अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ पञ्चमाध्यायस्य सप्तमं ब्राह्मणम् ॥

शरीरं व्याहृतिमयं कल्प्य­तेऽ­क्षि­र­वि­स्थयोः ।।
तस्यैव सत्यनाम्नोऽथ तदु­पा­सा­प्र­सि­द्धये ।। १ ।।

तस्यैव नामो­प­नि­द्ब्र­ह्मणो भण्यते द्वयोः ।।
स्थितस्य रथानयोः साक्षा­द्य­द्ग्र­हा­त्त­त्प्र­सी­दति ।। २ ।।

हन्तेर्वेदं जहा­ते­र्वाऽ­ह­रि­त्ये­त­दि­हे­ष्यते ।।
पाप्मानं हन्ति तेनातो जहाति च न संशयः ।। ३ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य सप्तमं ब्राह्मणम्