अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ पञ्चमाध्यायस्य षष्ठं ब्राह्मणम् ॥

संस्था­न­व­द­थे­दा­नी­म­ध्यात्मे चाधिदैवते ।।
रूपं प्रकल्प्य सत्यस्य भण्यते तदुपासनम् ।। १ ।।

अक्ष्या­दि­त्या­ख्य­नी­डस्थौ स्थान­मा­त्र­प्र­भे­दतः ।।
भिन्नाविव समीक्ष्येते देवतैकैव सा सती ।। २ ।।

उप­का­र्यो­प­का­रि­त्व­सं­ब­न्धे­ने­त­रे­त­रम् ।।
प्रतिष्ठितौ तावध्यात्मे चक्षुष्यादित्य एव च ।। ३ ।।

प्रतिष्ठितौ तावन्योन्यं कथमित्युच्यते यथा ।।
अक्ष्णि रश्मिभिरादित्यः प्राणै­स्त­स्मिंश्च चाक्षुषः ।। ४ ।।

अरिष्टदर्शनं चात्र प्रास­ङ्गि­क­म­थो­च्यते ।।
ज्ञातारिष्टः कथं नाम कुर्यादात्महितं पुमान् ।। ५ ।।

उत्क्र­मि­ष्य­न्यदा भोक्ता भवतीहाऽऽयुषः क्षये ।।
चन्द्र­म­ण्ड­ल­व­च्छुद्धं वीक्षते रविमण्डलम् ।। ६ ।।

रश्मयो न समायान्ति विज्ञानपुरुषं प्रति ।।
भोगेन प्रक्ष­या­द्भो­क्तु­स्य­द्व­शी­का­रि­क­र्मणः ।। ७ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य षष्ठं ब्राह्मणम्