अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ प्रथमाध्यायस्य चतुर्थं ब्राह्मणम् ॥ (३)

साव­शे­षा­त्म­नोऽ­कृ­त्स्ना­न्निः­शे­षा­त्म­तया यतः ।।
आत्माऽनात्मन आप्नोति तेनाऽऽ­त्मे­त्य­भि­धी­यते ।। ७४० ।।

स्वचिदाभासमोहेन तदु­त्था­न­खि­ला­न्यतः ।।
आदत्तेऽनात्मनः प्राज्ञे ततश्चाऽऽत्मेति तं विदुः ।। ७४१ ।।

पर आत्मनि सर्वेऽपि संप्रतिष्ठन्त एकले ।।
पृथिव्याद्या अनात्मान इति चाऽऽथर्वणे वचः ।। ७४२ ।।

स्वात्माभासाः पराचीना धीवृ­त्ती­र्वि­ष­यो­न्मुखाः ।।
प्रत्यगत्ति यतोऽ­तोऽ­सा­वा­त्मे­त्युक्तो मनीषिभिः ।। ७४३ ।।

विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् ।।
आनन्दभुक्तथा प्राज्ञ इति चाऽऽगमशासनम् ।। ७४४ ।।

अव्या­वृ­त्ता­न­नु­गतः पूर्णः स्वात्म­न्य­व­स्थितः ।।
यतोऽस्य संततो भाव­स्त­स्मा­च्चाऽऽ­त्मेति शब्द्यते ।। ७४५ ।।

तद्विष्णोरिति मन्त्रोऽपि विष्णोस्तत्परमं पदम् ।।
चक्षुर्वदाततं व्योम्नि व्याचष्टे प्रत्यगात्मनि ।। ७४६ ।।

नानुत्पन्नमतो ज्ञानं नानपास्तं तथा तमः ।।
यथो­क्तै­का­त्म्य­सं­दृ­ष्टा­वतः कार्त्स्न्यं ममाऽऽत्मनः ।। ७४७ ।।

द्रष्ट्ट­द­र्श­न­दृ­श्यानां प्रत्यक्तत्वं यतस्ततः ।।
तद्दृष्टावखिलं दृष्टं रज्जु­स­र्पा­दि­व­द्भ­वेत् ।। ७४८ ।।

स्रग­ज्ञा­नै­क­हे­तूनां स्रग्धिया ज्ञातता यथा ।।
प्रत्य­ङ्भो­ह­ज­व­स्तूनां प्रतीच्यवगते तथा ।। ७४९ ।।

अत्र ज्ञाते यतः सर्व ऐकात्म्यं यान्त्यशेषतः ।।
प्राणादयोऽत आत्मैव द्रष्टव्यः सर्वदर्शनात् ।। ७५० ।।

केचि­द्व्या­च­क्ष­तेऽ­पूर्वे विधिमेतं महाधियः ।।
नियमं त्वपरे धीराः परिसंख्यामथापरे ।। ७५१ ।।

नापू­र्व­वि­धि­रि­त्येष कदाचिदपि गृह्यते ।।
सर्वदैव तु तत्प्रा­प्ते­स्तथा नान्योऽपि कश्चन ।। ७५२ ।।

पुंव्या­पा­रा­न­धी­न­त्वा­न्नेह संभाव्यते विधिः ।।
स्वव्या­पा­रै­क­वि­षयः सर्व एव यतो विधिः ।। ७५३ ।।

संस्थे­म्नेऽ­स्यैव चार्थस्य पूर्व­प­क्षो­क्ति­पू­र्वकः ।।
भाष्यकृद्भिः कृतो यत्नः स आवि­ष्क्रि­य­तेऽ­धुना ।। ७५४ ।।

यथा कार्यानपेक्षस्य प्रामाण्यं वचसः स्फुटम् ।।
ऐका­त्म्य­व­स्तु­नि­ष्ठस्य तथा पूर्वमवादिषम् ।। ७५५ ।।

लिङ्प्र­त्य­य­श्रु­ते­रत्र भ्रान्तिः समुपजायते ।।
यजे­ते­त्या­दि­सा­मा­न्या­द्वि­ध्य­र्थोऽतो विचार्यते ।। ७५६ ।।

सिद्धा­न्तो­प­क्रमः पूर्वं पूर्वपक्षः प्रदर्श्यते ।।
सम्य­ग्नि­र्ज्ञा­त­सि­द्धान्तो यतो वेत्ति बलाबलम् ।। ७५७ ।।

नापूर्वविधिरेष स्यात्प­क्षे­प्रा­प्त­त्व­का­र­णात् ।।
पक्षे प्राप्ति­र्वि­चा­रान्ते वक्ष्यते कारणाश्रयात् ।। ७५८ ।।

नित्य­प्रा­प्ति­मि­हाऽऽ­चष्टे विध्य­र्था­प­नु­नु­त्सया ।।
अप्रा­प्तां­शा­नु­पा­त्येव सर्व एव विधिर्यतः ।। ७५९ ।।

पाक्षि­क्यु­पा­स­न­प्रा­प्ति­र्नित्या वेति च लिङ्गतः ।।
विवक्षिता भाष्यकृतो नित्य­प्रा­प्ति­रि­ती­क्ष्यते ।। ७६० ।।

यत्सा­क्षा­दि­ति­वा­क्यो­त्थ­प्र­त्य­ग्या­था­त्म्प­ले­हिना ।।
ज्ञानेन तमसो दाहात्कुतो विध्यर्थसंभवः ।। ७६१ ।।

कार­का­ण्यु­प­मृ­द्गाति विद्या बुद्धिमिवोषरे ।।
कार­क­त्व­म­वि­द्योत्थं स्वत­श्चा­का­र­का­त्मता ।। ७६२ ।।

यद­ज्ञा­ना­त्प्र­वृ­त्तिर्या तज्ज्ञाने सति सा कुतः ।।
न हीहा­पा­स्त­नि­द्रोऽपि सुप्त­व­त्स्व­प्न­मी­क्षते ।। ७६३ ।।

यद्धि यस्य स्वतो रूपं न तत्प्रा­प्ता­व­पे­क्षते ।।
क्रियां मोह­नि­मि­त्त­त्वा­द­पेक्षा कर्त्रपह्नवे ।। ७६४ ।।

न च संमोहविध्वस्तौ यथावस्त्ववबोधतः ।।
सम­र्थ­म­न्य­त्प­श्यामः क्रिया­का­र­क­रू­प­कम् ।। ७६५ ।।

स्वाध्या­या­धी­ति­वि­धिना ज्योति­ष्टो­मा­दि­बो­ध­वत् ।।
सदा प्राप्ताऽऽ­त्म­वि­द्याऽपि नातो विधिरिहेष्यते ।। ७६६ ।।

देहे­न्द्रि­य­म­नो­बु­द्धि­स­र्व­व्या­पा­र­भा­सिनः ।।
लिङ्ग­त­श्चा­व­से­य­त्वान्न संभाव्यो विधिस्ततः ।। ७६७ ।।

तथाऽ­हं­प्र­त्य­या­त्सा­क्षा­दा­त्म­या­था­त्म्य­नि­श्चितेः ।।
असं­भ­वा­द­सं­प्राप्तेः कुतो विधिरिहेष्यते ।। ७६८ ।।

नन्वि­हाऽऽ­त्मा­र्थ­सं­दृ­ष्टा­व­हं­प्र­त्य­य­ग­म्यता ।।
पाक्षिकीति ततोऽ­प्रा­प्ते­र्भ­वे­न्नै­य­मिको विधिः ।। ७६९ ।।

पाक्षिकी ताव­द­त्राऽऽ­स्ता­मै­का­त्म्या­र्था­व­ले­हिनः ।।
ज्ञानस्य प्राप्ति­र्नित्या वेत्य­स्त्व­पूर्वो विधिः स्फुटः ।। ७७० ।।

एका­र्थो­ल्ले­खि­वृ­त्ती­ना­मा­ता­दा­त्म्या­भि­मा­नतः ।।
आम्रेडनं हि शब्दार्थः सर्व­त्रो­पा­स­न­श्रुतेः ।। ७७१ ।।

न पश्यन्तीत्यतो लिङ्गा­ज्ज्ञा­न­मेव विधित्सितम् ।।
न तूपासनमिति चेन्मै­व­मै­का­र्थ्य­का­र­णात् ।। ७७२ ।।

सर्वत्रैकार्थता दृष्टा वेदोपासनशब्दयोः ।।
यथाऽन्यत्र तथेहापि कस्मा­न्ना­ध्य­व­सी­यते ।। ७७३ ।।

रश्मींस्त्वं पर्यावर्तयादिति चाऽऽवर्तनात्मकः ।।
विधिः श्रुतः श्रुतौ स्पष्टस्ततश्च फलसंगतिः ।। ७७४ ।।

देवो भूत्वेति देवांश्च सदा तद्भावभावितः ।।
देवप्राप्तिं श्रुतिः प्राह भाव­ना­ब­ल­सं­श्र­यात् ।। ७७५ ।।

स योऽत इत्युपक्रम्य ह्युपासनगिरैव तु ।।
अन्त आत्मेत्युपासीत तथै­वो­पा­स­न­श्रुतेः ।। ७७६ ।।

प्रवृत्तौ चोपसंहारे तथै­वो­पा­स­न­श्नुतेः ।।
वेदे­त्यु­पा­स­ना­र्थ­त्व­म­स्या­प्य­भ्यु­प­ग­म्यते ।। ७७७ ।।

तथैतत्सर्वे वेदेति यत्र यत्र श्रुतिर्भवेत् ।।
अभ्यासस्य तदाऽ­प्रा­प्ते­र­पू­र्व­वि­धि­रि­ष्यते ।। ७७८ ।।

वस्तु­स्व­रू­पा­न्वा­ख्याने न च कश्चि­त्प्र­व­र्तते ।।
तज्ज्ञा­न­ज­न्म­मा­त्राच्च पुरुषार्थोऽपि नेष्यते ।। ७७९ ।।

यादृक्कर्मविधे रूप­मा­त्म­ध्या­न­वि­धे­रपि ।।
तादृगेव विशेषोऽत्र न मनागापि गम्यते ।। ७८० ।।

कुतोऽविशेष इति चेदत आह यथा तथा ।।
मानस्येव क्रिया यस्मा­द­वि­शि­ष्टो­भ्यो­रपि ।। ७८१ ।।

वष­ट्क­रि­ष्यंस्तां ध्यायेदिति यद्वद्विधीयते ।।
मानस्येव क्रिया तद्व­दा­त्मा­र्थो­पा­स­ने­ष्वपि ।।७८२ ।।

भावनांशत्रयं यस्मा­दु­पा­स­न­वि­धा­वपि ।।
संभाव्यतेऽतो विज्ञेयो यजे­ते­त्या­दि­व­द्विधिः ।। ७८३ ।।

स्वाध्यायस्य विधिर्ब्रूते लिङा­द्या­त्मा­न­मेव च ।।
विधि­प्र­श­स्त­ज्ञा­नाभ्यां कुरुध्वं पुंस्प्रवर्तनम् ।। ७८४ ।।

करणांशो विधिज्ञानं किमंशः पुंस्प्रवर्तनम् ।।
इतिकर्तव्यता चात्र ह्यर्थ­वा­द­प्र­शं­स­नम् ।। ७८५ ।।

प्रवृत्तस्य ततः पुंसः करणं याग इष्यते ।।
स्वर्गादिश्च किमंशः स्यात्प्र­या­जा­दि­स्तथा परः ।। ७८६ ।।

यथा तत्र तथेहापि शास्रेणैव समर्प्यते ।।
अंशत्रयमतो युक्त­म­पू­र्व­वि­धि­रेव तु ।। ७८७ ।।

किमंश आत्मा विज्ञेयः करणांशस्तथा मनः ।।
इतिकर्तव्यता त्याग­ब्र­ह्म­च­र्या­दि­सा­ध­नम् ।। ७८८ ।।

कृत्स्न­प्र­क­र­णा­र्थस्य ज्योति­ष्टो­मा­दि­गा­मिनः ।।
विध्युद्देशतया यद्व­दु­प­यो­ग­स्त­थैव च ।। ७८९ ।।

उपा­सा­वि­ध्य­पे­क्षस्य प्रक्रि­या­प­ति­तस्य च ।।
आत्मा­र्थो­पा­स­न­वि­धि­देशे तद्विनियोज्यते ।। ७९० ।।

अत्रा­स्थू­ला­दि­वा­क्या­ना­मु­पा­स्या­र्थ­स­म­र्पणे ।।
उपयोगः फलं मोक्षस्तमसो वस्त्वपह्नुतिः ।। ७९१ ।।

संप्र­दा­य­वि­द­स्त्वन्ये यथा­व­च्छा­स्र­च­क्षुषा ।।
व्याचक्षते महात्मानो यथा तदभिधीयते ।। ७९२ ।।

विधिशून्यस्य वाक्यस्य न प्रामाण्यं किलेष्यते ।।
नियो­गा­नु­प्र­वे­शेन यतो वस्त्ववबोध्यते ।। ७९३ ।।

नानु­वा­द­स्व­रू­पस्य निरस्तविधिकस्य हि ।।
सापेक्षस्येह वचसः प्रामा­ण्य­मु­प­प­द्यते ।। ८९४ ।।

क्रियैव ननु सर्वत्र तत्र तत्र विधीयते ।।
स्वव्यापारे हि विधिना नियोक्तुं शक्यते यतः ।। ७९५ ।।

द्रव्य­स्व­रू­पेऽ­सा­ध्य­त्वा­द्विधिः कथमिहेष्यते ।।
न हि सिद्धस्य साध्यत्वं निपुणेनापि गम्यते ।। ७९६ ।।

न चाऽऽत्मविषयं ज्ञानं वेदान्तेषु विधीयते ।।
तस्य विध्य­न्त­रा­त्सि­द्धे­र्वे­दा­न्त­स्या­नु­वा­दता ।। ७९७ ।।

स्वाध्या­या­धी­ति­वि­धिना ज्योति­ष्टो­मा­दि­बो­ध­वत् ।।
वेदा­न्ता­र्था­व­बो­धोऽपि तेनैवेह समापितः ।। ७९८ ।।

स्यादे­त­त्फ­ल­सं­बन्धो नियोगविरहाद्यदि ।।
प्रत्य­ग्ज्ञा­नस्य लभ्येत न त्वसौ लभ्यते तथा ।। ७९९ ।।

पुमर्थकारिता बुर्द्ध­र्नि­यो­गा­देव लभ्यते ।।
नात­स्त­न्नि­र­पे­क्षस्य प्रामाण्यं वचसो भवेत् ।। ८०० ।।

नैका­त्म्य­व­स्तु­सं­व्या­प्ति­व्य­ति­रे­केण किंचन ।।
फलं स्यादात्मबोधस्य यथा कर्मफलं तथा ।। ८०१ ।।

अत्रो­च्य­तेऽ­न्य­दे­वेदं विज्ञा­ना­न्त­र­मा­त्म­गम् ।।
विधीयते सहोपायं वेदा­न्तो­क्ति­प्र­बो­धतः ।। ८०२ ।।

न हि वाक्यसमुत्थेन ब्रह्मा­वा­क्या­र्थ­रू­प­कम् ।।
विज्ञानेन परिच्छेत्तुं शक्यते कर्मवत्क्वचित् ।। ८०३ ।।

नाना­प­दा­र्थ­सं­सृ­ष्ट­रूपं शब्दात्प्रजायते ।।
विज्ञानं तेना­वा­क्या­र्थ­रूपं नैव च गम्यते ।। ८०४ ।।

शब्दस्वभाव एवैष संसृ­ष्टा­र्था­व­बो­ध­नम् ।।
ब्रह्मा­सं­सृ­ष्ट­रू­प­त्वा­त्ते­नातो नावगम्यते ।। ८०५ ।।

वाक्यं चाती­न्द्रि­या­र्थेषु प्रमाणमिति निश्चितम् ।।
तस्या­प्य­वि­ष­य­त्वा­त्त­द्वि­ज्ञा­ना­न्त­र­गो­चरः ।। ८०६ ।।

न चेद्वा­क्यो­त्थ­वि­ज्ञा­न­प­रि­च्छेद्यं तदिष्यते ।।
नाऽऽम्नायार्थो भवेत्तर्हि नैवं वेदार्थ एव हि ।। ८०७ ।।

अपि चाधी­य­तेऽ­त्रार्थे वेद­वा­क्या­न्य­ने­कशः ।।
प्रज्ञां कुर्वीत विज्ञा­ये­त्ये­व­मा­दीनि यत्नतः ।। ८०८ ।।

मुमु­क्षु­पु­रु­षा­र्थस्य मोह­मा­त्रा­न्त­रा­यतः ।।
ज्ञाना­त्का­र्या­न्त­रा­भा­वा­न्नै­त­त्सा­ध्व­भि­धी­यते ।। ८०९ ।।

विधेर्हि तत्र साफल्यं यत्र वाक्योत्थबोधतः ।।
व्यति­रे­का­द­नु­ष्ठेयः पदार्थः कश्चिदिष्यते ।। ८१० ।।

यथाऽ­ग्नि­हो­त्र­या­था­त्म्य­वि­ज्ञा­न­व्य­ति­रे­कतः ।।।
प्रयोगात्मा पृथक्तादृङ्नेह कश्चिदपीक्ष्यते ।। ८११ ।।

उत्पत्त्यादौ हि साध्येऽर्थे पुंव्या­पृ­ति­र­पे­क्ष्यते ।।
उत्प­त्त्या­दि­वि­रु­द्ध­त्वा­न्मु­क्ते­र्ना­न्य­व्य­पे­क्षिता ।। ८१२ ।।

उत्पत्त्यादि स्वतो नो चेत्किं मुक्तौ कर्मणः फलम् ।।
उत्पत्त्यादि स्वत­श्चे­त्स्यात्किं मुक्तौ कर्मणा वद ।। ८१३ ।।

उत्पत्त्यादौ तु यच्छक्तं हेतु­मा­त्र­म­पे­क्षते ।।
तस्य कर्मव्यपेक्षा स्यान्नान्यथा तदपेक्षते ।। ८१४ ।।

प्रवृत्त्या स्वात्म­सि­द्ध्यर्थं कारकं सदपेक्षते ।।
कारकाणां क्रियापेक्षा नोभ­या­पे­क्षि­ताऽऽ­त्मनि ।। ८१५ ।।

संभा­वि­ता­त्म­क­र्तृत्वो ब्राह्म­ण्या­द्य­धि­का­र­वान् ।।
विधिश्रुतेः प्रवर्तेत न तु प्लुष्टतदन्वयः ।। ८१६ ।।

अपू­र्वा­न­प­रा­बाह्यं ब्रह्मास्मीति विजानतः ।।
कारकत्वं न संभाव्यं तन्मो­ह­वि­र­हा­त्क­चित् ।। ८१७ ।।

आत्मनो ब्रह्मता यत्र ब्रह्म­णोऽ­प्या­त्मता स्वतः ।।
तत्त्व­म­स्या­दि­वा­क्यो­त्थ­बो­धा­च्चे­त्कि­मि­ती­हते ।। ८१८ ।।

अब्र­ह्मा­ना­त्म­वि­ज्ञा­न­मो­हो­त्थ­ध्वं­स­हे­तुतः ।।
प्रत्य­ग्या­था­त्म्य­बो­धस्य कुतोऽमूढः प्रवर्तते ।। ८१९ ।।

तत्र को मोह इत्येवं मन्त्रवर्णोऽपि नो जगौ ।।
संसारासंभवं साक्षा­दे­क­त्व­म­नु­प­श्यतः ।। ८२० ।।

वाध्य­बा­ध­क­भा­वाच्च प्रत्य­ङ्भो­ह­प्र­बो­धयोः ।।
सहा­व­स्था­न­ता­भा­वा­त्प्र­वृत्तेः स्यादसंभवः ।। ८२१ ।।

मतं वाक्यो­त्थ­वि­ज्ञा­न­मा­त्रा­च्चेन्न निराकृतिः ।।
अब्र­ह्मा­ना­त्म­वि­ष­य­मो­ह­स्येति न तत्तथा ।। ८२२ ।।

तत्त्व­म­स्या­दि­वा­क्यानां ताव­न्मा­त्रा­व­बो­ध­नात् ।।
अर्थान्तरं स संभाव्यं वाक्य­वा­क्या­र्थ­वे­दिना ।। ८२३ ।।

अस्थू­ला­द्य­र्थ­शं­सीनि द्रष्ट­व्या­दि­वि­धे­र्यदि ।।
सम­र्प­ये­यु­र्वि­ष­य­मि­त्ये­त­दपि नेष्यते ।। ८२४ ।।

मुक्त्य­न्त­रा­य­सं­मो­ह­वि­ध्वं­स्यै­का­त्म्य­बो­धतः ।।
न तद­र्था­न्त­रा­भा­वा­दिति पूर्वमवादिषम् ।। ८२५ ।।

प्रत्य­ग्या­था­त्म्य­व्या­ख्या­न­मा­त्रे­णैव विना विधिम् ।।
न प्रवर्तेत वाक्या­र्थ­सं­बो­धा­येति चेन्मतम् ।। ८२६ ।।

नाऽऽत्म­या­था­त्म्य­सं­बो­धि­वा­क्य­श्र­व­ण­मा­त्रतः ।।
प्रत्य­क्त­त्त्व­धियः सूतेः किम­न्य­द्वि­धि­ने­ष्यते ।। ८२७ ।।

अन्तरेण विधिं वाक्यश्रवणायापि नेहेते ।।
इति ब्रुवाणं प्रब्रू­या­द­निष्टं श्रूयते कुतः ।। ८२८ ।।

अन­व­स्था­प्र­स­क्तिश्च तत्र तत्र प्रसङ्गतः ।।
विध्यन्तरस्येति ततो यथो­क्तोऽ­र्थोऽ­व­सी­य­ताम् ।। ८२९ ।।

यथाऽऽ­त्म­वा­दि­वा­क्या­र्थ­श्रु­तये न प्रवर्तते ।।
विधिवाक्यमृते तद्व­द्वि­ध्य­र्थ­श्र­व­णेऽपि न ।। ८३० ।।

मतं वाक्यो­त्थ­वि­ज्ञा­न­स्मृ­ति­सं­ता­नता यदि ।।
केव­लो­क्ति­श्र­वो­द्भू­त­ज्ञा­ना­द­र्था­न्तरं स्फुटम् ।। ८३१ ।।

नैवं साक्षा­द्य­था­व­स्तु­बो­ध­स्यै­वेह संभवात् ।।
नित्यं संनिहिते तस्मिं­स्त­त्स्मृत्या किं प्रयोजनम् ।। ८३२ ।।

अपि पाशुपतास्रेण विद्धश्चेन्न ममार यः ।।
निष्फ­ले­षु­वि­तु­न्नाङ्गो नङ्क्ष्य­ती­त्य­ति­दु­ष्क­रम् ।। ८३३ ।।

अपि प्रत्यक्तमो नित्यं भास्व­च्चै­त­न्य­वि­म्बि­तम् ।।
बुद्धि­त­द्वृ­त्त­य­श्चैवं तप्रा­यो­वि­स्फु­लि­ङ्ग­वत् ।। ८३४ ।।

प्राग­प्य­ना­त्म­सं­पा­ता­त्प्र­ती­चै­वाऽऽ­प्त­मे­य­कम् ।।
जन्मनैवाखिलं ज्ञानं फलवत्किमपेक्षते ।। ८३५ ।।

मात्रा­दि­व्य­व­धा­नेन यथाऽन्यत्र मितेः फलम् ।।
फलतोऽवगतेरेव न तथे­हाऽऽ­त्म­द­र्शने ।। ८३६ ।।

खपूर्ण एव सन्कुम्भो द्रव्यै­र्ना­ना­वि­धै­र्यु­तिम् ।।
वियोगं वा यथा गच्छे­च्चै­त­न्ये­द्धा­स्तथा धियाः ।। ८३७ ।।

तस्मा­दा­वृ­त्ति­प­क्षेऽपि स्वत­स्त­त्सि­द्धितो विधिः ।
नापूर्वः कश्चिदत्र स्यादत एवापरोऽपि न ।। ८३८ ।।

अशब्दाद्यात्मकं साक्षा­न्नि­चा­य्याऽऽ­त्मा­न­मे­क­लम् ।।
मुच्यते मृत्युतो विद्वानिति नैगमिकं वचः ।। ८३९ ।।

आत्मन्यवगते साक्षा­त्प्र­मा­णा­र्थ­स­मा­प्तितः ।।
किम­न्य­त्स्मृ­ति­सं­ता­ना­त्प्रा­र्थ्यते निष्प्रमाणकम् ।। ८४० ।।

भवि­ष्य­त्का­ल­सं­वन्धि फलं चेह न नाकवत् ।।
तज्ज्ञा­न­ज­न्म­का­ल­त्वा­द­ग्नि­ज­न्मो­त्थ­का­र्य­वत् ।। ८४१ ।।

अविधिश्चार्थतः प्राप्ते­स्त­ज्ज्ञा­न­स्मृ­ति­सं­स­ततेः ।।
बोधाच्च ध्वस्तसंमोहः स्मृतिं नैव व्यपेक्षते ।। ८४२ ।।

सम्य­ग्ज्ञा­ना­ग्नि­नि­र्दग्धे प्रत्यङ्भोहे सवान्धवे ।।
यथावस्तुस्मृतिं मुक्त्वा स्मृति­र्ना­न्याऽ­व­शि­ष्यते ।। ८४३ ।।

प्रमा­न­नु­वि­धा­नाच्च न स्मृति­र्बा­धि­काऽ­परा ।।
बाध्यत्वेनैव माबु­द्धे­र्नि­ष्ठि­ताऽ­भू­द­ना­त्मधीः ।। ८४४ ।।

बाध्यं तमो मितेः कृतस्नं तज्जं चाप्यतिदुर्वलम् ।।
मानं बाध­क­मे­वाऽऽ­सी­त्स्मृ­ति­र­प्य­न­यो­स्तथा ।। ८४५ ।।

न स्मृति­र्वि­स्मृ­ति­र्वेह संभाव्येतापि केनचित् ।।
सकृद्विभातो ह्येवैष रवौ रात्र्यहनी यथा ।। ८४६ ।।

अन­र्थ­हे­तु­दा­हि­त्वा­द्य­थो­क्ता­त्म­स्मृ­ते­रतः ।।
आत्मस्मृतेः स्वतः प्राप्ति­रि­त­र­स्यास्तु बाध्यता ।। ८४७ ।।

निरोधस्तर्हि पूर्वो­क्ता­न्म­त­म­र्था­न्तरं यदि ।।
तन्त्रान्तरेषु तस्यापि कार्यत्वेन श्रुतत्वतः ।। ८४८ ।।

न, मुक्तिसाधनत्वेन तस्या­म­धि­ग­मा­च्छ्रुतेः ।।
प्रत्य­ग्वो­धा­त्परं नान्य­न्मु­क्ते­र­स्तीह साधनम् ।। ८४९ ।।

अन­नु­ष्ठे­य­रू­प­त्वा­त्त­त्सि­द्धि­श्चाऽऽ­त्म­वो­धतः ।।
प्रत्यग्ज्ञाने निरुध्यन्ते चित्ततद्वृत्तयो यतः ।। ८५० ।।

अभ्यु­पे­त्यै­त­द­स्मा­भि­रु­च्यते संभवादिति ।।
सम्य­ग्ज्ञा­ना­ति­रे­केण न त्वन्य­न्मु­क्ति­सा­ध­नम् ।। ८५१ ।।

श्रुतौ स्मृतौ वा संभाव्यं ताभ्यां नान्यस्य मानता ।।
प्रत्या­ग्या­था­त्म्य­नि­र्णीतौ तार्कि­को­क्ता­त्म­व­स्तु­वत् ।। ८५२ ।।

सर्वा­का­ङ्क्षै­क­हे­तोश्च प्रत्य­ग्वि­ज्ञा­न­हा­नतः ।।
न भावनेह संभाव्या मोहे सत्येव सा यतः ।। ८५३ ।।

माना­न्त­रा­न­धि­ग­तो­क्त्य­र्था­धि­गम एव नः ।।
विधिर्यतो नियोगोऽपि नैव स्यादनृतन्त्रतः ।। ८५४ ।।

नियो­ज्य­त­द्वि­ष­य­यो­र्यत्र भेदोऽवसीयते ।।
विषयः स नियोगस्म नाऽऽत्मज्ञाने त्वभेदतः ।। ८५५ ।।

शब्दो लिङादिशून्योऽपि ह्यवि­ज्ञा­ता­र्थ­बो­धकः ।।
विधिर्भवति साम­र्थ्या­ज्ज्ञाते ह्यर्थेऽनुवादता ।। ८५६ ।।

यतो वाचोऽभिधानानि प्रयु­क्ता­न्यु­प­ल­ब्धये ।।
सर्वा­ण्य­न­भि­धा­यैव निव­र्त­न्तेऽ­व­वोध्य च ।। ८५७ ।।

उदपादि च यच्छ­ब्दै­र्ज्ञा­न­मा­का­र­ब­द्धियः ।।
स्वतोबुद्धं तदप्राप्य नाम्ना सह निवर्तते ।। ८५८ ।।

माहा­त्म्य­मे­त­च्छ­ब्दस्य यदविद्या निरस्यति ।।
सुषुप्त इव निद्राया दुर्बलत्वाच्च बाधते ।। ८५९ ।।

दुर्ब­ल­त्वा­द­वि­द्याया आत्म­त्वा­द्बो­ध­रू­पिणः ।।
शब्द­श­क्ते­र­चि­न्त्य­त्वा­द्वि­द्मस्तं मोहहानतः ।। ८६० ।।

अगृहीत्वैव संब­न्ध­म­भि­धा­ना­भि­धे­ययोः ।।
हित्वा निद्रां प्रबुध्यन्ते सुषुप्ते बोधिताः परैः ।। ८६१ ।।

जाग्रद्वन्न यतः शब्दं सुषुप्ते वेत्ति कश्चन ।।
ध्वस्तेऽतो ज्ञानतोऽज्ञाने ब्रह्मास्मीति भवेत्फलम् ।। ८६२ ।।

अविद्याघातिनः शब्दाद्याऽहं ब्रह्मोति धीर्भवेत् ।।
नश्यत्यविद्यया सार्धं हत्वा रोगमिवौषधम् ।। ८६३ ।।

अवशिष्टं स्वतोबुद्धं शुद्धं मुक्तमतो भवेत् ।।
नातः स्याद्भा­व­ना­पेक्षा नापि मानान्तरं प्रति ।। ८६४ ।।

क्रिया­प्र­भे­द­वि­र­हा­ज्ज्ञानं वा निखिलं तमः ।।
हन्त्या­त्म­ला­भ­मा­त्रेण न तदन्या तमोह्नुतिः ।। ८६५ ।।

क्रिया­त­त्फ­ल­यो­र्भे­दान्न भेदः क्रिययोरतः ।।
प्रत्य­ग्ध्वा­न्त­मतो ज्ञानं स्वात्मलब्ध्यैव हन्ति तत् ।। ८६६ ।।

निष्पन्नोऽपि कुठारादिः प्रयो­ग­वि­र­हा­द्यथा ।।
द्वैधीभावाय नैवालं तथा नैव प्रमाणधीः ।। ८६७ ।।

अलौ­कि­क­त्वा­द्वो­ध्यस्य स्वत­श्चा­व­ग­मा­त्मनः ।।
बोध्ये हि लौकिकेऽपेक्षा परतोऽवगतौ तथा ।। ८६८ ।।

नद्यास्तीरे फलानीव प्रत्य­क्षा­द्य­न­पे­क्षतः ।।
किमि­वे­हा­न्य­मा­नेषु तवा­पे­क्षाऽ­भि­धा­श्रुतेः ।। ८६९ ।।

प्रमाता च प्रमाणं च प्रमेयो निश्चितिस्तथा ।।
यत्सां­नि­ध्या­त्प्र­सि­ध्यन्ति तत्सिद्धौ किमपेक्षते ।। ८७० ।।

जाग्र­त्स्व­प्न­सु­षु­प्तेषु घटोऽयमिति संविदः ।।
व्यवधानं न चेहास्ति तद्भा­वा­भा­व­सा­क्षितः ।। ८७१ ।।

इदमेवमिदं नैवमिति बुद्धि­र्वि­भा­ग­भाक् ।।
अना­त्मि­काऽऽ­त्म­व­त्यत्र येनासौ किमपेक्षते ।। ८७२ ।।

कर्त्रा­दि­व्या­पृतेः पूर्व­म­सं­की­र्ण­मु­पा­धिभिः ।।
अवि­क्षि­प्त­म­सं­सुप्तं ह्यनु­भ­व­न्कि­म­पे­क्षते ।। ८७३ ।।

प्रमाणमप्रमाणं च प्रमाभासस्तथैव च ।।
कुर्वन्त्येव प्रमां यत्र तदसंभावना कुतः ।। ८७४ ।।

प्रामा­ण्य­मे­त­त्पृ­ष्ठेन कस्मा­न्ना­स्त्य­भि­था­श्रुतेः ।।
नियोगस्यापि मानत्वं नानपेक्ष्य प्रमामिमाम् ।। ८७५ ।।

पश्ये­दा­त्मा­न­मि­त्यादि वाक्यं यत्स्या­द्वि­धा­य­कम् ।।
ज्ञान­क­र्त­व्य­तायां तन्नियोज्य पुरुषं प्रति ।। ८७६ ।।

स्वव्या­पा­रेऽ­न­पे­क्ष्यैव वस्तुवृत्तं वचो यतः ।।
नियुङ्के पुरुषं तस्मा­द्व­स्तु­वृत्तं सुदुर्लभम् ।। ८७७ ।।

स्वश­क्त्य­न­नु­रूपं चेत्कार्यं वाक्यशतैरपि ।।
नियुक्तोऽपि न तत्कर्तुमलं शक्ये स हीश्वरः ।। ८७८ ।।

अभि­धा­श्रु­ति­श्चे­त्त­त्सिद्धौ व्यायच्छेत प्रयत्नतः ।।
विधि­व­र्त्मा­नु­गा­मि­त्वा­न्ना­र्थ­स्पृ­क्साऽ­स्व­त­न्त्रतः ।। ८७९ ।।

स्वमांसान्यपि खादन्ति नियो­गा­न­ति­ल­ङ्घिनः ।।
जहत्यपि प्रिया­न्प्रा­णा­ञ्श­क्य­त्वा­देव नान्यतः ।। ८८० ।।

अशक्ये विनियुक्तोऽपि कृष्ण­ला­ञ्श्र­प­ये­दिति ।।
सर्वा­त्म­नाऽ­प्यसौ कुर्व­न्कु­र्या­त्त­स्क­र­क­न्दु­वत् ।। ८८१ ।।

ज्ञानस्य वस्तु­त­न्त्र­त्वा­न्नो­पा­स­न­स­मु­त्थितिः ।।
न चाऽऽवृत्त्या प्रमोत्पत्तिं प्रमाणानि प्रकुर्वते ।। ८८२ ।।

नार्थ­स्पृ­ग्भा­वना चेत्स्या­ह्ब्र­ह्म­धी­ज­न्मने न सा ।।
शुक्ति­का­ज्ञा­न­सं­भूतौ न स्वभ्यस्ताऽपि रूप्यधीः ।। ८८३ ।।

द्रष्ट­व्य­श्चे­द्भ­वे­दात्मा स्यान्नि­यो­ग­स्त­थाऽऽ­त्मनि ।।
निषे­धा­द्द­र्श­न­स्येह न नियोगोऽस्त्यतः परे ।। ८८४ ।।

मनुते यन्न मनसा मतं येन मनः सदा ।।
ब्रह्म विद्धि तदेव त्वं न त्विदं यदुपासते ।। ८८५ ।।

शुङ्गग्राहिकया श्रुत्या ब्रह्मताऽपोदिता स्फुटम् ।।
उपा­स्य­त्वै­क­दो­षेण नियोगोऽतोऽत्र नेष्यते ।। ८८६ ।।

ज्ञाता­ज्ञा­ता­प­नि­हुत्या ज्ञातृ­भा­वा­दि­सा­क्षिणः ।।
ब्रह्म विद्धि तदेवेति ब्रह्मता च समर्पिता ।। ८८७ ।।

वाक्या­र्थ­ज्ञा­न­काले यः पदार्थो नैव विद्यते ।।
कर्तव्यः कारकापेक्षो विधेयः स न संशयः ।। ८८८ ।।

विपरीतस्ततो यस्तु वाक्यादेव च गम्यते ।।
नित्योऽ­क­र्म­प्र­युक्तः स न विधेयः कथंचन ।। ८८९ ।।

यथावस्तु हि या बुद्धिः सम्यग्ज्ञानं तदेव नः ।।
पौरु­षा­या­स­मा­त्रो­त्थ­म­ज्ञानं रजतादिवत् ।। ८९० ।।

वस्तु­मा­त्रा­नु­रो­धि­त्वा­त्स­म्य­ग्ज्ञा­नस्य दुष्करम् ।।
नियो­गा­नु­प्र­वे­शेन वस्तु­त­त्त्वा­व­बो­ध­नम् ।। ८९१ ।।

अभिधेयं न यद्व­स्तु­प्र­त्य­यश्च न ढौकते ।।
नियुक्तोऽपि नियोगेन तादृ­ङ्नै­वे­क्षितुं क्षमः ।। ८९२ ।।

अपि माना­न्त­र­प्राप्तं वस्तुवोधं निवर्तयेत् ।।
नियो­गा­र्था­नु­रो­धेन यदि वस्त्ववबोध्यते ।। ८९३ ।।

माना­न्त­रो­त्थ­वि­ज्ञा­न­प्रा­प्ता­बेव नियुज्यते ।।
नियोगादेव तद्बुद्धौ नियोगत्वं भवेद्यतः ।। ८९४ ।।

भाव्य­तेऽ­स­न्न­पी­हा­र्थ­स्त­स्या­न्यत्र प्रसिद्धितः ।।
ब्रह्म­ण­स्त्व­प्र­सि­द्ध­त्वा­त्क्रि­य­तेऽ­सू­त्रकः पटः ।। ८९५ ।।

क्रिय­तेऽ­लौ­कि­कोऽ­प्यर्थः पदा­र्था­न्व­य­रू­पतः ।।
अवा­र्क्या­था­त्मकं ब्रह्म तेनादो दुष्करं मतम् ।। ८९६ ।।

अवा­क्या­र्था­त्मकं ब्रह्म कुतोऽज्ञायीति कथ्यताम् ।।
वाक्यातिरेकि तन्मानं नान्य­त्किं­चि­त्त्व­ये­ष्यते ।। ८९७ ।।

अथान्यदपि तन्मानं भव­ताऽ­भ्यु­प­ग­म्यते ।।
तावतैव कृता­र्थ­त्वा­द्व्यर्थं ध्याना­दि­चे­ष्टि­तम् ।। ८९८ ।।

निदि­ध्या­स­न­श­ब्देन सम्यग्ज्ञानं विवक्षितम् ।।
उक्तानुवचने तस्य विज्ञा­ने­ने­ति­नि­र्ण­यात् ।। ८९९ ।।

ब्रह्म संसर्गरूपं चेद्वा­क्या­द­ध्य­व­सी­यते ।।
ताव­न्मा­त्र­प्र­मा­ण­त्वा­त्ता­दृ­गे­वास्तु तन्मितेः ।। ९०० ।।

यादृक्तद्गम्यते माना­त्त­त्ता­दृ­ङ्नेति गीःकुतः ।।
अमानात्कल्प्यते यादृ­क्त­त्त­थै­वेति साहसम् ।। ९०१ ।।

घटाकाशो महाकाश एव­मा­द्यु­क्ति­तोऽपि नः ।।
असं­सृ­ष्टा­र्थ­बोधः स्याद्यथैवं सदसीत्यतः ।। ९०२ ।।

विज्ञाय प्रज्ञामित्यस्य न चार्थोऽयं विवक्षितः ।।
यथा तथाऽतियत्नेन तत्रै­वै­त­त्प्र­व­क्ष्यते ।। ९०३ ।।

स्वरू­पा­नू­क्ति­मा­त्र­त्वा­द­प्रा­माण्यं मतं यदि ।।
तत्त्व­म­स्या­दि­वा­क्यानां सोऽरो­दी­दि­ति­वा­क्य­वत् ।। ९०४ ।।

प्रामा­ण्य­हे­तु­स­द्भा­वा­न्ना­प्रा­मा­ण्य­मि­हे­ष्यते ।।
फल­व­न्नि­श्चि­त­ज्ञा­न­जन्म प्रामाण्यकारणम् ।। ९०५ ।।

तादृग्यत्रास्ति तन्मानं, नास्ति यत्र न नन्मितिः ।।
तत्त्व­म­स्या­दि­वा­क्या­र्थ­श्र­व­णा­न­न्तरं न किम् ।। ९०६ ।।

फल­व­न्नि­श्चि­त­ज्ञा­न­जन्म साक्षा­त्स­मी­क्ष्यते ।।
तस्मि­न्स­त्य­प्र­मा­णत्वं किमिवेहोच्यते त्वया ।। ९०७ ।।

सोऽरोदीदिति वाक्येभ्यो निश्चितं फलवच्च किम् ।।
जायते यदि विज्ञानं प्रामाण्यं केन वार्यते ।। ९०८ ।।

अथ नैतदमानत्वं काममस्तु न वार्यते ।।
फल­व­न्नि­श्चि­त­ज्ञा­न­ज­न­कस्य किमागतम् ।। ९०९ ।।

अथै­त­स्या­प्र­मा­णत्वं मानत्वं केति भण्यताम् ।।
यत्राप्यभीष्टं मानत्वं तत्रा­प्ये­त्य­प्र­मा­णता ।। ९१० ।।

नर­प्र­वृ­त्ति­स­द्भा­वा­न्ननु तस्य प्रमाणता ।।
ज्योति­ष्टो­मा­दि­वा­क्यस्य ब्रह्मा­स्मी­त्यत्र तन्न तु ।। ९११ ।।

प्रामा­ण्य­हे­तु­स­द्भा­वा­न्नै­त­त्सा­ध्व­भि­धी­यते ।।
हेतु­श्चा­भि­हि­तोऽ­स्माभिः प्रवृत्तिर्न तु कारणम् ।। ९१२ ।।

अलं­का­रोऽ­य­म­स्माकं यदशेषप्रवर्तन -
वीज­प्र­ध्वं­स­कृ­ज्ज्ञा­न­फ­ल­व­ज्ज­न्म­का­रिता ।। ९१३ ।।

यथोक्तेन विचारेण विधि­त्र­य­नि­षे­ध­नम् ।।
कृतं तन्नि­त्य­सं­प्रा­प्ति­हे­तू­क्त्याऽ­न­व­शे­षतः ।। ९१४ ।।

तमेवेति च वाक्यस्य विध्य­सं­भ­व­म­ब्रु­वम् ।।
स्वरसेनैव संप्रा­प्ते­स्त­थाऽऽ­त्मो­पा­स­नस्य च ।। ९१५ ।।

आत्मा­न­म­नु­पा­स्येह नानात्मानं जनोऽपि हि ।।
उपास्ते तेन तत्प्रा­प्ति­र्नि­त्यै­वे­त्य­भि­धी­यते ।। ९१६ ।।

अहं­प्र­त्य­य­ग­म्यत्वे ह्यभ्युपेतेऽपि चाऽऽत्मनः ।।
अना­त्म­प्र­त्य­यो­त्प­त्ति­र­हं­प्र­त्य­य­पू­र्विका ।। ९१७ ।।

आत्माऽऽत्मानं सदोपास्ते तत्प्र­त्य­य­स­म­न्व­यात् ।।
निःशे­षा­ना­त्म­बु­द्धीनां नित्य­प्रा­प्त­मु­पा­स­नम् ।। ९१८ ।।

विज्ञा­न­का­र­ण­त्वेऽपि ह्यभ्यु­पे­तेऽ­न्त­रा­त्मनः ।।
नित्यो­पा­स­न­सं­प्रा­प्ति­स्त­ज्ज्ञा­नानां तदन्वयात् ।। ९१९ ।।

अभ्युपेतेऽपि च विधौ न प्रवृ­त्ति­रि­हे­ष्यते ।।
सर्वमात्मेति संदृष्टे न प्रवृ­त्ति­र­हे­तुतः ।। ९२० ।।

नियमार्थो विधिरमिति भाष्यकृतो वचः ।।
अभ्युपेत्यापि वक्ष्य­मी­त्ये­व­मे­त­त्स­म­ञ्ज­सम् ।। ९२१ ।।

न कश्चिदपि संभाव्यो यथो­क्ता­न्या­य­गौ­र­वात् ।।
विधि­र्य­तोऽ­भ्यु­प­ग­मा­न्नि­य­मो­क्ति­रियं ततः ।। ९२२ ।।

दर्शनं क्रियमाणं हि कर्माऽऽश्रित्य प्रसिध्यति ।।
आत्माऽनात्मा च तत्कर्म तद­न्य­स्या­प्र­सि­द्धितः ।। ९२३ ।।

यथा तण्डु­ल­नि­ष्प­त्ति­र­व­घा­ता­द्य­पे­क्षया ।।
सिध्ये­द्द­र्श­न­नि­ष्प­त्ति­स्त­द्व­दा­त्मा­द्य­पे­क्षया ।। ९२४ ।।

अवघातस्य पाक्षिक्यां प्राप्तौ यद्वन्नियम्यते ।।
अवहन्यादिति तथा ह्यात्मो­पा­स्ति­र्नि­य­म्यते ।। ९२५ ।।

अना­त्मो­पा­स­न­प्राप्तौ ध्याये­दा­त्मा­न­मि­त्यतः।।
अनात्मोपास्तेः साम­र्थ्या­न्नि­वृ­त्तिर्न तु शब्दतः ।। ९२६ ।।

यद्या­त्मो­पा­स­ना­प्राप्तिः कचि­त्सं­भा­व्य­तेऽ­ञ्जसा ।।
अवघातादिवत्कामं नियमोऽस्तु तथा सति ।। ९२७ ।।

प्रत्य­ग­र्थ­म­ना­लिङ्ग्य न पराग्वर्ति किंचन ।।
विज्ञानं जायते यस्मा­दा­त्मो­पास्तिः सदा ततः ।। ९२८ ।।

प्राग­प्य­ना­त्म­सं­ब­न्धा­ज्ज­न्म­नै­वाऽऽ­त्म­क­र्म­कम् ।।
विज्ञानं निखिलं यस्मा­न्नि­त्य­प्रा­प्ति­रतो भवेत् ।। ९२९ ।।

उपा­स्या­र्था­ति­रे­केण न चोपा­स­न­कृ­द्धि­रुक् ।।
संभाव्यो नियमविधिरतो नाऽऽत्मन्यभेदतः ।। ९३० ।।

उक्तं च न्यायमापेक्ष्य निय­मोऽ­त्य­न्त­दु­र्लभः ।।
विधे­र्दौ­र्ब­ल्य­सि­द्ध्य­र्थ­मतो भाष्य­कृ­दु­क्त­वान् ।। ९३१ ।।

मुक्ते­ष्वा­दि­व­दि­त्यादि यच्च किंचित्समीरितम् ।।
तस्याप्यसंभवः स्पष्ट उप­रि­ष्टा­त्प्र­व­क्ष्यते ।। ९३२ ।।

अना­त्मो­पा­स­न­मि­द­मि­ति­श­ब्द­प्र­यो­गतः ।।
प्रियमित्यादौ दृष्ट­त्वा­द­प्रि­यो­पा­सनं गुणात् ।। ९३३ ।।

आत्मै­क­गु­ण­व­त्त्वेन न त्वत्राऽऽत्मैव चिन्त्यते ।।
आत्मो­पा­स्य­त्व­वा­क्याच्च वैलक्षण्यं श्रुतेर्भवेत् ।। ९३४ ।।

आत्मा­न­मि­ति­क­र्मो­क्ते­र्वै­ल­क्ष्य­ण्य­मितिः स्फुटम्‌ ।।
आत्मो­पा­स्ति­नि­षे­धाच्च न पश्यन्तीति वाक्यतः ।। ९३५ ।।

नाऽऽत्मो­पा­स्य­त्वा­व­ग­मा­द्वा­क्य­शेषे भवेदिदम् ।।
पदनीयान्तरतरं प्रिय­मि­त्या­दि­शे­षतः ।। ९३६ ।।

आत्मानं प्रिय­मि­त्ये­त­द्वा­क्य­शे­षेऽ­व­ग­म्यते ।।
तस्मा­दा­त्मै­वो­पास्यः स्यान्ना­ना­त्मो­पास्य इष्यते ।। ९३७ ।।

अकृ­त्स्न­त्वा­न्नि­षे­धश्च न त्वात्मोपासनस्य सः ।।
शब्द­ज्ञा­ना­ति­व­र्ति­त्व­ख्या­प­ना­ये­ति­श­ब्द­नम् ।। ९३८ ।।

यतो वाचो निवर्तन्ते नेति नेत्यादिकं तथा ।।
एवं सत्य­र्थ­व­त्स­र्व­म­न्यथा तदनर्थकम् ।। ९३९ ।।

अना­त्मा­र्था­प­नु­त्य­र्थ­मा­त्मा­न­मिति शब्द्यते ।।
नातो वाक्यान्तरं तत्स्या­द्य­थो­क्ता­र्था­नु­वा­दतः ।। ९४० ।।

आत्मे­त्ये­षो­पा­सी­तेति हेतु­र­त्रो­प­दि­श्यते ।।
अका­र्त्स्न्य­दो­ष­हा­नाय प्रतीचः कृत्स्नतोच्यते ।। ९४१ ।।

आत्मनोऽनवशेषेण संब­न्धोऽ­ना­त्म­व­स्तुना ।।
रज्जु­स­र्पा­दि­व­न्नातः प्रतीचः शिष्यते पराङ् ।। ९४२ ।।

सर्वमज्ञातमेव स्याद्य­स्मि­न्न­ज्ञात आत्मनि ।।
ज्ञाते ज्ञातं च कृत्स्नोऽसौ ताव­त्त्वा­त्स­र्व­व­स्तुनः ।। ९४३ ।।

युक्त्या निरूप्यमाणस्य ह्वात्मा तत्त्वमनात्मनः ।।
प्रत्याख्यातः स चेत्तेन कानात्मा सिध्यतामयम् ।। ९४४ ।।

अना­त्म­त­त्त­व­म­न्वेति ह्यात्माऽ­स­ङ्गोऽ­गु­णोऽ­द्वयः ।।
स्वतः सिद्धौ न चेत्सि­ध्ये­त्कि­म­न्य­द्भे­षजं ततः ।। ९४५ ।।

ज्ञातायां स्रजि तन्मो­ह­क­ल्पि­तानां यथैकता ।।
प्रतीच्येवं तद­ज्ञा­न­क्लृ­प्ता­ना­मे­क­ते­ष्यते ।। ९४६ ।।

आत्म­श­ब्दा­भि­धे­येऽर्थे प्रत्य­क्सा­मा­न्य­रू­पके ।।
अन्तर्भवन्ति निखिला विशेषा इति केचन ।। ९४७ ।।

सामान्येन समस्तं तद्वि­शे­षै­र्व्य­स्त­मेव च ।।
कृत्स्नमेवं परं ब्रह्म सदोपासीत यत्नतः ।। ९४८ ।।

अव­स्था­व­द­व­स्थाभिः कचि­त्कार्त्स्न्यं प्रचक्षते ।।
कार्यकारणरूपेण कचिद्व्याचक्षते तथा ।। ९४९ ।।

भागभागिविभागेन नाभि­ने­म्य­र­व­त्तथा ।।
व्याचक्षते महात्मानः संप्र­दा­य­ब­ला­त्किल ।। ९५० ।।

अक्ष­रा­णा­म­ता­त्प­र्या­द्यु­क्ति­त­श्चा­प्य­सं­भ­वात् ।।
प्रतिपत्तुं वयं तादृक्शक्रुमो नाञ्चसा परम् ।। ९५१ ।।

अज्ञातं जगदज्ञाते ज्ञाते ज्ञातं च यत्र तत् ।।
तद्ब्र­ह्मै­वं­विधं कृत्स्नं न गोवृ­क्षा­दि­व­न्म­तम् ।। ९५२ ।।

सामान्यानि विशेषाश्च व्यावर्तन्ते परस्परम् ।।
प्राणादिवदतः कार्त्स्न्यं न तेषां युक्तिमद्भवेत् ।। ९५३ ।।

तदानन्त्याच्च तद्वोधो नेश्वरेणापि कार्त्स्न्यतः ।।
क्रमशोऽक्रमशो वाऽपि शक्यः कुतं कदाचन ।। ९५४ ।।

तादा­त्म्य­भा­व­नायां तु पुंसां संभावनाऽपि न ।।
शक्या सुनिपुणेनापि कर्तुं तद्व्यापृतिः कुतः ।। ९५५ ।।

गङ्गा­व­ता­र­व­न्नापि वहूपासितृकर्मता ।।
भाव­नो­प­च­या­भा­वा­दे­कै­क­स्मिं­स्तथा सति ।। ९५६ ।।

देवो भूत्वैति विबु­धा­न्भा­व­नो­प­च­या­न्नरः ।।
इति सर्वपदार्थेषु पुंसोऽशक्या विधित्सितम् ।। ९५७ ।।

यज्ज्ञातमपि कार्त्स्न्येन तत्तदन्यच्च नाञ्जसा ।।
ज्ञानेन ज्ञायते तादृक्कृत्स्नं कथमिहोच्यते ।। ९५८ ।।

पराग्वस्तु विरो­धि­त्वा­त्प्र­त्य­ग्बुद्ध्या न गम्यते ।।
पराञ्चीत्यपि हेतूक्तेर्नातः पिण्डा­दि­कृ­त्स्नधीः ।। ९५९ ।।

तथाऽऽत्मनि च विज्ञाते सर्वं ज्ञातं भवेदिति ।।
येनाश्रुतं श्रुतमिति कस्मिन्न्विति तथा परम् ।। ९६० ।।

आत्म­सा­म्य­ग्र­हेऽ­प्या­त्म­भे­द­मा­त्र­गृ­ही­तितः ।।
नैवा­ना­त्मा­र्थ­सा­मा­न्य­वि­शे­षाणां ग्रहो भवेत् ।। ९६१ ।।

सम­स्त­व्य­स्त­ता­दृ­ष्टा­वे­व­मादि सुदुर्घटम् ।।
अपू­र्वा­न­प­रा­न­न्त­रा­वा­ह्यो­क्तिश्च दुःस्थिता ।। ९६२ ।।

परा­क्प्र­मे­य­मा­नानां प्रत्य­ग­र्थ­धि­यो­दितः ।।
बाधोऽ­तोऽ­सा­ध्व­भि­हितं समस्तव्यस्ततां प्रति ।। ९६३ ।।

तथोपास्यस्य ब्रह्मत्वे श्रुत्या साक्षा­न्नि­रा­कृते ।।
नेदं यदिदमित्येवं समस्तव्यस्तता कुतः ।। ९६४ ।।

स्थूला­द्य­शे­षा­प­ह्नुत्या चाक्षरे प्रत्यगात्मनि ।।
कारणान्तस्य जगत ओत­प्रो­तो­क्ति­त­स्तथा ।। ९६५ ।।

न च प्रत्यग्धिया द्रष्टुं पराग्वस्तिवह शक्यते ।।
समस्तव्यस्ततैवं च न मानादुपपद्यते ।। ९६६ ।।

मानभूमेश्च व्युत्थाप्य तथा विदितभूमितः ।।
प्रत्य­ङ्भा­त्रस्य ब्रह्मोक्तेः समस्तव्यस्तता कुतः ।। ९६७ ।।

न समस्तं न च व्यस्तं नोभयं प्रत्यगात्मनि ।।
प्रत्यक्प्रवणया बुद्ध्या वीक्ष्यतां यदि शक्यते ।। ९६८ ।।

कस्मात्पुनरिदं त्यक्त्वा दृष्टा­दृ­ष्टा­र्थ­सा­ध­नम् ।।
आत्मे­त्ये­वो­पा­सी­तेति महान्यत्नः श्रुतेरिह ।। ९६९ ।।

पदनीयमिदं यस्मादनात्मभ्यः परं पदम् ।।
सर्व­ज्ञे­य­पु­म­र्थानां प्रत्यग्ज्ञाने समाप्तितः ।। ९७० ।।

न हि प्रतीचि विज्ञाते कश्चि­द­प्य­व­शि­ष्यते ।।
ज्ञेयोऽर्थः पुरुषार्थो वा पदनीयमतो भवेत् ।। ९७१ ।।

अनात्मार्थे तु विज्ञाते स्वाध्य­स्ता­हि­प्र­बो­ध­वत् ।।
न किंचि­त्स्या­त्प­रि­ज्ञातं नानात्माऽतः प्रमित्सितः ।। ९७२ ।।

अस्येति शैषिकी षष्ठी कृत्स्न­सं­ग­त्य­पे­क्षया ।।
प्रतीचा व्यतिरेकी सन्नानात्मा ह्येति संगतिम् ।। ९७३ ।।

नर्ते विभागं संबन्धः प्रती­चाऽ­ना­त्म­नोऽस्ति हि ।।
प्रत्य­ग­र्थोऽ­वि­भा­गात्मा नातः संगच्छते द्वयम् ।। ९७४ ।।

अतो दुःस्थि­त­सि­द्ध्ये­त­त्प­रा­ग्व­स्त्व­न्त­रा­त्मनि ।।
ताव­न्मा­त्रै­क­या­था­त्म्या­द्बु­द्ध्यादे रज्जुसर्पवत् ।। ९७५ ।।

पराक्तयैष ज्ञातोऽपि प्रत्य­ग्या­था­त्म्य­हे­तुतः ।।
अनात्माऽज्ञात एव स्याच्छु­क्ति­का­रू­प्य­बो­ध­वत् ।। ९७६ ।।

निर्धारणे वा षष्ठीयं ज्ञेया­र्थ­स्या­व­धा­र­णात् ।।
प्रतीचो ह्यन­धि­ग­ता­न्ना­न्योऽ­न­धि­गतो यतः ।। ९७७ ।।

ज्ञातोऽपि तद्व­दे­वा­स्मा­न्नाऽऽ­त्मनो विद्यते परः ।।
प्रत्य­ग­ज्ञा­न­हे­तु­त्वा­त्त­द­न्य­स्येह वस्तुनः ।। ९७८ ।।

अनात्मनोऽस्य सर्वस्य व्याकृ­ता­व्या­कृ­ता­त्मनः ।।
यस्मादात्मा परं तत्त्वं पदनीयमतो भवेत् ।। ९७९ ।।

खण्डादौ गोत्व­व­द्य­स्मा­त्प्र­त्य­ग्दृ­ष्ट्याऽ­न्त­रा­त्मनि ।।
समीक्ष्यते हिरुङ्गनापि तेना­सा­वा­त्म­त­त्त्वकः ।। ९८० ।।

ज्ञेय आत्मैव नानात्मा पदनीयत्वकारणात् ।।
नन्वन्यज्ञाने नान्यस्य कचि­द­स्त्य­व­बु­द्धता ।। ९८१ ।।

सत्यमेवं भवे­दे­त­द्य­द्या­त्माऽ­प्यन्य इष्यते ।।
आत्माऽसावन्य इति च नानुन्मत्तस्य गीरियम् ।। ९८२ ।।

अनेनेति तृती­ये­य­मि­त्थं­भू­ता­र्थ­ल­क्षण ।।
इदं­धी­श­ब्द­ग­म्यस्य प्रत्य­ङ्भा­त्र­स­त­त्त्वतः ।। ९८३ ।।

घटो नास्तीति कोऽन्व­स्मा­न्मा­ना­दर्थः प्रतीयते ।।
संवि­त्ता­व­द­शे­षेभ्यः प्रमा­णे­भ्योऽ­व­सी­यते ।। ९८४ ।।

न संविदः पृथक्त्वेन नापि संविदि तद्धिया ।।
अना­त्म­व­स्तू­त्प्रक्ष्यं स्याद्यथा संविदियं स्वतः ।। ९८५ ।।

उपलब्धोऽस्ति सन्कुम्भो लम्बोष्ठो देशकालवान् ।।
पूर्व­पू­र्वा­ति­रे­केण नोत्त­रा­र्थोऽ­नु­भू­यते ।। ९८६ ।।

कर्त्रा­दि­व्या­पृतेः पूर्वं संवि­त्स्वा­त्म­न्य­व­स्थितेः ।।
अवि­भा­गा­द­ना­ख्येया तदुद्भूत्य फलायते ।। ९८७ ।।

अक्रियेऽपि यथा व्योम्नि द्युत्प­त्ति­स्थि­ति­हा­निभिः ।।
जगन्ननर्ति मय्येवं सद­स­द्वि­श्व­रू­प­भृत् ।। ९८८ ।।

नञ्घ­टा­र्था­व­प­ह्नुत्य संवि­त्स­द्रू­प­मा­त्रया ।।
अवगत्यात्मना सत्त्वं सर्व­दृ­क्स्या­द­वि­क्रियः ।। ९८९ ।।

दिग्वि­भा­गोऽ­वि­भा­गेऽपि व्योम्नि यद्व­त्प्र­क­ल्पितः ।।
प्रध्व­स्ता­शे­ष­भे­देऽपि मयि भिन्नधियस्तथा ।। ९९० ।।

कथं पुन­र­बो­धो­त्थ­क्लृ­प्तो­पा­येन नत्परम् ।।
गम्यते सत्यमित्यस्य परिहृत्यै परं वचः ।। ९९१ ।।

पर­मा­र्था­त्म­नाऽ­सत्यं पदं तदपि बोधकम् ।।
स्वार्थ­स्यै­व­मु­पा­य­त्व­म­स­त्य­स्याऽऽ­त्म­नी­क्ष्य­ताम् ।। ९९२ ।।

उपायसत्यतां मुक्त्वा नान्या­दृ­श्यु­प­यु­ज्यते ।।
सत्यताऽत्र ह्युपा­या­ना­मु­पेये किं तयेष्यते ।। ९९३ ।।

गवादिखुरिबिम्वो वा पद­मि­त्यु­प­दि­श्यते ।।
अन­न्वि­ता­र्थ­सि­द्ध्यर्थं दृष्टान्तोऽयं तथा सति ।। ९९४ ।।

गवा­दि­बो­ध­नि­र्वृत्तिः पद­त­ज्ज्ञा­न­हे­तुतः ।।
अन­न्वि­त­प­द­ज्ञा­न­गो­पि­ण्डै­का­व­सा­यिनी ।। ९९५ ।।

यथैवं नाम­रू­पा­दि­प्र­प­ञ्चो­पा­य­हे­तुतः ।।
अप्रपञ्चात्मके भूम्नि प्रत्यग्बोधः प्रजायते ।। ९९६ ।।

प्रमा­ण­भू­मा­वै­कात्म्यं विरोधान्न प्रतीयते ।।
तमो­न्व­या­प्र­मे­य­त्वा­त्त­द­भा­वेऽपि नेक्ष्यते ।। ९९७ ।।

न हि वस्त्वा­त्म­नै­वाऽऽ­त्म­मो­हा­द्यु­च्छि­त्तये कचित् ।।
प्रमाणनिरपेक्षं सद्वस्त्वलं स्वप्रसिद्धये ।। ९९८ ।।

संसारानवतारः स्यान्मा­न­वै­फ­ल्य­मेव च ।।
इत्येतस्येह चोद्यस्य परिहाराय चोत्तरम् ।। ९९९ ।।

यथा गवात्मना साक्षाद्गां विन्दे­द्गो­प­दा­नुगः ।।
प्रत्य­क्चै­त­न्य­सृ­त्यैवं विन्देत्तत्परमं पदम् ।। १००० ।।

प्रत्यक्तया यदाभाति ह्याग­मा­पा­यि­सा­क्षितः ।।
देहे­न्द्रि­य­म­नो­धीषु चैत­न्या­भा­स­रू­प­कम् ।। १००१ ।।

जडेष्वेकमनेकेषु कूटस्थं क्षणभङ्गिषु ।।
अनात्मसु तथा चाऽऽत्मा संह­ते­ष्व­प्य­सं­हतः ।। १००२ ।।

तस्या­वा­क्या­र्थ­रू­पस्य पद­मे­त­त्प्र­च­क्षते ।।
पद्यतेऽनेन तद्य­स्मा­त्ते­नेदं पदमुच्यते ।। १००३ ।।

स्वमहिम्नैव चेत्सि­ध्ये­दु­पायः परमार्थवत् ।।
स्वतः सिद्धेर्न मिथ्यात्वं तस्य स्यात्प­र­मा­र्थ­वत् ।। १००४ ।।

पर­मा­र्था­द­भि­न्न­श्चे­न्नि­त­रा­म­मृ­षा­त्मता ।।
इत्यादि पूर्वमुक्तं यदनुसंधेयमत्र तत् ।। १००५ ।।

न सामान्यं विशेषो वा यथै­का­त्म्येऽ­व­ग­म्यते ।।
उक्त­म­प्यु­त्त­र­त्रै­त­द­सं­तो­षा­त्प्र­व­क्ष्यते ।। १००६ ।।

प्रत्यगात्मनि विज्ञाते नाज्ञा­त­म­व­शि­ष्यते ।।
अनेन ह्येत­दि­त्युक्त्या तत्पू­र्व­मु­प­व­र्णि­तम् ।। १००७ ।।

निःशे­ष­पु­रु­षा­र्था­प्ति­र्दुः­ख­हा­निस्तु तत्फलम् ।।
यथा हेत्युच्यते श्रुत्या साध­ना­भि­न्न­मा­त्मनः ।। १००८ ।।

ननु प्रतीचि विदिते तदन्यद्विदितं भवेत् ।।
ज्ञानार्थे प्रकृते कस्मा­ल्ला­भा­र्थे­नो­प­सं­हृतिः ।। १००९ ।।

ज्ञान­ला­भा­र्थ­यो­र्य­स्मा­दे­का­र्थत्वं विवक्षितम् ।।
अवि­द्या­ध्वं­स­मा­त्र­त्वा­त्ते­ना­त्रा­स्त्व­वि­रु­द्धता ।। १०१० ।।

नित्य­ल­ब्धै­क­रू­पस्य नाला­भोऽ­ज्ञा­न­तोऽ­न्यतः ।।
यथैवं तस्य लाभोऽपि तज्ज्ञा­ना­न्ना­न्यतो भवेत् ।। १०११ ।।

आत्मता ब्रह्मणो लाभो ब्रह्म­ताऽ­प्या­त्मनः फलम् ।।
व्याव­र्त्य­भे­दा­त्त­द्भि­त्ते­रेकं वस्तु द्विरुच्यते ।। १०१२ ।।

ब्रह्मता नाऽऽत्म­नोऽ­न्यत्र नाऽऽत्मता ब्रह्मणोऽन्यतः ।।
यत एवमतोऽभेदो ज्ञान­ला­भा­र्थ­यो­रिह ।। १०१३ ।।

लब्धृ­ल­ब्ध­व्य­यो­र्भेदो यत्रा­वि­द्यो­त्थ­भू­मिषु ।।
फलभेदः क्रिया­भे­दा­त्तत्र भिन्नार्थता तयोः । १०१४ ।।

आप्ता­शे­ष­पु­म­र्थोऽपि प्रत्य­ग्या­था­त्म्य­मो­हतः ।।
असर्वज्ञो भवेदात्मा तथाऽनाप्तार्थ एव च ।। १०१५ ।।

तत्राऽऽत्मा लब्धाऽ­वि­द्वा­न्स्या­ल्ल­ब्धव्यं च क्रियाफलम् ।।
उत्प­त्त्या­द्य­न्त­रायं सत्का­र­को­पा­त्ति­पू­र्व­कम् ।। १०१६ ।।

तादृ­ग्ल­ब्धोऽ­प्य­लब्धः स्याद­वि­द्या­मा­त्र­हे­तुतः ।।
आद्य­न्त­यो­र­भा­वाच्च स्वप्न­पु­त्रा­दि­ला­भ­वत् ।। १०१७ ।।

विपरीतस्वभावोऽत आत्मलाभः स्वतः सदा ।।
अज्ञा­न­हे­तो­र­न्या­दृक्स च ज्ञाना­न्नि­व­र्तते ।। १०१८ ।।

आरभ्य सर्वं वेदेति ज्ञाना­र्थे­नो­प­सं­हृ­तिम् ।।
अतोऽ­नु­वि­न्दे­दि­त्याह लाभार्थेनैव तत्फले ।। १०१९ ।।

अप्रख्यातो यथैवाऽऽत्मा व्याकृते ख्यातिमेयिवान् ।।
एवं तदवबोधान्ना ख्याति­मे­त्य­वि­न­श्व­रीम् ।। १०२० ।।

संह­ति­श्च­क्षु­रा­दीनां श्लोकशब्देन भण्यते ।।
यथाऽऽत्मा संहतिं प्रापद्व्याकृतः करणादिभिः ।। १०२१ ।।

एवं विद्वानवाप्नोति पुत्रा­मा­त्या­दि­सं­ह­तिम् ।।
उक्त­ज्ञा­न­प्र­वृ­त्त्य­र्थ­म­र्थ­वा­दोऽ­य­मि­ष्यते ।। १०२२ ।।

निरेषणानां नेदृग्धि संसारं प्रजिहासताम् ।।
फलं युक्तं प्रवृ­त्त्य­ङ्ग­म­र्थ­वादो भवेदतः ।। १०२३ ।।

कीर्ति चैका­त्म्य­वि­ज्ञानं श्लोकं चैका­त्म्य­सं­ग­तिम् ।।
यथो­क्त­व­स्तु­वे­द्ये­त­त्फ­ल­मा­प्नो­त्य­भी­प्सि­तम् ।। १०२४ ।।

अव्या­कृ­त­व्या­क­रणं प्रत्य­ग्द­र्श­न­सि­द्धये ।।
तद­न्त­रा­य­स्त­त्स­क्ति­स्त­न्नि­वृत्तौ परा श्रुतिः ।। १०२५ ।।

शब्दा­दि­ब­डि­शा­कृ­ष्ट­चे­तसः प्रत्यगीक्षणे ।।
न सामर्थ्यं यतस्तेभ्यो व्यावृत्त्यर्थं परा श्रुतिः ।। १०२६ ।।

हेत्वन्तरोपदेशो वा पदनीयत्व आत्मनः ।।
तदेतदितिशास्रेण भण्यते तद्वुभुत्सवे ।। १०२७ ।।

सांख्य­मु­क्ति­नि­वृ­त्त्य­र्थ­म­थ­वाऽ­स्तू­त्तरा श्रुतिः ।।
प्रेयो­गि­राऽऽ­त्मनो यस्मा­न्नि­ष्ठाऽऽ­न­न्दस्य भण्यते ।। १०२८ ।।

पुत्रात्प्रेय इदं तत्त्वं वित्ता­त्प्रि­य­तरं तथा ।।
पुत्रो वित्तं च लोकेऽपि प्रसिद्धं प्रियरूपतः ।। १०२९ ।।

ईयसुंस्तमवर्थे स्यात्पु­त्रा­दीनां बहुत्वतः ।।
छान्द­स­त्वा­त्प्रि­य­त­म­स्त­थाऽऽत्मा संभवत्यपि ।। १०३० ।।

वित्तात्पुत्रः प्रियः पुत्रात्पिण्डः पिण्डा­त्त­थे­न्द्रि­यम् ।।
इन्द्रियेभ्यः प्रियः प्राण आत्मा प्रियतमस्ततः ।। १०३१ ।।

वित्तं द्विविधमप्यत्र वित्तशब्देन गृह्यते ।।
देवलोकः फलं यस्मा­द्दे­व­स्यापि न तत्पदम् ।। १०३२ ।।

प्रीति­सा­ध­न­हे­तु­त्वा­त्प्रा­णादौ प्रीतिरिष्यते ।।
बन्ध­की­प्री­ति­व­न्मुख्या नैवानात्मसु युज्यते ।। १०३३ ।।

व्याध्या­द्यु­प­प्लुतो यस्माद्वक्ति निर्विण्णमानसः ।।
अद्यैव मरणं श्रेयो मम दुःखा­र्दि­ता­त्मनः ।। १०३४ ।।

प्रतीचि निर्निमित्तैव सर्वा­व­स्था­स्व­पी­ष्यते ।।
प्रीति­र­ग्न्यु­ष्ण­व­त्त­स्मा­दात्मा प्रेयामननात्मनः ।। १०३५ ।।

त्रैगु­ण्या­त्स­र्व­भा­वानां मोह­दुः­ख­सु­खा­त्मता ।।
स्वत एव त्वनध्यस्ता ह्येवं केचित्प्रचक्षते ।। १०३६ ।।

तत्तु नैवं यतः सत्त्वं मोहा­दि­त्र­य­कृ­द्धियः ।।
भानूदयं प्रप­श्या­म­श्चो­र­दृ­ग्रो­गि­दि­ग्दृ­शाम् ।। १०३७ ।।

समं त्रयं त्रिषु भवेन्त्रैगुण्यं चेद्रवौ मतम् ।।
गुणा­न्त­रा­धि­का­रोऽपि न च भानूदये मतः ।। १०३८ ।।

प्रमा­णै­र्गृ­ह्यते प्रीति­र्व्य­भि­चा­रि­ण्य­ना­त्मसु ।।
रज्ज्वां सर्पादिवन्नैवं प्रत्यगात्मनि सेक्ष्यते ।। १०३९ ।।

आत्मैव प्रिय इत्यत्र हेतुः स्पष्टोऽभिधीयते ।।
श्रुत्याऽ­न्त­र­त­रो­क्त्येह तद्धे­तु­श्चाऽऽ­त्म­तो­च्यते ।। १०४० ।।

यथाऽन्तरतमः प्रत्य­क्त­थो­दर्के प्रवक्ष्यते ।।
वाच­क्न­व्य­क्ष­रा­न्तेन ग्रन्थेन प्रत्यगात्मनः ।। १०४१ ।।

प्रत्य­क्ताऽ­न्या­न­पेक्षा हि तद­न्य­त्त­द­पे­क्षया ।।
यतोऽन्तरतमः प्रत्य­ङ्त्क­स्मा­दे­वा­व­ग­म्यते ।। १०४२ ।।

यस्य त्वष्टा­स्व­व­स्थासु प्रत्यक्त्वं सममिष्यते ।।
तस्यान्तरतम इति दुर्घटं वचनं भवेत् ।। १०४३ ।।

अन्यू­ना­धि­क­रू­पासु त्वष्टा­व­स्था­स्वि­हाऽऽ­त्मनः ।।
कं विशेषं समश्रित्य ह्यात्माऽ­न्त­र­तमो मतः ।। १०४४ ।।

भाक्तैवानात्मसु प्रीति­र्य­स्मा­त्त­स्मा­द­ना­त्मनः ।।
व्युत्थाप्य निखिलां प्रीतिं प्रतीच्येव निवेशयेत् ।। १०४५ ।।

एवं व्यवस्थितौ सत्यां युक्ति­ले­शोऽ­भि­धी­यते ।।
पुत्रादि प्रियमात्मेति द्वयो­र्वि­व­द­मा­नथोः ।। १०४६ ।।

आत्म­नोऽ­न्य­त्प्रि­य­मिति यो ब्रूते मोहसंप्लुतः ।।
ब्रुवाणं तं प्रति ब्रूयादिति श्रुत्यनुशासनम् ।। १०४७ ।।

यस्ते प्रियतयाऽभीष्टः सोऽचि­रा­द्दुः­ख­कृ­द्भ­वेत् ।।
यतो नङ्क्ष्यति स क्षिप्रं नश्यं­श्चा­सु­ख­कृ­त्प्रियः ।। १०४८ ।।

यथो­क्त­स्या­वि­सं­वादं तत्तथैवेति च श्रुतिः ।।
आत्मैव प्रिय इत्येवं प्रतिज्ञां प्रत्यभाषत ।। १०४९ ।।

यस्मादेवमतो हित्वा प्राणा­दी­न­प्रि­या­त्मनः ।।
सर्वा­न्त­र­त­मा­त्मा­न­मु­पा­सीत प्रियं सदा ।। १०५० ।।

स य आत्मा­न­मि­त्युक्त्या प्राप्त­दो­ष­नि­रा­क्रिया ।।
प्रमायुक्त्वं मर्त्य­त्वा­त्प्रा­णा­देर्न तु वार्यते ।। १०५१ ।।

व्यावृ­त्त­स­र्व­वा­ह्या­र्थ­प्री­ते­स्त­न्मु­क्ति­का­मिनः ।।
न हास्येति गिरा नातो मुमुक्षोः फलकीर्तनम् ।। १०५२ ।।

अावि­रि­ञ्चा­द्वि­र­क्त­श्चे­त्कु­म्भी­पा­का­दि­वेह यः ।।
आप्ता­शे­ष­क्रि­या­कार्यो मुक्तौ स विनियुज्यते ।। १०५३ ।।

परीक्ष्य लोकानित्यादि तथा नैगमिकं वचः ।।
त्यज धर्ममधर्मं चेत्येवमादि स्मृतेरपि ।। १०५४ ।।

आत्मा­वि­द्या­प­नु­त्त्यर्थं प्रार­ब्धो­प­नि­ष­त्परा ।।
आत्मेत्युपक्रमं यच्च तत्सूत्रं प्रागुदाहृतम् ।। १०५५ ।।

तद्धे­द­मि­त्य­ने­नास्याः प्रमेयोऽर्थो निरूपितः ।।
अकृत्स्नवचसा तद्व­त्प्र­मा­भा­सोऽ­प्य­पो­दितः ।। १०५६ ।।

आत्मैवैकोऽत्र द्रष्टव्यः कृत्स्न­त्वा­न्नाऽऽ­त्म­नोऽ­परः ।।
अकृत्स्न एव ताव­त्स्या­त्त­दन्यो यावदीक्ष्यते ।। १०५७ ।।

कोऽहं कस्य कुतो वेति कः कथं वा भवेदिति ।।
प्रयोजकमतेरेष विध्य­र्थोऽ­त्रा­व­ग­म्यते ।। १०५८ ।।

उत्प­त्ति­स्थि­ति­वि­ध्वंसाः कार्याणां स्युः कुतो न्विति ।।
अन्व­य­व्य­ति­रे­काख्यो व्यापारोऽत्र विधीयते ।। १०५९ ।।

तपसा तत्परं ब्रह्म विद्धीति वचनादतः ।।
अन्व­य­व्य­ति­रे­काख्यो व्यापारोऽत्र तपो मतम् ।। १०६० ।।

यतो वा इत्यतो वाक्यान्न तदन्यत्तपो भवेत् ।।
लक्षणोक्तेर्य आत्मेति सोऽन्वे­ष्ट­व्य­इति श्रुतेः ।। १०६१ ।।

त्यक्ता­प्रि­य­प­रा­गर्थो ह्यमा­नि­त्वा­दि­सा­धनः ।।
प्रिया­त्मा­न­मु­पा­सीत शक्र­व­द्ब्र­ह्म­च­र्य­वान् ।। १०६२ ।।

आत्मेत्यनेन वाक्येन ब्रह्म­वि­द्यो­प­सू­त्रिता ।।
यद­र्थो­प­नि­ष­त्कृत्स्ना वृ्त्तिस्तस्या भविष्यति ।। १०६३ ।।

आत्मेत्येकमिदं सूत्रं कण्डिकाद्वयमेव वा ।।
अध्यायो वा सम­स्तोऽ­य­म­ध्या­य­द्व­य­मेव वा ।। १०६४ ।।

अव्या­कृ­त­व्या­क­र­ण­प्र­भृ­ती­न्य­परे विदुः ।।
पञ्चैव किल सूत्राणि तथाऽपीष्टं न बाध्यते ।। १०६५ ।।

अव्याकृतं स एषेह तथाऽऽत्मैवेति चापरः ।।
पदनीयं तथा प्रेयः पदार्थाः पञ्च सूत्रिताः ।। १०६६ ।।

यथोक्तानां च सूत्राणामा शास्रस्य समापनात् ।।
वृत्तिः स्यादुत्तरो ग्रन्थस्तत्र तेषां समन्वयात् ।। १०६७ ।।

व्याचि­ख्या­सु­र­थे­दानीं सूत्रा­र्था­ञ्श्रु­ति­र­ञ्जसा ।।
प्रयो­ज­ना­भि­धि­त्साया उपोद्धाते प्रवर्तते ।। १०६८ ।।

वक्ष्यमाणवचो वस्तु तच्छ­ब्दे­ना­भि­धी­यते ।।
व्रह्म जिज्ञासवो विप्रा आहु­र्य­द्गु­रु­सं­निधौ ।। १०६९ ।।

विज्ञा­ता­शे­ष­वे­दा­न्त­स­र्वस्वं ब्रह्मणि स्थितम् ।।
उपसद्य गुरुं न्यायादाहुः केचिन्मुमुक्षवः ।। १०७० ।।

यज्ञा­द्या­हि­त­सं­स्कारा अपा­स्ता­शे­ष­सा­धनाः ।।
सांसा­रि­क­पु­म­र्थेभ्यो विरक्ताः शुद्धबुद्धयः ।। १०७१ ।।

त्यक्त्वा कर्माणि निःसङ्गाः कर्मणां चरितार्थतः ।।
ब्रह्म­वि­द्या­प्ल­वे­नेमं संसाराब्धिं तितीर्षवः ।। १०७२ ।।

आ विरि­ञ्चा­त्पु­म­र्था­ना­म­कृ­त्स्न­त्वा­दि­दो­षतः ।।
वितृ­षोऽ­शे­ष­त­द्दो­ष­ध्व­स्ति­श्रेयः परीप्सवः ।। १०७३ ।।

साक्षेपमाहुः श्रेयांसं गुरुं प्राप्य निरेषणाः ।।
गुरुद्वारैव विद्येह श्रेयःप्राप्तौ क्षमा यतः ।। १०७४ ।।

किमा­हु­रि­त्य­पे­क्षा­या­मिदं तदभिधीयते ।।
मन्यन्त इत्यनेनैव य़च्छब्दो याति संगतिम् ।। १०७५ ।।

अव्या­वृ­त्ता­न­नु­गतं वस्तु ब्रह्मगिरोच्यते ।।
मुख्यार्थो ब्रह्म­श­ब्दोऽ­य­मेवं सत्युपपद्यते ।। १०७६ ।।

तद्यया वेद्यते बुद्ध्या तदसाधारणात्मना ।।
ब्रह्मविद्येति तां साक्षाच्छेमुषीं प्रतिजानते ।। १०७७ ।।

सर्वं कृत्स्नं भविष्यामो मन्यन्ते ब्रह्मविद्यया ।।
यन्मनुष्या वयं तत्र विरो­ध­म­नु­यु­ष्द­महे ।। १०७८ ।।

कृत्स्नमेव यतः प्रोक्तं वस्तु यत्पारमार्थिकम् ।।
तत्प्र­मा­ण­वि­श­द्ध्यर्थं चोदयन्ति मुमुक्षवः ।। १०७९ ।।

ब्रह्मविद्यैव कृत्स्नाप्तौ यस्मा­त्सा­ध­न­मु­च्यते ।।
तत्प्राौ तत्तमोमात्रं व्यवधानमतो भवेत् ।। १०८० ।।

द्योतिकैव यतो विद्या न त्वसौ कारकं ततः ।।
उत्प­त्त्या­दि­क्रि­या­कार्यं तस्माच्चेह न शङ्क्यते ।। १०८१ ।।

सिद्धेऽर्थे द्योतको दीपो न तु कार्ये यतस्ततः ।।
सर्वात्मभावः सर्वेषां सिद्धः प्रागपि बोधतः ।। १०८२ ।।

अतोऽकृत्स्रा वयं मोहा­त्कृ­त्स्ना­त्मा­नोऽपि वस्तुतः ।।
निहत्य विद्ययाऽविद्यां यामः कार्त्स्न्यं स्वतोगतम् ।। १०८३ ।।

अधि­का­र­वि­नि­श्चित्यै मनुष्या इति गीरियम् ।।
मनुष्याणां हि निःशे­ष­त्र­य्य­र्थेऽ­धि­कृ­ति­र्यतः ।। १०८४ ।।

दृष्टार्थतो वा विद्याया मनुष्यग्रहणं कृतम् ।।
ताव­न्मा­त्रोऽ­धि­का­र्यत्र नाग्नि­हो­त्रा­धि­का­रि­वत् ।। १०८५ ।।

प्रत्यबुध्यत यो यस्तदिति चोर्ध्वं प्रवक्ष्यति ।।
नातः कर्माधिकार्यत्र दृष्टा­र्थ­त्वा­द­पे­क्ष्यते ।। १०८६ ।।

कर्मभ्य इव च ज्ञाना­त्फ­ल­प्राप्तिं सुनिश्चिताम् ।।
मन्यन्त उभयत्रापि श्रुति­मा­ना­वि­शे­षतः ।। १०८७ ।।

यन्मन्यन्ते नरास्तत्र विरुद्धमिव लक्ष्यते ।।
यतोऽ­त­श्चो­द­या­मोऽत्र यथा विप्रतिषिद्धता ।। १०८८ ।।

किमु तद्ब्रह्म यद्वेद्यं यज्ज्ञा­ना­त्स­र्व­ताऽऽ­प्यते ।।
किंचापि तद­वे­द­न्य­द्य­ज्ज्ञा­ना­त्कृ­त्स्न­ता­म­गात् ।। १०८९ ।।

ब्रह्माकृत्स्रं मतं तच्चे­दु­क्त­दो­षा­नि­रा­कृतेः ।।
अऩुपास्यं भवे­त्ता­दृ­क्प्रा­णा­दि­व­द­सं­श­यम् ।। १०९० ।।

कल्पना नापि गौण्यत्र मुख्यार्थे सति युज्यते ।।
न ह्यालभन्ते बाहीकं मुख्ये गवि सति कचित् ।। १०९१ ।।

मुख्यं ब्रह्म न चेदस्ति गौणं स्यात्तद्विना कुतः ।।
मुख्यमग्निं विना गौणं न लोकोऽप्यवगच्छति ।। १०९२ ।।

अकृत्स्नज्ञानतो नापि पुरु­षो­र्थोऽ­व­ग­म्यते ।।
ब्रह्मा­ज्ञा­न­स­मु­त्थ­त्वा­न्मि­थ्या­ज्ञा­न­त्व­का­र­णात् ।। १०९३ ।।

मेय­मा­ना­दि­सं­भि­त्ति­र्यदि नामेह लभ्यते ।।
अय­था­व­स्तु­रू­प­त्वा­त्स्व­प्न­मे­या­दि­वत्तु सा ।। १०९४ ।।

अकृत्स्नस्य च ब्रह्मत्वं विरुद्धं भानुशैत्यवत् ।।
तस्मादकृत्स्नं ब्रह्मेति न मानेनोपपद्यते ।। १०९५ ।।

ब्रह्मास्तु तर्हि तत्कृ­त्स्न­मु­क्त­दो­षा­स­म­न्व­यात् ।।
मुख्या­र्थ­ला­भ­त­श्चापि तस्य च प्रकृतत्वतः ।। १०९६ ।।

न कृत्स्नमिति तद्गाह्यं तत्प्र­मा­णा­द्य­सं­भ­वात् ।।
तद­न्य­व­स्तु­स­द्भावे तद्ब्रह्मत्वं विहन्यते ।। १०९७ ।।

न च मानानपेक्षस्य सिद्धि­र­भ्यु­प­ग­म्यते ।।
माना­दि­य­त्ना­न­र्थ­क्य­प्र­सक्तिः स्यात्तथा सति ।। १०९८ ।।

सदा­नु­दि­ता­लु­प्तै­क­ज्ञ­प्ति­मा­त्र­स­त­त्त्व­कम् ।।
यद्यपीष्टं तथाऽपीदं नाऽऽत्म­मो­हा­प­नो­द­कृत् ।। १०९९ ।।

न हि मानमनाश्रित्य वस्त्वा­त्मा­ज्ञा­न­हा­नि­कृत् ।।
स्रक्स्था­ण्वा­दा­दृ­ष्ट­त्वा­दु­क्त­दो­षोऽपि चाऽऽपतेत् ।। ११०० ।।

माना­द्य­न­भ्यु­पेतौ हि न किंचिद्वस्तु सिध्यति ।।
तदभ्युपेतौ ब्रह्मत्वं व्यावृत्तेर्न प्रसिध्यति ।। ११०१ ।।

यथा­क­थं­चि­च्छ­ब्दार्थो यदि नामाभ्युपेयते ।।
तथाऽपि दोषवद्ब्रह्म यथा तदधुनोच्यते ।। ११०२ ।।

कृत्स्नं वा यदि वाऽकृत्स्नं यथेच्छसि तथाऽस्तु तत् ।।
ब्रह्मत्वं किं स्वतस्तस्य किंवा तत्परातो मतम् ।। ११०३ ।।

यदि ताव­त्स्व­त­स्त­त्स्या­द्ब्र­ह्म­विद्या निरर्थिका ।।
न ह्युष्णत्वं हुताशस्य परतः कुर्वते बुधाः ।। ११०४ ।।

ज्ञानमूर्तेर्न चाज्ञानमागन्तु सहजं तथा ।।
भानौ तमो­व­त्ते­ने­दृ­ग्ब्रह्म नैवोपपद्यते ।। ११०५ ।।