अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ चतुर्थाध्यायस्य तृतीयं ब्राह्मणम् ॥ (१)

नाम­रू­पा­दि­म­त्कार्यं यः प्रविष्टः स्वमोहजम् |
जला­र्क­व­द­कृ­त्स्न­त्व­मा­पे­देऽ­वि­द्यया परः || १ ||

तद­वि­द्या­प­नु­त्त्यर्थं गार्ग्य­का­श्या­दि­च्छ­द्मना |
अपू­र्वा­दि­स्व­भा­वोऽयं प्रविष्टंः प्रतिपादितः || २ ||

आगमादेमात्मानं प्रतिपाद्याथ तर्कतः|
स एव पञ्चमेऽप्युक्तः साक्षा­ज्ज­ल्पै­क­व­र्त्मना || ३ ||

वादन्यायेन तस्यैव प्रति­प­त्त्य­र­थे­म­ञ्जसा |
षष्ठे क्रमादुपन्यस्तं जाग्र­दा­दि­च­तु­ष्ट­यम् || ४ ||

इन्ध­तै­ज­स­सौ­षु­प्त­तु­री­या­ण्येव मांप्रतम् |
संश्रित्य पूर्व एवार्थ इह साक्षा­द्वि­भा­व्यते || ५ ||

विसंवादनिरासेन सद्भा­व­श्चाऽऽ­त्मनः पुनः |
व्यति­रि­क्त­त्व­शु­द्ध­त्व­स्व­यं­ज्यो­ति­ष्ट्व­नि­त्यता || ६ ||

स्वतो­न­ति­श­या­न­न्द­स्वा­भा­व्यै­का­त्म्य­नि­त्यता |
दृष्टि­मा­त्रा­द्व­यत्वं च तर्केण महताऽऽत्मनः || ७ ||

विभाव्यते सुविस्पष्टं वादन्यायेन यत्नतः |
विद्यायाः संप्र­दा­ना­दि­वि­ध्य­र्थाऽऽ­ख्या­यि­काऽत्र च || ८ ||

याज्ञवसल्क्योऽथ जनकं योग­क्षे­मा­र्थ­म­भ्य­गात् |
न वदिष्ये नृपेणाहमिति बद्ध्वा व्रतं किल || ९ ||

संवदिष्ये नृपेणाहमिति वा तं जगाम सः |
समि­त्य­स्या­भि­सं­ब­न्धा­दे­ने­ने­त्ये­व­मु­च्यते || १० ||

अविवक्षुरपि प्राह यत्पृष्टं जनकेन सः |
तत्र हेत्वभिधानार्थं वरदानं श्रुतिर्जगौ || ११ ||

एनेन संवदिष्येऽहमिति व्याख्यायते यदा|
तदाऽऽख्यायिकया हेतुस्तयोः संवाद इष्यते || १२ ||

राजैव पूर्वं पप्र­च्छे­त्ये­त­स्मा­द्न­म्यते शुभा |
लिङ्गा­द्व्या­ख्यो­त्तरा पूर्वा न साध्वी­त्य­प्र­मा­णतः || १३ ||

न वदि­ष्येऽ­ह­मि­त्यत्र व्रते हेतुर्न वीक्ष्यते |
यतोऽ­सं­तो­ष­त­स्त­स्मा­त्कृता व्याख्योत्तरा शुभा || १४ ||

नाप्रा­क्षी­त्तत्र यद्राजा वर­दा­ना­द­न­न्त­रम्‍|
प्रश्ना­नु­क्ति­र्वि­रु­द्ध­त्वा­द्वि­द्यायाः कर्मभिः सह || १५ ||

स्वोत्पत्तावेव विद्येवं हेत्व­न्त­र­म­पे­क्षते |
प्रत्य­गा­त्म­त­मो­ध्वस्तौ नासा­व­न्य­द­पे­क्षते || १६ ||

स्वरू­प­ला­भ­मा­त्रेण यतोऽविद्यां निहन्त्यतः|
प्रयोगमपि विद्येयं नोपरुध्यति दात्रवत् || १७ ||

व्यव­ह­र्तु­म­श­क्तोऽयं देहो मृत्पि­ण्डं­व­त्स्व­यम्‍|
पर­त­न्त्र­व्य­व­हृतिः स्वतो­जा­ड्य­स्व­भा­वतः || १८ ||

पृथि­व्या­द्या­ध्य­व­स्यायं स्वय­ज्यो­ति­र­नु­ग्र­हान् |
कर्माऽऽसनादि कुरुते तस्माच्च फ़लसंगतिः || १९ ||

त एव­म­तोऽ­प्रा­क्षी­द्या­ज्ञ­वल्क्यं नराधिपः |
किंज्यो­ति­र­य­मि­त्येवं प्रत्य­ग्ज्यो­ति­र्बु­भु­त्सया || २० ||

याज्ञवल्क्य किञ्ज्योतिरयं पुरुष इति || आदित्यज्योतिः सम्राडिति होवा­चा­दि­त्ये­नै­वायं ज्योतिषास्ते पल्ययते कर्म कुरुते विप­ल्ये­ती­त्ये­व­मे­वै­त­द्या­ज्ञ­वल्क्य || २ ||

करणानि च देहश्च पुरुषोऽत्र विवक्षितः |
आस­ना­दि­क्रि­या­कारी पीठक्षेत्रादि कर्म च || २१ ||

किं स्वाव­य­व­सं­घा­त­भि­न्न­जा­त्य­ति­रे­किणा |
ज्योतिषा व्यव­हा­र्ये­षोऽ­सं­ह­तेन पुमानिति || २२ ||

किंवा ताद्विपरीतेन ज्योति­षे­त्य­भि­धी­य­ताम् |
किंचातो यदि नामैवं शृण्वतो यत्प्रसिध्यति || २३ ||

तयोः पूर्वोक्तरूपेण ज्योति­षाऽ­नु­ग्रहो यदि |
अप्रव्यक्षेऽपि तस्मिं­स्त­त्पुं­स्क्रि­या­लि­ङ्ग­द­र्श­नात् || २४ ||

अनुमास्यामहे ज्योतिस्तादृगेव तदा वयम् |
अथ तद्विपरीतेन संग­ति­र्ज्यो­ति­षे­क्ष्यते || २५ ||

तथाभूतं तदा ज्योति­र­नु­मा­स्य­माहे वयम्‍|
अथो­भ­या­त्म­ताऽ­दृष्टा तदाऽपि स्यादनिश्चितिः || २६ ||

इत्येतदभिसंधाय पप्रच्छ जनको मुनिम् |
स च पृष्टो यथाप्रश्नं प्रत्यु­त्त­र­म­भा­षत || २७ ||

नन्वेवं कौशले राज्ञः किमर्थं पृष्टवान्मुतिम् |
स्वय­मे­वा­नु­मा­ये­दृ­ग्ज्योतिः किं न प्रपद्यते || २८ ||

सत्यमेवं तथाऽप्येष नृपः पप्रच्छ तं मुनिम्‍|
लिङ्ग­लि­ङ्ग्य­भि­सं­ब­न्ध­दु­र्ज्ञे­य­त्वा­त्सु­सू­क्ष्मतः || २९ ||

बहूनामपि संमोहो लिङ्गादिषु समीक्ष्यते |
किमुतैकस्य वक्तव्यं पर्यपृच्छदतो नृपः || ३० ||

सूक्ष्म­ध­र्म­वि­वे­का­र्थ­मत एवाब्रवीन्मनुः |
दशावरा पर्षदिति ह्यपेक्षन्ते च सद्धियः || ३१ ||

याज्ञ­व­ल्क्या­दि­रू­पेण श्रुतिरेवाथवा स्वयम् |
अनुमावर्त्मना ज्योतिः साक्षान्नः प्रत्यपीपदत् || ३२ ||

नृपा­भि­प्रा­य­वि­त्प्राह याज्ञवल्क्योऽपि तं नृपम् |
यथोक्तज्योतिषः सिद्धा­वा­दि­त्या­ज्यो­ति­रि­त्य­यम् || ३३ ||

देहा­व­य­व­सं­घा­त­जा­ति­सं­स्था­न­ता­त्क्रिया -
देशा­द्य­त्य­न्त­सं­भि­न्न­त­द्वि­ल­क्ष­ण­भा­स्वर -
स्वप्र­ति­ष्ठै­क­भा­न्वा­ख्य­ज्यो­ति­षैव पुमानयम् |
आस्ते पल्ययते कर्म कृत्वा भूयो निवर्तते || ३४ || ३५ ||

मध्ये जडस्वभावोऽयं ज्योति­षो­र्व­र्तते पुमान् |
बुद्ध्या­दि­वि­ष­यान्तो हि प्रत्य­क्चै­त­न्य­बि­म्बितः || ३६ ||

प्रत्य­गे­क­स्व­यं­ज्यो­तिः­स्थि­रा­सं­ह­त­नि­ष्क्रिय-
तद्वि­रु­द्ध­र­वी­न्द्वा­दि­ज्यो­ति­षो­र्मो­ह­हे­तुकः || ३७ ||

मातृ­मा­न­प्र­मे­यात्मा कर्तृ­सा­ध­न­का­र्य­वान् |
अश­ना­या­दि­सं­सा­र­ध­र्मा­पा­या­ग­मा­त्मकः || ३८ ||

तद्वि­रु­द्धा­त्म­के­नैव ज्योति­षो­द्दी­पि­ते­क्षणः |
आदित्येन स दैवाऽस्ते यात्यायातिकरोति च || ३९ ||

आदि­त्या­त्प­र­मे­वेति नाऽऽदि­त्य­स्या­व­धा­रणे |
पिण्ड­प्रा­णा­दि­ध­र्मेभ्यो वैधर्म्यावधृतौ यतः || ४० ||

आदि­त्त्या­व­धृ­ति­श्चे­त्स्या­न्ने­न्ग­द्वादेः स्यादनुग्रहः |
तस्मा­त्पि­ण्डा­दि­वै­ध­र्म्य­मे­वे­ती­हा­व­घा­र्यते || ४१ ||

नृप­स्त्वे­वे­ति­सं­श्ले­षा­दा­दि­त्य­स्या­व­धा­र­णम् | मत्वाऽस्तमित इत्येवं मुहु­र्वि­प्र­चू­चु­व­दत् || ४२ ||

आत्मैव ज्योतिरथवा रवि­सो­मा­ग्न्यु­पा­धि­गम् |
अवध्रियत एवेति तमेव इति च श्रुतेः || ४३ ||

रवी­न्द्वा­दि­प­दा­र्थेभ्यो ह्यनु­मा­नै­क­व­र्त्मना |
स्वार्थं विज्ञापयिष्यामि विभज्यातः परा श्रुतिः || ४४ ||

ज्योति­षोऽ­त्य­न्त­वै­ध­र्म्य­प्र­सि­द्ध्यर्थं विशेषणम् |
आस्त इत्यादि सुबहु श्रुत्यो­प­न्य­स्त­मा­द­रात् || ४५ ||

भूयसां चाप्युपन्यासो बाह्यानां ज्योतिषामिह |
लिङ्ग­स्या­व्य­भि­चा­रार्थं बुद्धि­वा­क्का­य­क­र्मणः || ४६ ||

आदित्येनैव चेत्पुं­सोऽ­नु­ग्रहो भवतोच्यते |
तस्मिन्नस्तंगते पुंस आसनादिः कुतो भवेत् || ४७ ||

चन्द्रमा एव पुंसोऽस्य तदा ज्योतिरनुग्रहे |
तस्या­प्य­स्त­म­येऽग्निः स्यादा­स­ना­दि­प्र­वृ­त्तये || ४८ ||

आदित्यादित्रयं ज्ञेयं ज्योति­षा­मु­प­ल­क्ष­णम् |
मण्यादीनां प्रवृत्तिर्हि पुंसां तैरपि दृश्यते || ४९ ||

तेष्व­प्य­स्त­मि­ते­ष्वस्य पुंसो वाग्ज्यो­ति­रि­ष्य­ताम् |
वाक्च शब्दोऽत्र विज्ञेयो ज्योति­ष्का­र्य­स­म­न्व­यात् || ५० ||

स्पर्शा­दि­वि­ष­याणां वागिह स्यादुपलक्षणम् |
यतः स्पर्शा­दि­नाऽ­प्येषां प्रवृ­ति­र्दृ­श्यते नृणाम् || ५१ ||

बाह्या­दि­त्या­दि­ज्यो­तिर्भिः पुमा­न्सं­दी­पि­ते­न्द्रियः |
प्रत्य­क्चै­त­न्य­सं­दीप्तः सर्वाश्चेष्टाः प्रपद्यते || ५२ ||

सर्वेष्वेतेषु शान्तेषु ज्योतिःषूक्तेषु कर्मणे |
पुमा­न्किं­ज्यो­ति­रे­वायं तम­स्य­न्धेऽ­भि­धी­य­ताम् || ५३ ||

सर्व­चे­ष्टा­नि­रो­धोऽस्य पुंसः प्राप्त­स्त­दाऽ­सति |
यथोक्तज्योतिषि ततो न स्युश्चेष्टा यथोदिताः || ५४ ||

स्मृति­स्व­प्न­स­मा­धाने पुरुषस्य समीक्ष्यते |
चेष्टाऽतः पूर्ववत्तस्य ज्योति­स्त­त्रा­नु­मी­यते || ५५ ||

बोद्धुः कर्तुश्च पुंसोऽस्य प्रवृत्तिर्येह काचन |
यथो­क्त­ज्यो­ति­र्वि­रहे नासौ दृष्टा कदाचन || ५६ ||

भान्वा­द्यु­द्दी­पि­ताक्षः सन्प्रमात्रादिः प्रसिध्यति |
ततः कर्त्रा­दि­सं­सिद्धिः प्रमाकर्मफ़लं ततः || ५७ ||

कूट­स्था­नि­त्य­यो­र्भा­सो­र्म­ध्य­वर्ती पुमानयम् |
वाङ्भ­नः­का­य­क­र्माणि सर्वदैव प्रपद्यते || ५८ ||

ध्वान्ता­दि­वि­ष­या­न्तोऽर्थो जड­त्वा­न्नाऽऽ­त्म­सि­द्धि­कृत् |
आत्म­ज्यो­ति­र­भा­वेऽतो नाभावमपि विन्दति || ५९ ||

आग­मा­पा­यि­ज्यो­ति­र्भि­र्ध­र्मा­ध­र्म­नि­ब­न्धना |
संगतिः पुरुषस्यास्य निर्हेतुः प्रत्यगात्मना || ६० ||

कुम्भस्य वियता यद्वन्निर्हेतुः संगतिः सदा || |
विनश्वरी सहेतुश्च जल­क्षी­रा­दि­सं­गतिः || ६१ ||

यथोहासंहतान्येव भान्वादीनि प्रकुर्वते |
अनुग्राह्येण पुंसेह सर्वदाऽनुग्रहं मुहुः || ६२ ||

अका­र­का­त्म­का­न्येव पुंसः कारकरूपिणः |
नाकृत्वा तानि कुर्वन्ति प्रकाशं गतिवद्यतः || ६३ ||

व्यञ्जकानां हि सर्वेषां न स्वरूपातिरेकतः |
व्यङ्ग्ये­ष्व­ति­शयो दृष्टस्तिष्ठतो नु गतिर्यथा || ६४ ||

आत्म­ज्यो­ति­स्त­थै­वेदं सदा­न­स्त­मि­तो­दि­तम् |
भान्वादिष्वपि सर्वेषु तदेव प्राग्वि­व­क्षि­तम् || ६५ ||

पुंस्प्र­वृ­त्ति­रियं लिङ्गं यथोक्तज्योतिषो भवेत् |
सर्व­त्रा­व्य­भि­चा­रि­त्वा­त्तथा स्वप्ना­दि­भू­ग्निषु || ६६ ||

जाग्रत्काले नारस्यास्य भान्वा­दि­ज्यो­तिषा यदा |
चक्षु­रा­द्य­नु­गृ­ह्येत स्फ़ुटा व्यवहृतिस्तदा || ६७ ||

विभि­न्ना­सं­ह­त­ज्यो­ति­र­नु­ग्र­ह­पुरः सरः |
पुंव्यापारः सद­क्षे­त्थ­प्र­मा­ण­प्र­मितः स्फ़ुटः || ६८ ||

लिङ्ग­लि­ङ्ग्य­भि­सं­बन्धो यस्मादेवं मितस्ततः || |
सर्व­ज्यो­ति­र­भा­वेऽपि तादृगेवानुमीयते || ६९ ||

ज्योतिर्जागरिते यद्व­द्र­वी­न्द्वादि समीक्ष्यते |
नर­व्या­पा­र­लि­ङ्गेन धूमा­ग्नि­व­द­सं­श­यम् || ७० ||

लिङ्गा­त्सा­मा­न्यतो ज्ञाते विशे­षे­णा­प्य­नी­क्षिते |
भान्वादिवदतो राजा भूयः पप्रच्छ तं गुरुम् || ७१ ||

शान्तेषु सर्वज्योतिःषु पूर्वो­क्ते­ष्वस्य देहिनः |
क्रिज्योतिरिति मे ब्रूहि पुंव्या­पा­रा­नु­भू­तितः || ७२ ||

सर्व­ज्यो­ति­रु­प­रतौ भूरि­व्या­पा­र­का­र­णम् |
स्वयं­ज्यो­ति­ष्क­मपि तं राजा पप्रच्छ मोहतः || ७३ ||

यत्प्र­सा­दा­द­वि­द्यादि सिध्यतीव दिवानिशम् |
तम­प्य­प­ह्नु­तेऽ­विद्या नाज्ञानस्यास्ति दुष्करम् || ७४ ||

स्वतो बुद्धं स्वतः शुद्धं स्वतो मुक्तं निरात्मिका |
अवि­चा­रि­त­सं­सि­द्धि­र­विद्या लिङ्गते कथम् || ७५ ||

निःसङ्गस्य ससङ्गेन कूटस्थस्य विकारिणा |
पूर्ण­स्या­ना­त्मना योगो वास्तवो नोपपद्यते || ७६ ||

सर्व­ज्यो­ति­रु­प­रमे किंज्योतिरिति चोदिते |
आत्मैवास्येति जनकं याज्ञ­व­ल्क्योऽ­प्यु­वाच ह || ७७ ||

आत्मप्रत्यय आत्मैको द्वीतीयः पुनरात्मनः |
अना­त्म­प्र­त्य­योऽ­तोऽहं स्वत एवास्मि केवलः || ७८ ||

न सामान्यं विशेषं वा प्रत्य­ग्धी­र­व­गा­हते |
तद्या­य­था­त्म्या­त्प्र­ती­चोऽतः सम्यग्दृष्ट्या न वीक्ष्यते || ७९ ||

नावि­द्या­घ­स्म­रै­का­त्म्य­स­म्य­ग्दृष्ट्या समीक्ष्यते |
आत्माविद्या तदुत्थो वा बाध्य­त्वा­द्र­ज्जु­स­र्प­वत् || ८० ||

आध्यात्मिकस्य नेत्रा­दे­र्बा­ह्य­ज्यो­ति­र­सं­गतौ |
तद्दूरेण प्रकाशोऽयं न मनस्युपजायते || ८१ ||

भान्वा­द्य­नु­ग्र­हा­भावे तस्मादेष पुमानिह |
प्राप्तोऽ­द्रष्टा तथाऽश्रोता स्मृति­स्व­प्ना­दि­भू­मिषु || ८२ ||

मनसैवेक्षते यस्मा­त्स­र्वा­नि­न्द्रि­य­गो­च­रान् |
तदभावे पुमानेष किंज्योतिरिति कथ्यताम् || ८३ ||

आत्मैवास्य तदा ज्योति­र्भ­व­ती­त्य­भ्य­धा­दृषिः |
आत्मनैव तदा चेष्टां ज्योतिषा संप्रपद्यते || ८४ ||

प्रत्य­क्षा­द्यु­प­लब्धौ यो बुद्धौ संस्कार आहितः |
कर्मणोद्भावितः सोऽयं स्मृतिरूपेण जायते || ८५ ||

आत्मा स्वाभाससचिवो धिय­मि­च्छा­दि­रू­पि­णीम् |
अनुगृह्णाति कर्मोत्थां प्रत्य­ग­ज्ञा­न­का­र­णात् || ८६ ||

यथा प्रकाशयत्येकः कृत्स्रं लोकमिमं रविः |
क्षेत्रं क्षेत्री तथा कृत्स्नं व्यनक्तीति तथा स्मृतिः || ८७ ||

नाना­सं­स्का­र­सं­स­र्गि­प्र­त्य­ग­ज्ञा­न­मेव तत् |
बुद्ध्या­दि­स्मृ­ति­रू­पेण प्रथते कर्मणो वशात || ८८ ||

भान्वादिवदतो बुद्धिं स्वाभा­सै­क­स­हा­य­वान् |
अनुगृह्णाति कूटस्थः स्वात्मा­वि­द्या­नु­रो­धतः || ८९ ||

अनु­ग्रा­ह्या­भि­सं­बन्ध एकजातिसमन्वयात् |
आदि­त्या­दे­रि­हा­वा­प्ति­रा­त्म­नोऽ­ज्ञ­न­व­र्त्मना || ९० ||

चिदा­भा­वि­द्य­यै­वाऽऽत्मा कूटस्थोऽप्येति साक्षिताम् |
आगमापायिरूपेषु स्थितोऽनेकेषु चैकलः || ९१ ||

दृश्या­र्थ­व­द­भि­न्नोऽयं द्रष्टृ­द­र्श­न­सा­क्ष्यपि |
द्रष्टृ­द­र्श­न­भे­देऽपि न भेदोऽस्य मनागपि || ९२ ||

कार­णा­न्व­य­व­द्बु­द्धे­श्चि­दा­भा­सोऽपि सर्वदा |
चिदाभासातिरेकेण बुद्धेः परिणतिर्वृथा || ९३ ||

विषयः प्रत्यगात्मा च स्वाभासेन विशेद्धियम् |
स्वाभासवत्स्वयं साक्षा­द्वि­य­त्कु­म्भा­दिगं यथा || ९४ ||

योऽप्य­वि­द्या­दि­सं­बन्धः सोऽप्य­वि­द्या­प्र­क­ल्पितः |
वास्त­व­स्त्व­भि­सं­बन्धो नोप­प­त्त्याऽऽ­त्मनो यतः || ९५ ||

यथा ज्ञान­प्र­का­शाभ्यां संप्लुतावेव नान्यथा |
कुम्भादेः कर्मयोग्यत्वं स्यादेवं धिषणादिषु || ९६ ||

चिद्बा­ह्या­कृ­ति­सं­बन्धे कर्मणेऽलं भवेन्मतिः |
तयो­र्भि­न्ना­श्र­यत्वे तु दुःख्यस्मीति न सिध्यति || ९७ ||

कौट­स्थ्या­द्वि­क्रि­या­भा­वा­न्नि­श्चि­त्क­त्वा­द्वि­का­रिणः |
आत्मनः स्यादिदं विश्व­म­न्ध­का­र­प्र­नृ­त्त­वत् || ९८ ||

घटा­द्या­भा­स­व­त्त­स्मा­न्मो­हा­दे­र­भ्यु­पे­य­ताम् |
चिदाभासोऽपि सर्वत्र न वेद्मी­त्यु­नु­भू­तितः || ९९ ||

एषोऽस्यानुग्रहः श्रुत्या प्रतीचोऽत्र विवक्षितः |
भान्व­नु­ग्र­ह­व­त्पुंस आस­ना­दि­प्र­सि­द्धये || १०० ||

आत्मेति प्राण­पि­ण्डा­दि­त­दं­श­स­मु­दा­यतः |
तज्जा­त्या­कृ­ति­सं­ब­न्ध­गु­ण­क­र्म­वि­ल­क्षणः || १०१ ||

तत्सतत्त्वं तदा­त्म­त्वा­द­ज्ञा­ना­द्य­व­भा­स­यत् |
ज्योतिरेकात्मकं नित्य­म­सा­धा­र­ण­मा­न­गम् || १०२ ||

तदन्यस्य जडत्वाच्च नान्य­प्र­त्य­क्ष­मि­ष्यते |
तथाऽ­न­ति­श­य­त्वा­त्स्यान्न पुमन्तरगोचरः || १०३ ||

शब्दा­दि­गु­ण­ही­न­त्वा­त्प्र­त्य­क्त्वा­सं­ह­त­त्वतः |
दृष्टि­मा­त्र­स्व­भा­वाच्च नाऽऽत्मा दर्शनमर्हति || १०४ ||

देशा­न्त­रा­द्य­सं­ब­न्धा­न्मो­हा­द्या­व्य­व­धा­नतः |
न च मोहा­दि­व­त्प्र­त्य­क्तथा दर्शनमर्हति || १०५ ||

नाऽऽदि­त्या­दि­स­जा­ती­य­मा­त्म­ज्यो­ति­रि­ती­ष्य­ताम् |
तन्मा­ना­न­व­ग­म्य­त्वा­दा­दि­त्या­देश्च तद्गहात् || १०६ ||

अनु­ग्रा­ह्य­स­जा­तीयं यच्च ज्योतिरिहेष्यते |
तच्च­क्षु­रा­दि­क­र­ण­ग्राह्यं दृष्टं घटादिवत् || १०७ ||

न चाप्रमेयमिति तच्छ­श­शृ­ङ्गा­दि­व­न्म­तम् |
तदनन्यमिति व्याप्तेः प्रत्य­क­त्वा­द्दि­न­कृ­द्यथा || १०८ ||

प्रत्य­क्ष­मा­न­ग­म्यत्वं विषा­ण­स्या­व­धा­रि­तम् |
स्वभावस्तमृते शृङ्गं स्वभावमतिवर्तते || १०९ ||

मान­पा­दो­प­जी­वित्वं स्वभा­वोऽ­ना­त्म­व­स्तुनः |
मात्रा­दि­सि­द्धि­द­स्यैष स्वतःसिद्धेर्न सर्वदा || ११० ||

अस्तं यातेषु सर्वेषु ज्योतिःषूक्तेषु वासनाः |
ज्योतिः प्रत्यक्स्वयं दृष्टमासनाद्याः प्रकाशयेत् || १११ ||

एष आत्मा स्वयंज्योती रवि­सो­मा­ग्नि­वाक्षु यः |
यातेष्वस्तं दृशैवाऽऽस्ते भास­यं­श्चि­त्त­चे­ष्टि­तम् || ११२ ||

आत्म­प्र­त्य­य­मा­मेयः सर्वेषामपि देहेनाम् |
यतोऽ­तोऽ­ना­त्म­यो­गोऽस्य न मानादवसीयते || ११३ ||

न चेदा­त्मे­ति­धी­मा­ना­त्प्र­ती­चो­न्योऽर्थ ईक्ष्यते |
प्रमा­न्त­रा­वि­रो­धेन य आत्मे­त्यु­प­प­द्यते || ११४ ||

आत्मा ब्रह्मेति वाक्ये­भ्य­स्त­था­चे­दंल प्रतीयते |
प्रत्य­क्षा­द्या­न­व­ष्ट­ब्ध­मै­कात्म्यं बाधवर्जितम् || ११५ ||

ननु देहा­द्य­भि­न्न­त्वा­दा­त्मनो मुक्तता कुतः |
प्रत्यक्षेण विरु­द्ध­त्वा­दै­कात्म्यं चापि न श्रुतेः || ११६ ||

तथा हि क्षिति­तो­या­ग्नि­म­रुतां योगजं मतम् |
प्रत्येकं शक्त्यभावेऽपि चैतन्यं मदशक्तिवत् || ११७ ||

अहं मनुष्य इत्येवं सामानाधिकरण्यतः |
प्रत्य­क्ष­बु­द्धि­र्दे­हेऽ­स्मि­ञ्जा­यते कृष्णसर्पवत् || ११८ ||

न चाहं­बु­द्धि­ग­म्योऽर्थो दृष्टो देहातिरेकतः |
सर्पादेरिव कार्ष्ण्या­दि­र्दे­ह­ध­र्म­स्त­त­श्चितिः || ११९ ||

ननु युक्ता पराग्भूते प्रमा­तु­र्व्य­ति­रे­कतः |
सर्पादौ धर्मसंबन्धप्रमा नाऽऽत्मन्यभेदतः || १२० ||

जडस्वभावतश्चापि कार्ष्ण्या­दे­र्ध­र्म­ते­ष्यते |
स्वसं­वि­दि­त­मा­त्र­त्वान्न त्वेवंरूपता चितेः || १२१ ||

यथै­क­बु­द्धि­नि­र्ग्राह्यं द्रव्येणेह विशेषणम् |
नैवं चित्काययोः सिद्धि­श्चि­च्छ­क्त्य­वि­ष­य­त्वतः || १२२ ||

नैवं येनैव मानेन सत्ता संविद ईक्ष्यते |
तेनैव धर्मता तस्याः कार्ष्ण्यादेरिव मीयते || १२३ ||

ननु देह इदं­बु­द्धि­र्घ­टा­दा­विव जायते |
प्रत्य­ग्बु­द्धि­स्त्व­हं­भागे नान­यो­र्ध­र्म­ध­र्मिता || १२४ ||

यथैव पारिहार्यादि हेमै­क­द्र­व्य­नि­ष्ठि­तम् |
अल­ब्धा­त्म­क­म­न्यत्र लब्धा­त्म­क­मि­वे­क्ष्यते || १२५ ||

तथैव वस्तु­स्वा­भा­व्या­च्चि­च्छ­क्ति­र्भू­त­नि­ष्ठिता |
अह­मि­त्या­दि­बु­द्धीनां व्यवहाराय कल्पते || १२६ ||

चैतन्यं देह­ध­र्म­श्चे­न्मृ­ता­व­वि­क­लस्य तत् |
कस्मान्न गम्यते साक्षा­ज्जी­व­द्दे­ह­गतं यथा || १२७ ||

नैष दोषश्चतुर्णां हि भूतानां संहतिस्तनुः |
ततो वायावपक्रान्ते चैतन्यमपि नश्यति || १२८ ||

स्वप्न­दे­हा­दि­सं­ब­न्धि­प्र­त्य­भि­ज्ञा­ब­ला­न्ननु |
व्यतिरेकश्चितेः सिद्धो भूतेभ्यो जाग्रतोऽप्यतः || १२९ ||

देहा­न्त­र­वि­नि­र्माणं जाग्र­च्चै­त­न्य­व­द्ध्रु­वम् |
करोति भूतसंधातः स्वप्ने बालयुवादिवत् || १३० ||

न चात्र प्रत्य­भि­ज्ञाऽस्ति मिथ्या­प­रि­ण­ते­स्तव |
नैव बाल्या­दि­व­द्य­स्मात् स्वप्ने देहः प्रतीयते || १३१ ||

जाति­स्म­र­ण­दृ­ष्टा­न्ता­दात्मा नित्यो मतो यदि |
व्रणं पूर्वकृतं दृष्ट्वा देहः किं नोच्यते ध्रुवः || १३२ ||

प्रत्य­भि­ज्ञा­न­त­स्तत्र ध्रौव्यं चेदात्मनो मतम् |
स्वप्ना­त्म­प्र­त्य­भि­ज्ञेयं मृषार्था साऽपि पूर्ववत् || १३३ ||

सशल्यदेहशायीनि भूतान्येव तथाविधम् |
देहान्तरं करिष्यन्ति प्रत्यभिज्ञा यदीष्यते || १३४ ||

तान्येवैतानि भूतानीत्येवं यद्वत्प्रजायते |
प्रत्यभिज्ञा स एवाहमिति यद्वद्भवेन्न किम् || १३५ ||

यच्चै­त­दा­त्म­ज्यो­तिष्ट्वं व्यति­रि­क्त­त­यो­दि­तम् |
आदित्यादिलयेनेह भौतिकं त्वेव तद्भवेत् || १३६ ||

उपकारि सजा­ती­य­मु­प­का­र्यस्य वस्तुनः |
जगत्यस्मिन्यतो दृष्ट­मा­दि­त्य­श्च­क्षु­षो­र्यथा || १३७ ||

शब्दादिभिर्हि घ्राणा­दे­र्नो­प­कारः समीक्ष्यते |
विजातीयैरतो ज्योति­र्भू­त­जा­ती­य­मि­ष्य­ताम् || १३८ ||

भौतिकस्यैव कुम्भा­दे­र्भौ­ति­कै­रेव वीक्ष्यते |
उपकारो जग­त्य­स्मि­न्ना­दि­त्या­द्यै­र्यथा तथा || १३९ ||

देहादेर्यदि नामेदं ज्योति­र­र्था­न्तरं मतम् |
तथाऽपि नासजातीयं व्यञ्ज­क­त्वा­त्प्र­दी­प­वत् || १४० ||

ननु देहा­स­जा­ती­य­म­न्त­स्था­ती­न्द्रि­य­त्वतः |
यद्य­द्दे­ह­स­जा­तीयं ज्योतिर्दृष्टं तदिन्द्रियैः || १४१ ||

मैवं नैकान्तिको हेतु­श्च­क्षु­रा­दी­न्द्रियैः स्फ़ुटम् |
अन्तस्थानि यतोऽक्षाणि प्रत्यक्षाणि न चाऽऽत्मवत् || १४२ ||

आदि­त्या­दि­स­जा­ती­य­मा­त्म­ज्यो­ति­र­ती­न्द्रि­यम् |
अन्त­स्था­ती­न्द्रि­य­त्वाभ्यां चक्षु­रा­दी­न्द्रियं यथा || १४३ ||

विशे­षेऽ­नु­ग­मा­भावः सामान्ये सिद्धसाध्यता |
इत्या­दि­दो­ष­दु­ष्ट­त्वान्न च नोऽनुमितिः प्रमा || १४४ ||

अनुमानबलेनैव देहा­दि­व्य­ति­रे­कतः |
प्रत्यगात्मा स्वयंज्योतिः साध्यते तच्च नानुमा || १४५ ||

प्रत्य­क्षै­क­प्र­मा­णेन देहे चिद्ध­र्म­केऽ­ञ्जसा |
गृह्य­मा­णेऽ­नु­मा­नेन न तच्छक्यं प्रबाधितुम् || १४६ ||

दर्शनादिक्रियां कुर्व­न्स­र्व­दाऽ­व्य­भि­चा­रतः |
प्रत्यक्षेणैव दृष्टोऽयं देहो नातस्ततोऽपरः || १४७ ||

दर्श­ना­दि­क्रि­या­कारी देह­श्चे­द­भ्यु­पे­यते |
कस्मादविकलस्यैव दृष्ट्यादिर्न तथेक्ष्यते || १४८ ||

नैष दोषो भवेदत्र प्रत्य­क्ष­प्र­मि­त­त्वतः |
न हि दृष्टं समुल्लङ्घ्य ततोऽ­न्य­द्व­ल­व­न्म­तम् || १४९ ||

भास्व­रा­भा­स्व­रत्वं च प्रत्यक्षेणैव वीक्ष्यते |
खद्यो­त­स्या­नु­मा­नेन न हेत्व­न्त­र­क­ल्प­नम् || १५० ||

हेत्व­न्त­रेऽ­नु­मेये च किंचि­त्सा­मा­न्य­ग­न्धतः |
सर्वं सर्वस्य लिङ्गं स्यात्त­च्चा­निष्टं प्रसज्यते || १५१ ||

न च नास्ति पदार्थानां लोकेऽसाधारणः कचित् |
स्वभा­वोऽ­ग्न्या­दि­कानां हि नोष्ण­त्वा­द्य­न्व­हे­तुतः || १५२ ||

प्राणि­ध­र्मा­द्य­पेक्षं चेदुष्णत्वादि हविर्भुजः |
नैवं तत्रापि दोषस्य प्रस­क्ते­र­नि­वृ­त्तितः || १५३ ||

तदप्यस्त्विति चेन्मैवं धर्मा­दे­र­प्र­सि­द्धितः |
धर्माभ्युपगमे दोषो ह्यनवस्था प्रसज्यते || १५४ ||

न चानवस्थया सिद्धि­र­भि­प्रे­तस्य वस्तुनः |
तदलं क्षिति­तो­या­ग्नि­म­रुतां परिणामजे |
चेतो­व­त्य­क्ष­सं­वेद्ये कष्टकल्पनयाऽनया || १५५ ||

सर्वतीर्थदृशां सिद्धिः स्वाभिप्रेतस्य वस्तुनः |
यदभ्युपगमादेव तत्सि­द्धि­र्वा­र्यते कुतः || १५६ ||

प्रत्यक्षेण विरुद्धत्वं न तावदुपपद्यते |
विषयाभावतस्तस्य प्रामाण्यं दुर्लभं यतः || १५७ ||

सर्वतीर्थदृशां तावत्सामान्यं मानलक्षणम् |
अज्ञा­ता­र्था­धि­ग­मनं त्वदुक्ते तन्न युज्यते || १५८ ||

प्राक्प्र­मा­ण­स­मु­त्प­त्ते­र्दे­हा­दे­र्वि­ष­यस्य ते |
प्रमाणहेतोः केन स्याद­ज्ञा­त­त्व­मि­ती­र्य­ताम् || १५९ ||

स्वतः सिद्धोऽ­थ­वाऽ­सिद्धो देहादिस्ते भवन्भवेत् |
प्रमाणानां प्रमाणत्वं नोभयत्रापि लभ्यते || १६० ||

प्रमा­णा­न्य­न्त­रे­णापि देहा­दि­श्चे­त्प्र­सि­ध्यति |
वद प्रमाणैः को न्वर्थो न हि सिद्धस्य साधनम् || १६१ ||

स्वतोऽ­सि­द्धेऽ­प्र­मेये च नासतो व्यञ्जिका प्रमा |
नाभिव्यनक्ति सविता खरशृङ्गं स्फ़ुरन्नपि || १६२ ||

प्रमा­ण­व्य­ति­रे­केण नाप्यसत्त्वं प्रसिध्यति |
सत्त्ववन्नापि चाभेदे मानमेयौ प्रसिध्यतः || १६३ ||

यदि माना­ति­रि­क्ता­र्थोऽ­मितः संभाव्यते तदा |
तं बोधयद्भवेन्मानं न तु तत्कुर्वदिष्यते || १६४ ||

अबुद्धबोधनं मुक्त्वा नान्यत्कार्यं क्वचिद्यतः |
सत्त्वं वा यदि वाऽसत्त्वं नातो मेये प्रमाणतः || १६५ ||

मानव्यापारतः पूर्वं सिद्धा­मे­वा­व­बो­ध­यत् |
शुक्तिकां मानतां याति, नासिद्धं रजतादिकम् || १६६ ||

शुक्तौ रज­त­वि­ज्ञा­ना­च्छु­क्ति­व­न्ना­मितं यतः |
रजतं विद्यते किंचिद्विज्ञातं चाऽऽत्मवस्तुवत् || १६७ ||

नाति­रे­का­न्व­याभ्यां यद्वस्तु संभाव्यते कथम् |
तत्प्रति स्यात्प्र­मा­णत्वं शुक्तिकारजते यथा || १६८ ||

किं मानसंगतेरर्थे जातेयमवबुद्धता |
किंवा प्रागपि संब­न्धा­द्बु­द्धोऽ­र्थोऽ­भून्न मानतः || १६९ ||

बोधात्मकत्वं च मितेः किमा­सी­न्मे­य­सं­गतेः |
प्राग्वा मेया­भि­सं­ब­न्धा­न्मि­ते­र्बो­धा­त्मता भवेत् || १७० ||

नार्थानधिगतत्वं च प्रमाणेभ्यः प्रसिध्यति |
रूपानधिगतत्वं नो न श्रोत्रादेः प्रमाणतः || १७१ ||

मान­व्या­पा­र­त­श्चे­त्स्या­न्मे­या­न­धि­गा­ति­स्तदा |
तद्व्या­पा­रा­त्पुरा मेयः स्यात्स्व­तो­धि­ग­ता­त्मकः || १७२ ||

यत एवमतोऽवश्यं प्रमाणव्यापृतेः पुरा |
मेयोऽनधिगतः सिद्धो ह्यभ्यु­पे­योऽ­व­बु­द्ध­वत् || १७३ ||

न चाना­हि­त­स­न्मा­न­स्व­त­श्चि­न्मा­त्र­वि­ग्र­हात् |
प्रत्व­गै­का­त्म्य­तोऽ­न्यत्र यथोक्तां धुरमुद्वहेत् || १७४ ||

न ह्यज्ञाते यथा ज्ञाते विशेषणविशेष्यता |
ततश्च नैत­त्सं­सि­ध्ये­द­ज्ञा­नादि प्रमाणतः || १७५ ||

प्रमा­णा­च्चा­न­धि­गतौ तन्निवृत्तिः कुतो भवेत् |
न दाह­ज्व­र­नु­त्त्य­र्थ­म­ग्निना स्याद्भि­ष­क्क्रिया || १७६ ||

साक्ष्य­मा­तृ­प्र­मा­रूपं मानभूमौ यथेक्ष्यते |
नाज्ञा­तेऽ­नु­भ­वा­देषां कश्चि­द­न्य­स्त­थे­क्ष्यते || १७७ ||

प्रमा­ण­व्या­पृ­ते­रूर्ध्वं ज्ञाताज्ञातटूयं मिथः |
संध­त्तेऽ­नु­भ­वे­नैव न तदन्येन केनचित् || १७८ ||

यदि नाम न मानानि व्याप्रियन्ते विनिश्चितेः |
प्राक्त­थाऽ­प्य­प­ला­पोऽस्या नानु­भू­ते­र्घ­टा­दि­वत् || १७९ ||

एवं सिद्धेऽप्यनुभवे स्वमहिम्ना पुरा मितेः |
प्रमा­णो­त्प­त्ति­र­न्वेष्यै प्रत्य­ग्ध्वा­न्ता­प­नु­त्तये || १८० ||

अव­बु­द्ध­स्व­भा­वोऽपि सह­तेऽ­न­व­बु­द्ध­ताम् |
वस्तुत्वान्न तमो हन्ति तथाऽपि प्रमितिं विना || १८१ ||

प्रमाणफ़लकारूढं स्वतमो हन्ति नान्यथा |
वस्तु मेयाभिसंबद्धं मानं तद्वत्तमोपनुत् || १८२ ||

प्रत्य­क्ष­मा­न­सि­द्ध्यर्थं तस्मा­त्प्र­त्य­क्ष­वा­दिना |
प्राङ्भा­ना­द­भ्यु­पे­योऽर्थो थोऽज्ञा­त­त्वा­दि­सि­द्धि­कृत् || १८३ ||

वागादिव्यापृतेः कर्ता शब्दा­दि­गु­ण­ला­ञ्छितः |
प्रत्यक्षो गम्यते मात्रा प्रती­चोऽ­त्य­न्त­भे­दतः || १८४ ||

श्रोत्रा­दि­व्या­पृतो माता दुःखा­दि­गु­ण­वा­न्प­राङ् |
कर्तेवानुभवेनैव प्रतीचा गम्यतेऽञ्जसा || १८५ ||

अनन्यानुभवः प्रत्यङ्न प्रमा­त्रा­दि­गो­चरः |
यतोऽपहतपाप्मादि युक्तं स्यात्त­द्वि­शे­ष­णम् || १८६ ||

लोकायतस्य बोद्धस्य कण­भो­ज्या­क्ष­पा­दयोः |
प्रत्यक्षेणैव मानेन विमुखीकरणं कृतम् || १८७ ||

प्रमा­ण­फ़­ल­यो­र्भे­द­स्तथा मानप्रमेययोः |
स्वतः­कू­ट­स्थ­चि­त्सि­द्धि­रै­कात्म्यं चानुभूतितः || १८८ ||

प्रत्यक्षं मानमेवेदमिति यस्मा­त्प्र­सि­ध्यति |
प्रत्य­क्ष­दृ­क्स्व­यं­ज्यो­ति­स्त­दा­त्मे­त्य­भ्यु­पे­य­ताम् || १८९ ||

मेयादींस्तभावं च संश­या­नृ­त­नि­श्च­यान् |
विविच्य योऽनुगृह्णाति शब्ददींश्च जडान्पृथक् || १९० ||

देहे­न्द्रि­य­म­नो­बुद्धीः सुखादींश्च घटादिवत् |
तमे­क­म­न्त­रा­त्मा­न­म­प्र­त्यक्षं प्रपश्य भोः || १९१ ||

द्रष्टृ­द­र्श­न­दृ­श्यांश्च यः स्वप्ने प्रसमीक्षते |
तदभावं सुषुप्ते च स आत्मे­त्य­भ्यु­पे­य­ताम् || १९२ ||

चक्षु­रा­दी­न्द्रि­याणां च न च स्वप्नेऽस्ति संभवः |
सुषुप्ते चानुभूतिस्तु तयोरव्यभिचारिणी || १९३ ||

प्रमाणं मेयविषयं तत्फ़लं मातृसंश्रयम् |
यत्साक्षिकं द्वयं सिध्येत्स आत्मे­त्य­भ्यु­पे­य­ताम् || १९४ ||

मानस्य हि फ़लं यत्र न तन्मानस्य गोचरः |
तस्य मेयै­क­नि­ष्ठ­त्वा­त्फ़लं तु स्यात्प्रमातरि || १९५ ||

प्रत्यक्षं वर्तते यत्र तत्फ़लं तत्र नेक्ष्यते |
तत्फ़लं वर्तते यत्र मानं तत्र न वर्तते || १९६ ||

एवं सति प्रमा­मा­तृ­फ़­ल­मे­या­त्मनां तव |
कुतः प्रत्य­क्ष­ता­सि­द्धि­र्यदि नाऽऽत्माऽ­भ्यु­पे­यते || १९७ ||

व्यभिचारिषु सर्वेषु प्रत्य­गा­त्मै­क­सा­क्षिषु |
प्रत्यक्प्रत्यय एवैकः सर्व­त्रा­व्य­भि­चा­र­वान् || १९८ ||

एवं प्रत्य­क्ष­त­स्ता­व­द्दे­हा­दि­व्य­ति­रे­कतः |
तथाऽनुभवतः साक्षादात्माऽयं प्रतिपादितः || १९९ ||

यच्चै­त­त्कृ­ष्ण­स­र्पा­दि­दृ­ष्टा­न्ता­द्भ­व­तो­दि­तम् | अहं मनुष्य इत्यादि तत्र प्रतिविधीयते || २०० ||

चैतन्यं काय­ध­र्म­श्चे­न्म­नु­ष्योऽ­सा­विति प्रमा |
असाधारणतो न स्यादहं वेद्मीतिवत्तदा || २०१ ||

समवेतं हि यद्यत्र चैतन्यं स्याच्छरीरके |
तस्यैव तद्भ­वे­त्सा­क्षा­न्ना­न्य­दे­हा­श्रि­तस्य तत् || २०२ ||

करणव्यापृतिं चर्ते मनुष्योऽस्मीति धीर्भवेत् |
पूर्ववन्न तु तत्ता­दृ­ग्दे­हा­द्भिन्ना ततश्चितिः || २०३ ||

न चाहं­बु­द्धि­नि­र्ग्रा­ह्य­मि­दं­धी­ग्रा­ह्य­गो­चरः ||
विरोधान्न हि शीत­त्व­मु­ष्ण­स्या­ग्ने­र्वि­शे­ष­णम् || २०४ ||

कायस्यापि न चैतन्यमेवमेव विशेषणम् |
विरोधिना जडत्वेन व्याप्तेः किमु परस्य तत् || २०५ ||

विशेष्यमपि नाऽऽप्नोति धर्मा­न्त­र­वि­शे­षि­तम् |
विशे­ष्य­मा­त्र­नि­ष्ठ­त्वा­द­न्यत्र स्यात्कथं नु तत् || २०६ ||

विशे­ष­ण­वि­शे­ष्यत्वे संग­ति­श्चे­द्भ­वे­त्तयोः |
एक­प्र­त्य­य­ग­म्यत्वं स्यात्तदा कृष्णसर्पवत् || २०७ ||

आवि­द्व­द­ङ्ग­ना­वालं देहादौ घटवन्मतिः |
पृथक्त्वेन भवन्तीयं कथं स्याच्चि­द्वि­शे­षिता || २०८ ||

मातारमपि नाऽऽप्नोति यत्प्र­मे­यै­क­नि­ष्ठि­तम् |
प्रत्यक्षं तस्य का शक्तिः स्वार्थायां चिति वर्तितुम् || २०९ ||

असा­धा­र­ण­रू­पो­त्था­ज्ञा­ने­नैव प्रमीयते |
यथा घटस्तथैवाऽऽत्मा नान­त्म­प्र­त्य­य­प्रमः || २१० ||

स्वार्थं सन्न परार्थस्य स्वात­न्त्र्या­त्स्या­द्वि­शे­ष­णम् |
न च चैत­न्य­मि­त्किं­चि­च्चै­त­न्या­ल्ल­भ्यते पृथक् || २११ ||

ग्रहीत्रेव हि चैत­न्य­मा­त्म­नोऽ­ना­त्म­न­स्तथा |
ग्रही­तु­र्ग्रा­ह्यता लोके न न्यायेनोपपद्यते || २१२ ||

प्रत्यक्त्या विभिन्नस्य चैतन्यस्य विशेषणम् |
पराकत्वान्नापि कायः स्याच्छीततेव विभावसोः || २१३ ||

पारिहार्यादिगं हेम्नि प्रमाणं मेयनिष्ठितम् |
कथमात्मचितौ तत्स्या­त्त­द्वि­रु­ग­द्धा­र्थ­सि­द्धये || २१४ ||

भूतेभ्यश्च चिदुत्पत्तिर्न प्रत्य­क्ष­प्र­मा­णिका |
भूतान्वयस्य चासत्त्वान्नापि लिङ्गा­त्प्र­सि­द्ध्यति || २१५ ||

मृतोऽस्मीत्यपि संवि­त्ति­श्चै­त­न्या­प­गमे कुतः |
जाड्या­त्स्या­न्नापि कायस्य चिदभावश्चितेः कुतः || २१६ ||

नापि स्वप्ना­नु­भू­तेश्च मिथ्यात्वं स्वप्नवन्मतम् |
बोधा­नु­भ­व­व­त्तस्या बाधको नेक्ष्यते यतः || २१७ ||

वायोरपि समुत्क्रान्तिः प्रत्य­क्षा­न्ना­व­सी­यते |
चिते­स्त­द्भा­व­भा­वि­त्वा­द्वा­यु­रे­वास्तु चेतनः || २१८ ||

चैतन्यं भूतकार्यं चेत्का­य­व­त्ति­ष्ठतां चितिः |
चितिवन्नश्यतां यद्वा कायोऽयं हेतुनाशतः || २१९ ||

जाग्र­च्छ­री­र­व­च्चे­त्स्या­त्स्व­प्न­का­योऽपि भूततः ||
सत्य­भू­तै­क­हे­तु­त्वा­न्मि­थ्यात्वंं तस्य किंकृतम् || २२० ||

सत्यो वा यदि वा मिथ्यां स्वप्न­दे­होऽ­भ्यु­पे­यते |
चिते­र­व्य­भि­चा­रि­त्वा­त्त­थाऽ­पीष्टं प्रसिध्यति || २२१ ||

तस्मा­न्नृ­ह­स्ति­दे­हादौ जाग्र­त्स्व­प्ना­दि­भू­मिषु |
भिन्नः शरीरतः सिद्धः प्रमाता प्रत्यभिज्ञया || २२२ ||

देश­का­ल­व­यो­जा­ति­रू­प­श­क्त्या­दि­भे­दतः |
देहे न प्रत्यभिज्ञा स्याज्जाते स्मर्तरि युज्यते || २२३ ||

अनु­ग्रा­ह्य­स­जा­तीयं न च प्रत्यक्षमानिनः |
ज्योतिः साधयितुं युक्त­म­नु­मा­न­द्विषः सतः || २२४ ||

सजातीयगिरा चात्र भवता किं विवक्षितम् |
सामान्यमथवा व्यक्तिर्यदि सामान्यमुच्यते || २२५ ||

सजाति नास्ति सामान्यमनवस्था तथा सति |
निःसामान्यानि तेनाऽऽहुः सामान्यानीति वादिनः || २२६ ||

भौतिकत्वेन चेज्ज्यो­ति­र्दे­हा­नु­ग्रा­हकं मतम् |
देहेऽपि तस्य सद्भा­वा­न्ना­पेक्ष स्यात्तदा रवौ || २२७ ||

विशे­ष­श्चे­द­पेक्ष्यः स्याद्यो देहेऽस्मिन्न विद्यते |
नानु­ग्रा­ह्य­स­जा­तित्वं तस्या­नु­ग्रा­ह­क­त्वतः || २२८ ||

देहा­त्स्या­द्भि­न्न­जा­तीयं वस्तु देहावभासि यत् |
विवादगोचरापन्नं भास्व­र­त्वा­द्र­वी­न्दु­वत् || २२९ ||

नानु­ग्रा­ह्य­स­जा­तीयं नाप्यनुग्राहकं तथा |
घटो घटं रविर्वेन्दुं नानुगृह्णाति कुत्रचित् || २३० ||

सजा­ती­या­स­जा­ती­यै­र्दे­हो­प­कृ­ति­रि­ष्यते |
क्ष्माब­ग्नि­वा­युभिः साक्षान्नातो नियम इष्यते || २३१ ||

विजा­ती­यो­प­का­र­श्चे­द्भ­वता नाभ्युपेयते |
चतुर्भूतात्मको देह इत्ये­त­त्क­थ­मु­च्यते || २३२ ||

अभा­वोऽ­प्यु­प­कु­रुते लोकेऽ­स्मि­न्भा­व­व­द्यतः ||
नातोऽ­नु­ग्रा­ह­क­त्वा­दि­नि­य­मोऽयं समञ्जसः || २३३ ||

पार्थिवैः पार्थि­व­स्या­ग्ने­रु­प­कारो यथेन्धनैः |
वैद्युतस्य तथै­वा­द्भि­रु­प­कारः समीक्ष्यते || २३४ ||

अद्भिः काष्ठैश्चोपकारः पावकस्यैव वीक्ष्यते |
अग्न्यम्बुभिश्च शमनं तथाऽग्नेरेव दृश्यते || २३५ ||

सजा­ती­या­स­जा­ती­य­नि­य­मोऽतो न युज्यते |
उपकारापकारत्वे पूर्वोक्तेनैव वर्त्मना || २३६ ||

यच्चा­प्य­क्षै­र­नै­कान्त्यं हेतोरभिहितं पुरा |
तच्चा­प्य­स­त्त्व­याऽ­भाणि धर्मित्वेन परिग्रहात् || २३७ ||

सेन्द्रि­य­स्यास्य देहस्य पुरुषोक्त्या परिग्रहात् |
न ह्येकदेशः साध्यस्य दृष्टान्तत्वाय कल्पते || २३८ ||

लिङ्गस्य मात्वसंसिद्धौ दूषणं दूषणं भवेत् |
विशेषेऽनुगमाभाव इत्यादि यदुदीरितम् || २३९ ||

सामा­न्ये­त­र­रू­प­त्वा­त्सा­ध्य­स्या­ग्न्या­दि­रू­पिणः |
अपि दोषद्वयं न स्यादेकरूपे हि शङ्क्यते || २४० ||

न चेन्द्रियाणि ते सन्ति प्रत्य­क्षै­क­प्र­मा­णिनः |
अनुमानादृते तेषां संसि­द्धि­र्ने­ष्यते यतः || २४१ ||

ग्राह­क­ग्र­ह­ण­ग्रा­ह्य­भा­वा­भा­व­वि­भा­ग­वित् |
स्वार्थ­म­न्या­न­पेक्षं सच्चैतन्यं नाक्षमानगम् || २४२ ||

न च तद्भावभावित्वं व्यति­रे­का­प्र­सि­द्धितः |
देहाभावे ह्यभा­वोऽ­स्या­श्चितेः स्यात्किं­प्र­मा­णकः || २४३ ||

अनु­मा­ना­प्र­मा­णत्वं न प्रत्यक्षेण साध्यते |
लिङ्गेनापि च तत्सिद्धौ त्वदुक्त्यैव विरुद्धता || २४४ ||

त्वद­शे­ष­प्र­वृ­त्तीनां निरोधश्च प्रसज्यते |
लिङ्ग­स्ये­हा­प्र­मा­णत्वे निश्चेष्टं स्याज्जगत्तथा || २४५ ||

वागा­भि­व्या­हृ­ति­श्चे­य­मपि ते न प्रसिध्यति ||
नैवाऽऽ­त्म­प्र­ति­प­त्त्यर्थं भार­त्यु­च्चा­र्यते त्वाया || २४६ ||

विवादगोचरापन्ना प्रमा­ण­म­नु­मे­ष्य­ताम् |
अनुमानत्वतो लिङ्गा­द्दू­ष­णा­नु­मि­ति­र्यथा || २४७ ||

खद्यो­ता­दि­प्र­का­शस्य यच्चा­नि­त्य­त्व­मु­च्यते ||
पक्षा­दि­व्य­व­धा­न­त्वा­त्त­च्चा­स्माकं न तान्प्तति || २४८ ||

भावाभावग्रहो नापि सिध्ये­त्प्र­त्य­क्ष­मा­नतः |
विद्य­मा­ना­र्थ­सं­ब­न्धा­त्प्र­त्य­क्ष­स्येह सर्वतः || २४९ ||

अथाभावोऽपि तद्गाह्य इति चेदभिधीयते |
प्रत्य­क्षा­भा­व­सं­सिद्धौ किं प्रमा­ण­मि­ती­र्य­ताम् || २५० ||

प्रमा­तृ­मा­ना­भा­वोऽपि भवता प्रतिपाद्यते |
यद्भावेऽपि न यन्मानं तदभावेऽपि तत्कथम् || २५१ ||

व्यावर्तते स्वभा­व­श्चे­दि­त्ये­त­द­ति­दु­र्घ­टम् |
स्वभावो वस्तुनस्तत्त्वं तत्त्वा­त्तत्त्वं न हीयते || २५२ ||

धर्मादेः फ़लदातृत्वं स्वभावोऽवश्यमेव तत् |
अभ्यु­पे­य­स्त्व­याऽ­पीह यथा तदपि मे शृणु || २५३ ||

क्रियातः स्तुतिनिन्दादेः सुख­दुः­खा­दि­ल­क्ष­णम् |
धर्माधर्मफ़लं साक्षा­त्प्र­त्य­क्षे­णा­नु­भू­यते || २५४ ||

आग­मै­क­प्र­मा­ण­त्वा­त्कथं धर्मा­द्यु­दा­हृतिः |
अथा­भ्यु­प­ग­मा­द्युक्तं वेदा­भ्यु­प­ग­ति­स्तथा || २५५ ||

माना­न्त­रा­भ्यु­प­ग­मा­द्भ­व­तश्च तथा सति |
स्वसि­द्धा­न्त­वि­रो­धोऽयं बला­दा­या­त्य­नी­प्सितः || २५६ ||

दग्धृ­त्वा­दि­स्व­भा­वोऽग्नेः शक्ति­श्चे­द्भ­व­तो­च्यते ||
प्रत्य­क्षा­त्त­द­सं­सि­द्धे­र्वि­रो­ध­स्तेऽ­नु­मा­श्रितेः || २५७ ||

मदभ्युपगमो यद्वद्भवतोऽपि तथा यदि || ||
सर्व­मा­ना­भ्यु­प­ग­मान्न किंचिन्नोऽस्ति दुःस्थितम् || २५८ ||

त्वद­भ्यु­प­ग­मा­र्थाय यत्नोऽयं क्रियते मया |
अभ्युपेतो मदु­क्त­श्चे­त्सिद्धं नः स्यात्प्रयोजनम् || २५९ ||

अनवस्थेति योऽप्युक्तः सोऽपि दोषो निराकृतः |
सर्व­मा­ना­भ्यु­प­ग­मा­न्ना­न­वस्था ततो बलात् || २६० ||

देहा­दि­व्य­ति­रि­क्तोऽत आत्मा सिद्धो यथोदितः |
आदि­त्या­द्य­स­जा­तीयः पूर्वा­क्ता­द­नु­मा­नतः || २६१ ||

दर्श­ना­दि­क्रि­या­वां­श्चे­द्देह एवाभ्युपेयते |
दृष्टस्यैव स्मृतौ न स्यात्स्वप्ने चार्थस्य दर्शनम् || २६२ ||

बाह्या­दि­त्या­दि­वि­रहे करणव्यापृतिं विना ||
जाग्र­द्व­द्वी­क्षते स्वप्ने दृष्टपूर्वं यतो नरः || २६३ ||

सामग्र्या स यया पूर्व­म­द्रा­क्षी­च्छि­खरं गिरेः |
तया विनैव स्वप्ने तदात्मा पूर्ववदीक्षते || २६४ ||

उत्खा­त­न­य­न­श्चा­य­म­नु­त्खा­ता­क्ष­व­द्ध­टम् |
स्वप्ने समीक्षते नात आत्मनोऽन्यः प्रपश्यति || २६५ ||

तत­श्चै­त­द्भ­वे­त्सिद्धं यः स्वप्ने कुम्यमीक्षते |
विचक्षुः प्रागपि घटं स एवैक्षिष्ट चक्षुषा || २६६ ||

मृतौ चाविकलस्यैव दर्श­ना­दे­र­सं­भ­वात् |
न स्याद्देहस्य तच्चापि देहो द्रष्टा भवेद्यदि || २६७ ||

नेक्षि­तृ­त्वेऽ­क्ष­बु­द्ध्यादेः प्रत्य­भि­ज्ञो­प­प­द्यते |
न भिन्नद्रष्टृकं यस्मा­त्प्र­ति­सं­धा­न­म­र्हति || २६८ ||

यमद्राक्षं पुरा कुम्भं तमेवाद्य स्पृशाम्यहम् |
इत्ये­त­त्प्र­ति­सं­धानं न भिन्नद्रष्टृकं भवेत् || २६९ ||

प्रति­सं­धा­न­कृ­त्तर्हि मनः संस्का­र­सं­श्र­यात् ||
नैवं तस्यापि मनसो विषयत्वेन दर्शनात् || २७० ||

शब्दादिखचितं साक्षा­त्स्मृ­ति­स्व­प्न­गतं मनः |
कुम्भ­व­द्वी­क्ष्यते यस्मान्नात आत्मा मनोऽपि नः || २७१ ||

भावाभावौ प्रमा­त्रा­दे­स्त­द्वि­ल­क्ष­ण­रू­प­भृत् |
प्रत्य­क्स­मी­क्षते नित्यं नातो द्रष्टृ भवेन्मनः || २७२ ||

योग्यत्वं चास्य देहस्य प्रत्य­क्षै­क­प्र­मा­ण­कम् |
प्रत्य­क्षा­प्र­मितं कस्मा­द्भो­क्तृत्वं तस्य कल्प्यते || २७३ ||

अयंरूपेण भोग्योऽर्थो ह्यहंरूपेण भोजकः |
विरुद्धरूपौ प्रत्य­क्षा­द्न­म्येते भोज्यभोजकौ || २७४ ||

इत्यलं शुष्क­त­र्को­त्थ­वा­ङ्भा­त्रा­क्षे­प­दू­षणैः |
पुंसां पुम­र्थ­सि­द्ध्यर्थं प्रक्रा­न्त­म­भि­धी­यते || २७५ ||

आत्मै­वा­स्ये­त्यु­प­श्रुत्य पूर्वा­त्त­र­वि­रु­द्ध­ताम् |
आशङ्क्य जन­कोऽ­प्रा­क्षी­दा­त्माऽयं कतमो न्विति || २७६ ||

देहा­दि­सं­ह­ता­व­स्या­मा­त्मेति ह्यभिधाधियौ |
सुप्रसिद्धे जग­त्य­स्मि­न्ना­यो­षि­द्वा­ल­प­ण्डि­तम् || २७७ ||

पंव्यापारस्य संबन्धो देहा­दि­व्य­ति­रे­किण ||
ज्योति­षाऽ­ना­त्मना पूर्वं लिङ्गेन प्रतिपादितः || २७८ ||

आत्मैवास्येति वच­ना­त्पू­र्वो­त्त­र­वि­रो­धतः |
संजातसंशयो राजा याज्ञ­ब­ल्क्य­म­पृ­च्छत || २७९ ||

अर्थान्तरं चेद्दे­हा­दे­रा­त्म­ज्यो­ति­र्वि­व­क्षि­तम् |
पूर्वो­त्त­र­वि­रो­धोऽयं तदा नैवेह ढौकते || २८० ||

आत्मशब्दश्च लोकेऽ­स्मि­न्प्र­सि­द्धोऽ­ने­क­व­स्तुषु |
साक्षि­बु­द्धि­श­री­रा­न्ते­ष्वा­त्म­बु­द्धि­स­म­न्व­यात् || २८१ ||

डत­च्प्र­त्य­य­स्त­स्मा­द्ब­ह्व­र्थ­स्यात्र संभवात् |
कतमो भवताऽऽत्मेति ज्योतिष्ट्वेन विवक्षितः || २८२ ||

इति पृष्टोऽ­नु­मा­ने­ना­वि­रुद्धं प्रत्यपीपदत् |
आत्मज्योतिः सुविस्पष्टं राजानं योऽयमित्यतः || २८३ ||

भान्वा­दि­ज्यो­तिषा ताव­द्व्य­व­ह­र्तु­र­नु­ग्रहः |
कुष्ण­सा­रा­दि­दे­शेषु स्वान्त­स्या­नु­ग्र­ह­स्ततः || २८४ ||

मनःप्रधानः संघात आत्म­चै­त­न्य­बि­म्बितः |
अभि­व्य­क्त­स्मृतिः सोऽथ बाह्यां चेष्टां प्रपद्यते || २८५ ||

पिण्ड­स्त­व­दि­हाऽऽ­त्मैको द्वितीयो लिङ्गसंज्ञितः |
चिद्वि­म्बि­ता­व­धि­श्चा­न्य­श्च­तुर्थो नेति नेति यः || २८६ ||

बाह्या­न्त­र्ज्यो­ति­षो­र्मध्ये देहो बुद्ध्यादिसंहतः |
वर्तते वाङ्भ­नः­का­य­क्रि­या­कारी सुखादिमान् || २८७ ||

भान्वा­दि­ज्यो­तिषा सोऽयं सम्य­क्सं­दी­पि­ते­क्षणः |
तद्दूरेद्धमनाः स्मृत्वा बाह्यांचेष्टां प्रपद्यते || २८८ ||

धर्मा­ध­र्म­स­मु­त्थोऽस्थ बाह्य­ज्यो­ति­र­नु­ग्रहः |
हेत्व­न्त­रा­न­पे­क्षस्तु प्रत्य­ग्ज्यो­ति­र­नु­ग्रहः || २८९ ||

देहैकदेश एवास्य देव­ता­नु­ग्र­ह­स्ततः |
कृत्स्ना­ध्या­त्मा­धि­दै­वा­दा­वा­त्म­ज्यो­ति­र­नु­ग्रहः || २९० ||

न तत्र सूर्यो भातीति तथाचाऽऽर्थर्वणे वचः |
यथा प्रकाशयत्येक इति चाप्यैश्वरी स्मृतिः || २९१ ||

अस्था­स्नु­त्वाच्च धर्मादेः प्रयोज्यं साधिदैवतम् ||
अध्यात्ममधिभूतं च तेना­स्था­स्न्वा­त्म­सा­क्षि­कम् || २९२ ||

बाह्य­ज्यो­ति­र­भा­वेऽतो वाङ्भा­नः­का­य­हे­तुके |
स्वप्ना­दि­व्य­व­हा­रेऽ­स्मि­ञ्ज्यो­ति­रा­त्मैव नापरम् || २९३ ||

देहे­न्द्रि­य­म­नो­बु­द्धि­व्य­ति­रे­क­प्र­सि­द्धये |
योऽयमित्युच्यते प्रत्य­ग्ज्यो­तिषो भानुवद्वचः || २९४ ||

स्वयं­प्र­मा­ण­क­स्ता­व­त्सा­क्ष्य­न्तोऽर्थो व्यवस्थितः |
भावाभावौ प्रमा­त्रा­दे­स्त­त्प्र­सा­दा­त्प्र­सि­ध्यतः || २९५ ||

तदा­भा­सा­नु­वि­द्धेन प्रमा­त्राऽ­हं­व­पु­र्भुता |
प्रमाणादेः प्रसिद्धिः स्यान्मेयस्यापि प्रमाणतः || २९६ ||

प्रमा­ण­व्या­पृ­ति­फ़­ल­प्र­सि­द्धिश्च प्रमातरि |
अवगत्यवसाना स्यात्प्रमातुः प्रत्यगात्मनि || २९७ ||

यतोऽवगतिरेवात्र प्रमा­त्रा­दि­वि­शे­षणा |
साक्षा­त्प्र­मा­फ़लं न्याय्यं प्रत्य­गा­त्मै­क­सा­क्षि­कम् || २९८ ||

प्रत्य­क्चि­दा­कृ­ति­र्बुद्धौ मेया­र्था­कृ­ति­व­त्स्थिता |
बुद्धिः कारणसंस्थैव कृत्स्न­व्य­व­हृ­ति­क्षमा || २९९ ||

यः पृष्टः स परा­ग्वृ­त्ति­प्र­मा­मे­या­ति­ल­ङ्घितः |
प्रत्यक्षेणैव मानेन त्वय­मि­त्य­भि­धी­यते || ३०० ||

पराञ्चीति च मन्त्रोक्तिः साक्षादात्मेति च श्रुतिः |
परा­ङ्भा­ना­प्र­मे­य­त्व­मा­त्मनः प्रत्यबूबुधत् || ३०१ ||

कुम्भाकारेण कुम्भार्थो यथा प्रत्यक्ष ईक्ष्यते |
विज्ञानेन तथा प्रत्य­ङ्ङा­त्मा­का­रेण गृह्यते || ३०२ ||

घटा­सा­मा­न्य­रू­पो­त्थ­प्र­त्य­क्षै­क­प्र­मा­णकः |
घटा­र्थोऽ­व्य­भि­चा­रि­त्वा­त्त­यो­र्मा­न­प्र­मे­ययोः || ३०३ ||

आत्मा­सा­धा­र­णा­त्मो­त्थ­भा­स्व­चै­त­न्य­रू­पिणा |
प्रत्य­क्षे­णे­क्ष्यते नित्य­मा­त्म­नाऽऽत्मा त्वकारकः || ३०४ ||

अना­त्मा­का­र­मा­नेषु ह्यन्यो­न्य­व्य­भि­चा­रिषु |
प्रत्यक्प्रत्यय एवैकः सर्व­त्रा­व्य­भि­चा­र­वान् || ३०५ ||

यत एवमतः प्रत्य­क्प्र­त्य­ये­नो­प­दि­श्यते |
तदन्यधीगृहीतौ स्याद्य­तोऽ­ना­त्म­त्व­मा­त्मनः || ३०६ ||

अपा­स्ता­न्य­व्य­पेक्षं चेदात्मदृष्ट्या समीक्षितम् |
जगदात्मैव कृत्स्नं स्यान्न ह्यज्ञा­तोऽ­व­शि­ष्यते || ३०७ ||

अय­मि­त्य­भि­धा­यो­ग्य­ब­हो­र­र्थस्य संनिधिः |
विज्ञानमय इत्यु­क्ति­स्त­द­व­च्छि­त्तये येतः || ३०८ ||

विज्ञानमय इत्य­स्मा­द्व्य­प­दे­शा­न्नि­व­र्तते |
ज्योतिरात्मा जडा­द्दे­हा­त्त­स्या­चै­त­न्य­रू­पतः || ३०९ ||

विज्ञा­न­मि­त्य­ने­नात्र बुद्धि­रे­वा­भि­धी­यते |
बुद्ध्यु­पा­ध्य­वि­वि­क्तश्च विज्ञानमय उच्यते || ३१० ||

बुद्धि­वि­ज्ञा­न­सं­पृक्तो यस्मादेष प्रमीयते |
राहु­व­च्च­न्द्र­सं­पृक्तः प्रत्य­ग्ज्ञा­न­म­य­स्ततः || ३११ ||

द्रष्टृ­त्वा­द्य­भि­सं­ब­न्धोऽ­का­र­क­स्यापि सर्वदा |
बुद्धि­यो­ग­कृ­तोऽ­तोऽयं विज्ञानमय उच्यते || ३१२ ||

आत्मा­ना­त्मा­व­बो­धाय यतो धीरेव कारणम् |
सर्वार्थकरणं साऽतो दीपो ध्वान्ते यथा तथा || ३१३ ||

विज्ञा­ना­लो­क­सं­पृक्तं मेयं वस्त्वखिलं यतः |
विजानाति मय­ट्त­स्मा­त्प्रा­या­र्थोऽ­त्रा­व­सी­यते || ३१४ ||

यावा­ल्ल्यु­ड­र्थ­स्ते­नायं तदविद्यैकहेतुतः |
अविशिष्टो मतो यस्मा­त्त­दा­भा­सै­क­व­र्त्मना || ३१५ ||

विज्ञानमय इत्येवं तस्मा­दा­त्माऽ­भि­धी­यते |
सर्व­धी­वृ­त्ति­सा­क्षि­त्वा­त्ता­दा­त्म्या­च्चा­प्य­ना­त्मनः || ३१६ ||

सर्वार्थग्रहणं तस्मा­त्पु­रो­व­स्थि­त­दी­प­वत् |
प्रधानं करणं बुद्धि­र्द्वा­र­मात्रं ततोऽपरम् || ३१७ ||

व्याचख्युर्मयटं ये तु विकारार्थे महाधियः ||
स्वव्या­ख्या­न­वि­रोधः स्यात्तेषां चानर्थसंगतिः || ३१८ ||

आत्मनश्चापि निःशे­ष­वि­का­र­प्र­ति­षे­धतः |
न जायत इति स्पष्टं श्रुति­म­न्त्रो­क्ति­सं­श्र­यात् || ३१९ ||

अनि­र्मो­क्ष­प्र­स­क्तिश्च विका­र­श्चे­त्प­रा­त्मनः |
मयण्नातो विकारे स्यात्प्रा­या­र्थ­स्त्वत्र युज्यते || ३२० ||

यदि वाऽज्ञानतस्तस्य विकारो जगदिष्यते |
रज्ज्वाः सर्पादिको यद्वन्न तथा दोष इष्यते || ३२१ ||

विज्ञानमय इत्यत्र वाक्ये प्राया­र्थ­ते­ष्यते |
पृथि­व्या­दि­म­योऽ­प्यात्मा यस्मादूर्ध्वं प्रवक्ष्यते || ३२२ ||

संदिह्यमानः सर्वत्र पदार्थोऽन्यत्र निश्चितात् ||
प्रयो­गा­त्सु­वि­नि­श्चेयो न्याया­द्वाऽ­त्य­न्त­नि­श्चि­तात् || ३२३ ||

देहा­दि­वे­न्द्रि­ये­भ्योऽपि व्युत्था­प­न­चि­की­र्षया |
प्राणेष्विति श्रुतिर्वक्ति प्राणाः पञ्चदशोदिताः || ३२४ ||

तेभ्यो­नि­र्धा­र­णा­र्थाय सप्तमीयं प्रयुज्यते ||
प्राणेषु योऽर्थोऽनुगतः स आत्मे­त्य­व­धा­र्य­ताम् || ३२५ ||

प्राणे­ष्वा­त्मी­य­रू­पेषु प्रत्य­क­त्वे­ना­व­भाति यः |
स एवाऽऽत्मेति विज्ञेयस्तेषु सर्वेष्वनात्मसु || ३२६ ||

मतं प्राणसजातीया धीरेवाऽऽत्मेति चेन्न तत् |
यतो धीव्यतिरेकार्थं हृदीति श्रुतिरभ्यधात् || ३२७ ||

हृच्छब्देन च धीरेव तात्स्थ्या­द­त्रा­भि­धी­यते |
स्वार्थस्तस्यां य आभाति स आत्मा बुद्धि­वृ­त्ति­दृक् || ३२८ ||

हृदी­त्या­धा­र­नि­र्दे­शा­द्धीस्था आत्मेति शङ्क्यते |
वृत्तयोऽतो निवृ­त्त्य­र्थ­म­न्ति­रि­त्यु­प­दि­श्यते || ३२९ ||

देव­ता­वि­ष­य­प्रा­ण­बु­द्धि­त­द्वृ­त्तितः परः |
प्रत्यक्तया यः प्रथते ज्योतिरात्मा स ईक्ष्यताम् || ३३० ||

ग्राह­क­ग्र­ह­ण­ग्रा­ह्य­रू­पोऽ­नात्मा प्रवाहवान् |
बुद्ध्या­दि­र्वि­ष­या­न्तोऽर्थो यत्साक्षिक इवेक्ष्यते || ३३१ ||

भूत्वाऽ­भ­वं­स्त­थाऽ­भूत्वा भवं­श्चे­हा­त­था­त्मना |
अज्ञा­तोऽ­लु­प्त­दृ­ष्टिर्यः स आत्मा ज्योतिरुच्यते || ३३२ ||

आग­मा­पा­यि­ता­मि­द्धि­र्बु­द्ध्या­दे­र्य­त्स­मा­श्र­यात् ||
साक्षादात्मेति तं पश्य प्रत्य­ग्दृ­ष्ट्यै­क­मा­त्मनि || ३३३ ||

परा­ग­र्था­नु­सा­रिण्यो यतो धीवृत्तयस्ततः |
विशेषणादन्तरिति व्यावर्त्यन्ते पराक्त्वतः || ३३४ ||

कारणं तर्हि बुद्ध­ध्या­दे­रा­त्मे­त्यत्र प्रसज्यते |
कार्य­स्या­न्त­र्यतो दृष्टं सर्वत्रैव च कारणम् || ३३५ ||

जाड्यं चाऽऽत्मन इच्छन्ति कणभुङ्भतजीविनः |
तेषां विप्रतिषेधार्थं ज्योति­रि­त्य­भि­धी­यते || ३३६ ||

योऽयमित्यादिना यद्वा यथो­क्त­स्याऽऽ­त्म­व­स्तुनः |
प्रकृ­त­ज्यो­तिः­सं­वन्धो ज्योति­रि­त्य­भि­धी­यते || ३३७ ||

उपादानं हि बुद्ध्या­दे­रा­त्मा­वि­द्येति भण्यते |
सकृद्विभातं चिन्मात्रं ज्योति­रि­त्यु­प­दि­श्यते || ३३८ ||

वस्तुवृत्तेन प्रध्वस्तनिः शेषा­ज्ञा­न­मा­त्मनः |
ज्योती रूपमिदं भास्व­त्प्र­त्य­ङ्भा­त्र­स­त­त्त्व­कम् || ३३९ ||

ज्योतिः संविच्चितिः प्रत्य­ङ्ङा­त्मेति व्यपदिश्यते |
स्वार्थं यत्प्रथते नित्यं जाग्र­त्स्व­र­प्न­सु­षु­प्तिषु || ३४० ||

बुद्ध्यादिषु पारर्थेषउ ह्याग­मा­पा­यि­व­स्तुषु |
स्वयं रूपेण यो भाति स्थास्रुः स्वार्थः स भण्यते || ३४१ ||

ज्योतिरित्यस्य बुद्ध्या­दे­रा­ग­मा­पा­य­सि­द्धिदः |
स्वयंमातृक एवा­य­मा­त्म­त्वा­देव कारणात् || ३४२ ||

अनेनैव यथोक्तेन ज्योतिषा सकलं जगत् |
षड्भा­व­वि­क्रि­या­मेति निर्विकारेण भास्वता || ३४३ ||

अचेतनोऽपि बुद्ध्या­दि­श्चे­त­ना­वा­नि­वे­क्ष्यते ||
देहे­न्द्रि­य­म­नो­बु­द्धि­सं­घातो वायुभिः सह || ३४४ ||

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः |
क्षेत्रं क्षेत्री तथा कृत्स्नं व्यनक्तीति स्मृतेर्वचः || ३४५ ||

आत्मच्छायं पयोऽशेषं यथा मारकतो मणिः |
परीक्षणाय प्रक्षिप्तः कुर्यादात्माल तथैव च || ३४६ ||

बुद्ध्या­दि­दे­ह­प­र्यन्तं प्रत्य­ग­ज्ञा­न­हे­तु­कम् |
जडस्वभावकं नित्यमवभासयति स्वयम् || ३४७ ||

बुद्ध्यादिष्वपि सूक्ष्मेषु यत्सू­क्ष्म­त­म­मु­च्यते |
बुद्ध्यादिकारणं नित्य­मा­त्मा­वि­द्येति भण्यते || ३४८ ||

अपि कूटस्थवपुषः प्रतीचः सङ्गकारकम् |
तत्त्व­म­स्या­दि­वा­क्यो­त्थ­ज्ञा­न­बाध्यं च यद्विदुः || ३४९ ||

यन्निमित्तं च साक्षित्वं कारणत्वं तथाऽऽत्मनः |
सर्व­का­र्य­वि­ना­शेऽपि यद्बीजमवशिष्यते || ३५० ||

तदा­त्म­ज्यो­ति­षेद्धं सन्नि­त्य­मे­वा­व­ति­ष्ठते |
उत्प­त्ति­स्थि­ति­भ­ङ्गानां न वेद्मीति च साक्षितः || ३५१ ||

कूटस्थ एव साक्ष्यत्र स्वमो­हा­भा­स­हे­तुतः |
अवि­चा­रि­त­सं­सिद्धि तमोऽ­नु­भ­व­सं­श्र­यात् || ३५२ ||

निःसाक्षिके न वेद्मीति न कथं­चि­त्प्र­सि­ध्यति |
तथा कूटस्थसंवित्के नितरां नैतदिष्यते || ३५३ ||

ऐश्वर्यं कारणत्वं च साक्षित्वमपि चाऽऽत्मनः |
सदे­शि­त­व्य­का­र्या­र्थ­सा­क्ष्या­र्थे­नास्य संगतेः || ३५४ ||

आत्माज्ञानमतः प्रत्य­क्चै­त­न्या­भा­स­व­त्सदा |
आत्मनः कारणत्वादेः प्रयो­द­ज­क­मि­हे­ष्यते || ३५५ ||

चैत­न्या­भा­स­व­त्प्र­त्य­ङ्भो­हा­न्ता­त्प्र­त्य­गा­त्मनः |
बुद्ध्या­दे­र्वि­ष­या­न्तस्य सिद्धिः स्यात्सा­क्षि­ण­स्ततः || ३५६ ||

स्वका­र­णा­भि­सं­ब­न्धा­च्चै­त­न्या­भा­सता धियः |
जाय­तेऽ­तोऽ­भि­मा­नोऽस्यां जायते महतामपि || ३५७ ||

कार­णा­न­न्त­र­त्वाच्च तथा स्वच्छस्वभावतः |
चैत­न्या­भा­स­व­त्येषा धीः पूर्वमभिजायते || ३५८ ||

तस्मा­दा­त्मा­भि­मानो हि बुद्धौ जनिमतां सदा |
जायते सर्वभूतानामपि सर्वविदामिह || ३५९ ||

चिदाभासोऽथ मनसि बुद्ध्या­न­न्त­र्य­का­र­णात् |
मनः­सं­ब­न्ध­त­श्चै­व­मि­न्द्रि­य­ष्व­भि­जा­यते || ३६० ||

मनः­क­र­ण­सं­ब­न्धा­द्दे­हेऽ­प्य­स्यो­प­जा­यते |
एव­मा­भा­स­य­त्यात्मा कृत्स्नं कार्यं सकारणम् || ३६१ ||

सौक्ष्म्यस्य तारतम्येन स्थितस्य विषयावधि |
आत्माभिमानधीः पुंसां जायते नियता ततः, || ३६२ ||

नित्योऽ­नि­त्या­ना­मिति च येन सूर्यस्तथा परः |
नतत्र सूर्यो भाती­ति­म­न्त्रा­म्नायो ह्यनेकशः || ३६३ ||

आत्मन्येवं प्रबु­द्धेऽ­स्मि­ञ्ज्यो­तिषि ध्वान्तनाशतः |
सर्व­स्यै­वाऽऽ­त्म­या­था­त्म्या­दात्मा पुरुष उच्यते || ३६४ ||

आत्मा­ज्ञा­न­स­मु­च्छित्तौ तज्जस्य न हि वस्तुनः |
प्रत्य­ग्रू­पा­त्पृ­थ­ग्रूपं संभाव्यं केनचित्कचित् || ३६५ ||

स्रग­ज्ञा­न­स­मु­च्छितौ न तज्जस्यान्यतः स्रजः |
रूपं संभा­व्य­तेऽ­ह्या­दे­रे­व­मा­त्म­स्व­रू­पतः || ३६६ ||

न कार्ये कारणे वाऽपि तद­भा­वेऽ­थ­वाऽ­न्यतः |
प्रत्य­ङ्भा­त्रै­क­या­था­त्म्या­द्रूपं संभाव्यतेऽण्वपि || ३६७ ||

अव्या­वृ­त्ता­न­नु­ग­त­प्र­त्य­ङ्भा­त्रा­व­शे­षतः |
पूर्ण­त्वा­त्पु­रुषो ज्योति­रा­त्मै­वै­कोऽ­भि­धी­यते || ३६८ ||

सद्भावेऽपि च भान्वादेः पारा­र्थ्या­द्दे­ह­वन्न तत् |
स्वार्थस्य ज्योतिषोऽभावे भावत्वायापि च क्षमम् || ३६९ ||

देहा­दे­र्व्या­पृ­ति­श्चे­त्स्या­ज्ज­डा­दि­त्या­दि­हे­तुतः |
भवे­न्निः­सा­क्षि­कै­वे­य­म­न्ध­का­र­प्र­नृ­त्त­वत् || ३७० ||

स्वार्था­त्म­ज्यो­ति­षै­वातो भावाभावात्मतां जगत् |
लभते तमृते यस्मा­न्ने­या­त्सं­भा­व­ना­मपि || ३७१ ||

यदेतद्धृदयमिति तथाचाऽऽगमशासनम् |
प्राणिव्यवहृतिः सर्वा प्रत्य­गा­त्मा­भि­मा­नतः || ३७२ ||

सर्वाभिमानहेतुं च चिदाभासं पुराऽब्रवम् |
सम्य­ङ्भा­र­क­त­दृ­ष्टा­न्त­द­र्श­ने­नाऽऽ­त्म­व­स्तुनः || ३७३ ||

यद्यप्येमिदं वस्तु यथोक्तमहिमं परम् | तथाऽपि तज्जागरिते शक्यं दर्शयितुंन तु || ३७४ ||

आत्म­बु­द्धि­म­न­श्च­क्षु­र्वि­ष­या­लो­क­सं­क­रात् |
जाग्रद्भूमौ न तच्छक्यं ज्योति­र्द­र्श­यितुं ततः || ३७५ ||

स्वप्ने बुद्ध्या­द्यु­प­रतौ वासनामात्रशेषतः |
ज्योति­र्द­र्श­यितुं शक्यं स समान इतीर्यते || ३७६ ||

कछं चैवंस्वभावस्य तदज्ञानजभूमिषु |
व्यवहारः प्रतीचोऽस्य स समानाद्यतो वचः || ३७७ ||

ज्योतिर्भ्यो देहतो लिङ्गा­द्बु­द्ध्य­न्ता­च्चा­ति­रे­कतः |
योऽञ्जसा दर्शितस्तस्य विशुद्ध्यै वोत्तरं वचः || ३७८ ||

स्वयंज्योतिः शरी­रा­दे­र्बु­द्ध्य­न्ता­द­नु­मा­नतः |
निष्कृ­ष्या­भि­हितो योऽत्र स समानः स्वमोहतः || ३७९ ||

समान एकः सन्नात्मा स्वात्मा­वि­द्या­त­दु­द्भवैः |
अज्ञा­न­मि­थ्या­वि­ज्ञा­त­प्र­त्य­क्त्वा­दा­त्म­व­स्तुनः || ३८० ||

केनैक इत्यपेक्षायां हृदयेनेति भण्यते |
सधीरिति श्रुतेरत्र हृदीति प्रकृतत्वतः || ३८१ ||

अवि­चा­रि­त­सं­सिद्धि यत्तु बुद्ध्या­दि­का­र­णम् |
कूट­स्था­त्मै­क­चै­त­न्य­बि­म्बितं सत्स्वदोषतः || ३८२ ||

स्वात्मा­वि­द्या­वधिः सोऽयं परः कारणमुच्यते |
साक्षी चेता जग­द्बी­ज­म­न्त­र्या­मीति च श्रुतौ || ३८३ ||

बुद्ध्या­दि­का­र्य­सं­स्थस्य कूट­र­था­स­ङ्ग­रू­पिणः |
सर्वं स्यात्का­र­ण­त्वादि तदा­भा­सै­क­व­र्त्मना || ३८४ ||

चैतन्याभासवपुषा कूट­स्थै­क­त्व­मि­ष्यते |
कारणस्य स्वकार्यैश्च तदबोधसमन्वयात् || ३८५ ||

प्रतीचोऽनवशेषेण कार्यकारणसंगतिः |
तयोस्तु सावशेषेण प्रतीचा संगतिस्त्वियम् || ३८६ ||

नाऽऽत्म­त्वा­द्व्य­ति­रे­कोऽस्य कार्यकारणभूमितः |
न सामान्यं विशेषो वा कार्त्स्न्या­दात्मा ततो भवेत् || ३८७ ||

अनात्मनस्तु या सिद्धिः सा सर्वाऽ­व्य­ति­रे­कतः |
जाड्या­त्सा­पे­क्षतः साऽतो मृषा­सि­द्धि­रु­दा­हृता || ३८८ ||

किं पुनः स्यात्स­मा­न­त्व­मा­त्म­बु­द्ध्या­दि­व­स्तुनोः |
विवेकतोऽननुभवो वराहोरगवत्तयोः || ३८९ ||

यत्तत्तयोः समानत्वं रज्जु­स­र्पा­दि­व­न्म­तम् |
आत्माविद्यैव संब­न्ध­स्त­स्मा­दा­त्मन इष्यते || ३९० ||

अकारकस्वभावस्य पर­मा­र्था­त्म­व­स्तुनः |
अविद्याकल्पितैव स्यात्संगतिः खेऽसितादिवत् || ३९१ ||

कूट­स्था­त्म­चि­दा­भे­दऽस्य प्रत्य­ग्ध्वान्ते हि तद्भवैः |
विष­या­न्तै­र्भ­वे­द्भान्तिः सामानाधिकरण्यतः || ३९२ ||

विकारिणः प्रकाशस्य नील­र­क्ता­दि­सं­गतेः |
नीलादिविक्रिया युक्ता परिणामस्य न त्वसौ || ३९३ ||