श्येति तत्त्वं यत्पारमार्थिकम् ।।
सच्च त्यच्चादिकां भित्तिं मोहात्प्रापदिति श्रुतिः ।। ४४५ ।।

न चापि त्रयसद्भावे मिथ्याज्ञानं जगत्यपि ।।
मोह­मा­त्र­प्र­यु­क्त­त्वान्न सामा­न्या­त्स्मृ­तेश्च तत् ।। ४४६ ।।

सामा­न्या­न्त­र­नि­र्मुक्तं तथाऽसाधारणैरपि ।।
असा­मा­न्य­त्व­मे­वैति शौक्ल्य­म­न्या­न­पे­क्षतः ।। ४४७ ।।

न चेदं स्मरणाज्जातं नापि सामान्यहेतुजम् ।।
शुक्लस्य गृह्य­मा­ण­त्वा­त्पु­रो­दे­शा­व­ल­म्बिनः ।। ४४८ ।।

एवं प्रत्यक्ष एत­स्मि­ञ्शु­क्ति­को­द­र­व­र्तिनि ।।
तद्वि­रु­द्ध­म­भू­ज्ज्ञानं रजताभमबोधजम् ।। ४४९ ।।

अप्रत्यक्षं मतं येषां ज्ञानं तान्प्रति भण्यते ।।
इदं रज­त­मि­त्ये­त­ज्ज्ञानं शुक्तौ कुतोऽन्वभूत् ।। ४५० ।।

विशि­ष्टा­कृ­ति­दे­शे­हा­का­ल­धर्मं प्रतीयते ।।
शुक्तिकाज्ञानतो नर्ते वस्त्वी­दृ­क्सा­ध्य­तेऽ­न्यतः ।। ४५१ ।।

असा­धा­र­ण­ध­र्मोत्थो न साधारणकारणः ।।
रजतं शुक्ति­के­त्या­दि­व्य­प­दे­शोऽ­प्र­सि­द्धितः ।। ४५२ ।।

न चेह राजता धर्माः कुतो ज्ञानं तदाकृति ।।
न ह्याका­र­म­ना­लिङ्ग्य ज्ञान­मा­का­र­व­त्क्व­चित् ।। ४५३ ।।

शुक्ति­का­नु­वि­धा­यि­त्वा­न्नेदं स्मर्त­व्य­सं­श्र­यम् ।।
अना­लि­ङ्गि­त­बा­ह्यार्था बुद्धावेव स्मृतिर्यतः ।। ४५४ ।।

धर्मादिहेतुकं येऽपि परिणामं प्रचक्षते ।।
सम्यग्ज्ञानेऽपि तुल्य­त्वा­द­ना­श्वा­स­स्तथा सति ।। ४५५ ।।

भूत­का­लो­प­ल­ब्धोऽर्थः स्मृते­श्चे­द्गो­चरो मतः ।।
नासौ भूता­त्म­नाऽ­ज्ञायि भूत­ज्ञा­न­म­ना­श्र­यम् ।। ४५६ ।।

स्वोत्प­त्ति­व्य­ति­रे­केण ज्ञानकालोऽपि नेष्यते ।।
अगत्वरं सद्विज्ञानं भूतार्थं ढौकते कथम् ।। ४५७ ।।

अवि­लु­प्ता­र्थ­वि­ज्ञानो यद्या­त्माऽ­भ्यु­प­ग­म्यते ।।
सर्वेषां सर्व­बि­ज्ञा­ना­त्स­र्व­ज्ञत्वं भवेद्ध्रुवम् ।। ४५८ ।।

आश्रि­ता­श्र­य­सं­बन्धः कार्यकारणयोः स्मृतः ।।
वर्तमानात्मगं ज्ञानमतीतार्थं स्पृशेत्कथम् ।। ४५९ ।।

सम्यग्ज्ञानेऽपि चास्त्ये­त­त्र्रयं यद्भवतेरितम् ।।
प्रत्यभिज्ञाय तदिदमज्ञातं वस्त्ववैति हि ।। ४६० ।।

तथा सति मृषाज्ञानं सर्वत्रैव प्रसज्यते ।।
मुक्त्वैकं प्रत्यगात्मानं, न तत्रास्ति त्रयं यतः ।। ४६१ ।।

यस्मिन्सत्येव यत्कार्यं न भवेदेव चासति ।।
तत्स्वकार्ये स्वत­न्त्र­त्घा­दु­च्यते कारणं बुधैः ।। ४६२ ।।

स्वत आका­र­व­त्किं­चि­त्प­र­त­श्चापि दृश्यते ।।
शुक्ति­मृ­त्स्फ­टि­का­द्येवं ज्ञातं किं नाभ्युपेयते ।। ४६३ ।।

नापि व्यभि­च­रे­ज्ज्ञानं यदि स्मर्त­व्य­पृ­ष्ठ­गम् ।।
साक्षा­द्व­स्त्वे­क­नि­ष्ठ­त्वा­द्य­थेयं शुक्तिकामतिः ।। ४६४ ।।

न च प्रत्य­क्ष­वि­ज्ञा­ना­त्स्मृ­ते­र्भेदं लभेमहि ।।
प्रध्वंसात्तस्य चार्थस्य नातोऽ­र्थ­स्प­र्शिनी स्मृतिः ।। ४६५ ।।

किं त्वेतदिति जिज्ञा­सो­र्नि­षि­द्धेऽ­प्य­न्य­था­ग्रहे ।।
तावतो व्यव­धा­न­त्वा­द्गु­भुत्सा च न युज्यते ।। ४६६ ।।

शुक्तिकेयमिति ह्युक्ते यथार्थं प्रतिपद्यते ।।
रज­ता­द्य­न्य­था­ज्ञा­न­प्र­ति­षे­धा­दृ­तेऽपि हि ।। ४६७ ।।

नीलोत्पलदलाभं खं सामा­न्ये­त­र­व­र्जि­तम् ।।
न पश्ये­यु­स्र­या­स­त्त्वान्न हि तच्चाक्षुषं यतः ।। ४६८ ।।

दिग्वि­भा­गा­दि­व­द्व्योम प्राग्यानं च रवौ तथा ।।
स्वप्ने नाना­प्र­प­ञ्चाढ्यं मिथ्याज्ञानमृते त्रयात् ।। ४६९ ।।

यत एवमतो ग्राह्यं शुक्ति­का­ज्ञा­न­मेव तु ।।
रज­ता­द्य­न्य­था­ज्ञा­न­का­रणं युक्तिगौरवात् ।। ४७० ।।

कर्म­ज्ञा­ना­दि­हे­तु­त्वा­न्नि­य­मस्य यथा तव ।।
सामा­न्या­द्य­वि­शे­षेऽपि निय­मोऽ­प्ये­व­मि­ष्य­ताम् ।। ४७१ ।।

भूरि­सा­मा­न्य­वि­ज्ञा­ना­च्छौ­क्ल्य­मेध करोति किम् ।।
सद­प्य­न्य­दु­दास्ते किं स्वाश्रयग्रहणं प्रति ।। ४७२ ।।

अने­का­र्था­भि­सं­ब­न्धा­च्छौ­क्ल्यस्य रजते च कः ।।
पक्षपातो विना हेतुं बलाकाज्ञानकृन्न किम् ।। ४७३ ।।

स्वाका­र­मा­त्र­नि­ष्प­त्ते­र्नालं कार्यान्तराय हि ।।
सामान्यं वा विशेषो वा नातः स्याद्राजती स्मृतिः ।। ४७४ ।।

न ह्यसंनिहितं बोद्धुर्वस्तु बुद्धौ करोति हि ।।
ज्ञान­मा­का­र­व­ल्लोके सर्वा­का­र­प­स­क्तितः ।। ४७५ ।।

पदा­र्था­न्त­र­स­द्भा­व­म­पे­क्ष्या­न्यस्य वस्तुनः ।।
यस्य सिद्धिर्मृषा तत्स्या­द्र­ज्जु­स­र्प­द्वि­च­न्द्र­वत् ।। ४७६ ।।

प्रमात्रादीह यत्किं­चि­त्प्र­त्य­ग­ज्ञा­न­हे­तु­जम् ।।
अन्यो­न्या­पे­क्ष­सि­द्धि­त्वा­न्मिथ्या तदपि पूर्ववत् ।। ४७७ ।।

आत्म­न्य­ध्या­स­रू­पोऽयं संसारः प्रतिपादितः ।।
अध्यासश्च विना हेतुं न लोक उपपद्यते ।। ४७८ ।।

तस्मा­द्धे­तू­प­दे­शाय यः कारणमितीर्यते ।।
यस्मि­न्न­वि­द्य­ये­त्येवं ननु कारणमीरितम् ।। ४७९ ।।

प्रधा­न­वा­द­मा­शङ्क्य यस्माद्भूयोऽपि भण्यते ।।
अज्ञात आत्मा जगतः कारणं न गुणत्रयम् ।। ४८० ।।

श्रुतितो युक्तितश्चापि स्वयमेव प्रवक्ष्यति ।।
उदर्क इममेवार्थं नातोऽन्यत्कारणं ततः ।।। ४८१ ।।

यदात्मके नामरूपे इत्यज्ञानात्मता तयोः ।।
भण्य­तेऽ­तोऽ­प्र­मा­णत्वं शुक्ति­का­र­ज­ता­दि­वत् ।। ४८२ ।।

न कार­णा­ति­व­र्त्यस्ति कार्यं जगति कुत्र चित् ।।
स्वका­र­णा­वि­शि­ष्टत्वे सलि­ला­दि­ति­हे­तुगीः ।। ४८३ ।।

वस्तुवृत्तं न पर्याप्तं तद­ज्ञा­ना­प­नु­त्तये ।।
अनुपात्तप्रमाणं सदि­त्य­र्थ­प्र­ति­प­त्तये ।। ४८४ ।।

स्वतो बुद्धमिदं यस्मादतः शुद्धमसद्दूयम् ।।
द्विती­य­सं­ग­ति­र्य­स्मा­ल्लो­केऽ­शुद्धेः प्रयोजिका ।। ४८५ ।।

यथोक्ततत्त्वे नाविद्यामृते स्याहूयसंगतिः ।।
अतोऽ­शु­द्घि­नि­षे­धो­क्ति­स्त­द­वि­द्या­नि­षे­धतः ।। ४८६ ।।

ईश्व­रा­व्या­कृ­त­प्रा­ण­वि­रा­ङ्भू­ते­न्द्रि­या­दि­कम् ।।
नाविद्योपाश्रयं मुक्त्वा संभाव्यं प्रत्यगात्मनि ।। ४८७ ।।

प्रत्य­ग्या­था­त्म्य­दृष्ट्या तन्निपुणोऽपि न वीक्षते ।।
न च प्रत्यग्धियं मुक्त्वा परा­ग्बु­द्धि­र्मि­ति­र्भ­वेत् ।। ४८८ ।।

पराञ्चि खानीत्येतच्च साटोपमभिधीयते ।।
प्रत्य­ड्भा­नै­क­मे­यत्वं वेदा­न्ते­ष्वा­त्म­व­स्तुनः ।। ४८९ ।।

इतो विरुद्धमानत्वं स्वतो­पा­स्त­द्व­या­त्मनः ।।
शक्यं वैश्वा­न­र­व­रा­त्प्र­वक्तुं, न तु मानतः ।। ४९० ।।

नित्यशुद्धश्च बुद्धश्च यस्मादात्मा परः स्वतः ।।
मुक्त­श्चा­तोऽ­व­से­योऽसौ सद्वे­दा­न्तो­क्ति­मा­निना ।। ४९१ ।।

एवं­भू­तोऽ­प्य­सं­बु­द्ध­स्वा­त्म­तत्त्वो महेश्चरः ।।
आपेदे कारणात्मत्वं नामरूपादिसर्जने ।। ४९२ ।।

स एष इत्यनेनापि सुवि­रु­द्धा­त्मतां ब्रुवन् ।।
विरु­द्ध­ब­स्तु­सं­सृष्टि ब्रूतेऽ­ज्ञा­नै­क­का­र­णम् ।। ४९३ ।।

व्याकुर्वन्निति वाक्येन स्वतो ज्ञोऽपि तमोन्वयात् ।।
ब्रह्मा­दि­स्त­म्ब­प­र्यन्तं कार्यं प्राविशदुच्यते ।। ४९४ ।।

स्वानु­भू­त्य­नु­रो­धेन योऽज्ञातार्थः पुरोदितः ।।
प्रकृ­ता­र्था­व­ले­हि­त्वा­त्स­र्व­नाम्ना स उच्यते ।। ४९५ ।।

परामृश्य स इत्ये­व­म­व्या­कृ­त­स­त­त्त्व­कम् ।।
तथारूपः स्वकार्यस्थः प्रात्य­क्ष्या­देष उच्यते ।। ४९६ ।।

विरु­द्ध­रू­प­यो­रेवं निर्द्व­य­द्व­य­रू­षतः ।।
स एष इति निर्देशः कथं स्यात्कृ­ष्ण­स­र्प­वत् ।। ४९७ ।।

कारणान्नान्यतः कार्यं तथा कार्याच्च कारणम् ।।
इत्यु­क्त­न्या­य­हे­तु­त्वान्न विरोधोऽत्र कश्चन ।। ४९८ ।।

अज्ञा­त­व­स्तु­त­त्त्वस्य दुष्करं नास्ति किंचन ।।
नीलीकृतं नभः पश्येच्चक्षुषा नीलवस्त्रवत् ।। ४९९ ।।

योग्या­यो­ग्य­व्य­पे­क्षेयं मानव्यवहृतौ भवेत् ।।
कल्प­ना­मा­त्र­नि­ष्प­त्ते­र्ना­पे­क्षाऽ­ज्ञा­न­भू­मिषु ।। ५०० ।।

इत्यु­क्त­प्र­ति­प­त्त्यर्थं हेतु­रे­षोऽ­भि­धी­यते ।।
प्रविष्ट इत्यनेनात्र स्वाभा­सै­क­त­मो­न्व­यात् ।। ५०१ ।।

ब्रह्मा­दा­वि­त्य­ने­नापि जनि­म­त्स­र्व­मु­च्यते ।।
कृत्स्न­सं­सा­र­ध­र्मार्थे देहेष्विति च भण्यते ।। ५०२ ।।

ब्रह्मा­दि­स्त­म्ब­प­र्यन्तं देहेष्विति तथोच्यते ।।
क्रिया­फ­ला­भि­सं­बन्धो देहेष्वेवेति नाऽऽत्मनि ।। ५०३ ।।

प्रत्य­ङ्भो­ह­म­रु­द्बु­द्धि­च­क्षु­र्दे­हा­दि­रू­पि­णाम् ।।
प्रवि­ष्ट­व­च­सै­कात्म्यं गुण­प्रा­धा­न्य­मु­च्यते ।। ५०४ ।।

न ढौकते पराचीनं प्रत्य­क्त्वा­स­ङ्गतः परः ।।
नेहाज्ञानमनादाय ह्यात्माऽ­ना­त्मा­न­मी­क्षते ।। ५०५ ।।

स्थाण्व­ज्ञा­न­म­ना­दाय न चोरादीक्षणं यथा ।।
आत्मा­ज्ञा­न­म­ना­दाय तद्व­न्ना­ना­त्म­वी­क्ष­णम् ।। ५०६ ।।

येनान्वितोऽयं संसारी सुषुप्ते कर्मणः क्षयात् ।।
तत्स्वा­भा­व्या­व­शेषः स्यात्त­त्का­र्य­त्वा­द्ध­टा­दि­वत् ।। ५०७ ।।

स्वात्मा­भा­स­प्र­वेशो यः प्रत्य­ड्भो­ह­नि­ब­न्धनः ।।
तज्जेष्वपि स एव स्यान्म­रु­द्बु­द्ध्या­दि­रू­पिषु ।। ५०८ ।।

पयो­म्भो­व­त्सू­त्र­रूपं क्रिया­वि­ज्ञा­न­श­क्ति­मत् ।।
कर्तृस्थभावकं स्थास्रु चलं कर्मस्थभावकम् ।। ५०९ ।।

बुद्ध्या­त्म­नोऽ­भि­नि­र्व­त्ति­र्व्य­व­सा­या­त्म­न­स्ततः ।।
हिरण्यगर्भं यं प्राहुरुपादानं जगद्धियाम् ।। ५१० ।।

वैराजं स्थानमासाद्य क्ष्मादि­दे­श­वि­भा­ग­वान् ।।
देवताकरणो देव एष एवोच्यते विराट् ।। ५११ ।।

तथा च मन्त्रवर्णोऽत्र ह्यग्नि­र्मू­र्धेति दृश्यते ।।
तदुपादानमात्राः स्युर्देवताः स्वाभिमानजाः ।। ५१२ ।।

आधिभौतिकभूतानां तथै­वा­ध्या­त्म­रू­पि­णाम् ।।
पूर्वोक्तानां परिच्छेदो ह्यवि­द्या­का­म­क­र्मभिः ।। ५१३ ।।

सूत्रा­दि­स्था­णु­प­र्यन्तं जग­त्सृ­ष्ट्वाऽऽ­त्म­मा­यया ।।
स्वाभा­सै­क­स­हा­यात्मा तदेव प्राविशद्धरिः ।। ५१४ ।।

ननु व्याक्रि­य­ते­त्युक्तं स्वयमेव जगत्पुरा ।।
कर्म­क­र्त्रु­क्ति­तोऽ­क­स्मा­त्कथं कर्ताऽभिधीयते ।। ५१५ ।।

परात्मनः प्रवेशोऽपि न्यायं संगच्छते न च ।।
नेहासौ प्रकृतो यस्मादतो नासौ प्रवेशभाक् ।। ५१६ ।।

नैष दोषः परस्यापि ह्यव्य­क्त­ज­ग­दा­त्मना ।।
विव­क्षि­त­त्वा­दा­क्षि­प्त­नि­य­न्त्रा­द्य­भि­धी­यते ।। ५१७ ।।

इदंशब्दाभिधानेन ह्येका­धि­क­र­ण­श्र­वात् ।।
अव्या­कृ­त­प­द­स्यातो यथो­क्तोऽ­र्थोऽत्र युज्यते ।। ५१८ ।।

इदं जगा­न्नि­य­न्त्रा­दि­वि­भि­न्ना­ने­क­रू­प­वत् ।।
यथाऽधुना निश्चिनुमः प्राग­प्ये­त­द­भू­त्तथा ।। ५१९ ।।

नाम­रू­पा­द्य­भि­व्यक्तेः प्राग्व्य­क्ता­प­ह्न­वेऽ­प्य­भूत् ।।
अव्यक्ताध्यक्ष एकाकी व्यक्तं यत्साक्षिकं जगत् ।। ५२० ।।

जग­ज्ज­नि­स्थि­ति­ध्वं­स­नृ­त्त­सा­क्ष्य­ति­रे­कतः ।।
शिष्टस्येह प्रवे­श्य­त्वा­त्पर एवाऽऽविशेदतः ।। ५२१ ।।

विवक्षातश्च शब्दानां प्रयोगो जगतीक्ष्यते ।।
यथा ग्रामा­दि­श­ब्दानां तथे­हा­प्य­व­सी­य­ताम् ।। ५२२ ।।

निवासश्च निवासी च तथा चोभयमुच्यते ।।
ग्रामशब्देन लोकेऽ­स्मिं­स्त­थे­हापि जगद्गिरा ।। ५२३ ।।

कचिदात्मैव निर्दे­श्योऽ­ना­त्मैव कचिदुच्यते ।।
तथोभयविवक्षाऽपि व्याकृ­ता­व्या­कृ­तो­क्तितः ।। ५२४ ।।

यत्र नाशादिमद्वस्तु प्राधान्येन विवक्ष्यते ।।
तत्रानात्मैव वाच्योऽर्थः प्रत्य­गा­त्मो­प­स­र्जनः ।। ५२५ ।।

अस्थूलोऽजोऽजरः शुद्धो यत्र चाप्यभिधीयते ।।
प्रत्य­गा­त्म­वि­व­क्षैव तत्र ज्ञेयाभिधानतः ।। ५२६ ।।

अव्यक्तं व्याकृतं विश्वं यत्र चाप्यभिधीयते ।।
आत्मा­ना­त्म­द्व­या­र्थैव विवक्षा तत्र गम्यते ।। ५२७ ।।

यन्मदन्यदिति चोक्तेः परस्य प्रकृतत्वतः ।।
सशब्देन परामर्शः परस्येह भवेदतः ।। ५२८ ।।

अव्या­वृ­त्ता­न­नु­ग­त­या­था­त्म्या­दा­त्म­व­स्तुनः ।।
ननु प्रवेशस्तस्येह कथं श्रुत्यो­प­दि­श्यते ।। ५२९ ।।

अप्रविष्टं यतो वेश्म परिच्छिन्नेन शक्यते ।।
प्रवेष्टुं पुरुषेणैवं न खेनैतद्विधर्मतः ।। ५३० ।।

सर्वगाणामपि यथा भूतानां परिणामतः ।।
सर्पादीनां प्रवेशः स्यादुपलादौ मतं यदि ।। ५३१ ।।

युत­सि­द्ध­नि­वृ­त्त्यर्थं सह­जो­क्त्याऽ­भि­धी­यते ।।
अश्मनः परि­णा­म­त्वा­त्स­र्पादेः परिपाकतः ।। ५३२ ।।

दृश्य­तेऽ­न्त­स्थ­तो­यानां बहिष्ठः परिपाकतः ।।
परिणामः पदार्थनां क्रिमि­स­र्पा­दि­ल­क्षणः ।। ५३३ ।।

नैवं यस्मा­द­ना­प­न्न­ध­र्मा­न्तर इहोच्यते ।।
कार्ये प्रविष्टः स्रष्टैव पुमान्वेश्मेव तत्कृतम् ।। ४३४ ।।

यथा भुक्त्वैति नगरं भुज्ये­ति­क्रि­य­यो­र्नरः ।।
अविशिष्टो भवेत्कर्ता भिन्न­का­ल­स्थ­यो­स्तथा ।। ५३५ ।।

सृष्ट्वेदं सकलं विश्वं पश्चा­त्त­त्प्रा­वि­श­द्विभुः ।।
अनु­पा­त्ता­न्य­धर्मः सन्न तु पाषाणसपवत् ।। ५३६ ।।

न चान­व­च्छि­न्न­त­नो­र्नि­र्वि­भा­गा­त्म­व­स्तुनः ।।
पूर्व­स्था­न­वि­यो­गेन स्थाना­न्त­र­स­मा­गमः ।। ५३७ ।।

मतं प्रवे­श­श्र­व­णा­दस्तु सावयवः परः ।।
इति चेन्नैतदेवं स्यादा­ग­मो­क्ति­वि­रो­धतः ।। ५३८ ।।

दिव्यो ह्यमूर्तः पुरुषो नेति नेतीति चासकृत् ।।
गीर्म­नो­ग­म्य­ध­र्माणां सर्वे­षा­मा­त्म­नि­हुतेः ।। ५३९ ।।

सवि­वि­म्बा­दि­व­त्तर्हि प्रवेशोऽस्तु परात्मनः ।।
नैत­न्न्या­य्य­म­स­द्भा­वा­त्त­त्सं­यो­ग­वि­यो­गयोः ।। ५४० ।।

संयोगश्च वियोगश्च यस्य येनेह वीक्ष्यते ।।
प्रति­बि­म्ब­प्र­वे­शोऽयं तत्र न त्विह युज्यते ।। ५४१ ।।

गुण­प्र­वे­श­व­दृ्रव्य इति चेन्ना­न­पा­श्र­यात् ।।
द्रव्यै­क­प­र­त­न्त्राणां गुणानामेव युक्तिमान् ।। ५४२ ।।

तादृक्प्रवेशो नेशस्य स्वात­न्न्या­दु­प­प­द्यते ।।
एष सर्वेश्वर इति स्वातत्र्यं श्रूयतेऽसकृत् ।। ५४३ ।।

बीज­व­त्स्या­त्प्र­वे­श­श्चे­न्नै­व­म­प्यु­प­प­द्यते ।।
जन्मा­दि­वि­क्रि­या­ध­र्म­प्र­स­क्ते­रा­त्म­व­स्तुनः ।। ५४४ ।।

स्थूला­दि­वि­क्रि­या­ष­ट्क­प्र­ति­षे­ध­श्रु­तेर्न च ।।
प्रवेशो ब्रह्मणोऽयुक्तः फले बीजादिवत्सदा ।। ५४५ ।।

ननु पाषाणसर्पेण पुनरुक्तमिदं कथम् ।।
फले बीजवदित्युक्तं नैष दोषो भवेत्कुतः ।। ५४६ ।।

भाग­भा­ग्य­भि­सं­बन्धः ख्यातो बीजफलात्मनोः ।।
आधा­रा­धे­य­सं­ब­न्ध­स्त­त्रा­श्मो­र­गयोः स्फुटः ।। ५४७ ।।

परस्मादन्य एवेह संसारी प्राविशज्जगत् ।।
परिच्छिन्नस्य लोकेऽपि प्रवेश उपपद्यते ।। ५४८ ।।

स्रष्ट्ट­प्र­वे­ष्ट्रो­रे­क­त्वा­न्नै­व­म­प्यु­प­प­द्यते ।।
सृष्ट्वा जगत्सृष्टिमनु तदेव प्रावि­श­च्छ्रुतेः ।। ५४९ ।।

पर एव प्रवि­ष्ट­श्चे­त्प्र­वि­ष्टा­ना­म­ने­कतः ।।
तदनन्यत्वतः प्राप­न्म­हे­श­स्या­प्य­ने­कता ।। ५५० ।।

नैष दोषो यतो नेह भेदेनेशस्य संगतिः ।।
आत्म­त्व­रू­प­त­स्तस्य ह्यात्मा चाभेदसंगतेः ।। ५५१ ।।

अनन्यत्वं प्रविष्टैः स्यान्ना­ना­त्व­मिति दुर्भणम् ।।
बहू­ना­मे­क­यो­गि­त्वा­दे­कत्वं किं न चोद्यते ।। ५५२ ।।

न च नानात्वकृल्लोके संयो­गोऽ­भे­द­का­र­णात् ।।
तथाऽऽगमविरोधश्च बहुत्वं चेत्परात्मनः ।। ५५३ ।।

एको देवो बहु­धे­ति­म­न्त्र­ब्रा­ह्म­ण­यु­क्तितः ।।
विय­द्व­दे­क­ल­स्त­स्मा­दी­श्व­रोऽ­भ्यु­प­ग­म्य­ताम् ।। ५५४ ।।

आस्तां तावत्प्रवेशोऽयं न्याय्योऽ­न्याय्यो यथा तथा ।।
दोषान्तरमिह प्राप्तं तत्ता­व­त्प्र­वि­चा­र्यते ।। ५५५ ।।

संसा­रि­त्वा­त्प्र­वि­ष्टानां परस्य तदभेदतः ।।
संसारित्वं प्रसक्तं चेन्न क्षुदा­द्य­त्य­य­श्रुतेः ।। ५५६ ।।

सुखि­दुः­खि­त्व­मो­हा­दि­द­र्श­ना­न्नेति चेन्मतम् ।।
नैवं वेदान्तवाक्येषु न लिप्यत इति श्रुतेः ।। ५५७ ।।

ननु प्रत्यक्षमानेन साक्षा­द्दुः­खा­दि­द­र्शने ।।
प्रत्य­क्ष­बा­ध­सि­द्ध्यर्थं न न्याय्यो­क्ति­प­रं­परा ।। ५५८ ।।

नोपा­ध्या­श्र­य­ज­नि­त­वि­शे­ष­वि­ष­य­त्वतः ।।
प्रत्य­क्षा­भा­स­ता­सि­द्धे­स्तेन नोक्तिविरोधिता ।। ५५९ ।।

दुःखी यदि भवेदात्मा कः साक्षी दुःखिनो भवेत् ।।
दुःखिनः साक्षिताऽयुक्ता साक्षिणो दुःखिता तथा ।। ५६० ।।

मर्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः ।।
धीवि­क्रि­या­स­ह­स्राणां साक्ष्य­तोऽ­ह­म­वि­क्रियः ।। ५६१ ।।

सुख­दुः­खा­दि­सं­बद्धां यथा दण्डेन दण्डिनम् ।।
राधको वीक्षते बुद्धिं साक्षी तद्वदसंहतः ।। ५६२ ।।

शरी­रे­न्द्रि­य­सं­घात आत्मत्वेन गतां धियम् ।।
नित्या­त्म­ज्यो­तिषा दीप्तां विशिंषन्ति सुखादयः ।। ५६३ ।।

पराञ्चयेव तु सर्वाणि प्रत्यक्षादीनि नाऽऽत्मनि ।।
प्रतीच्येव प्रवृत्तं तत्सदसीति वचोऽञ्चसा ।। ५६४ ।।

विज्ञातारमरे केन न दृष्टोरिति च स्फुटम् ।।
अन्यदेवेति वाक्याच्च प्रत्यक्षं नाऽऽत्मगोचरम् ।। ५६५ ।।

किंतु बुद्ध्या­द्यु­पाधौ तदा­त्म­च्छा­यै­क­क­र्म­कम् ।।
तथा दुःख्यहमित्यादौ प्रत्य­क्ष­मु­प­चा­रतः ।। ५६६ ।।

सामा­ना­धि­क­र­ण्यस्य तथैवेहोपचारतः ।।
अयं दुःख्यहमस्मीति विषयेण तदीक्षणात् ।। ५६७ ।।

नासिकाग्ने महद्दुःखं पादाङ्गष्ठाग्र एव च ।।
देहावयवदुःखादेः प्रात्य­क्ष्या­न्नाऽऽ­त्म­दुः­खिता ।। ५६८ ।।

प्रतीचि चेद्भवेद्दुःखं व्यापि चैतन्यवद्भवेत् ।।
द्रष्ट्ट­स्थ­त्वान्न कर्मस्थं द्र्ष्ट्रा दृश्येत बोधवत् ।। ५६९ ।।

स्वात्मनस्त्वेव कामाय ह्यात्मा­र्थ­त्व­श्रु­ते­र्भ­वेत् ।।
आत्मैकविषयं सौख्यमिति चेन्मन्यसे न हि ।। ५७० ।।

यत्र वा अन्य­दि­त्यु­क्ते­र­वि­द्या­वि­षयं तु तत् ।।
दुःखित्वं नाऽऽत्मनि ज्ञेयं यत्र त्वस्येति निह्नुतेः ।। ५७१ ।।

मम तावदिदं बुद्धौ भवद्भ्यो यन्न रोचते ।।
प्रत्यक्प्रवणया दृष्ट्या संसारो नाऽऽत्म­नी­क्ष्यते ।। ५७२ ।।

मतं तार्कि­क­स­म­य­वि­रो­ध­श्चे­त्प्र­स­ज्यते ।।
इच्छा­द्वे­षा­दि­मा­नात्मा यत­स्तै­र­भ्यु­पे­यते ।। ५७३ ।।

नैवं निःशे­ष­त­र्कै­श्चे­द­वि­रो­धोऽ­भ्यु­पे­यते ।।
सिद्धान्तो दुःस्थि­तोऽ­त्यर्थं तदा वः प्राप्नु­या­द्ध्रु­वम् ।। ५७४ ।।

न च तार्कि­क­यु­क्त्याऽपि प्रती­ची­हा­सु­खा­त्मता ।।
यतोऽवगम्यते तस्मा­न्नि­र्भीतिः सुखमास्यताम् ।। ५७५ ।।

परा­क्प्र­त्य­य­ग­म्येन दुःखेन स्याद्विषेषणम् ।।
न प्रत्य­ङ्भा­त्र­रू­पस्य विरो­धा­दु­ष्ण­शी­त­वत् ।। ५७६ ।।

प्रत्य­क्षा­वि­ष­यत्वं च प्रतीचः प्रागवादिषम् ।।
तच्छा­या­पा­श्र­या­द्य­स्मा­त्प्र­त्य­क्ष­स्यापि मानता ।। ५७७ ।।

यो यतो लिप्सते नासावकिंचित्को ह्यनर्थिने ।।
भिक्षां दातुमलं तद्वज्ज्ञेयं स्वार्थ­प­रा­र्थयोः ।। ५७८ ।।

प्रत्य­क्ष­म­न्त­रे­णापि भवे­द्दुः­ख­वि­शे­षणः ।।
वियच्छब्दगुणं यद्व­त्प्र­त्य­क्चे­न्नै­व­मि­ष्यते ।। ५७९ ।।

एक­मा­ना­न­धि­ग­तेर्नु सुख­ग्रा­हि­णाऽऽ­त्मनः ।।
नित्या­नु­मि­त­रू­पस्य गृहीतिः स्यान्मनागपि ।। ५८० ।।

एक­त्वा­दा­त्म­न­श्चैवं विषयीकरणे सति ।।
असं­भ­वा­त्त­द­न्यस्य द्रष्ट्रभाषः प्रसज्यते ।। ५८१ ।।

विषयित्वमथैकस्य विषयत्वं च दीपवत् ।।
मतं चेन्नैतदेवं स्याद्यु­ग­प­द्भू­त्य­सं­भ­वात् ।। ५८२ ।।

न व्यनक्ति प्रदीपोऽपि स्वतो भास्वररूपतः ।।
विषयत्वाच्च पुंबुद्धेर्न दीपस्योभयात्मता ।। ५८३ ।।

प्रतीचश्च निरंशत्वान्न दीपेन सधर्मता ।।
म्राह्य­ग्रा­ह­क­तै­तेन विज्ञा­न­स्या­प्य­पो­दिता ।। ५८४ ।।

तथा गुणगुणित्वेन हक्ष­लि­ङ्गा­धि­ग­म्ययोः ।।
दुःखा­त्म­नो­र्मि­थो­योगे नानुमानप्रमाणता ।। ५८५ ।।

नित्य­म­क्ष­ज­ग­म्य­त्वा­हुः­ख­स्यो­त्प­ल­नी­ल­वत् ।।
रूपा­द्य­क्ष­ज­ग­म्यैश्च सामानाधिकरण्यतः ।। ५८६ ।।

दुःखस्याऽऽत्मनि संयो­ग­ज­त्वा­भ्यु­प­ग­मेऽपि च ।।
सभा­ग­वि­क्रि­या­नि­त्य­त्वा­दि­दोषः प्रसज्यते ।। ५८७ ।।

नाविकृत्य हि संयोगि गुणो द्रव्यं कदाचन ।।
उपयन्नपयन्वेह लोके दृष्टः प्रमाणतः ।। ५८८ ।।

न चानवयवं वस्तु क्वचि­द­प्यु­प­ल­भ्यते ।।
विक्रि­या­मा­प्नु­व­न्नापि नित्यं ध्वंसि­गु­णा­श्र­यम् ।। ५८९ ।।

आकाशस्य च नित्यत्वं नेष्ट­मा­ग­म­वा­दिभिः ।।
तत्का­र्य­श्र­व­णा­न्नापि दृष्टान्तोऽस्ति ततोऽपरः ।। ५९० ।।

विक्रियावदपि द्रव्यं तत्प्र­त्य­य­स­म­न्व­यात् ।।
नित्यमेवेति चेन्नै­व­म­न्य­था­त्वा­ति­रे­कतः ।। ५९१ ।।

अनित्यत्वं कचिन्नास्ति यथाऽन्येषां प्रवादिनाम् ।।
सन्ने­वा­भा­व­रू­पोऽपि त्विष्टः शून्य­त्व­वा­दि­नाम् ।। ५९२ ।।

संवि­त्प्र­मा­ण­स­त्त्वेन विना वस्तु न लौकिकम् ।।
प्रमा­ण­वा­दि­भि­र्दृ­ष्ट­म­न­न्या­य­त्त­सि­द्धि­कम् ।। ५९३ ।।

भागा­न्य­था­त्वा­द्द्र­व्यस्य नानित्यत्वं क्वचिन्मितम् ।।
निर्भा­ग­त्वा­त्प्र­ती­च­स्त­त्कया युक्त्योपपद्यते ।। ५९४ ।।

अथ सावयवत्वेऽपि नित्यं स्यात्कु­लि­शा­दि­वत् ।।
संयोगपूर्वतो नैवं तद्विभागावसानतः ।। ५९५ ।।

वजा­दे­र­षि­भा­ग­श्चे­त्त­स्या­सं­यो­ग­पू­र्वतः ।।
नानु­मे­य­त्व­तोऽ­स्त्येव तस्यावयवसंयुविः ।। ५९६ ।।

न हि साषयवं किंचि­दृ­तेऽ­व­य­व­सं­यु­तिम् ।।
घटादिवद्यतो दृष्ट­म­तोऽ­दुः­खि­त्व­मा­त्मनः ।। ५९७ ।।

निर्दुःखित्वे परस्येष्टे तद­न्य­स्पा­प्य­भा­वतः ।।
कस्य दुःख­नि­वृ­त्त्यर्थं प्रार­ब्धो­प­नि­ष­त्त्वया ।। ५९८ ।।

प्रत्य­ग­ज्ञा­न­हे­तू­त्थ­दुः­खि­त्व­म­ति­वि­भ्रम -
ध्वंसमात्रस्य सिद्ध्य­र्थ­मा­र­ब्धो­प­नि­ष­न्मया ।। ५९९ ।।

नव­सं­ख्ये­य­मा­त्रेक्षी दशमो विभ्रमाद्यथा ।।
न वेत्ति दशमोऽस्मीति स्वीक्षमाणोऽपि तान्नव ।। ६०० ।।

निःशे­षा­न­ना­त्म­दृ­क्त­द्व­द­नि­र्ज्ञा­ता­त्म­त­त्त्वकः ।।
न वेत्यै­का­त्म्य­म­स्मीति वीक्ष­मा­णोऽ­प्य­ना­त्मनः ।। ६०१ ।।

दश­मोऽ­सी­ति­वा­क्यो­त्थ­स­म्य­ग्ज्ञा­ना­न­ला­र्चिषा ।।
प्लुष्ट्वाऽऽ­त्म­द­श­मा­ज्ञानं दशमोऽस्मीति वीक्षते ।। ६०२ ।।

यथा तत्त्व­म­सी­त्या­दि­वा­क्यो­त्थ­ज्ञा­न­व­ह्निना ।।
प्लुष्ट्वे­हाऽऽ­त्म­त­म­स्तज्जं तथैकात्म्यं प्रपद्यते ।। ६०३ ।।

प्रत्य­ग­ज्ञा­न­हे­तू­त्थ­शा­स्रा­चा­र्या­दि­सा­धनः ।।
तद्वि­रु­द्ध­म­थै­कात्म्यं प्रत्यपद्यत मायया ।। ६०४ ।।

शास्राचार्यादयो यद्व­न्मो­हो­त्थ­त्वान्न वस्तुतः ।।
प्रवेशोऽप्यस्य तादृ­क्स्या­दै­का­त्म्य­प्र­ति­प­त्तये ।। ६०५ ।।

व्याकृ­ता­व्या­कृ­ता­वस्थे जगतोऽस्य स्वभावतः ।।
अनूद्य, लोकतो दृष्टे, तद्याथात्म्यं प्रबोध्यते ।। ६०६ ।।

यत एव­म­तोऽ­पा­स्त­रा­ग­द्वे­पा­दि­धी­मलः ।।
उदारधिषणः प्राह भाष्य­कृ­न्न्या­य­व­द्वचः ।। ६०७ ।।

अप्र­वि­ष्ट­स्व­भा­वस्य दिग्दे­शा­द्य­न­भि­प्लुतेः ।।
प्रवेशो व्याकृते क्लृप्तो जल­पा­त्रा­र्क­बि­म्ब­वत् ।। ६०८ ।।

विम्बात्मना प्रवेशस्य ननु दूषणमीरितम् ।।
विप्र­कृ­ष्ट्या­द्य­भा­वोक्त्या भूयः कस्मात्स आश्रितः ।। ६०९ ।।

संभ­वा­द्वि­प्र­कृ­ष्ट्या­दे­र­दुष्टो दूषितः पुरा ।।
कथं तदिति चेदत्र युक्ति­ले­शोऽ­भि­धी­यते ।। ६१० ।।

निर्धू­ता­शे­ष­ना­वा­त्व­त­द्धे­तु­र­वि­भा­ग­वान् ।।
अनन्यसाक्षिकः प्रत्य­ङ्ङा­सी­न्ना­मा­दि­ज­न्मतः ।। ६११ ।।

द्रष्ट्रा­दि­रू­प­त­स्ता­व­द्व्य­ति­रे­कोऽ­भ­व­त्पुरा ।।
नामादिजन्मनि द्रष्टे­त्या­दि­रू­पा­न्व­योऽ­प्य­भूत् ।। ६१२ ।।

अप्पा­त्रो­त्था­पि­ता­द्भा­नो­र्दिवि भानु­र्य­थे­क्ष्यते ।।
सुषुप्तस्थस्तथा धीस्था­त्क­र्तृ­भो­क्तृ­त्व­ल­क्ष­णात् ।। ६१३ ।।

द्रष्ट्ट­श्रो­त्रा­दि­रू­पश्च यश्च द्रष्ट्रा­दि­सा­क्ष्यषि ।।
दुद्धि­त­त्का­र­णो­पाधी क्षेत्र­ज्ञे­श्व­र­सं­ज्ञकौ ।। ६१४ ।।

स्वप्न­नि­द्रा­यु­ता­घाद्यौ प्राज्ञ­स्त्व­स्व­प्न­नि­द्रया ।।
इत्या­दि­स्था­न­भे­दोऽपि वेदान्तोक्तौ विनिश्चितः ।। ६१५ ।।

जिघ्राणीममहं गन्धमिति यो वेत्त्यविक्रियः ।।
तद्भा­वा­भा­व­सा­क्ष्यात्मा ह्येतश्च श्रुतिमस्तके ।। ६१६ ।।

अर्था­न्त­र­नि­रा­सार्थं दूषणं चोदितं पुरा।।
तद­भा­वा­द­दु­ष्ट­त्वा­त्प्र­वेशो मुखबिम्ववत् ।। ६१७ ।।

दर्पणाभिहता दृष्टिः पर्यावृत्य स्वमाननम् ।।
व्याप्नु­व­न्त्य­वि­भा­गेन भ्रान्तिं नो जनयेद्यथा ।। ६१८ ।।

इहापि कारणोपाधिः केव­लोऽ­प्य­वि­वे­कतः ।।
बुद्ध्या­दि­का­र्य­गै­र्धर्मैः प्रति­वि­म्व­व­दी­क्ष्यते ।। ६१९ ।।

यथो­क्ता­र्य­प्र­सि­द्ध्यर्थं वचांसि सुबहून्यपि ।।
त्रय्य­न्ते­षू­प­प­द्यन्ते तत्सृ­ष्ट्वे­त्या­दि­कानि च ।। ६२० ।।

दिग्दे­श­का­शू­न्यस्य प्रवेशो विलसर्पवत् ।।
न त्वाञ्चसः परस्यास्ति तेना­वि­द्या­प्र­क­ल्पितः ।। ६२१ ।।

अग्निः सूर्यो मरु­द्य­द्व­त्प्र­विष्ट भुवनं तथा ।।
अप्र­वि­ष्ट­स्व­भा­वोऽपि कार्य­मा­त्माऽ­वि­श­ज्ज­गत् ।। ६२२ ।।

प्रत्य­ग्या­था­त्म्य­दृ­क्सि­द्धि­हे­तु­त्वाच्च भवेदिदम् ।।
जग­ज्ज­नि­स्थि­ति­ध्वं­स­प्र­वे­शानां प्रयोजनम् ।। ६२३ ।।

तदृष्टेः पुरु­षा­र्थ­त्व­श्र­व­णा­द­स­कृ­च्छ्रुतौ ।।
ब्रह्म वेदेत्येवमादौ क्लृप्ताः सृष्ट्यादयस्ततः ।। ६२४ ।।

युक्त्या नैषोपपद्यन्ते जगत्सृष्ट्यादयो यतः ।।
प्रत्य­ग­ज्ञा­न­मा­त्रोत्या जग­त्सृ­ष्ट्या­द­य­स्ततः ।। ६२५ ।।

नासतो जन्मना योगः सतः सत्त्वान्न च्चेष्यते ।।
कूटस्थे विक्रिया नास्ति तस्मादज्ञानतो जनिः ।। ६२६ ।।

तथा रूपं रूपमिति मन्त्रवर्णोऽपि चाऽऽत्मनः ।।
याथा­त्म्य­द­र्श­ना­यैव सृष्ट्यादि प्रत्यपीपदत् ।। ६२७ ।।

व्याप्तिः प्रवेशशब्देन भण्यते कारणात्मनः ।।
बुद्ध्या­दि­का­र्य­वि­षया व्यापि­व्या­प्य­त्व­मे­तयोः ।। ६२८ ।।

असाधारणतो न स्यात्का­ल­दि­ग्दे­श­भि­न्नयोः ।।
मिथोऽसंगतितो व्याप्ति­र्हि­म­व­द्वि­न्ध्य­यो­रिव ।। ६२९ ।।

मिथोऽ­वि­भि­न्न­यो­र्नासौ नापि सैकात्म्य इष्यते ।।
भिन्न­सा­मा­न्य­यो­स्त­द्व­त्त­द­सा­धा­र­णा­त्मनः ।। ६३० ।।

कार्यकारणयोरेवं भिन्ना­भि­न्न­वि­क­ल्पतः ।।
वस्तुवृत्तेन संव्याप्तिर्न युक्त्ये­हो­प­प­द्यते ।। ६३१ ।।

यत्र कार्त्स्न्येन वृत्तिः स्याद्र­ज्जु­स­र्पा­दि­व­द्द्वयोः ।।
व्याप्ति­र्मु­ख्याऽस्तु तत्रैव तथाऽऽ­त्मा­ना­त्म­नो­रपि ।। ६३२ ।।

तमसैव यथा सर्पं स्रक्प्रविष्टा न तु स्वतः ।।
प्रत्य­ग­ज्ञा­न­हे­तू­त्थ­मा­त्मैवं मायया जगत् ।। ६३३ ।।

कया मर्यादया कार्यं मायावी माययाऽविशत् ।।
आनखाग्रेभ्य इत्युक्त्या मर्यादाऽतोऽस्य भण्यते ।। ६३४ ।।

नखाग्रावधिका यस्मा­त्सं­वि­त्पु­सोऽ­भि­जा­यते ।।
अतः सामा­न्य­वृ­त्त्यात्मा प्रावि­श­द्दे­ह­मी­श्वरः ।। ६३५ ।।

दृष्टा­न्ता­भ्या­मिमां वृत्तिं व्याचष्टे प्रत्यगात्मनः ।।
कृत्स्न­का­र­ण­त­त्का­र्य­वृ­त्त्यु­पा­धि­स­मा­श्र­यात् ।। ६३६ ।।

मिथो विभक्ता एकत्र क्षुरधाने यथा क्षुराः।।
क्षुर­धा­ना­द्वि­भ­ज्यन्ते तथाऽऽत्मा नाडिभेदतः ।। ६३७ ।।

ओतप्रोतात्मना तस्थुरर्वाग्या भूमयोऽक्षरात् ।।
तत्त­द्भू­मि­प­रि­च्छे­दा­त्क्षे­त्रज्ञः पर एव सन् ।। ६३८ ।।

सूक्ष्म­ता­व्या­पिते ज्ञेये भूम्या­दे­र्या­व­द­क्ष­रम् ।।
पूर्व­पू­र्व­प्र­हा­णेन तन्निष्ठा वियदात्मना ।। ६३९ ।।

विश्चं­भ­रोऽ­ग्नि­र्वि­ज्ञेयो विश्वस्य भरणादिह ।।
डारू कृत्स्न­म­भि­व्याप्य यथाऽ­ग्नि­र्दा­रुणि स्थितः ।। ६४० ।।

संव्याप्य तद्वदखिलं देहमात्मा व्यवस्थितः ।।
तस्थावसंव्याप्य यथा क्षुरधानं क्षुरस्तथा ।। ६४१ ।।

श्रोत्रा­दि­ना­डी­म­ध्यस्थ आत्माऽव्याप्य तनुं स्थितः ।।
वृत्ती द्वे प्राप्नु­तेऽ­त­द्वा­न्स्व­प्न­जा­ग्र­द­व­स्थयोः ।। ६४२ ।।

सामा­न्य­मा­त्र­वृत्तिं स सुषुप्ते प्रतिपद्यते ।।
प्रत्य­ग्या­था­त्म्य­सं­मो­हान्न त्वसौ परमार्थतः ।। ६४३ ।।

महासत्ता वियज्ज्ञेियं कृत्स्ना­र्वा­ग्भू­मि­सं­प्लुतेः ।।
व्यक्तयोऽन्त्या विशेषाः स्युस्त­द­सा­धा­र­ण­त्वतः ।। ६४४ ।।

सामान्यानि विशेषाश्च तन्मध्यपतितानि च ।।
सामा­न्या­त्म­वि­शे­षत्वं तदुपाधिरगात्परः ।। ६४५ ।।

श्रोत्र­त्व­गा­दि­ना­डिस्थं शब्दा­द्या­लो­च­ना­दिभिः ।।
चेष्टितं नामरूपाभ्यां देहेऽ­मु­ष्यो­प­ल­भ्यते ।। ६४६ ।।

असा­धा­र­ण­सा­मा­न्य­रू­पा­भ्या­मी­क्ष्य­मी­क्षते ।।
सर्वमानैः प्रसिद्धत्वादतो व्युत्थाप्यते ततः ।। ६४७ ।।

अयं मेयः प्रामातांऽहं मानमेतदितीक्षणे ।।
मिथ्याज्ञाने जनस्तुष्टः स्वप्न­मा­ये­न्द्र­जा­ल­वत् ।। ६४८ ।।

यतो मिथ्या­व­वो­धोऽ­य­म­त­स्त­द­प­नु­त्तये ।।
न पश्यन्ति तमित्याह ये पश्यन्ति यथोदितम् ।। ३४९ ।।

वस्त्व­ज्ञा­नै­क­नि­ष्ठ­त्वा­न्मि­थ्या­धीर्न हि वस्तुनि।।
न पश्यन्तीत्यतो युक्तं नेक्षन्ते वस्तु तत्परम् ।। ६५० ।।

यद्य­प्य­त्रा­भि­मा­नोऽस्ति निष्क्रि­या­का­र­का­त्मनि ।।
पश्या­मी­त्य­य­था­र्थ­त्वा­न्मि­थ्या­धी­रेव सा मता ।। ६५१ ।।

नन्व­प्रा­प्त­नि­षे­धोऽयं न पश्यन्तीति भण्यते ।।
नैवं सृष्ट्या­दि­वा­क्यानां प्रत्य­ग्बो­धै­क­हे­तुतः ।। ६५२ ।।

मन्त्रोऽ­प्या­हे­म­मे­वार्थे रूपं रूपमिति स्फुटम् ।।
तद्द­र्श­ना­त्स­म­स्तस्य पुरुषार्थस्य सिद्धितः ।। ३५३ ।।

पश्यन्तोऽपि न पश्यन्ति विरुद्धं कथमुच्यते ।।
मेया­सं­स्प­र्शि­दृ­ष्टि­त्वान्न पश्यन्तीति भण्यते ।। ६५४ ।।

सदे­वे­त्या­दि­वा­क्येभ्यः कृत्स्नं वस्तु यतोऽद्वयम् ।।
संभ­व­स्त­द्वि­रु­द्धस्य कुतोऽकृत्स्नस्य वस्तुनः ।। ६५५ ।।

अव्या­वृ­त्ता­न­नु­गतं प्रत्यग्वस्तु स्वतो मितेः ।।
तद्विरुद्धेह या दृष्टि­र्मि­थ्या­रूपा न साऽन्यथा ।। ६५६ ।।

आत्माऽ­ना­त्मा­न­मा­प्नोति यतः प्रत्य­क्त­याऽ­खि­लम् ।।
तद­न्या­न­व­शि­ष्ट­त्वा­द­कृत्स्नः स्यादतोऽन्यथा ।। ६५७ ।।

अनात्मा नाऽऽत्मरूपेण प्रत्य­क्त्वा­त्सि­द्धि­म­र्हति ।।
प्रत्य­ङ्भा­त्रै­क­या­था­त्म्या­त्कु­त­स्त­द्व्य­ति­रे­कतः ।। ६५८ ।।

देशतः कालतो रूपा­द्व­स्त्व­व­स्था­दि­तोऽपि च ।।
व्यभिचारोऽस्य संसि­द्ध­स्त­द्वि­र­द्धा­त्म­सा­क्षिकः ।। ६५९ ।।

प्रतिज्ञार्थस्य सिद्ध्यर्थं न पश्यन्तीति भण्यते ।।
अकृत्स्नो हीति हेतूक्तिः साऽपि चैवं समर्थ्यते ।। ६६० ।।

तद­कृ­त्स्न­त्व­सं­सिद्ध्यै प्राण­न्ने­वे­त्यु­दी­र­णम् ।।
अन्यो­न्य­व्य­भि­चा­रित्वं प्राणा­दे­री­क्ष्यते यतः ।। ६६१ ।।

यस्मि­न्दृ­ष्टेऽ­प्य­दृ­ष्टोऽर्थः स तदन्यश्च शिष्यते ।।
तथाऽदृष्टेऽपि दृष्टः स्याद­कृ­त्स्न­स्ता­दृ­गु­च्यते ।। ६६२ ।।

आवि­ष्क­रि­ष्य­न्हे­त्व­र्थ­म­कृ­त्स्न­त्व­प्र­सि­द्धये ।।
न ह्यसौ कृत्स्रतामेति चक्षुः­श्रो­त्रा­दि­सं­हतः ।। ६६३ ।।

पर­स्प­रा­न­भि­व्या­प्ते­र्ना­म­रू­प­क्रि­या­त्म­नाम् ।।
व्यभि­चा­रा­द­कृ­त्स्नत्वं स्याद­ना­त्मै­क­रू­पि­णाम् ।। ६६४ ।।

असंहतः संहतः सन्प्र­त्य­ङ्भो­है­क­हे­तुतः ।।
प्राण­ना­दि­क्रियाः कुर्वन्प्राण इत्यभिधीयते ।। ६६५ ।।

तस्मिश्च प्राणने वायोर्व्यापारः करणात्मना ।।
उत्सृज्यमानः कर्मत्वं विज्ञानात्मन एति सः ।। ६६६ ।।

साक्षा­दा­त्मो­त्सृ­ज­न्वायुं तस्मि­न्प्रा­ण­न­क­र्मणि ।।
अपेतकारकग्रामः प्रती­चै­वा­नु­भू­यते ।। ६६७ ।।

कर्त्रा­दि­का­र­का­ण्य­स्मि­न्न­सा­धा­र­ण­रू­पतः ।।
अतद्धर्मक आभान्ति ह्याग­मा­पा­य­सा­क्षिणि ।। ६६८ ।।

साक्षिरूपं स्वतःसिद्धं तेनै­ष्व­व्य­भि­चा­रतः ।।
कर्त्रादि तु तमोन्तस्य रूपं धर्माद्यपेक्षया ।। ६६९ ।।

अनि­त्य­हे­तु­तोऽ­नित्यं तेन कर्त्रादि लक्ष्यते ।।
निर्हेतु प्रत्यगज्ञानं लक्ष्यते तेन नित्यवत् ।। ६७० ।।

प्रत्य­ग­ज्ञा­न­मा­त्रै­क­नी­ड­त्वा­न्ना­न्य­रू­पता ।।
क्रिया­का­र­क­रू­पाणां नित्यानित्यमतिः कुतः ।। ६७१ ।।

अत­स्त­द्व्य­भि­चा­रेण नाम­रू­प­क्रि­या­त्म­नाम् ।।
अकृ­त्स्न­व्य­प­दे­शेन मिथ्या­ज्ञा­न­त्व­मु­च्यते ।। ६७२ ।।

अज्ञातायां यथा रज्ज्वां तद­ध्य­स्तै­क­रू­पि­णाम् ।।
व्यभिचारः स्रगादीनां प्रती­च्ये­व­म­ना­त्म­नाम् ।। ६७३ ।।

प्राणाग्नयः पुरा बुद्धेः सुप्तेष्वन्येषु जाग्रति ।।
अतस्तद्विपया ताव­त्क­र्तृ­ते­हो­च्यते प्रभोः ।। ६७४ ।।

नामतो रूपतश्चैवं प्राणनादिषु कर्मसु ।।
लक्ष्य­तेऽ­वि­द्यया तद्वात्रज्जुः सर्पादिभिर्यथा ।। ६७५ ।।

प्राण­न्ने­वे­त्य­व­धृ­ते­स्त­द­र्था­न्त­र­रू­पतः ।।
प्राणा­द्य­कृ­त्स्न­ता­सिद्ध्यै व्यभिचारः प्रदर्श्यते ।। ६७६ ।।

कर्मैतदेव कुर्वाणः काले चात्रैव भण्यते ।।
अत्रैव च क्रियायोगे तद्रूपादृः स इष्यते ।। ६७७ ।।

तद्वानसमकालं तु प्राण­ना­दि­क्रि­यो­त्थितेः ।।
प्रागूर्ध्वं च तदन्येषु प्राणा­सं­भ­व­हे­तुतः ।।
न तन्नामा न तद्रू­प­स्त­द­न्यत्र च कर्मणि ।। ६७८ ।।

प्राणनानन्तरं यस्मा­त्क्रि­या­शक्तेः समुद्भवः ।।
वदन्वागित्यतः प्राह क्रमयोगानुरोधतः ।। ६७९ ।।

वक्तीति वाग्भवेदात्मा ह्युच्यते वाग्भवेद्ध्वनिः ।।
तथो­च्य­तेऽ­न­ये­त्य­स्मा­त्क­रणं वागुदाहृता ।। ६८० ।।

पश्यं­श्च­क्षु­स्तथा द्रष्टा शृण्वञ्श्रोत्रं तथैव च ।।
त्रिधा त्रिधा व्यवच्छिन्न एवं सर्वत्र लक्षयेत् ।। ६८१ ।।

चक्षुरालोचनायैव संशयं कुरुते मनः ।।
बुद्धि­र­ध्य­व­सा­नाय साक्षी क्षेत्रज्ञ उच्यते ।। ६८२ ।।

यैव ज्ञानविकाशेषु साक्षिता सैव नान्यथा ।।
क्रिया­श­क्ति­वि­का­शेषु ह्यन्यो­न्य­व्य­भि­चा­रिषु ।। ६८३ ।।

निरस्तावयवे व्योम्नि मिथो­भि­न्न­प्र­दे­शि­नाम् ।।
न संभाव्या यथा सिद्धिः प्रतीच्येवं तमोवताम् ।। ६८४ ।।

प्राण­न्व­द­न्नि­त्यु­क्तानि नामरूपाणि यानि तु ।।
कर्मजान्येव तान्यस्य न तु चैतन्यवत्स्वतः ।।। ६८५ ।।

अन्यो­न्या­पे­क्ष­सं­सि­द्धे­र­न्यो­न्य­व्य­भि­चा­रतः ।।
अपराधीनसंसिद्धौ भानाविव तमो भवेत् ।। ६८६ ।।

यत एवमषिद्योत्थं प्राणा­द्य­स्या­त­दा­त्मनः ।।
नाम­रू­प­म­त­स्ताभ्यां पश्यन्नपि न पश्यति ।। ६८७ ।।

तत्रैवं सति यो द्रष्टा प्राणनादिक्रियं परम् ।।
उपास्त इति जानाति न, स्वभावादुपासनम् ।। ६८८ ।।

न यतो युग­प­त्कृ­त्स्न­व­स्तु­ज्ञानं क्रमेण वा ।।
अस्त्ये­कै­क­म­तोऽ­नूक्तिः प्राप्ता दृष्टिरनूद्यते ।। ६८९ ।।

नाने­क­दृ­ष्टि­वि­ध्य­र्थ­मे­कै­को­पा­स्ति­कु­त्स­नम् ।।
मृत्योः स मृत्युमित्येवं तदृष्टिरषि कुत्स्यते ।। ६९० ।।

सर्व एकमिति ह्युक्ते­रि­हा­प्यै­का­त्म्य­द­र्श­नम् ।।
विधीयते यतो नातः सम­स्त­व्य­स्त­द­र्श­नम् ।। ६९१ ।।

समस्तव्यस्ततां तस्मा­न्मा­ना­न्त­र­मि­त­त्वतः ।।
अनू­द्या­पू­र्व­मै­कात्म्यं विधे­य­मु­प­प­त्ति­मत् ।। ६९२ ।।

समु­द्र­त­रु­गो­पि­ण्ड­दृ­ष्टान्तैः परमात्मनः ।।
व्याचक्षते बला­त्के­चि­त्स­म­स्त­व्य­स्त­द­र्श­नम् ।। ६९३ ।।

नाना­व­य­व­सं­भे­द­भि­न्ना­र्थ­श्चे­न्न­गा­दि­वत् ।।
सिद्धः कुत­श्चि­न्मा­ना­क­त्स्या­द­नु­वा­द­स्तथा सति ।। ६९४ ।।

निःशे­ष­भे­द­सा­मा­न्य­दृ­ष्ट्या­वृ­त्ति­रु­पा­स­नम् ।।
विधित्सितं चेत्तादृक्षं कल्पकोट्याऽपि दुःशकम् ।। ६९५ ।।

प्रत्य­ग्दृ­ष्टेर्हि विषयः स्यादा­त्मे­त्य­नु­भू­तितः ।।
तदवोधमृते तत्र कुतः पिण्डादिदर्शनम् ।। ६९६ ।।

तं परादादिति तथा प्रती­च्य­ज्ञा­न­क­ल्पि­तम् ।।
मिथ्या­ज्ञा­ना­प­नु­त्त्य­र्थ­मा­त्मै­वे­त्य­ब्र­वी­च्छ्रुतिः ।। ६९७ ।।

परा­ञ्ची­त्य­प­वा­दाच्च न पिण्डादीक्षणं श्रुतेः ।।
प्रत्य­ग्दृष्ट्या विरुद्धत्वान्न परागर्थदर्शनम् ।। ६९८ ।।

अन­न्य­मे­य­त­न्मा­न­मातृ वस्त्वविभागवत् ।।
अमेयमानमात्रेकं तदात्मेति प्रचक्षते ।। ६९९ ।।

संसा­र­द­र्श­ना­भ्या­सा­त्त­न्मुक्तिं ये प्रचक्षते ।।
नाकार्यं विद्यते तेषां वैश्वा­न­र­व­रा­श्र­यात् ।। ७०० ।।

वयं तु वर­ही­न­त्वा­च्च­र्म­व­द्वे­ष्टितुं वियत् ।।
न शक्नुमो, विना युक्तीरतो न श्रद्दधामहे ।। ७०१ ।।

उक्तं च वक्ष्यमाणं च समस्तव्यस्ततां प्रति ।।
श्रुत्य­क्ष­रा­नु­रो­धेन दूषणं दूषितात्मनाम् ।। ७०२ ।।

नादू­षि­ता­त्म­भि­र्य­स्मा­त्प्र­ती­चोऽ­न्य­न्म­ना­गपि ।।
प्रत्य­ग्दृ­ष्ट्ये­क्षितुं शक्यं वस्तु स्वप्नदृशा यथा ।। ७०३ ।।

प्राणन्वदन्निति द्वाभ्यां क्रिया­श­क्ति­स­मु­द्भवः ।।
पश्य­ञ्शृ­ण्व­न्निति तथा ज्ञान­श­क्त्यु­द्भवः कृतः ।। ७०४ ।।

नामरूपातिरेकेण न ज्ञेयं वस्तु विद्यते ।।
उपलब्धौ तयोरुक्ते कारणे श्रोत्रचक्षुषी ।। ७०५ ।।

नामरूपप्रकाश्या च क्रिया प्राणात्मिका तथा ।।
नामा­भि­व्य­क्ति­कृ­द्वा­क्स्या­देवं सर्वत्र योजना ।। ७०६ ।।

श्रोत्रा­दि­क­र­णै­र्य­द्य­त्प्र­थते तत्तदुच्यते ।।
रूपं व्याक्रियते यत्तु तन्ना­मे­त्यु­प­दि­श्यते ।। ७०७ ।।

ज्ञान­श­क्ति­वि­का­शानां मनः साधारणं मतम् ।।
क्रिया­श­क्त्यु­द्भ­वानां च करणं तत्र्रिकालदृक् ।। ७०८ ।।

प्राणनादिकृतां मध्य एकैकं यः समीक्षते ।।
न स जाना­त्य­कृ­त्स्न­त्वा­त्पूर्ण्पं वस्तु यतः स्वतः ।। ७०९ ।।

यावदेवमयं वेद प्राणि­ती­त्या­दि­क­र्तृ­कम् ।।
अक्रियाकारकं वस्तु न तावद्वेद तत्त्वतः ।। ७१० ।।

अव्या­कृ­तेऽ­न­भि­व्य­क्तेर्न चेत्त­त्त­त्त्व­मी­क्ष्यते ।।
व्यक्तौ च हेतुकार्याभ्यां कथं तर्हीक्ष्यतां परम् ।। ७११ ।।

कार्यकारणबुद्धौ ताविष्येते विश्चतैजसौ ।।
प्राज्ञः कारणवद्धस्तु द्वौ तु तुर्ये न सिध्यतः ।। ७१२ ।।

विस्फारिताक्षो जानाति शब्दाद्येव न तत्परम् ।।
अपीतकरणग्रामः शब्दाद्यपि न वेत्ति हि ।। ७१३ ।।

कथं पश्यं­स्त­मा­त्मानं साक्षाद्वेदेति चोदिते ।।
आत्मेत्येवेति नो वक्ति चोद्य­हे­तु­नि­वृ­त्तये ।। ७१४ ।।

अतिरोहितरूपं यज्ज­ग­त्य­व्या­कृते तथा ।।
तत्सा­क्षि­त्वाच्च तद्व्यक्तौ यद­क्षौ­र्व्य­ज्यते न च ।। ७१५ ।।

प्रत्यक्तया यः प्रथते स्वयं­ज्यो­तिः­स्व­भा­वकः ।।
मातृ­मा­न­क्रि­या­मे­य­वि­भा­गैर्न विभज्यते ।। ७१६ ।।

जिघ्राणीममहं गन्धमिति यो वेत्त्यविक्रियः ।।
स आत्मा तत्परं ज्योतिः शिरसीदं वचः श्रुतेः ।। ७१७ ।।

अभि­धा­ज्ञा­न­ग­म्य­त्व­नि­षे­धा­ये­ति­श­ब्द­नम् ।।
यतो वाचो निवर्तन्त इति च श्रुतिशासनम् ।। ७१८ ।।

व्याकृ­ता­व्या­कृ­ता­त्म­त्व­नि­रा­क­र­ण­सि­द्धये ।।
एषे­त्या­हा­न्य­दे­वेति तथा चोच्चैः श्रुतीरणम् ।। ७१९ ।।

उपेति सामी­प्य­व­च­स्त­न्निष्ठा प्रत्यगात्मनि ।।
कार्य­का­र­ण­भू­ताभ्यां प्रत्यङ्नेदीय ईक्ष्यते ।। ७२० ।।

व्याकृ­ता­व्या­कृ­ता­त्मभ्यां यो भिन्नोऽ­ज्ञा­न­हे­तुतः ।।
प्रत्य­क्त­त्त्व­धिया हत्वा तावु­पै­त्या­त्म­मा­त्र­ताम् ।। ७२१ ।।

व्युत्थाय कार­णा­त्का­र्या­त्त­त्त­त्त्व­ज्ञा­न­व­र्त्मना ।।
उपेत्य कूट­स्थ­म­ज­मा­सी­ता­प­रि­णा­म­वान् ।। ७२२ ।।

व्यक्ता­व्य­क्त­वि­भा­गोऽयं सिध्ये­दा­त्म­न्य­त­द्वति ।।
अहो­रा­त्र­वि­भा­गोऽयं भानौ तद्रहिते यथा ।। ७२३ ।।

आत्मा­ना­त्म­वि­भा­गोऽपि नाय­मा­त्म­स्पृ­गी­क्ष्यते ।।
अज्ञा­ता­त्मै­क­सा­क्षि­त्वा­द­ज्ञा­नोत्थं न वस्तुगम् ।। ७२४ ।।

अना­त्म­सि­द्धि­वन्न स्यादा­त्म­सि­द्धि­र­ना­त्मनः ।।
आत्म­नोऽ­ना­त्म­सि­द्धिश्च नैव स्यादा­त्म­सि­द्धि­वत् ।। ७२५ ।।

आत्मनो व्यतिरेकेण नैःस्वा­भा­व्या­द­ना­त्मनः ।।
तथैवाव्यतिरेकेण रज्जु­स­र्प­ख­पु­ष्प­वत् ।। ७२६ ।।

तस्मा­न्ना­ना­त्म­नोऽ­स्त्यात्मा नाप्य­ना­त्माऽऽ­त्मनः स्वतः ।।
आत्मनस्तु स्वतः सिद्धि­रा­त्म­सि­द्धे­र­न­न्यतः ।। ७२७ ।।

यावानात्मनि वेदाऽऽत्मा प्रती­च्या­त्मा­न­मा­त्मना ।।
निर­स्ता­ज्ञा­न­त­त्कार्यं पश्ये­त्त­द्व­द­ना­त्मसु ।। ७२८ ।।

बुद्ध्या­दे­र्वि­ष­या­न्तस्य निर­स्त­स्याऽऽ­त्मनो बहिः ।।
अनात्मवस्तुनः प्रत्यङ्ङात्मा ह्यात्मीयतो भवेत् ।। ७२९ ।।

तद्या­था­त्म्या­त्म­हे­तु­भ्या­म­ना­त्मा­र्थ­स­मा­गमे ।।
अव्या­वृ­त्ता­न­नु­ग­त­सं­गती रज्जुसर्पवत् ।। ७३० ।।

प्रती­चोऽ­व्य­ति­रे­केण तदन्यद्वस्तु सिध्यति ।।
प्रतीचा तस्य जग्ध­त्वा­त्क्वा­नात्मा सिध्यतामयम् ।। ७३१ ।।

सहतेऽनात्मतां नाऽऽत्माऽनात्मा तद्विरहे कुतः ।।
वस्त्वात्मना न चेत्सि­ध्ये­त्कुतः सिध्येदनात्मना ।। ७३२ ।।

स्वात्मन्येव सदन्यत्र सर्ववस्तु प्रसिध्यति ।।
तत्र चेत्त­द­स­त्स­त्स्या­त्क­थ­म­न्यत्र निष्मम् ।। ७३३ ।।

मातृत्वकञ्चुको यद्व­दा­त्माऽ­ना­त्मा­न­मी­क्षते ।।
दृष्टि­मा­त्रै­क­रू­प­त्वान्न तथाऽऽ­त्मा­न­मी­क्षते ।। ७३४ ।।

कर्तृ­त्व­प्र­ति­षे­धार्थं द्रष्टु­र्दृ­ष्टे­रि­ति­श्रुतिः ।।
दृष्टिरेव तु यो द्रष्टेत्याह दृष्टिविशेषणम् ।। ७३५ ।।

प्रतीचो वस्तु­न­स्ता­व­द्व­स्तु­वृत्तं यथोदितम् ।।
शब्द­वृ­त्त­म­थे­दानीं यथावदभिधीयते ।। ७३६ ।।

यच्चाऽऽप्नोति यदादत्ते यच्चात्ति विषयानिह ।।
यच्चास्य संततो भाव­स्त­स्मा­दा­त्मेति कथ्यते ।। ७३७ ।।

यस्मादर्थे तु विज्ञेया यच्छब्दाः सर्व एव तु ।।
समुच्चये चशब्दाश्च तथा सर्वत्र योजयेत् ।। ७३८ ।।

व्याप्नो­त्य­न­व­शे­षेण सर्प­दा­न्स्र­गि­दा­खि­लान् ।।
प्रत्य­क्त­याऽ­ना­त्म­नोऽतः प्रत्यगात्मेति भण्यते ।। ७३९ ।।