बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ प्रथमाध्यायस्य चतुर्थं ब्राह्मणम् ॥ (२)
मोहतत्कार्यनीडं यत्कूटस्थाभासरूपकम् ।।
ज्ञानं तदविनाभूतः परः साक्षीति भण्यते ।। ३७४ ।।
इदं तत्सर्ववेदेषु यथाभूतार्थवित्तये ।।
सदेवेत्यादिभिर्वाक्यैः कारणं ब्रह्म गीयते ।। ३७५ ।।
सर्वज्ञः सर्वशक्तिश्च सर्वात्मा सर्वगो ध्रुवः ।।
जगज्जनिस्थितिध्वंसहेतुरेष सदेश्चरः ।। ३७६ ।।
यः पृथिव्यामितीशोऽसावन्तर्यामी जगद्गुरुः ।।
हरिर्ब्रह्या पिनाकीति बहुधैकोऽपि गीयते ।। ३७७ ।।
कूटस्थस्य न साक्षित्वं द्वितीयासंगतेर्भवेत् ।।
नाशिनोऽपि न साक्षित्वं नाशेनाव्यतिरेकतः ।। ३७८ ।।
अज्ञानमात्रहेतौ तु सर्वमेतत्समञ्जसम् ।।
कर्तृत्वाद्यन्यथाज्ञानहेतुत्वादात्मरूपिणः ।। ३७९ ।।
प्रत्यग्रूपस्य स्थास्रुत्वाज्ज्ञातुर्मोहेन चान्वयात् ।।
कूटस्थस्यापि साक्षित्वमागमापायिनं प्रति ।। ३८० ।।
आत्मात्मवत्त्वसंबन्ध आत्मात्माज्ञानयोर्मतः ।।
परोऽविवेको भूतानामात्मााविद्येति कथ्यते ।। ३८१ ।।
ईशादिविषयान्तं यत्तदविद्याविजृम्भितम् ।।
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।।
इति वेदशिरःसूक्तिस्तथा चोद्घुष्यते स्फुटा ।। ३८२ ।।
दैवी ह्येषा गुणमयी मम मायेति च स्मृतिः ।।
वैष्णवी खल्वियं मायेत्यपि लोकेऽपि गीयते ।। ३८३ ।।
मानान्तरानधिगतं मेयं तावन्निरूपितम् ।।
स्वानुभूत्यनुसारेण प्रत्यड्मत्रसतत्त्वकम् ।। ३८४ ।।
एतन्निदानमधुना मिथ्याज्ञानं निरूप्यते ।।
यतो बिभ्यति भूतानि संसारानर्थलक्षणात् ।। ३८५ ।।
यदेव नित्यमज्ञानं मिथ्याज्ञानं तदेव तु ।।
कारणेतररूपेण तयोरव्यभिचारतः ।। ३८६ ।।
हेत्वन्तरानपेक्षं सत्तदव्याकृतरूपकम् ।।
व्यक्ततां स्वयमेवैति, निमित्तं नास्त्यसंहृतम् ।। ३८७ ।।
सुषुप्तादुत्थिती राज्ञः स्वयमेव यथा तथा ।।
जग्धाशेषजगन्मूर्तेरव्यक्ताद्व्याकृतिर्मुहुः ।। ३८८ ।।
अनिश्चिता यथा रज्जुरिति न्यायोपबृंहितम् ।।
स्फुटार्थं गौडपादीयं वचोऽर्थेऽत्रैव गीयते ।। ३८९ ।।
तदिदं नामरूपाभ्यामनामकमरूपकम् ।।
एवं व्याक्रियताज्ञानहेतुमात्रव्यपाश्रयात् ।। ३९० ।।
अभिधानाकृतिर्नामशब्देनेहाभिधीयते ।।
अभिधेयाकृतिस्तद्वद्रूपमित्युपदिश्यते ।। ३९१ ।।
एवं द्वाभ्यां प्रकाराभ्यामीशो व्याकृतजन्मनाम् ।।
व्यवहाराय पर्याप्तो न त्वव्यक्तात्मना यतः ।। ३९२ ।।
नाम्नः सामान्यमात्रस्य त्वसाविति समीरषम् ।।
विशेषनाम्ना संयोज्य देवदत्तादिनोत्यते ।। ३९३ ।।
तदूद्रूपस्य सामान्यं रूपमित्युपदिश्यते ।।
तदुपात्तविशेषं सच्छुक्लकृष्णादिनोच्यते ।। ३९४ ।।
एवेत्यवधृतावेतदात्मवृत्तव्यपेक्षया ।।
आत्माविद्यासमुत्थाभ्यामेव व्याक्रियते परः ।। ३९५ ।।
न तु विध्वस्तनिःशेषप्रत्यगज्ञानतद्भव -
सामान्यभेदैकात्म्याख्यतदनन्यप्रमात्मना ।। ३९६ ।।
आदावव्याकृतं तत्त्वं नामरूपक्रियात्मना ।।
स्वयं तद्व्याकृतिमगाद्यथैतर्हि तथैव तत् ।। ३९७ ।।
नामरूपाभ्यामेवेति न समुच्चयनिश्चितौ ।।
समस्तव्यस्तरूपाभ्यां लोकेऽपि व्याकृतिर्यतः ।। ३९८ ।।
जातितो बधिरस्येह व्यक्तिः स्याद्रूपमात्रजा ।।
जात्यन्धादेश्च नाम्नैव तथा चोभयथाऽप्यसौ ।। ३९९ ।।
अज्ञातात्मैकहेतूनां मिथोपेक्षात्मनां श्रुतौ ।।
नेयत्ताऽस्तीह तत्त्वानामानन्त्यान्न क्रमस्तथा ।। ४०० ।।
प्रक्रियानियमो नापि पुंव्युत्पत्तिप्रधानतः ।।
प्रतिश्रुतिविगीतिश्च प्रक्रियाणां समीक्ष्यते ।। ४०१ ।।
यया यया भवेत्पुंसां व्युत्पत्तिः प्रत्यगात्मनि।।
सा सैव प्रक्रियेह स्यात्साध्वी सा चानवस्थिता ।। ४०२ ।।
उद्भूतिस्थितिहानीनां न कचित्संभवो यथा ।।
मुख्यां वृत्तिं समाश्रित्य तथोदर्केऽपि वक्ष्यते ।। ४०३ ।।
न जायते जन्यते वा नापि हन्ति न हन्यते ।।
तमःसंवृतदृष्टीनां पाड्विकारादिवीक्षणम् ।। ४०४ ।।
यदर्थं सर्वशास्राणां प्रवृत्तिरतिविस्तरा ।।
आत्मज्ञानावतारार्थः सर्वशास्रसमुद्यमः ।। ४०५ ।।
विरोधः सर्वशास्राणां स्वाभिधेयव्यपेक्षया ।।
निवृत्त्यर्थेऽविरोधित्वादत एतत्समीरितम् ।। ४०६ ।।
स्वत एव यतः पुंसां प्रवृत्तिः स्वार्थसिद्धये।।
तत्रानुवादि शास्रं स्यान्निवृत्तावेव तन्मिति ।। ४०७ ।।
अपि वात्स्यायनादीनां शास्राणामुक्तहेतुतः ।।
प्रामाण्यमविरुद्धं स्यादैकात्म्यज्ञानजन्मने ।। ४०८ ।।
प्रवर्तमानः पुरुषः शास्रोद्दीपितवर्त्मना ।।
प्रवृत्तिविषयं दुष्टं दृष्ट्वाऽतो विनिवर्तते ।। ४०९ ।।
अनित्यदुःखशून्यत्वं पदार्थानां ब्रुवन्स्फुटम् ।।
बुद्धोऽपि रागापुच्छित्तौ यतते नाऽऽत्मनिहुतौ ।। ४१० ।।
त्याग एव हि सर्वेषां मोक्षसाधनमुत्तमम् ।।
त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम् ।। ४११ ।।
एकवाक्यत्वतो यद्वा ऐकात्म्यज्ञानजन्मने ।।
वेदशास्रस्य कृत्स्नस्य तथा पूर्वमवादिषम् ।। ४१२ ।।
प्रमाणानि च शास्राणि तत्प्रामाण्यं न चान्यतः ।।
अज्ञातात्मावबोधित्वात्तथा पूर्वमवादिषम् ।। ४१३।।
यस्मिंश्चाविद्ययाध्यासः संसारानर्थलक्षणः ।।
स्वाभाविक्या कृतो मिथ्या शुक्त्यादौ रजतादिवत् ।। ४१४ ।।
ननु सामान्यविज्ञानविशेषाज्ञानसंश्रयात् ।।
जातरूप्यस्मृतेर्लोके मिथ्याज्ञानं प्रसिध्यति ।। ४१५ ।।
यत्राध्यासो यदध्यस्तं भेदसिद्धौ तयोर्मृषा ।।
ज्ञानं जगति संसिद्धं सा चैकात्म्येऽतिदुर्लभा ।। ४१६ ।।
समस्तव्यस्तमैकात्म्यं येपां चापास्तभेदकम् ।।
चोद्यमेतत्समानं स्यादुभयोरपि पक्षयोः ।। ४१७ ।।
न नः परिहृतेनार्थश्चोद्येनानेन कश्चन ।।
प्रत्यङ्भोहैकहेतुत्वात्सर्वानर्थमृषामतेः ।। ४१८ ।।
अज्ञानमेव वाध्यं नो मानस्येह यतस्ततः ।।
तच्चोद्यपरिहारोऽतः क्रियते नाफलत्वतः ।। ४१९ ।।
मिथ्याज्ञानातिरेकेण नान्यदज्ञानमिष्यते ।।
येषां तान्प्रति चोद्यं स्यान्न त्वज्ञातात्मवादिनाम् ।। ४२० ।।
नन्वज्ञानमवस्तुत्वात्कथं संसारकारणम् ।।
मिथ्याज्ञानस्य वस्तुत्वात्तदेवास्त्विह कारणम् ।। ४२१ ।।
तथाच युक्तिमद्यत्नान्महद्भिरपि भाषितम् ।।
अप्रामाण्यं पुनस्रेधेत्यत एतत्सुसंस्थितम् ।। ४२२ ।।
किं भोः सदपि मानेन वस्तु साक्षान्निरस्यते ।।
तस्मिन्निरस्ते किं शेषं यस्मिन्मानस्य मानता ।। ४२३ ।।
व्यञ्जकत्वात्प्रमाणानां मेयाभिव्यक्तितोऽपरम् ।।
कार्यान्तरं न संभाव्यं नितरां वस्त्वपाक्रिया ।। ४२४ ।।
मिथ्याज्ञानं कथं वस्तु न हि मिथ्येति वस्तु सत् ।।
मिथ्या तद्वस्तु चेत्युक्तिर्महतामेव शोभते ।। ४२५ ।।
स्वतोऽपि यदि सा वस्तु रज्ज्वां सर्पादिका मतिः ।।
रज्ज्वात्मना तथाऽपीयमवस्त्वेवात्र वाध्यते ।। ४२६ ।।
मिथ्याज्ञानस्य कार्यत्वाक्तिं तत्कारणमुच्यताम् ।।
अकारणं सत्कार्यं चेडिम्भकैरपि हस्यते ।। ४२७ ।।
रागादिकारणं चेत्स्यात्कार्यंं सत्कारणं कथम् ।।
अवस्त्वपि च वस्त्वेव वस्तुरूपात्तदन्यतः ।। ४२८ ।।
उपात्तमेयरूपत्वं मानानां सत्यतोच्यते ।।
तद्वलेनैव मेयस्थं घ्नन्ति मोहादि नान्यतः ।। ४२९ ।।
तद्विपर्ययतो मिथ्या सर्वं मोहादि भण्यते ।।
वस्त्वसाधारणं रूपं मोहादेर्न प्रमीयते ।। ४३० ।।
न च वस्तु सतत्त्वं तद्वाधात्तस्य प्रमाणतः ।।
मेयप्रबोधनं मुक्त्वा न मितेः सत्यताऽन्यतः ।। ४३१ ।।
कारकाणां हि सत्यत्वं स्वकार्यापेक्षयेष्यते ।।
इतोऽन्यथा तत्सत्यत्वं निष्फलं न च लभ्यते ।। ४३२ ।।
यद्वस्तु स्वात्मनैवास्ति तत्परार्थं न बोधवत् ।।
पारार्थ्येनैव सद्यच्च तत्परस्माद्धिरुङ्न सत् ।। ४३३ ।।
सर्वमन्यानपेक्षं सदीक्ष्यमाणं स्वमात्रया ।।
स्वात्मरूपात्पृथग्रपं न वस्तूत्प्रेक्ष्यतेऽण्वपि ।। ४३४ ।।
आत्मनैव स्वभावेन वस्त्वात्मानं विभर्ति हि ।।
नाऽऽत्मनो विद्यतेऽपेक्षा वस्तुनोऽन्यसमाश्रया ।। ४३५ ।।
तस्मादविद्यासंभूतं नानात्वं प्रत्यगात्मनि ।।
ब्रह्मास्मीति हि तद्ध्वंसान्न कचिद्भेदधीर्यतः ।। ४३६ ।।
मित्युत्पत्तावनुत्पत्तिर्विरोधाद्बाध्यते यतः ।।
तद्बाधे नाप्यपेक्षाऽस्ति मिथ्याधीबाधनं प्रति ।। ४३७ ।।
मिथ्याधियोऽपि बाध्यत्वमज्ञानैकसमन्वयात् ।।
मूलध्वस्तौ हतं तच्चेन्मिथ्याधीः किं करोति नः ।। ४३८ ।।
मेयरूपानुरोधित्वं मिथ्यासंशययोर्यदि ।।
सम्यग्ज्ञानात्तयोर्भेदो गम्यतां केन हेतुना ।। ४३९ ।।
अज्ञानं संशयत्वान्नो मिथ्याज्ञानात्तथैव च ।।
तयोस्तत्त्वविवक्षायामज्ञानं तत्त्वमुच्यते ।। ४४० ।।
अज्ञात एव यद्यत्र ज्ञाते तस्मिन्न तद्भवेत् ।।
सर्वत्रासिद्धिरूपत्वान्मिथ्याज्ञानमिदं मतम् ।। ४४१ ।।
मिथ्याज्ञानस्य वस्तुत्वं येनैव स्यात्सदात्मना ।।
अज्ञानस्यापि तेनैव सत्यत्वं केन वार्यते ।। ४४२ ।।
रज्जुसर्पो यथा रज्ज्वा सात्मकः प्राग्विवेकतः ।।
अवस्तु सन्नपि ह्येष इति पूज्यैरपीरितम् ।। ४४३ ।।
स्वतस्तु सत्यता साक्षान्नोभयोरपि विद्यते ।।
अविचारितसिद्धित्वान्न स्वतः परतोऽपि ते ।। ४४४ ।।
तदेवानुप्रविश्येति तत्त्वं यत्पारमार्थिकम् ।।
सच्च त्यच्चादिकां भित्तिं मोहात्प्रापदिति श्रुतिः ।। ४४५ ।।
न चापि त्रयसद्भावे मिथ्याज्ञानं जगत्यपि ।।
मोहमात्रप्रयुक्तत्वान्न सामान्यात्स्मृतेश्च तत् ।। ४४६ ।।
सामान्यान्तरनिर्मुक्तं तथाऽसाधारणैरपि ।।
असामान्यत्वमेवैति शौक्ल्यमन्यानपेक्षतः ।। ४४७ ।।
न चेदं स्मरणाज्जातं नापि सामान्यहेतुजम् ।।
शुक्लस्य गृह्यमाणत्वात्पुरोदेशावलम्बिनः ।। ४४८ ।।
एवं प्रत्यक्ष एतस्मिञ्शुक्तिकोदरवर्तिनि ।।
तद्विरुद्धमभूज्ज्ञानं रजताभमबोधजम् ।। ४४९ ।।
अप्रत्यक्षं मतं येषां ज्ञानं तान्प्रति भण्यते ।।
इदं रजतमित्येतज्ज्ञानं शुक्तौ कुतोऽन्वभूत् ।। ४५० ।।
विशिष्टाकृतिदेशेहाकालधर्मं प्रतीयते ।।
शुक्तिकाज्ञानतो नर्ते वस्त्वीदृक्साध्यतेऽन्यतः ।। ४५१ ।।
असाधारणधर्मोत्थो न साधारणकारणः ।।
रजतं शुक्तिकेत्यादिव्यपदेशोऽप्रसिद्धितः ।। ४५२ ।।
न चेह राजता धर्माः कुतो ज्ञानं तदाकृति ।।
न ह्याकारमनालिङ्ग्य ज्ञानमाकारवत्क्वचित् ।। ४५३ ।।
शुक्तिकानुविधायित्वान्नेदं स्मर्तव्यसंश्रयम् ।।
अनालिङ्गितबाह्यार्था बुद्धावेव स्मृतिर्यतः ।। ४५४ ।।
धर्मादिहेतुकं येऽपि परिणामं प्रचक्षते ।।
सम्यग्ज्ञानेऽपि तुल्यत्वादनाश्वासस्तथा सति ।। ४५५ ।।
भूतकालोपलब्धोऽर्थः स्मृतेश्चेद्गोचरो मतः ।।
नासौ भूतात्मनाऽज्ञायि भूतज्ञानमनाश्रयम् ।। ४५६ ।।
स्वोत्पत्तिव्यतिरेकेण ज्ञानकालोऽपि नेष्यते ।।
अगत्वरं सद्विज्ञानं भूतार्थं ढौकते कथम् ।। ४५७ ।।
अविलुप्तार्थविज्ञानो यद्यात्माऽभ्युपगम्यते ।।
सर्वेषां सर्वबिज्ञानात्सर्वज्ञत्वं भवेद्ध्रुवम् ।। ४५८ ।।
आश्रिताश्रयसंबन्धः कार्यकारणयोः स्मृतः ।।
वर्तमानात्मगं ज्ञानमतीतार्थं स्पृशेत्कथम् ।। ४५९ ।।
सम्यग्ज्ञानेऽपि चास्त्येतत्र्रयं यद्भवतेरितम् ।।
प्रत्यभिज्ञाय तदिदमज्ञातं वस्त्ववैति हि ।। ४६० ।।
तथा सति मृषाज्ञानं सर्वत्रैव प्रसज्यते ।।
मुक्त्वैकं प्रत्यगात्मानं, न तत्रास्ति त्रयं यतः ।। ४६१ ।।
यस्मिन्सत्येव यत्कार्यं न भवेदेव चासति ।।
तत्स्वकार्ये स्वतन्त्रत्घादुच्यते कारणं बुधैः ।। ४६२ ।।
स्वत आकारवत्किंचित्परतश्चापि दृश्यते ।।
शुक्तिमृत्स्फटिकाद्येवं ज्ञातं किं नाभ्युपेयते ।। ४६३ ।।
नापि व्यभिचरेज्ज्ञानं यदि स्मर्तव्यपृष्ठगम् ।।
साक्षाद्वस्त्वेकनिष्ठत्वाद्यथेयं शुक्तिकामतिः ।। ४६४ ।।
न च प्रत्यक्षविज्ञानात्स्मृतेर्भेदं लभेमहि ।।
प्रध्वंसात्तस्य चार्थस्य नातोऽर्थस्पर्शिनी स्मृतिः ।। ४६५ ।।
किं त्वेतदिति जिज्ञासोर्निषिद्धेऽप्यन्यथाग्रहे ।।
तावतो व्यवधानत्वाद्गुभुत्सा च न युज्यते ।। ४६६ ।।
शुक्तिकेयमिति ह्युक्ते यथार्थं प्रतिपद्यते ।।
रजताद्यन्यथाज्ञानप्रतिषेधादृतेऽपि हि ।। ४६७ ।।
नीलोत्पलदलाभं खं सामान्येतरवर्जितम् ।।
न पश्येयुस्रयासत्त्वान्न हि तच्चाक्षुषं यतः ।। ४६८ ।।
दिग्विभागादिवद्व्योम प्राग्यानं च रवौ तथा ।।
स्वप्ने नानाप्रपञ्चाढ्यं मिथ्याज्ञानमृते त्रयात् ।। ४६९ ।।
यत एवमतो ग्राह्यं शुक्तिकाज्ञानमेव तु ।।
रजताद्यन्यथाज्ञानकारणं युक्तिगौरवात् ।। ४७० ।।
कर्मज्ञानादिहेतुत्वान्नियमस्य यथा तव ।।
सामान्याद्यविशेषेऽपि नियमोऽप्येवमिष्यताम् ।। ४७१ ।।
भूरिसामान्यविज्ञानाच्छौक्ल्यमेध करोति किम् ।।
सदप्यन्यदुदास्ते किं स्वाश्रयग्रहणं प्रति ।। ४७२ ।।
अनेकार्थाभिसंबन्धाच्छौक्ल्यस्य रजते च कः ।।
पक्षपातो विना हेतुं बलाकाज्ञानकृन्न किम् ।। ४७३ ।।
स्वाकारमात्रनिष्पत्तेर्नालं कार्यान्तराय हि ।।
सामान्यं वा विशेषो वा नातः स्याद्राजती स्मृतिः ।। ४७४ ।।
न ह्यसंनिहितं बोद्धुर्वस्तु बुद्धौ करोति हि ।।
ज्ञानमाकारवल्लोके सर्वाकारपसक्तितः ।। ४७५ ।।
पदार्थान्तरसद्भावमपेक्ष्यान्यस्य वस्तुनः ।।
यस्य सिद्धिर्मृषा तत्स्याद्रज्जुसर्पद्विचन्द्रवत् ।। ४७६ ।।
प्रमात्रादीह यत्किंचित्प्रत्यगज्ञानहेतुजम् ।।
अन्योन्यापेक्षसिद्धित्वान्मिथ्या तदपि पूर्ववत् ।। ४७७ ।।
आत्मन्यध्यासरूपोऽयं संसारः प्रतिपादितः ।।
अध्यासश्च विना हेतुं न लोक उपपद्यते ।। ४७८ ।।
तस्माद्धेतूपदेशाय यः कारणमितीर्यते ।।
यस्मिन्नविद्ययेत्येवं ननु कारणमीरितम् ।। ४७९ ।।
प्रधानवादमाशङ्क्य यस्माद्भूयोऽपि भण्यते ।।
अज्ञात आत्मा जगतः कारणं न गुणत्रयम् ।। ४८० ।।
श्रुतितो युक्तितश्चापि स्वयमेव प्रवक्ष्यति ।।
उदर्क इममेवार्थं नातोऽन्यत्कारणं ततः ।।। ४८१ ।।
यदात्मके नामरूपे इत्यज्ञानात्मता तयोः ।।
भण्यतेऽतोऽप्रमाणत्वं शुक्तिकारजतादिवत् ।। ४८२ ।।
न कारणातिवर्त्यस्ति कार्यं जगति कुत्र चित् ।।
स्वकारणाविशिष्टत्वे सलिलादितिहेतुगीः ।। ४८३ ।।
वस्तुवृत्तं न पर्याप्तं तदज्ञानापनुत्तये ।।
अनुपात्तप्रमाणं सदित्यर्थप्रतिपत्तये ।। ४८४ ।।
स्वतो बुद्धमिदं यस्मादतः शुद्धमसद्दूयम् ।।
द्वितीयसंगतिर्यस्माल्लोकेऽशुद्धेः प्रयोजिका ।। ४८५ ।।
यथोक्ततत्त्वे नाविद्यामृते स्याहूयसंगतिः ।।
अतोऽशुद्घिनिषेधोक्तिस्तदविद्यानिषेधतः ।। ४८६ ।।
ईश्वराव्याकृतप्राणविराङ्भूतेन्द्रियादिकम् ।।
नाविद्योपाश्रयं मुक्त्वा संभाव्यं प्रत्यगात्मनि ।। ४८७ ।।
प्रत्यग्याथात्म्यदृष्ट्या तन्निपुणोऽपि न वीक्षते ।।
न च प्रत्यग्धियं मुक्त्वा पराग्बुद्धिर्मितिर्भवेत् ।। ४८८ ।।
पराञ्चि खानीत्येतच्च साटोपमभिधीयते ।।
प्रत्यड्भानैकमेयत्वं वेदान्तेष्वात्मवस्तुनः ।। ४८९ ।।
इतो विरुद्धमानत्वं स्वतोपास्तद्वयात्मनः ।।
शक्यं वैश्वानरवरात्प्रवक्तुं, न तु मानतः ।। ४९० ।।
नित्यशुद्धश्च बुद्धश्च यस्मादात्मा परः स्वतः ।।
मुक्तश्चातोऽवसेयोऽसौ सद्वेदान्तोक्तिमानिना ।। ४९१ ।।
एवंभूतोऽप्यसंबुद्धस्वात्मतत्त्वो महेश्चरः ।।
आपेदे कारणात्मत्वं नामरूपादिसर्जने ।। ४९२ ।।
स एष इत्यनेनापि सुविरुद्धात्मतां ब्रुवन् ।।
विरुद्धबस्तुसंसृष्टि ब्रूतेऽज्ञानैककारणम् ।। ४९३ ।।
व्याकुर्वन्निति वाक्येन स्वतो ज्ञोऽपि तमोन्वयात् ।।
ब्रह्मादिस्तम्बपर्यन्तं कार्यं प्राविशदुच्यते ।। ४९४ ।।
स्वानुभूत्यनुरोधेन योऽज्ञातार्थः पुरोदितः ।।
प्रकृतार्थावलेहित्वात्सर्वनाम्ना स उच्यते ।। ४९५ ।।
परामृश्य स इत्येवमव्याकृतसतत्त्वकम् ।।
तथारूपः स्वकार्यस्थः प्रात्यक्ष्यादेष उच्यते ।। ४९६ ।।
विरुद्धरूपयोरेवं निर्द्वयद्वयरूषतः ।।
स एष इति निर्देशः कथं स्यात्कृष्णसर्पवत् ।। ४९७ ।।
कारणान्नान्यतः कार्यं तथा कार्याच्च कारणम् ।।
इत्युक्तन्यायहेतुत्वान्न विरोधोऽत्र कश्चन ।। ४९८ ।।
अज्ञातवस्तुतत्त्वस्य दुष्करं नास्ति किंचन ।।
नीलीकृतं नभः पश्येच्चक्षुषा नीलवस्त्रवत् ।। ४९९ ।।
योग्यायोग्यव्यपेक्षेयं मानव्यवहृतौ भवेत् ।।
कल्पनामात्रनिष्पत्तेर्नापेक्षाऽज्ञानभूमिषु ।। ५०० ।।
इत्युक्तप्रतिपत्त्यर्थं हेतुरेषोऽभिधीयते ।।
प्रविष्ट इत्यनेनात्र स्वाभासैकतमोन्वयात् ।। ५०१ ।।
ब्रह्मादावित्यनेनापि जनिमत्सर्वमुच्यते ।।
कृत्स्नसंसारधर्मार्थे देहेष्विति च भण्यते ।। ५०२ ।।
ब्रह्मादिस्तम्बपर्यन्तं देहेष्विति तथोच्यते ।।
क्रियाफलाभिसंबन्धो देहेष्वेवेति नाऽऽत्मनि ।। ५०३ ।।
प्रत्यङ्भोहमरुद्बुद्धिचक्षुर्देहादिरूपिणाम् ।।
प्रविष्टवचसैकात्म्यं गुणप्राधान्यमुच्यते ।। ५०४ ।।
न ढौकते पराचीनं प्रत्यक्त्वासङ्गतः परः ।।
नेहाज्ञानमनादाय ह्यात्माऽनात्मानमीक्षते ।। ५०५ ।।
स्थाण्वज्ञानमनादाय न चोरादीक्षणं यथा ।।
आत्माज्ञानमनादाय तद्वन्नानात्मवीक्षणम् ।। ५०६ ।।
येनान्वितोऽयं संसारी सुषुप्ते कर्मणः क्षयात् ।।
तत्स्वाभाव्यावशेषः स्यात्तत्कार्यत्वाद्धटादिवत् ।। ५०७ ।।
स्वात्माभासप्रवेशो यः प्रत्यड्भोहनिबन्धनः ।।
तज्जेष्वपि स एव स्यान्मरुद्बुद्ध्यादिरूपिषु ।। ५०८ ।।
पयोम्भोवत्सूत्ररूपं क्रियाविज्ञानशक्तिमत् ।।
कर्तृस्थभावकं स्थास्रु चलं कर्मस्थभावकम् ।। ५०९ ।।
बुद्ध्यात्मनोऽभिनिर्वत्तिर्व्यवसायात्मनस्ततः ।।
हिरण्यगर्भं यं प्राहुरुपादानं जगद्धियाम् ।। ५१० ।।
वैराजं स्थानमासाद्य क्ष्मादिदेशविभागवान् ।।
देवताकरणो देव एष एवोच्यते विराट् ।। ५११ ।।
तथा च मन्त्रवर्णोऽत्र ह्यग्निर्मूर्धेति दृश्यते ।।
तदुपादानमात्राः स्युर्देवताः स्वाभिमानजाः ।। ५१२ ।।
आधिभौतिकभूतानां तथैवाध्यात्मरूपिणाम् ।।
पूर्वोक्तानां परिच्छेदो ह्यविद्याकामकर्मभिः ।। ५१३ ।।
सूत्रादिस्थाणुपर्यन्तं जगत्सृष्ट्वाऽऽत्ममायया ।।
स्वाभासैकसहायात्मा तदेव प्राविशद्धरिः ।। ५१४ ।।
ननु व्याक्रियतेत्युक्तं स्वयमेव जगत्पुरा ।।
कर्मकर्त्रुक्तितोऽकस्मात्कथं कर्ताऽभिधीयते ।। ५१५ ।।
परात्मनः प्रवेशोऽपि न्यायं संगच्छते न च ।।
नेहासौ प्रकृतो यस्मादतो नासौ प्रवेशभाक् ।। ५१६ ।।
नैष दोषः परस्यापि ह्यव्यक्तजगदात्मना ।।
विवक्षितत्वादाक्षिप्तनियन्त्राद्यभिधीयते ।। ५१७ ।।
इदंशब्दाभिधानेन ह्येकाधिकरणश्रवात् ।।
अव्याकृतपदस्यातो यथोक्तोऽर्थोऽत्र युज्यते ।। ५१८ ।।
इदं जगान्नियन्त्रादिविभिन्नानेकरूपवत् ।।
यथाऽधुना निश्चिनुमः प्रागप्येतदभूत्तथा ।। ५१९ ।।
नामरूपाद्यभिव्यक्तेः प्राग्व्यक्तापह्नवेऽप्यभूत् ।।
अव्यक्ताध्यक्ष एकाकी व्यक्तं यत्साक्षिकं जगत् ।। ५२० ।।
जगज्जनिस्थितिध्वंसनृत्तसाक्ष्यतिरेकतः ।।
शिष्टस्येह प्रवेश्यत्वात्पर एवाऽऽविशेदतः ।। ५२१ ।।
विवक्षातश्च शब्दानां प्रयोगो जगतीक्ष्यते ।।
यथा ग्रामादिशब्दानां तथेहाप्यवसीयताम् ।। ५२२ ।।
निवासश्च निवासी च तथा चोभयमुच्यते ।।
ग्रामशब्देन लोकेऽस्मिंस्तथेहापि जगद्गिरा ।। ५२३ ।।
कचिदात्मैव निर्देश्योऽनात्मैव कचिदुच्यते ।।
तथोभयविवक्षाऽपि व्याकृताव्याकृतोक्तितः ।। ५२४ ।।
यत्र नाशादिमद्वस्तु प्राधान्येन विवक्ष्यते ।।
तत्रानात्मैव वाच्योऽर्थः प्रत्यगात्मोपसर्जनः ।। ५२५ ।।
अस्थूलोऽजोऽजरः शुद्धो यत्र चाप्यभिधीयते ।।
प्रत्यगात्मविवक्षैव तत्र ज्ञेयाभिधानतः ।। ५२६ ।।
अव्यक्तं व्याकृतं विश्वं यत्र चाप्यभिधीयते ।।
आत्मानात्मद्वयार्थैव विवक्षा तत्र गम्यते ।। ५२७ ।।
यन्मदन्यदिति चोक्तेः परस्य प्रकृतत्वतः ।।
सशब्देन परामर्शः परस्येह भवेदतः ।। ५२८ ।।
अव्यावृत्ताननुगतयाथात्म्यादात्मवस्तुनः ।।
ननु प्रवेशस्तस्येह कथं श्रुत्योपदिश्यते ।। ५२९ ।।
अप्रविष्टं यतो वेश्म परिच्छिन्नेन शक्यते ।।
प्रवेष्टुं पुरुषेणैवं न खेनैतद्विधर्मतः ।। ५३० ।।
सर्वगाणामपि यथा भूतानां परिणामतः ।।
सर्पादीनां प्रवेशः स्यादुपलादौ मतं यदि ।। ५३१ ।।
युतसिद्धनिवृत्त्यर्थं सहजोक्त्याऽभिधीयते ।।
अश्मनः परिणामत्वात्सर्पादेः परिपाकतः ।। ५३२ ।।
दृश्यतेऽन्तस्थतोयानां बहिष्ठः परिपाकतः ।।
परिणामः पदार्थनां क्रिमिसर्पादिलक्षणः ।। ५३३ ।।
नैवं यस्मादनापन्नधर्मान्तर इहोच्यते ।।
कार्ये प्रविष्टः स्रष्टैव पुमान्वेश्मेव तत्कृतम् ।। ४३४ ।।
यथा भुक्त्वैति नगरं भुज्येतिक्रिययोर्नरः ।।
अविशिष्टो भवेत्कर्ता भिन्नकालस्थयोस्तथा ।। ५३५ ।।
सृष्ट्वेदं सकलं विश्वं पश्चात्तत्प्राविशद्विभुः ।।
अनुपात्तान्यधर्मः सन्न तु पाषाणसपवत् ।। ५३६ ।।
न चानवच्छिन्नतनोर्निर्विभागात्मवस्तुनः ।।
पूर्वस्थानवियोगेन स्थानान्तरसमागमः ।। ५३७ ।।
मतं प्रवेशश्रवणादस्तु सावयवः परः ।।
इति चेन्नैतदेवं स्यादागमोक्तिविरोधतः ।। ५३८ ।।
दिव्यो ह्यमूर्तः पुरुषो नेति नेतीति चासकृत् ।।
गीर्मनोगम्यधर्माणां सर्वेषामात्मनिहुतेः ।। ५३९ ।।
सविविम्बादिवत्तर्हि प्रवेशोऽस्तु परात्मनः ।।
नैतन्न्याय्यमसद्भावात्तत्संयोगवियोगयोः ।। ५४० ।।
संयोगश्च वियोगश्च यस्य येनेह वीक्ष्यते ।।
प्रतिबिम्बप्रवेशोऽयं तत्र न त्विह युज्यते ।। ५४१ ।।
गुणप्रवेशवदृ्रव्य इति चेन्नानपाश्रयात् ।।
द्रव्यैकपरतन्त्राणां गुणानामेव युक्तिमान् ।। ५४२ ।।
तादृक्प्रवेशो नेशस्य स्वातन्न्यादुपपद्यते ।।
एष सर्वेश्वर इति स्वातत्र्यं श्रूयतेऽसकृत् ।। ५४३ ।।
बीजवत्स्यात्प्रवेशश्चेन्नैवमप्युपपद्यते ।।
जन्मादिविक्रियाधर्मप्रसक्तेरात्मवस्तुनः ।। ५४४ ।।
स्थूलादिविक्रियाषट्कप्रतिषेधश्रुतेर्न च ।।
प्रवेशो ब्रह्मणोऽयुक्तः फले बीजादिवत्सदा ।। ५४५ ।।
ननु पाषाणसर्पेण पुनरुक्तमिदं कथम् ।।
फले बीजवदित्युक्तं नैष दोषो भवेत्कुतः ।। ५४६ ।।
भागभाग्यभिसंबन्धः ख्यातो बीजफलात्मनोः ।।
आधाराधेयसंबन्धस्तत्राश्मोरगयोः स्फुटः ।। ५४७ ।।
परस्मादन्य एवेह संसारी प्राविशज्जगत् ।।
परिच्छिन्नस्य लोकेऽपि प्रवेश उपपद्यते ।। ५४८ ।।
स्रष्ट्टप्रवेष्ट्रोरेकत्वान्नैवमप्युपपद्यते ।।
सृष्ट्वा जगत्सृष्टिमनु तदेव प्राविशच्छ्रुतेः ।। ५४९ ।।
पर एव प्रविष्टश्चेत्प्रविष्टानामनेकतः ।।
तदनन्यत्वतः प्रापन्महेशस्याप्यनेकता ।। ५५० ।।
नैष दोषो यतो नेह भेदेनेशस्य संगतिः ।।
आत्मत्वरूपतस्तस्य ह्यात्मा चाभेदसंगतेः ।। ५५१ ।।
अनन्यत्वं प्रविष्टैः स्यान्नानात्वमिति दुर्भणम् ।।
बहूनामेकयोगित्वादेकत्वं किं न चोद्यते ।। ५५२ ।।
न च नानात्वकृल्लोके संयोगोऽभेदकारणात् ।।
तथाऽऽगमविरोधश्च बहुत्वं चेत्परात्मनः ।। ५५३ ।।
एको देवो बहुधेतिमन्त्रब्राह्मणयुक्तितः ।।
वियद्वदेकलस्तस्मादीश्वरोऽभ्युपगम्यताम् ।। ५५४ ।।
आस्तां तावत्प्रवेशोऽयं न्याय्योऽन्याय्यो यथा तथा ।।
दोषान्तरमिह प्राप्तं तत्तावत्प्रविचार्यते ।। ५५५ ।।
संसारित्वात्प्रविष्टानां परस्य तदभेदतः ।।
संसारित्वं प्रसक्तं चेन्न क्षुदाद्यत्ययश्रुतेः ।। ५५६ ।।
सुखिदुःखित्वमोहादिदर्शनान्नेति चेन्मतम् ।।
नैवं वेदान्तवाक्येषु न लिप्यत इति श्रुतेः ।। ५५७ ।।
ननु प्रत्यक्षमानेन साक्षाद्दुःखादिदर्शने ।।
प्रत्यक्षबाधसिद्ध्यर्थं न न्याय्योक्तिपरंपरा ।। ५५८ ।।
नोपाध्याश्रयजनितविशेषविषयत्वतः ।।
प्रत्यक्षाभासतासिद्धेस्तेन नोक्तिविरोधिता ।। ५५९ ।।
दुःखी यदि भवेदात्मा कः साक्षी दुःखिनो भवेत् ।।
दुःखिनः साक्षिताऽयुक्ता साक्षिणो दुःखिता तथा ।। ५६० ।।
मर्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः ।।
धीविक्रियासहस्राणां साक्ष्यतोऽहमविक्रियः ।। ५६१ ।।
सुखदुःखादिसंबद्धां यथा दण्डेन दण्डिनम् ।।
राधको वीक्षते बुद्धिं साक्षी तद्वदसंहतः ।। ५६२ ।।
शरीरेन्द्रियसंघात आत्मत्वेन गतां धियम् ।।
नित्यात्मज्योतिषा दीप्तां विशिंषन्ति सुखादयः ।। ५६३ ।।
पराञ्चयेव तु सर्वाणि प्रत्यक्षादीनि नाऽऽत्मनि ।।
प्रतीच्येव प्रवृत्तं तत्सदसीति वचोऽञ्चसा ।। ५६४ ।।
विज्ञातारमरे केन न दृष्टोरिति च स्फुटम् ।।
अन्यदेवेति वाक्याच्च प्रत्यक्षं नाऽऽत्मगोचरम् ।। ५६५ ।।
किंतु बुद्ध्याद्युपाधौ तदात्मच्छायैककर्मकम् ।।
तथा दुःख्यहमित्यादौ प्रत्यक्षमुपचारतः ।। ५६६ ।।
सामानाधिकरण्यस्य तथैवेहोपचारतः ।।
अयं दुःख्यहमस्मीति विषयेण तदीक्षणात् ।। ५६७ ।।
नासिकाग्ने महद्दुःखं पादाङ्गष्ठाग्र एव च ।।
देहावयवदुःखादेः प्रात्यक्ष्यान्नाऽऽत्मदुःखिता ।। ५६८ ।।
प्रतीचि चेद्भवेद्दुःखं व्यापि चैतन्यवद्भवेत् ।।
द्रष्ट्टस्थत्वान्न कर्मस्थं द्र्ष्ट्रा दृश्येत बोधवत् ।। ५६९ ।।
स्वात्मनस्त्वेव कामाय ह्यात्मार्थत्वश्रुतेर्भवेत् ।।
आत्मैकविषयं सौख्यमिति चेन्मन्यसे न हि ।। ५७० ।।
यत्र वा अन्यदित्युक्तेरविद्याविषयं तु तत् ।।
दुःखित्वं नाऽऽत्मनि ज्ञेयं यत्र त्वस्येति निह्नुतेः ।। ५७१ ।।
मम तावदिदं बुद्धौ भवद्भ्यो यन्न रोचते ।।
प्रत्यक्प्रवणया दृष्ट्या संसारो नाऽऽत्मनीक्ष्यते ।। ५७२ ।।
मतं तार्किकसमयविरोधश्चेत्प्रसज्यते ।।
इच्छाद्वेषादिमानात्मा यतस्तैरभ्युपेयते ।। ५७३ ।।
नैवं निःशेषतर्कैश्चेदविरोधोऽभ्युपेयते ।।
सिद्धान्तो दुःस्थितोऽत्यर्थं तदा वः प्राप्नुयाद्ध्रुवम् ।। ५७४ ।।
न च तार्किकयुक्त्याऽपि प्रतीचीहासुखात्मता ।।
यतोऽवगम्यते तस्मान्निर्भीतिः सुखमास्यताम् ।। ५७५ ।।
पराक्प्रत्ययगम्येन दुःखेन स्याद्विषेषणम् ।।
न प्रत्यङ्भात्ररूपस्य विरोधादुष्णशीतवत् ।। ५७६ ।।
प्रत्यक्षाविषयत्वं च प्रतीचः प्रागवादिषम् ।।
तच्छायापाश्रयाद्यस्मात्प्रत्यक्षस्यापि मानता ।। ५७७ ।।
यो यतो लिप्सते नासावकिंचित्को ह्यनर्थिने ।।
भिक्षां दातुमलं तद्वज्ज्ञेयं स्वार्थपरार्थयोः ।। ५७८ ।।
प्रत्यक्षमन्तरेणापि भवेद्दुःखविशेषणः ।।
वियच्छब्दगुणं यद्वत्प्रत्यक्चेन्नैवमिष्यते ।। ५७९ ।।
एकमानानधिगतेर्नु सुखग्राहिणाऽऽत्मनः ।।
नित्यानुमितरूपस्य गृहीतिः स्यान्मनागपि ।। ५८० ।।
एकत्वादात्मनश्चैवं विषयीकरणे सति ।।
असंभवात्तदन्यस्य द्रष्ट्रभाषः प्रसज्यते ।। ५८१ ।।
विषयित्वमथैकस्य विषयत्वं च दीपवत् ।।
मतं चेन्नैतदेवं स्याद्युगपद्भूत्यसंभवात् ।। ५८२ ।।
न व्यनक्ति प्रदीपोऽपि स्वतो भास्वररूपतः ।।
विषयत्वाच्च पुंबुद्धेर्न दीपस्योभयात्मता ।। ५८३ ।।
प्रतीचश्च निरंशत्वान्न दीपेन सधर्मता ।।
म्राह्यग्राहकतैतेन विज्ञानस्याप्यपोदिता ।। ५८४ ।।
तथा गुणगुणित्वेन हक्षलिङ्गाधिगम्ययोः ।।
दुःखात्मनोर्मिथोयोगे नानुमानप्रमाणता ।। ५८५ ।।
नित्यमक्षजगम्यत्वाहुःखस्योत्पलनीलवत् ।।
रूपाद्यक्षजगम्यैश्च सामानाधिकरण्यतः ।। ५८६ ।।
दुःखस्याऽऽत्मनि संयोगजत्वाभ्युपगमेऽपि च ।।
सभागविक्रियानित्यत्वादिदोषः प्रसज्यते ।। ५८७ ।।
नाविकृत्य हि संयोगि गुणो द्रव्यं कदाचन ।।
उपयन्नपयन्वेह लोके दृष्टः प्रमाणतः ।। ५८८ ।।
न चानवयवं वस्तु क्वचिदप्युपलभ्यते ।।
विक्रियामाप्नुवन्नापि नित्यं ध्वंसिगुणाश्रयम् ।। ५८९ ।।
आकाशस्य च नित्यत्वं नेष्टमागमवादिभिः ।।
तत्कार्यश्रवणान्नापि दृष्टान्तोऽस्ति ततोऽपरः ।। ५९० ।।
विक्रियावदपि द्रव्यं तत्प्रत्ययसमन्वयात् ।।
नित्यमेवेति चेन्नैवमन्यथात्वातिरेकतः ।। ५९१ ।।
अनित्यत्वं कचिन्नास्ति यथाऽन्येषां प्रवादिनाम् ।।
सन्नेवाभावरूपोऽपि त्विष्टः शून्यत्ववादिनाम् ।। ५९२ ।।
संवित्प्रमाणसत्त्वेन विना वस्तु न लौकिकम् ।।
प्रमाणवादिभिर्दृष्टमनन्यायत्तसिद्धिकम् ।। ५९३ ।।
भागान्यथात्वाद्द्रव्यस्य नानित्यत्वं क्वचिन्मितम् ।।
निर्भागत्वात्प्रतीचस्तत्कया युक्त्योपपद्यते ।। ५९४ ।।
अथ सावयवत्वेऽपि नित्यं स्यात्कुलिशादिवत् ।।
संयोगपूर्वतो नैवं तद्विभागावसानतः ।। ५९५ ।।
वजादेरषिभागश्चेत्तस्यासंयोगपूर्वतः ।।
नानुमेयत्वतोऽस्त्येव तस्यावयवसंयुविः ।। ५९६ ।।
न हि साषयवं किंचिदृतेऽवयवसंयुतिम् ।।
घटादिवद्यतो दृष्टमतोऽदुःखित्वमात्मनः ।। ५९७ ।।
निर्दुःखित्वे परस्येष्टे तदन्यस्पाप्यभावतः ।।
कस्य दुःखनिवृत्त्यर्थं प्रारब्धोपनिषत्त्वया ।। ५९८ ।।
प्रत्यगज्ञानहेतूत्थदुःखित्वमतिविभ्रम -
ध्वंसमात्रस्य सिद्ध्यर्थमारब्धोपनिषन्मया ।। ५९९ ।।
नवसंख्येयमात्रेक्षी दशमो विभ्रमाद्यथा ।।
न वेत्ति दशमोऽस्मीति स्वीक्षमाणोऽपि तान्नव ।। ६०० ।।
निःशेषाननात्मदृक्तद्वदनिर्ज्ञातात्मतत्त्वकः ।।
न वेत्यैकात्म्यमस्मीति वीक्षमाणोऽप्यनात्मनः ।। ६०१ ।।
दशमोऽसीतिवाक्योत्थसम्यग्ज्ञानानलार्चिषा ।।
प्लुष्ट्वाऽऽत्मदशमाज्ञानं दशमोऽस्मीति वीक्षते ।। ६०२ ।।
यथा तत्त्वमसीत्यादिवाक्योत्थज्ञानवह्निना ।।
प्लुष्ट्वेहाऽऽत्मतमस्तज्जं तथैकात्म्यं प्रपद्यते ।। ६०३ ।।
प्रत्यगज्ञानहेतूत्थशास्राचार्यादिसाधनः ।।
तद्विरुद्धमथैकात्म्यं प्रत्यपद्यत मायया ।। ६०४ ।।
शास्राचार्यादयो यद्वन्मोहोत्थत्वान्न वस्तुतः ।।
प्रवेशोऽप्यस्य तादृक्स्यादैकात्म्यप्रतिपत्तये ।। ६०५ ।।
व्याकृताव्याकृतावस्थे जगतोऽस्य स्वभावतः ।।
अनूद्य, लोकतो दृष्टे, तद्याथात्म्यं प्रबोध्यते ।। ६०६ ।।
यत एवमतोऽपास्तरागद्वेपादिधीमलः ।।
उदारधिषणः प्राह भाष्यकृन्न्यायवद्वचः ।। ६०७ ।।
अप्रविष्टस्वभावस्य दिग्देशाद्यनभिप्लुतेः ।।
प्रवेशो व्याकृते क्लृप्तो जलपात्रार्कबिम्बवत् ।। ६०८ ।।
विम्बात्मना प्रवेशस्य ननु दूषणमीरितम् ।।
विप्रकृष्ट्याद्यभावोक्त्या भूयः कस्मात्स आश्रितः ।। ६०९ ।।
संभवाद्विप्रकृष्ट्यादेरदुष्टो दूषितः पुरा ।।
कथं तदिति चेदत्र युक्तिलेशोऽभिधीयते ।। ६१० ।।
निर्धूताशेषनावात्वतद्धेतुरविभागवान् ।।
अनन्यसाक्षिकः प्रत्यङ्ङासीन्नामादिजन्मतः ।। ६११ ।।
द्रष्ट्रादिरूपतस्तावद्व्यतिरेकोऽभवत्पुरा ।।
नामादिजन्मनि द्रष्टेत्यादिरूपान्वयोऽप्यभूत् ।। ६१२ ।।
अप्पात्रोत्थापिताद्भानोर्दिवि भानुर्यथेक्ष्यते ।।
सुषुप्तस्थस्तथा धीस्थात्कर्तृभोक्तृत्वलक्षणात् ।। ६१३ ।।
द्रष्ट्टश्रोत्रादिरूपश्च यश्च द्रष्ट्रादिसाक्ष्यषि ।।
दुद्धितत्कारणोपाधी क्षेत्रज्ञेश्वरसंज्ञकौ ।। ६१४ ।।
स्वप्ननिद्रायुताघाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया ।।
इत्यादिस्थानभेदोऽपि वेदान्तोक्तौ विनिश्चितः ।। ६१५ ।।
जिघ्राणीममहं गन्धमिति यो वेत्त्यविक्रियः ।।
तद्भावाभावसाक्ष्यात्मा ह्येतश्च श्रुतिमस्तके ।। ६१६ ।।
अर्थान्तरनिरासार्थं दूषणं चोदितं पुरा।।
तदभावाददुष्टत्वात्प्रवेशो मुखबिम्ववत् ।। ६१७ ।।
दर्पणाभिहता दृष्टिः पर्यावृत्य स्वमाननम् ।।
व्याप्नुवन्त्यविभागेन भ्रान्तिं नो जनयेद्यथा ।। ६१८ ।।
इहापि कारणोपाधिः केवलोऽप्यविवेकतः ।।
बुद्ध्यादिकार्यगैर्धर्मैः प्रतिविम्ववदीक्ष्यते ।। ६१९ ।।
यथोक्तार्यप्रसिद्ध्यर्थं वचांसि सुबहून्यपि ।।
त्रय्यन्तेषूपपद्यन्ते तत्सृष्ट्वेत्यादिकानि च ।। ६२० ।।
दिग्देशकाशून्यस्य प्रवेशो विलसर्पवत् ।।
न त्वाञ्चसः परस्यास्ति तेनाविद्याप्रकल्पितः ।। ६२१ ।।
अग्निः सूर्यो मरुद्यद्वत्प्रविष्ट भुवनं तथा ।।
अप्रविष्टस्वभावोऽपि कार्यमात्माऽविशज्जगत् ।। ६२२ ।।
प्रत्यग्याथात्म्यदृक्सिद्धिहेतुत्वाच्च भवेदिदम् ।।
जगज्जनिस्थितिध्वंसप्रवेशानां प्रयोजनम् ।। ६२३ ।।
तदृष्टेः पुरुषार्थत्वश्रवणादसकृच्छ्रुतौ ।।
ब्रह्म वेदेत्येवमादौ क्लृप्ताः सृष्ट्यादयस्ततः ।। ६२४ ।।
युक्त्या नैषोपपद्यन्ते जगत्सृष्ट्यादयो यतः ।।
प्रत्यगज्ञानमात्रोत्या जगत्सृष्ट्यादयस्ततः ।। ६२५ ।।
नासतो जन्मना योगः सतः सत्त्वान्न च्चेष्यते ।।
कूटस्थे विक्रिया नास्ति तस्मादज्ञानतो जनिः ।। ६२६ ।।
तथा रूपं रूपमिति मन्त्रवर्णोऽपि चाऽऽत्मनः ।।
याथात्म्यदर्शनायैव सृष्ट्यादि प्रत्यपीपदत् ।। ६२७ ।।
व्याप्तिः प्रवेशशब्देन भण्यते कारणात्मनः ।।
बुद्ध्यादिकार्यविषया व्यापिव्याप्यत्वमेतयोः ।। ६२८ ।।
असाधारणतो न स्यात्कालदिग्देशभिन्नयोः ।।
मिथोऽसंगतितो व्याप्तिर्हिमवद्विन्ध्ययोरिव ।। ६२९ ।।
मिथोऽविभिन्नयोर्नासौ नापि सैकात्म्य इष्यते ।।
भिन्नसामान्ययोस्तद्वत्तदसाधारणात्मनः ।। ६३० ।।
कार्यकारणयोरेवं भिन्नाभिन्नविकल्पतः ।।
वस्तुवृत्तेन संव्याप्तिर्न युक्त्येहोपपद्यते ।। ६३१ ।।
यत्र कार्त्स्न्येन वृत्तिः स्याद्रज्जुसर्पादिवद्द्वयोः ।।
व्याप्तिर्मुख्याऽस्तु तत्रैव तथाऽऽत्मानात्मनोरपि ।। ६३२ ।।
तमसैव यथा सर्पं स्रक्प्रविष्टा न तु स्वतः ।।
प्रत्यगज्ञानहेतूत्थमात्मैवं मायया जगत् ।। ६३३ ।।
कया मर्यादया कार्यं मायावी माययाऽविशत् ।।
आनखाग्रेभ्य इत्युक्त्या मर्यादाऽतोऽस्य भण्यते ।। ६३४ ।।
नखाग्रावधिका यस्मात्संवित्पुसोऽभिजायते ।।
अतः सामान्यवृत्त्यात्मा प्राविशद्देहमीश्वरः ।। ६३५ ।।
दृष्टान्ताभ्यामिमां वृत्तिं व्याचष्टे प्रत्यगात्मनः ।।
कृत्स्नकारणतत्कार्यवृत्त्युपाधिसमाश्रयात् ।। ६३६ ।।
मिथो विभक्ता एकत्र क्षुरधाने यथा क्षुराः।।
क्षुरधानाद्विभज्यन्ते तथाऽऽत्मा नाडिभेदतः ।। ६३७ ।।
ओतप्रोतात्मना तस्थुरर्वाग्या भूमयोऽक्षरात् ।।
तत्तद्भूमिपरिच्छेदात्क्षेत्रज्ञः पर एव सन् ।। ६३८ ।।
सूक्ष्मताव्यापिते ज्ञेये भूम्यादेर्यावदक्षरम् ।।
पूर्वपूर्वप्रहाणेन तन्निष्ठा वियदात्मना ।। ६३९ ।।
विश्चंभरोऽग्निर्विज्ञेयो विश्वस्य भरणादिह ।।
डारू कृत्स्नमभिव्याप्य यथाऽग्निर्दारुणि स्थितः ।। ६४० ।।
संव्याप्य तद्वदखिलं देहमात्मा व्यवस्थितः ।।
तस्थावसंव्याप्य यथा क्षुरधानं क्षुरस्तथा ।। ६४१ ।।
श्रोत्रादिनाडीमध्यस्थ आत्माऽव्याप्य तनुं स्थितः ।।
वृत्ती द्वे प्राप्नुतेऽतद्वान्स्वप्नजाग्रदवस्थयोः ।। ६४२ ।।
सामान्यमात्रवृत्तिं स सुषुप्ते प्रतिपद्यते ।।
प्रत्यग्याथात्म्यसंमोहान्न त्वसौ परमार्थतः ।। ६४३ ।।
महासत्ता वियज्ज्ञेियं कृत्स्नार्वाग्भूमिसंप्लुतेः ।।
व्यक्तयोऽन्त्या विशेषाः स्युस्तदसाधारणत्वतः ।। ६४४ ।।
सामान्यानि विशेषाश्च तन्मध्यपतितानि च ।।
सामान्यात्मविशेषत्वं तदुपाधिरगात्परः ।। ६४५ ।।
श्रोत्रत्वगादिनाडिस्थं शब्दाद्यालोचनादिभिः ।।
चेष्टितं नामरूपाभ्यां देहेऽमुष्योपलभ्यते ।। ६४६ ।।
असाधारणसामान्यरूपाभ्यामीक्ष्यमीक्षते ।।
सर्वमानैः प्रसिद्धत्वादतो व्युत्थाप्यते ततः ।। ६४७ ।।
अयं मेयः प्रामातांऽहं मानमेतदितीक्षणे ।।
मिथ्याज्ञाने जनस्तुष्टः स्वप्नमायेन्द्रजालवत् ।। ६४८ ।।
यतो मिथ्याववोधोऽयमतस्तदपनुत्तये ।।
न पश्यन्ति तमित्याह ये पश्यन्ति यथोदितम् ।। ३४९ ।।
वस्त्वज्ञानैकनिष्ठत्वान्मिथ्याधीर्न हि वस्तुनि।।
न पश्यन्तीत्यतो युक्तं नेक्षन्ते वस्तु तत्परम् ।। ६५० ।।
यद्यप्यत्राभिमानोऽस्ति निष्क्रियाकारकात्मनि ।।
पश्यामीत्ययथार्थत्वान्मिथ्याधीरेव सा मता ।। ६५१ ।।
नन्वप्राप्तनिषेधोऽयं न पश्यन्तीति भण्यते ।।
नैवं सृष्ट्यादिवाक्यानां प्रत्यग्बोधैकहेतुतः ।। ६५२ ।।
मन्त्रोऽप्याहेममेवार्थे रूपं रूपमिति स्फुटम् ।।
तद्दर्शनात्समस्तस्य पुरुषार्थस्य सिद्धितः ।। ३५३ ।।
पश्यन्तोऽपि न पश्यन्ति विरुद्धं कथमुच्यते ।।
मेयासंस्पर्शिदृष्टित्वान्न पश्यन्तीति भण्यते ।। ६५४ ।।
सदेवेत्यादिवाक्येभ्यः कृत्स्नं वस्तु यतोऽद्वयम् ।।
संभवस्तद्विरुद्धस्य कुतोऽकृत्स्नस्य वस्तुनः ।। ६५५ ।।
अव्यावृत्ताननुगतं प्रत्यग्वस्तु स्वतो मितेः ।।
तद्विरुद्धेह या दृष्टिर्मिथ्यारूपा न साऽन्यथा ।। ६५६ ।।
आत्माऽनात्मानमाप्नोति यतः प्रत्यक्तयाऽखिलम् ।।
तदन्यानवशिष्टत्वादकृत्स्नः स्यादतोऽन्यथा ।। ६५७ ।।
अनात्मा नाऽऽत्मरूपेण प्रत्यक्त्वात्सिद्धिमर्हति ।।
प्रत्यङ्भात्रैकयाथात्म्यात्कुतस्तद्व्यतिरेकतः ।। ६५८ ।।
देशतः कालतो रूपाद्वस्त्ववस्थादितोऽपि च ।।
व्यभिचारोऽस्य संसिद्धस्तद्विरद्धात्मसाक्षिकः ।। ६५९ ।।
प्रतिज्ञार्थस्य सिद्ध्यर्थं न पश्यन्तीति भण्यते ।।
अकृत्स्नो हीति हेतूक्तिः साऽपि चैवं समर्थ्यते ।। ६६० ।।
तदकृत्स्नत्वसंसिद्ध्यै प्राणन्नेवेत्युदीरणम् ।।
अन्योन्यव्यभिचारित्वं प्राणादेरीक्ष्यते यतः ।। ६६१ ।।
यस्मिन्दृष्टेऽप्यदृष्टोऽर्थः स तदन्यश्च शिष्यते ।।
तथाऽदृष्टेऽपि दृष्टः स्यादकृत्स्नस्तादृगुच्यते ।। ६६२ ।।
आविष्करिष्यन्हेत्वर्थमकृत्स्नत्वप्रसिद्धये ।।
न ह्यसौ कृत्स्रतामेति चक्षुःश्रोत्रादिसंहतः ।। ६६३ ।।
परस्परानभिव्याप्तेर्नामरूपक्रियात्मनाम् ।।
व्यभिचारादकृत्स्नत्वं स्यादनात्मैकरूपिणाम् ।। ६६४ ।।
असंहतः संहतः सन्प्रत्यङ्भोहैकहेतुतः ।।
प्राणनादिक्रियाः कुर्वन्प्राण इत्यभिधीयते ।। ६६५ ।।
तस्मिश्च प्राणने वायोर्व्यापारः करणात्मना ।।
उत्सृज्यमानः कर्मत्वं विज्ञानात्मन एति सः ।। ६६६ ।।
साक्षादात्मोत्सृजन्वायुं तस्मिन्प्राणनकर्मणि ।।
अपेतकारकग्रामः प्रतीचैवानुभूयते ।। ६६७ ।।
कर्त्रादिकारकाण्यस्मिन्नसाधारणरूपतः ।।
अतद्धर्मक आभान्ति ह्यागमापायसाक्षिणि ।। ६६८ ।।
साक्षिरूपं स्वतःसिद्धं तेनैष्वव्यभिचारतः ।।
कर्त्रादि तु तमोन्तस्य रूपं धर्माद्यपेक्षया ।। ६६९ ।।
अनित्यहेतुतोऽनित्यं तेन कर्त्रादि लक्ष्यते ।।
निर्हेतु प्रत्यगज्ञानं लक्ष्यते तेन नित्यवत् ।। ६७० ।।
प्रत्यगज्ञानमात्रैकनीडत्वान्नान्यरूपता ।।
क्रियाकारकरूपाणां नित्यानित्यमतिः कुतः ।। ६७१ ।।
अतस्तद्व्यभिचारेण नामरूपक्रियात्मनाम् ।।
अकृत्स्नव्यपदेशेन मिथ्याज्ञानत्वमुच्यते ।। ६७२ ।।
अज्ञातायां यथा रज्ज्वां तदध्यस्तैकरूपिणाम् ।।
व्यभिचारः स्रगादीनां प्रतीच्येवमनात्मनाम् ।। ६७३ ।।
प्राणाग्नयः पुरा बुद्धेः सुप्तेष्वन्येषु जाग्रति ।।
अतस्तद्विपया तावत्कर्तृतेहोच्यते प्रभोः ।। ६७४ ।।
नामतो रूपतश्चैवं प्राणनादिषु कर्मसु ।।
लक्ष्यतेऽविद्यया तद्वात्रज्जुः सर्पादिभिर्यथा ।। ६७५ ।।
प्राणन्नेवेत्यवधृतेस्तदर्थान्तररूपतः ।।
प्राणाद्यकृत्स्नतासिद्ध्यै व्यभिचारः प्रदर्श्यते ।। ६७६ ।।
कर्मैतदेव कुर्वाणः काले चात्रैव भण्यते ।।
अत्रैव च क्रियायोगे तद्रूपादृः स इष्यते ।। ६७७ ।।
तद्वानसमकालं तु प्राणनादिक्रियोत्थितेः ।।
प्रागूर्ध्वं च तदन्येषु प्राणासंभवहेतुतः ।।
न तन्नामा न तद्रूपस्तदन्यत्र च कर्मणि ।। ६७८ ।।
प्राणनानन्तरं यस्मात्क्रियाशक्तेः समुद्भवः ।।
वदन्वागित्यतः प्राह क्रमयोगानुरोधतः ।। ६७९ ।।
वक्तीति वाग्भवेदात्मा ह्युच्यते वाग्भवेद्ध्वनिः ।।
तथोच्यतेऽनयेत्यस्मात्करणं वागुदाहृता ।। ६८० ।।
पश्यंश्चक्षुस्तथा द्रष्टा शृण्वञ्श्रोत्रं तथैव च ।।
त्रिधा त्रिधा व्यवच्छिन्न एवं सर्वत्र लक्षयेत् ।। ६८१ ।।
चक्षुरालोचनायैव संशयं कुरुते मनः ।।
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ।। ६८२ ।।
यैव ज्ञानविकाशेषु साक्षिता सैव नान्यथा ।।
क्रियाशक्तिविकाशेषु ह्यन्योन्यव्यभिचारिषु ।। ६८३ ।।
निरस्तावयवे व्योम्नि मिथोभिन्नप्रदेशिनाम् ।।
न संभाव्या यथा सिद्धिः प्रतीच्येवं तमोवताम् ।। ६८४ ।।
प्राणन्वदन्नित्युक्तानि नामरूपाणि यानि तु ।।
कर्मजान्येव तान्यस्य न तु चैतन्यवत्स्वतः ।।। ६८५ ।।
अन्योन्यापेक्षसंसिद्धेरन्योन्यव्यभिचारतः ।।
अपराधीनसंसिद्धौ भानाविव तमो भवेत् ।। ६८६ ।।
यत एवमषिद्योत्थं प्राणाद्यस्यातदात्मनः ।।
नामरूपमतस्ताभ्यां पश्यन्नपि न पश्यति ।। ६८७ ।।
तत्रैवं सति यो द्रष्टा प्राणनादिक्रियं परम् ।।
उपास्त इति जानाति न, स्वभावादुपासनम् ।। ६८८ ।।
न यतो युगपत्कृत्स्नवस्तुज्ञानं क्रमेण वा ।।
अस्त्येकैकमतोऽनूक्तिः प्राप्ता दृष्टिरनूद्यते ।। ६८९ ।।
नानेकदृष्टिविध्यर्थमेकैकोपास्तिकुत्सनम् ।।
मृत्योः स मृत्युमित्येवं तदृष्टिरषि कुत्स्यते ।। ६९० ।।
सर्व एकमिति ह्युक्तेरिहाप्यैकात्म्यदर्शनम् ।।
विधीयते यतो नातः समस्तव्यस्तदर्शनम् ।। ६९१ ।।
समस्तव्यस्ततां तस्मान्मानान्तरमितत्वतः ।।
अनूद्यापूर्वमैकात्म्यं विधेयमुपपत्तिमत् ।। ६९२ ।।
समुद्रतरुगोपिण्डदृष्टान्तैः परमात्मनः ।।
व्याचक्षते बलात्केचित्समस्तव्यस्तदर्शनम् ।। ६९३ ।।
नानावयवसंभेदभिन्नार्थश्चेन्नगादिवत् ।।
सिद्धः कुतश्चिन्मानाकत्स्यादनुवादस्तथा सति ।। ६९४ ।।
निःशेषभेदसामान्यदृष्ट्यावृत्तिरुपासनम् ।।
विधित्सितं चेत्तादृक्षं कल्पकोट्याऽपि दुःशकम् ।। ६९५ ।।
प्रत्यग्दृष्टेर्हि विषयः स्यादात्मेत्यनुभूतितः ।।
तदवोधमृते तत्र कुतः पिण्डादिदर्शनम् ।। ६९६ ।।
तं परादादिति तथा प्रतीच्यज्ञानकल्पितम् ।।
मिथ्याज्ञानापनुत्त्यर्थमात्मैवेत्यब्रवीच्छ्रुतिः ।। ६९७ ।।
पराञ्चीत्यपवादाच्च न पिण्डादीक्षणं श्रुतेः ।।
प्रत्यग्दृष्ट्या विरुद्धत्वान्न परागर्थदर्शनम् ।। ६९८ ।।
अनन्यमेयतन्मानमातृ वस्त्वविभागवत् ।।
अमेयमानमात्रेकं तदात्मेति प्रचक्षते ।। ६९९ ।।
संसारदर्शनाभ्यासात्तन्मुक्तिं ये प्रचक्षते ।।
नाकार्यं विद्यते तेषां वैश्वानरवराश्रयात् ।। ७०० ।।
वयं तु वरहीनत्वाच्चर्मवद्वेष्टितुं वियत् ।।
न शक्नुमो, विना युक्तीरतो न श्रद्दधामहे ।। ७०१ ।।
उक्तं च वक्ष्यमाणं च समस्तव्यस्ततां प्रति ।।
श्रुत्यक्षरानुरोधेन दूषणं दूषितात्मनाम् ।। ७०२ ।।
नादूषितात्मभिर्यस्मात्प्रतीचोऽन्यन्मनागपि ।।
प्रत्यग्दृष्ट्येक्षितुं शक्यं वस्तु स्वप्नदृशा यथा ।। ७०३ ।।
प्राणन्वदन्निति द्वाभ्यां क्रियाशक्तिसमुद्भवः ।।
पश्यञ्शृण्वन्निति तथा ज्ञानशक्त्युद्भवः कृतः ।। ७०४ ।।
नामरूपातिरेकेण न ज्ञेयं वस्तु विद्यते ।।
उपलब्धौ तयोरुक्ते कारणे श्रोत्रचक्षुषी ।। ७०५ ।।
नामरूपप्रकाश्या च क्रिया प्राणात्मिका तथा ।।
नामाभिव्यक्तिकृद्वाक्स्यादेवं सर्वत्र योजना ।। ७०६ ।।
श्रोत्रादिकरणैर्यद्यत्प्रथते तत्तदुच्यते ।।
रूपं व्याक्रियते यत्तु तन्नामेत्युपदिश्यते ।। ७०७ ।।
ज्ञानशक्तिविकाशानां मनः साधारणं मतम् ।।
क्रियाशक्त्युद्भवानां च करणं तत्र्रिकालदृक् ।। ७०८ ।।
प्राणनादिकृतां मध्य एकैकं यः समीक्षते ।।
न स जानात्यकृत्स्नत्वात्पूर्ण्पं वस्तु यतः स्वतः ।। ७०९ ।।
यावदेवमयं वेद प्राणितीत्यादिकर्तृकम् ।।
अक्रियाकारकं वस्तु न तावद्वेद तत्त्वतः ।। ७१० ।।
अव्याकृतेऽनभिव्यक्तेर्न चेत्तत्तत्त्वमीक्ष्यते ।।
व्यक्तौ च हेतुकार्याभ्यां कथं तर्हीक्ष्यतां परम् ।। ७११ ।।
कार्यकारणबुद्धौ ताविष्येते विश्चतैजसौ ।।
प्राज्ञः कारणवद्धस्तु द्वौ तु तुर्ये न सिध्यतः ।। ७१२ ।।
विस्फारिताक्षो जानाति शब्दाद्येव न तत्परम् ।।
अपीतकरणग्रामः शब्दाद्यपि न वेत्ति हि ।। ७१३ ।।
कथं पश्यंस्तमात्मानं साक्षाद्वेदेति चोदिते ।।
आत्मेत्येवेति नो वक्ति चोद्यहेतुनिवृत्तये ।। ७१४ ।।
अतिरोहितरूपं यज्जगत्यव्याकृते तथा ।।
तत्साक्षित्वाच्च तद्व्यक्तौ यदक्षौर्व्यज्यते न च ।। ७१५ ।।
प्रत्यक्तया यः प्रथते स्वयंज्योतिःस्वभावकः ।।
मातृमानक्रियामेयविभागैर्न विभज्यते ।। ७१६ ।।
जिघ्राणीममहं गन्धमिति यो वेत्त्यविक्रियः ।।
स आत्मा तत्परं ज्योतिः शिरसीदं वचः श्रुतेः ।। ७१७ ।।
अभिधाज्ञानगम्यत्वनिषेधायेतिशब्दनम् ।।
यतो वाचो निवर्तन्त इति च श्रुतिशासनम् ।। ७१८ ।।
व्याकृताव्याकृतात्मत्वनिराकरणसिद्धये ।।
एषेत्याहान्यदेवेति तथा चोच्चैः श्रुतीरणम् ।। ७१९ ।।
उपेति सामीप्यवचस्तन्निष्ठा प्रत्यगात्मनि ।।
कार्यकारणभूताभ्यां प्रत्यङ्नेदीय ईक्ष्यते ।। ७२० ।।
व्याकृताव्याकृतात्मभ्यां यो भिन्नोऽज्ञानहेतुतः ।।
प्रत्यक्तत्त्वधिया हत्वा तावुपैत्यात्ममात्रताम् ।। ७२१ ।।
व्युत्थाय कारणात्कार्यात्तत्तत्त्वज्ञानवर्त्मना ।।
उपेत्य कूटस्थमजमासीतापरिणामवान् ।। ७२२ ।।
व्यक्ताव्यक्तविभागोऽयं सिध्येदात्मन्यतद्वति ।।
अहोरात्रविभागोऽयं भानौ तद्रहिते यथा ।। ७२३ ।।
आत्मानात्मविभागोऽपि नायमात्मस्पृगीक्ष्यते ।।
अज्ञातात्मैकसाक्षित्वादज्ञानोत्थं न वस्तुगम् ।। ७२४ ।।
अनात्मसिद्धिवन्न स्यादात्मसिद्धिरनात्मनः ।।
आत्मनोऽनात्मसिद्धिश्च नैव स्यादात्मसिद्धिवत् ।। ७२५ ।।
आत्मनो व्यतिरेकेण नैःस्वाभाव्यादनात्मनः ।।
तथैवाव्यतिरेकेण रज्जुसर्पखपुष्पवत् ।। ७२६ ।।
तस्मान्नानात्मनोऽस्त्यात्मा नाप्यनात्माऽऽत्मनः स्वतः ।।
आत्मनस्तु स्वतः सिद्धिरात्मसिद्धेरनन्यतः ।। ७२७ ।।
यावानात्मनि वेदाऽऽत्मा प्रतीच्यात्मानमात्मना ।।
निरस्ताज्ञानतत्कार्यं पश्येत्तद्वदनात्मसु ।। ७२८ ।।
बुद्ध्यादेर्विषयान्तस्य निरस्तस्याऽऽत्मनो बहिः ।।
अनात्मवस्तुनः प्रत्यङ्ङात्मा ह्यात्मीयतो भवेत् ।। ७२९ ।।
तद्याथात्म्यात्महेतुभ्यामनात्मार्थसमागमे ।।
अव्यावृत्ताननुगतसंगती रज्जुसर्पवत् ।। ७३० ।।
प्रतीचोऽव्यतिरेकेण तदन्यद्वस्तु सिध्यति ।।
प्रतीचा तस्य जग्धत्वात्क्वानात्मा सिध्यतामयम् ।। ७३१ ।।
सहतेऽनात्मतां नाऽऽत्माऽनात्मा तद्विरहे कुतः ।।
वस्त्वात्मना न चेत्सिध्येत्कुतः सिध्येदनात्मना ।। ७३२ ।।
स्वात्मन्येव सदन्यत्र सर्ववस्तु प्रसिध्यति ।।
तत्र चेत्तदसत्सत्स्यात्कथमन्यत्र निष्मम् ।। ७३३ ।।
मातृत्वकञ्चुको यद्वदात्माऽनात्मानमीक्षते ।।
दृष्टिमात्रैकरूपत्वान्न तथाऽऽत्मानमीक्षते ।। ७३४ ।।
कर्तृत्वप्रतिषेधार्थं द्रष्टुर्दृष्टेरितिश्रुतिः ।।
दृष्टिरेव तु यो द्रष्टेत्याह दृष्टिविशेषणम् ।। ७३५ ।।
प्रतीचो वस्तुनस्तावद्वस्तुवृत्तं यथोदितम् ।।
शब्दवृत्तमथेदानीं यथावदभिधीयते ।। ७३६ ।।
यच्चाऽऽप्नोति यदादत्ते यच्चात्ति विषयानिह ।।
यच्चास्य संततो भावस्तस्मादात्मेति कथ्यते ।। ७३७ ।।
यस्मादर्थे तु विज्ञेया यच्छब्दाः सर्व एव तु ।।
समुच्चये चशब्दाश्च तथा सर्वत्र योजयेत् ।। ७३८ ।।
व्याप्नोत्यनवशेषेण सर्पदान्स्रगिदाखिलान् ।।
प्रत्यक्तयाऽनात्मनोऽतः प्रत्यगात्मेति भण्यते ।। ७३९ ।।