अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ पञ्चमाध्यायस्य नवमं ब्राह्मणम् ॥

वद्युद्देहस्य तस्यैव ब्रह्म­णोऽ­न्य­दु­पा­स­नम् ।।
अशे­ष­पा­प्म­वि­ध्वस्त्यै श्रूत्याऽथ प्रतिपाद्यते ।। १ ।।

विद्यु­द्ब्र­ह्मेति युक्तं तद्विद्युद्धि स्याद्विदानतः ।।
द्यतेरेतद्यतो रूप­म­व­ख­ण्ड­न­क­र्मणः ।। २ ।।

तमोऽ­न्ध­का­र­म­खि­ल­म­व­ख­ण्ड­यति क्षणात् ।।
विद्युद्यथा तथाऽस्मत्तः पाप्मानं तदुपासितुः ।। ३ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य नवमं ब्राह्मणम्