बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ प्रथमाध्यायस्य चतुर्थं ब्राह्मणम् ॥ (३)
सावशेषात्मनोऽकृत्स्नान्निःशेषात्मतया यतः ।।
आत्माऽनात्मन आप्नोति तेनाऽऽत्मेत्यभिधीयते ।। ७४० ।।
स्वचिदाभासमोहेन तदुत्थानखिलान्यतः ।।
आदत्तेऽनात्मनः प्राज्ञे ततश्चाऽऽत्मेति तं विदुः ।। ७४१ ।।
पर आत्मनि सर्वेऽपि संप्रतिष्ठन्त एकले ।।
पृथिव्याद्या अनात्मान इति चाऽऽथर्वणे वचः ।। ७४२ ।।
स्वात्माभासाः पराचीना धीवृत्तीर्विषयोन्मुखाः ।।
प्रत्यगत्ति यतोऽतोऽसावात्मेत्युक्तो मनीषिभिः ।। ७४३ ।।
विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् ।।
आनन्दभुक्तथा प्राज्ञ इति चाऽऽगमशासनम् ।। ७४४ ।।
अव्यावृत्ताननुगतः पूर्णः स्वात्मन्यवस्थितः ।।
यतोऽस्य संततो भावस्तस्माच्चाऽऽत्मेति शब्द्यते ।। ७४५ ।।
तद्विष्णोरिति मन्त्रोऽपि विष्णोस्तत्परमं पदम् ।।
चक्षुर्वदाततं व्योम्नि व्याचष्टे प्रत्यगात्मनि ।। ७४६ ।।
नानुत्पन्नमतो ज्ञानं नानपास्तं तथा तमः ।।
यथोक्तैकात्म्यसंदृष्टावतः कार्त्स्न्यं ममाऽऽत्मनः ।। ७४७ ।।
द्रष्ट्टदर्शनदृश्यानां प्रत्यक्तत्वं यतस्ततः ।।
तद्दृष्टावखिलं दृष्टं रज्जुसर्पादिवद्भवेत् ।। ७४८ ।।
स्रगज्ञानैकहेतूनां स्रग्धिया ज्ञातता यथा ।।
प्रत्यङ्भोहजवस्तूनां प्रतीच्यवगते तथा ।। ७४९ ।।
अत्र ज्ञाते यतः सर्व ऐकात्म्यं यान्त्यशेषतः ।।
प्राणादयोऽत आत्मैव द्रष्टव्यः सर्वदर्शनात् ।। ७५० ।।
केचिद्व्याचक्षतेऽपूर्वे विधिमेतं महाधियः ।।
नियमं त्वपरे धीराः परिसंख्यामथापरे ।। ७५१ ।।
नापूर्वविधिरित्येष कदाचिदपि गृह्यते ।।
सर्वदैव तु तत्प्राप्तेस्तथा नान्योऽपि कश्चन ।। ७५२ ।।
पुंव्यापारानधीनत्वान्नेह संभाव्यते विधिः ।।
स्वव्यापारैकविषयः सर्व एव यतो विधिः ।। ७५३ ।।
संस्थेम्नेऽस्यैव चार्थस्य पूर्वपक्षोक्तिपूर्वकः ।।
भाष्यकृद्भिः कृतो यत्नः स आविष्क्रियतेऽधुना ।। ७५४ ।।
यथा कार्यानपेक्षस्य प्रामाण्यं वचसः स्फुटम् ।।
ऐकात्म्यवस्तुनिष्ठस्य तथा पूर्वमवादिषम् ।। ७५५ ।।
लिङ्प्रत्ययश्रुतेरत्र भ्रान्तिः समुपजायते ।।
यजेतेत्यादिसामान्याद्विध्यर्थोऽतो विचार्यते ।। ७५६ ।।
सिद्धान्तोपक्रमः पूर्वं पूर्वपक्षः प्रदर्श्यते ।।
सम्यग्निर्ज्ञातसिद्धान्तो यतो वेत्ति बलाबलम् ।। ७५७ ।।
नापूर्वविधिरेष स्यात्पक्षेप्राप्तत्वकारणात् ।।
पक्षे प्राप्तिर्विचारान्ते वक्ष्यते कारणाश्रयात् ।। ७५८ ।।
नित्यप्राप्तिमिहाऽऽचष्टे विध्यर्थापनुनुत्सया ।।
अप्राप्तांशानुपात्येव सर्व एव विधिर्यतः ।। ७५९ ।।
पाक्षिक्युपासनप्राप्तिर्नित्या वेति च लिङ्गतः ।।
विवक्षिता भाष्यकृतो नित्यप्राप्तिरितीक्ष्यते ।। ७६० ।।
यत्साक्षादितिवाक्योत्थप्रत्यग्याथात्म्पलेहिना ।।
ज्ञानेन तमसो दाहात्कुतो विध्यर्थसंभवः ।। ७६१ ।।
कारकाण्युपमृद्गाति विद्या बुद्धिमिवोषरे ।।
कारकत्वमविद्योत्थं स्वतश्चाकारकात्मता ।। ७६२ ।।
यदज्ञानात्प्रवृत्तिर्या तज्ज्ञाने सति सा कुतः ।।
न हीहापास्तनिद्रोऽपि सुप्तवत्स्वप्नमीक्षते ।। ७६३ ।।
यद्धि यस्य स्वतो रूपं न तत्प्राप्तावपेक्षते ।।
क्रियां मोहनिमित्तत्वादपेक्षा कर्त्रपह्नवे ।। ७६४ ।।
न च संमोहविध्वस्तौ यथावस्त्ववबोधतः ।।
समर्थमन्यत्पश्यामः क्रियाकारकरूपकम् ।। ७६५ ।।
स्वाध्यायाधीतिविधिना ज्योतिष्टोमादिबोधवत् ।।
सदा प्राप्ताऽऽत्मविद्याऽपि नातो विधिरिहेष्यते ।। ७६६ ।।
देहेन्द्रियमनोबुद्धिसर्वव्यापारभासिनः ।।
लिङ्गतश्चावसेयत्वान्न संभाव्यो विधिस्ततः ।। ७६७ ।।
तथाऽहंप्रत्ययात्साक्षादात्मयाथात्म्यनिश्चितेः ।।
असंभवादसंप्राप्तेः कुतो विधिरिहेष्यते ।। ७६८ ।।
नन्विहाऽऽत्मार्थसंदृष्टावहंप्रत्ययगम्यता ।।
पाक्षिकीति ततोऽप्राप्तेर्भवेन्नैयमिको विधिः ।। ७६९ ।।
पाक्षिकी तावदत्राऽऽस्तामैकात्म्यार्थावलेहिनः ।।
ज्ञानस्य प्राप्तिर्नित्या वेत्यस्त्वपूर्वो विधिः स्फुटः ।। ७७० ।।
एकार्थोल्लेखिवृत्तीनामातादात्म्याभिमानतः ।।
आम्रेडनं हि शब्दार्थः सर्वत्रोपासनश्रुतेः ।। ७७१ ।।
न पश्यन्तीत्यतो लिङ्गाज्ज्ञानमेव विधित्सितम् ।।
न तूपासनमिति चेन्मैवमैकार्थ्यकारणात् ।। ७७२ ।।
सर्वत्रैकार्थता दृष्टा वेदोपासनशब्दयोः ।।
यथाऽन्यत्र तथेहापि कस्मान्नाध्यवसीयते ।। ७७३ ।।
रश्मींस्त्वं पर्यावर्तयादिति चाऽऽवर्तनात्मकः ।।
विधिः श्रुतः श्रुतौ स्पष्टस्ततश्च फलसंगतिः ।। ७७४ ।।
देवो भूत्वेति देवांश्च सदा तद्भावभावितः ।।
देवप्राप्तिं श्रुतिः प्राह भावनाबलसंश्रयात् ।। ७७५ ।।
स योऽत इत्युपक्रम्य ह्युपासनगिरैव तु ।।
अन्त आत्मेत्युपासीत तथैवोपासनश्रुतेः ।। ७७६ ।।
प्रवृत्तौ चोपसंहारे तथैवोपासनश्नुतेः ।।
वेदेत्युपासनार्थत्वमस्याप्यभ्युपगम्यते ।। ७७७ ।।
तथैतत्सर्वे वेदेति यत्र यत्र श्रुतिर्भवेत् ।।
अभ्यासस्य तदाऽप्राप्तेरपूर्वविधिरिष्यते ।। ७७८ ।।
वस्तुस्वरूपान्वाख्याने न च कश्चित्प्रवर्तते ।।
तज्ज्ञानजन्ममात्राच्च पुरुषार्थोऽपि नेष्यते ।। ७७९ ।।
यादृक्कर्मविधे रूपमात्मध्यानविधेरपि ।।
तादृगेव विशेषोऽत्र न मनागापि गम्यते ।। ७८० ।।
कुतोऽविशेष इति चेदत आह यथा तथा ।।
मानस्येव क्रिया यस्मादविशिष्टोभ्योरपि ।। ७८१ ।।
वषट्करिष्यंस्तां ध्यायेदिति यद्वद्विधीयते ।।
मानस्येव क्रिया तद्वदात्मार्थोपासनेष्वपि ।।७८२ ।।
भावनांशत्रयं यस्मादुपासनविधावपि ।।
संभाव्यतेऽतो विज्ञेयो यजेतेत्यादिवद्विधिः ।। ७८३ ।।
स्वाध्यायस्य विधिर्ब्रूते लिङाद्यात्मानमेव च ।।
विधिप्रशस्तज्ञानाभ्यां कुरुध्वं पुंस्प्रवर्तनम् ।। ७८४ ।।
करणांशो विधिज्ञानं किमंशः पुंस्प्रवर्तनम् ।।
इतिकर्तव्यता चात्र ह्यर्थवादप्रशंसनम् ।। ७८५ ।।
प्रवृत्तस्य ततः पुंसः करणं याग इष्यते ।।
स्वर्गादिश्च किमंशः स्यात्प्रयाजादिस्तथा परः ।। ७८६ ।।
यथा तत्र तथेहापि शास्रेणैव समर्प्यते ।।
अंशत्रयमतो युक्तमपूर्वविधिरेव तु ।। ७८७ ।।
किमंश आत्मा विज्ञेयः करणांशस्तथा मनः ।।
इतिकर्तव्यता त्यागब्रह्मचर्यादिसाधनम् ।। ७८८ ।।
कृत्स्नप्रकरणार्थस्य ज्योतिष्टोमादिगामिनः ।।
विध्युद्देशतया यद्वदुपयोगस्तथैव च ।। ७८९ ।।
उपासाविध्यपेक्षस्य प्रक्रियापतितस्य च ।।
आत्मार्थोपासनविधिदेशे तद्विनियोज्यते ।। ७९० ।।
अत्रास्थूलादिवाक्यानामुपास्यार्थसमर्पणे ।।
उपयोगः फलं मोक्षस्तमसो वस्त्वपह्नुतिः ।। ७९१ ।।
संप्रदायविदस्त्वन्ये यथावच्छास्रचक्षुषा ।।
व्याचक्षते महात्मानो यथा तदभिधीयते ।। ७९२ ।।
विधिशून्यस्य वाक्यस्य न प्रामाण्यं किलेष्यते ।।
नियोगानुप्रवेशेन यतो वस्त्ववबोध्यते ।। ७९३ ।।
नानुवादस्वरूपस्य निरस्तविधिकस्य हि ।।
सापेक्षस्येह वचसः प्रामाण्यमुपपद्यते ।। ८९४ ।।
क्रियैव ननु सर्वत्र तत्र तत्र विधीयते ।।
स्वव्यापारे हि विधिना नियोक्तुं शक्यते यतः ।। ७९५ ।।
द्रव्यस्वरूपेऽसाध्यत्वाद्विधिः कथमिहेष्यते ।।
न हि सिद्धस्य साध्यत्वं निपुणेनापि गम्यते ।। ७९६ ।।
न चाऽऽत्मविषयं ज्ञानं वेदान्तेषु विधीयते ।।
तस्य विध्यन्तरात्सिद्धेर्वेदान्तस्यानुवादता ।। ७९७ ।।
स्वाध्यायाधीतिविधिना ज्योतिष्टोमादिबोधवत् ।।
वेदान्तार्थावबोधोऽपि तेनैवेह समापितः ।। ७९८ ।।
स्यादेतत्फलसंबन्धो नियोगविरहाद्यदि ।।
प्रत्यग्ज्ञानस्य लभ्येत न त्वसौ लभ्यते तथा ।। ७९९ ।।
पुमर्थकारिता बुर्द्धर्नियोगादेव लभ्यते ।।
नातस्तन्निरपेक्षस्य प्रामाण्यं वचसो भवेत् ।। ८०० ।।
नैकात्म्यवस्तुसंव्याप्तिव्यतिरेकेण किंचन ।।
फलं स्यादात्मबोधस्य यथा कर्मफलं तथा ।। ८०१ ।।
अत्रोच्यतेऽन्यदेवेदं विज्ञानान्तरमात्मगम् ।।
विधीयते सहोपायं वेदान्तोक्तिप्रबोधतः ।। ८०२ ।।
न हि वाक्यसमुत्थेन ब्रह्मावाक्यार्थरूपकम् ।।
विज्ञानेन परिच्छेत्तुं शक्यते कर्मवत्क्वचित् ।। ८०३ ।।
नानापदार्थसंसृष्टरूपं शब्दात्प्रजायते ।।
विज्ञानं तेनावाक्यार्थरूपं नैव च गम्यते ।। ८०४ ।।
शब्दस्वभाव एवैष संसृष्टार्थावबोधनम् ।।
ब्रह्मासंसृष्टरूपत्वात्तेनातो नावगम्यते ।। ८०५ ।।
वाक्यं चातीन्द्रियार्थेषु प्रमाणमिति निश्चितम् ।।
तस्याप्यविषयत्वात्तद्विज्ञानान्तरगोचरः ।। ८०६ ।।
न चेद्वाक्योत्थविज्ञानपरिच्छेद्यं तदिष्यते ।।
नाऽऽम्नायार्थो भवेत्तर्हि नैवं वेदार्थ एव हि ।। ८०७ ।।
अपि चाधीयतेऽत्रार्थे वेदवाक्यान्यनेकशः ।।
प्रज्ञां कुर्वीत विज्ञायेत्येवमादीनि यत्नतः ।। ८०८ ।।
मुमुक्षुपुरुषार्थस्य मोहमात्रान्तरायतः ।।
ज्ञानात्कार्यान्तराभावान्नैतत्साध्वभिधीयते ।। ८०९ ।।
विधेर्हि तत्र साफल्यं यत्र वाक्योत्थबोधतः ।।
व्यतिरेकादनुष्ठेयः पदार्थः कश्चिदिष्यते ।। ८१० ।।
यथाऽग्निहोत्रयाथात्म्यविज्ञानव्यतिरेकतः ।।।
प्रयोगात्मा पृथक्तादृङ्नेह कश्चिदपीक्ष्यते ।। ८११ ।।
उत्पत्त्यादौ हि साध्येऽर्थे पुंव्यापृतिरपेक्ष्यते ।।
उत्पत्त्यादिविरुद्धत्वान्मुक्तेर्नान्यव्यपेक्षिता ।। ८१२ ।।
उत्पत्त्यादि स्वतो नो चेत्किं मुक्तौ कर्मणः फलम् ।।
उत्पत्त्यादि स्वतश्चेत्स्यात्किं मुक्तौ कर्मणा वद ।। ८१३ ।।
उत्पत्त्यादौ तु यच्छक्तं हेतुमात्रमपेक्षते ।।
तस्य कर्मव्यपेक्षा स्यान्नान्यथा तदपेक्षते ।। ८१४ ।।
प्रवृत्त्या स्वात्मसिद्ध्यर्थं कारकं सदपेक्षते ।।
कारकाणां क्रियापेक्षा नोभयापेक्षिताऽऽत्मनि ।। ८१५ ।।
संभावितात्मकर्तृत्वो ब्राह्मण्याद्यधिकारवान् ।।
विधिश्रुतेः प्रवर्तेत न तु प्लुष्टतदन्वयः ।। ८१६ ।।
अपूर्वानपराबाह्यं ब्रह्मास्मीति विजानतः ।।
कारकत्वं न संभाव्यं तन्मोहविरहात्कचित् ।। ८१७ ।।
आत्मनो ब्रह्मता यत्र ब्रह्मणोऽप्यात्मता स्वतः ।।
तत्त्वमस्यादिवाक्योत्थबोधाच्चेत्किमितीहते ।। ८१८ ।।
अब्रह्मानात्मविज्ञानमोहोत्थध्वंसहेतुतः ।।
प्रत्यग्याथात्म्यबोधस्य कुतोऽमूढः प्रवर्तते ।। ८१९ ।।
तत्र को मोह इत्येवं मन्त्रवर्णोऽपि नो जगौ ।।
संसारासंभवं साक्षादेकत्वमनुपश्यतः ।। ८२० ।।
वाध्यबाधकभावाच्च प्रत्यङ्भोहप्रबोधयोः ।।
सहावस्थानताभावात्प्रवृत्तेः स्यादसंभवः ।। ८२१ ।।
मतं वाक्योत्थविज्ञानमात्राच्चेन्न निराकृतिः ।।
अब्रह्मानात्मविषयमोहस्येति न तत्तथा ।। ८२२ ।।
तत्त्वमस्यादिवाक्यानां तावन्मात्रावबोधनात् ।।
अर्थान्तरं स संभाव्यं वाक्यवाक्यार्थवेदिना ।। ८२३ ।।
अस्थूलाद्यर्थशंसीनि द्रष्टव्यादिविधेर्यदि ।।
समर्पयेयुर्विषयमित्येतदपि नेष्यते ।। ८२४ ।।
मुक्त्यन्तरायसंमोहविध्वंस्यैकात्म्यबोधतः ।।
न तदर्थान्तराभावादिति पूर्वमवादिषम् ।। ८२५ ।।
प्रत्यग्याथात्म्यव्याख्यानमात्रेणैव विना विधिम् ।।
न प्रवर्तेत वाक्यार्थसंबोधायेति चेन्मतम् ।। ८२६ ।।
नाऽऽत्मयाथात्म्यसंबोधिवाक्यश्रवणमात्रतः ।।
प्रत्यक्तत्त्वधियः सूतेः किमन्यद्विधिनेष्यते ।। ८२७ ।।
अन्तरेण विधिं वाक्यश्रवणायापि नेहेते ।।
इति ब्रुवाणं प्रब्रूयादनिष्टं श्रूयते कुतः ।। ८२८ ।।
अनवस्थाप्रसक्तिश्च तत्र तत्र प्रसङ्गतः ।।
विध्यन्तरस्येति ततो यथोक्तोऽर्थोऽवसीयताम् ।। ८२९ ।।
यथाऽऽत्मवादिवाक्यार्थश्रुतये न प्रवर्तते ।।
विधिवाक्यमृते तद्वद्विध्यर्थश्रवणेऽपि न ।। ८३० ।।
मतं वाक्योत्थविज्ञानस्मृतिसंतानता यदि ।।
केवलोक्तिश्रवोद्भूतज्ञानादर्थान्तरं स्फुटम् ।। ८३१ ।।
नैवं साक्षाद्यथावस्तुबोधस्यैवेह संभवात् ।।
नित्यं संनिहिते तस्मिंस्तत्स्मृत्या किं प्रयोजनम् ।। ८३२ ।।
अपि पाशुपतास्रेण विद्धश्चेन्न ममार यः ।।
निष्फलेषुवितुन्नाङ्गो नङ्क्ष्यतीत्यतिदुष्करम् ।। ८३३ ।।
अपि प्रत्यक्तमो नित्यं भास्वच्चैतन्यविम्बितम् ।।
बुद्धितद्वृत्तयश्चैवं तप्रायोविस्फुलिङ्गवत् ।। ८३४ ।।
प्रागप्यनात्मसंपातात्प्रतीचैवाऽऽप्तमेयकम् ।।
जन्मनैवाखिलं ज्ञानं फलवत्किमपेक्षते ।। ८३५ ।।
मात्रादिव्यवधानेन यथाऽन्यत्र मितेः फलम् ।।
फलतोऽवगतेरेव न तथेहाऽऽत्मदर्शने ।। ८३६ ।।
खपूर्ण एव सन्कुम्भो द्रव्यैर्नानाविधैर्युतिम् ।।
वियोगं वा यथा गच्छेच्चैतन्येद्धास्तथा धियाः ।। ८३७ ।।
तस्मादावृत्तिपक्षेऽपि स्वतस्तत्सिद्धितो विधिः ।
नापूर्वः कश्चिदत्र स्यादत एवापरोऽपि न ।। ८३८ ।।
अशब्दाद्यात्मकं साक्षान्निचाय्याऽऽत्मानमेकलम् ।।
मुच्यते मृत्युतो विद्वानिति नैगमिकं वचः ।। ८३९ ।।
आत्मन्यवगते साक्षात्प्रमाणार्थसमाप्तितः ।।
किमन्यत्स्मृतिसंतानात्प्रार्थ्यते निष्प्रमाणकम् ।। ८४० ।।
भविष्यत्कालसंवन्धि फलं चेह न नाकवत् ।।
तज्ज्ञानजन्मकालत्वादग्निजन्मोत्थकार्यवत् ।। ८४१ ।।
अविधिश्चार्थतः प्राप्तेस्तज्ज्ञानस्मृतिसंसततेः ।।
बोधाच्च ध्वस्तसंमोहः स्मृतिं नैव व्यपेक्षते ।। ८४२ ।।
सम्यग्ज्ञानाग्निनिर्दग्धे प्रत्यङ्भोहे सवान्धवे ।।
यथावस्तुस्मृतिं मुक्त्वा स्मृतिर्नान्याऽवशिष्यते ।। ८४३ ।।
प्रमाननुविधानाच्च न स्मृतिर्बाधिकाऽपरा ।।
बाध्यत्वेनैव माबुद्धेर्निष्ठिताऽभूदनात्मधीः ।। ८४४ ।।
बाध्यं तमो मितेः कृतस्नं तज्जं चाप्यतिदुर्वलम् ।।
मानं बाधकमेवाऽऽसीत्स्मृतिरप्यनयोस्तथा ।। ८४५ ।।
न स्मृतिर्विस्मृतिर्वेह संभाव्येतापि केनचित् ।।
सकृद्विभातो ह्येवैष रवौ रात्र्यहनी यथा ।। ८४६ ।।
अनर्थहेतुदाहित्वाद्यथोक्तात्मस्मृतेरतः ।।
आत्मस्मृतेः स्वतः प्राप्तिरितरस्यास्तु बाध्यता ।। ८४७ ।।
निरोधस्तर्हि पूर्वोक्तान्मतमर्थान्तरं यदि ।।
तन्त्रान्तरेषु तस्यापि कार्यत्वेन श्रुतत्वतः ।। ८४८ ।।
न, मुक्तिसाधनत्वेन तस्यामधिगमाच्छ्रुतेः ।।
प्रत्यग्वोधात्परं नान्यन्मुक्तेरस्तीह साधनम् ।। ८४९ ।।
अननुष्ठेयरूपत्वात्तत्सिद्धिश्चाऽऽत्मवोधतः ।।
प्रत्यग्ज्ञाने निरुध्यन्ते चित्ततद्वृत्तयो यतः ।। ८५० ।।
अभ्युपेत्यैतदस्माभिरुच्यते संभवादिति ।।
सम्यग्ज्ञानातिरेकेण न त्वन्यन्मुक्तिसाधनम् ।। ८५१ ।।
श्रुतौ स्मृतौ वा संभाव्यं ताभ्यां नान्यस्य मानता ।।
प्रत्याग्याथात्म्यनिर्णीतौ तार्किकोक्तात्मवस्तुवत् ।। ८५२ ।।
सर्वाकाङ्क्षैकहेतोश्च प्रत्यग्विज्ञानहानतः ।।
न भावनेह संभाव्या मोहे सत्येव सा यतः ।। ८५३ ।।
मानान्तरानधिगतोक्त्यर्थाधिगम एव नः ।।
विधिर्यतो नियोगोऽपि नैव स्यादनृतन्त्रतः ।। ८५४ ।।
नियोज्यतद्विषययोर्यत्र भेदोऽवसीयते ।।
विषयः स नियोगस्म नाऽऽत्मज्ञाने त्वभेदतः ।। ८५५ ।।
शब्दो लिङादिशून्योऽपि ह्यविज्ञातार्थबोधकः ।।
विधिर्भवति सामर्थ्याज्ज्ञाते ह्यर्थेऽनुवादता ।। ८५६ ।।
यतो वाचोऽभिधानानि प्रयुक्तान्युपलब्धये ।।
सर्वाण्यनभिधायैव निवर्तन्तेऽववोध्य च ।। ८५७ ।।
उदपादि च यच्छब्दैर्ज्ञानमाकारबद्धियः ।।
स्वतोबुद्धं तदप्राप्य नाम्ना सह निवर्तते ।। ८५८ ।।
माहात्म्यमेतच्छब्दस्य यदविद्या निरस्यति ।।
सुषुप्त इव निद्राया दुर्बलत्वाच्च बाधते ।। ८५९ ।।
दुर्बलत्वादविद्याया आत्मत्वाद्बोधरूपिणः ।।
शब्दशक्तेरचिन्त्यत्वाद्विद्मस्तं मोहहानतः ।। ८६० ।।
अगृहीत्वैव संबन्धमभिधानाभिधेययोः ।।
हित्वा निद्रां प्रबुध्यन्ते सुषुप्ते बोधिताः परैः ।। ८६१ ।।
जाग्रद्वन्न यतः शब्दं सुषुप्ते वेत्ति कश्चन ।।
ध्वस्तेऽतो ज्ञानतोऽज्ञाने ब्रह्मास्मीति भवेत्फलम् ।। ८६२ ।।
अविद्याघातिनः शब्दाद्याऽहं ब्रह्मोति धीर्भवेत् ।।
नश्यत्यविद्यया सार्धं हत्वा रोगमिवौषधम् ।। ८६३ ।।
अवशिष्टं स्वतोबुद्धं शुद्धं मुक्तमतो भवेत् ।।
नातः स्याद्भावनापेक्षा नापि मानान्तरं प्रति ।। ८६४ ।।
क्रियाप्रभेदविरहाज्ज्ञानं वा निखिलं तमः ।।
हन्त्यात्मलाभमात्रेण न तदन्या तमोह्नुतिः ।। ८६५ ।।
क्रियातत्फलयोर्भेदान्न भेदः क्रिययोरतः ।।
प्रत्यग्ध्वान्तमतो ज्ञानं स्वात्मलब्ध्यैव हन्ति तत् ।। ८६६ ।।
निष्पन्नोऽपि कुठारादिः प्रयोगविरहाद्यथा ।।
द्वैधीभावाय नैवालं तथा नैव प्रमाणधीः ।। ८६७ ।।
अलौकिकत्वाद्वोध्यस्य स्वतश्चावगमात्मनः ।।
बोध्ये हि लौकिकेऽपेक्षा परतोऽवगतौ तथा ।। ८६८ ।।
नद्यास्तीरे फलानीव प्रत्यक्षाद्यनपेक्षतः ।।
किमिवेहान्यमानेषु तवापेक्षाऽभिधाश्रुतेः ।। ८६९ ।।
प्रमाता च प्रमाणं च प्रमेयो निश्चितिस्तथा ।।
यत्सांनिध्यात्प्रसिध्यन्ति तत्सिद्धौ किमपेक्षते ।। ८७० ।।
जाग्रत्स्वप्नसुषुप्तेषु घटोऽयमिति संविदः ।।
व्यवधानं न चेहास्ति तद्भावाभावसाक्षितः ।। ८७१ ।।
इदमेवमिदं नैवमिति बुद्धिर्विभागभाक् ।।
अनात्मिकाऽऽत्मवत्यत्र येनासौ किमपेक्षते ।। ८७२ ।।
कर्त्रादिव्यापृतेः पूर्वमसंकीर्णमुपाधिभिः ।।
अविक्षिप्तमसंसुप्तं ह्यनुभवन्किमपेक्षते ।। ८७३ ।।
प्रमाणमप्रमाणं च प्रमाभासस्तथैव च ।।
कुर्वन्त्येव प्रमां यत्र तदसंभावना कुतः ।। ८७४ ।।
प्रामाण्यमेतत्पृष्ठेन कस्मान्नास्त्यभिथाश्रुतेः ।।
नियोगस्यापि मानत्वं नानपेक्ष्य प्रमामिमाम् ।। ८७५ ।।
पश्येदात्मानमित्यादि वाक्यं यत्स्याद्विधायकम् ।।
ज्ञानकर्तव्यतायां तन्नियोज्य पुरुषं प्रति ।। ८७६ ।।
स्वव्यापारेऽनपेक्ष्यैव वस्तुवृत्तं वचो यतः ।।
नियुङ्के पुरुषं तस्माद्वस्तुवृत्तं सुदुर्लभम् ।। ८७७ ।।
स्वशक्त्यननुरूपं चेत्कार्यं वाक्यशतैरपि ।।
नियुक्तोऽपि न तत्कर्तुमलं शक्ये स हीश्वरः ।। ८७८ ।।
अभिधाश्रुतिश्चेत्तत्सिद्धौ व्यायच्छेत प्रयत्नतः ।।
विधिवर्त्मानुगामित्वान्नार्थस्पृक्साऽस्वतन्त्रतः ।। ८७९ ।।
स्वमांसान्यपि खादन्ति नियोगानतिलङ्घिनः ।।
जहत्यपि प्रियान्प्राणाञ्शक्यत्वादेव नान्यतः ।। ८८० ।।
अशक्ये विनियुक्तोऽपि कृष्णलाञ्श्रपयेदिति ।।
सर्वात्मनाऽप्यसौ कुर्वन्कुर्यात्तस्करकन्दुवत् ।। ८८१ ।।
ज्ञानस्य वस्तुतन्त्रत्वान्नोपासनसमुत्थितिः ।।
न चाऽऽवृत्त्या प्रमोत्पत्तिं प्रमाणानि प्रकुर्वते ।। ८८२ ।।
नार्थस्पृग्भावना चेत्स्याह्ब्रह्मधीजन्मने न सा ।।
शुक्तिकाज्ञानसंभूतौ न स्वभ्यस्ताऽपि रूप्यधीः ।। ८८३ ।।
द्रष्टव्यश्चेद्भवेदात्मा स्यान्नियोगस्तथाऽऽत्मनि ।।
निषेधाद्दर्शनस्येह न नियोगोऽस्त्यतः परे ।। ८८४ ।।
मनुते यन्न मनसा मतं येन मनः सदा ।।
ब्रह्म विद्धि तदेव त्वं न त्विदं यदुपासते ।। ८८५ ।।
शुङ्गग्राहिकया श्रुत्या ब्रह्मताऽपोदिता स्फुटम् ।।
उपास्यत्वैकदोषेण नियोगोऽतोऽत्र नेष्यते ।। ८८६ ।।
ज्ञाताज्ञातापनिहुत्या ज्ञातृभावादिसाक्षिणः ।।
ब्रह्म विद्धि तदेवेति ब्रह्मता च समर्पिता ।। ८८७ ।।
वाक्यार्थज्ञानकाले यः पदार्थो नैव विद्यते ।।
कर्तव्यः कारकापेक्षो विधेयः स न संशयः ।। ८८८ ।।
विपरीतस्ततो यस्तु वाक्यादेव च गम्यते ।।
नित्योऽकर्मप्रयुक्तः स न विधेयः कथंचन ।। ८८९ ।।
यथावस्तु हि या बुद्धिः सम्यग्ज्ञानं तदेव नः ।।
पौरुषायासमात्रोत्थमज्ञानं रजतादिवत् ।। ८९० ।।
वस्तुमात्रानुरोधित्वात्सम्यग्ज्ञानस्य दुष्करम् ।।
नियोगानुप्रवेशेन वस्तुतत्त्वावबोधनम् ।। ८९१ ।।
अभिधेयं न यद्वस्तुप्रत्ययश्च न ढौकते ।।
नियुक्तोऽपि नियोगेन तादृङ्नैवेक्षितुं क्षमः ।। ८९२ ।।
अपि मानान्तरप्राप्तं वस्तुवोधं निवर्तयेत् ।।
नियोगार्थानुरोधेन यदि वस्त्ववबोध्यते ।। ८९३ ।।
मानान्तरोत्थविज्ञानप्राप्ताबेव नियुज्यते ।।
नियोगादेव तद्बुद्धौ नियोगत्वं भवेद्यतः ।। ८९४ ।।
भाव्यतेऽसन्नपीहार्थस्तस्यान्यत्र प्रसिद्धितः ।।
ब्रह्मणस्त्वप्रसिद्धत्वात्क्रियतेऽसूत्रकः पटः ।। ८९५ ।।
क्रियतेऽलौकिकोऽप्यर्थः पदार्थान्वयरूपतः ।।
अवार्क्याथात्मकं ब्रह्म तेनादो दुष्करं मतम् ।। ८९६ ।।
अवाक्यार्थात्मकं ब्रह्म कुतोऽज्ञायीति कथ्यताम् ।।
वाक्यातिरेकि तन्मानं नान्यत्किंचित्त्वयेष्यते ।। ८९७ ।।
अथान्यदपि तन्मानं भवताऽभ्युपगम्यते ।।
तावतैव कृतार्थत्वाद्व्यर्थं ध्यानादिचेष्टितम् ।। ८९८ ।।
निदिध्यासनशब्देन सम्यग्ज्ञानं विवक्षितम् ।।
उक्तानुवचने तस्य विज्ञानेनेतिनिर्णयात् ।। ८९९ ।।
ब्रह्म संसर्गरूपं चेद्वाक्यादध्यवसीयते ।।
तावन्मात्रप्रमाणत्वात्तादृगेवास्तु तन्मितेः ।। ९०० ।।
यादृक्तद्गम्यते मानात्तत्तादृङ्नेति गीःकुतः ।।
अमानात्कल्प्यते यादृक्तत्तथैवेति साहसम् ।। ९०१ ।।
घटाकाशो महाकाश एवमाद्युक्तितोऽपि नः ।।
असंसृष्टार्थबोधः स्याद्यथैवं सदसीत्यतः ।। ९०२ ।।
विज्ञाय प्रज्ञामित्यस्य न चार्थोऽयं विवक्षितः ।।
यथा तथाऽतियत्नेन तत्रैवैतत्प्रवक्ष्यते ।। ९०३ ।।
स्वरूपानूक्तिमात्रत्वादप्रामाण्यं मतं यदि ।।
तत्त्वमस्यादिवाक्यानां सोऽरोदीदितिवाक्यवत् ।। ९०४ ।।
प्रामाण्यहेतुसद्भावान्नाप्रामाण्यमिहेष्यते ।।
फलवन्निश्चितज्ञानजन्म प्रामाण्यकारणम् ।। ९०५ ।।
तादृग्यत्रास्ति तन्मानं, नास्ति यत्र न नन्मितिः ।।
तत्त्वमस्यादिवाक्यार्थश्रवणानन्तरं न किम् ।। ९०६ ।।
फलवन्निश्चितज्ञानजन्म साक्षात्समीक्ष्यते ।।
तस्मिन्सत्यप्रमाणत्वं किमिवेहोच्यते त्वया ।। ९०७ ।।
सोऽरोदीदिति वाक्येभ्यो निश्चितं फलवच्च किम् ।।
जायते यदि विज्ञानं प्रामाण्यं केन वार्यते ।। ९०८ ।।
अथ नैतदमानत्वं काममस्तु न वार्यते ।।
फलवन्निश्चितज्ञानजनकस्य किमागतम् ।। ९०९ ।।
अथैतस्याप्रमाणत्वं मानत्वं केति भण्यताम् ।।
यत्राप्यभीष्टं मानत्वं तत्राप्येत्यप्रमाणता ।। ९१० ।।
नरप्रवृत्तिसद्भावान्ननु तस्य प्रमाणता ।।
ज्योतिष्टोमादिवाक्यस्य ब्रह्मास्मीत्यत्र तन्न तु ।। ९११ ।।
प्रामाण्यहेतुसद्भावान्नैतत्साध्वभिधीयते ।।
हेतुश्चाभिहितोऽस्माभिः प्रवृत्तिर्न तु कारणम् ।। ९१२ ।।
अलंकारोऽयमस्माकं यदशेषप्रवर्तन -
वीजप्रध्वंसकृज्ज्ञानफलवज्जन्मकारिता ।। ९१३ ।।
यथोक्तेन विचारेण विधित्रयनिषेधनम् ।।
कृतं तन्नित्यसंप्राप्तिहेतूक्त्याऽनवशेषतः ।। ९१४ ।।
तमेवेति च वाक्यस्य विध्यसंभवमब्रुवम् ।।
स्वरसेनैव संप्राप्तेस्तथाऽऽत्मोपासनस्य च ।। ९१५ ।।
आत्मानमनुपास्येह नानात्मानं जनोऽपि हि ।।
उपास्ते तेन तत्प्राप्तिर्नित्यैवेत्यभिधीयते ।। ९१६ ।।
अहंप्रत्ययगम्यत्वे ह्यभ्युपेतेऽपि चाऽऽत्मनः ।।
अनात्मप्रत्ययोत्पत्तिरहंप्रत्ययपूर्विका ।। ९१७ ।।
आत्माऽऽत्मानं सदोपास्ते तत्प्रत्ययसमन्वयात् ।।
निःशेषानात्मबुद्धीनां नित्यप्राप्तमुपासनम् ।। ९१८ ।।
विज्ञानकारणत्वेऽपि ह्यभ्युपेतेऽन्तरात्मनः ।।
नित्योपासनसंप्राप्तिस्तज्ज्ञानानां तदन्वयात् ।। ९१९ ।।
अभ्युपेतेऽपि च विधौ न प्रवृत्तिरिहेष्यते ।।
सर्वमात्मेति संदृष्टे न प्रवृत्तिरहेतुतः ।। ९२० ।।
नियमार्थो विधिरमिति भाष्यकृतो वचः ।।
अभ्युपेत्यापि वक्ष्यमीत्येवमेतत्समञ्जसम् ।। ९२१ ।।
न कश्चिदपि संभाव्यो यथोक्तान्यायगौरवात् ।।
विधिर्यतोऽभ्युपगमान्नियमोक्तिरियं ततः ।। ९२२ ।।
दर्शनं क्रियमाणं हि कर्माऽऽश्रित्य प्रसिध्यति ।।
आत्माऽनात्मा च तत्कर्म तदन्यस्याप्रसिद्धितः ।। ९२३ ।।
यथा तण्डुलनिष्पत्तिरवघाताद्यपेक्षया ।।
सिध्येद्दर्शननिष्पत्तिस्तद्वदात्माद्यपेक्षया ।। ९२४ ।।
अवघातस्य पाक्षिक्यां प्राप्तौ यद्वन्नियम्यते ।।
अवहन्यादिति तथा ह्यात्मोपास्तिर्नियम्यते ।। ९२५ ।।
अनात्मोपासनप्राप्तौ ध्यायेदात्मानमित्यतः।।
अनात्मोपास्तेः सामर्थ्यान्निवृत्तिर्न तु शब्दतः ।। ९२६ ।।
यद्यात्मोपासनाप्राप्तिः कचित्संभाव्यतेऽञ्जसा ।।
अवघातादिवत्कामं नियमोऽस्तु तथा सति ।। ९२७ ।।
प्रत्यगर्थमनालिङ्ग्य न पराग्वर्ति किंचन ।।
विज्ञानं जायते यस्मादात्मोपास्तिः सदा ततः ।। ९२८ ।।
प्रागप्यनात्मसंबन्धाज्जन्मनैवाऽऽत्मकर्मकम् ।।
विज्ञानं निखिलं यस्मान्नित्यप्राप्तिरतो भवेत् ।। ९२९ ।।
उपास्यार्थातिरेकेण न चोपासनकृद्धिरुक् ।।
संभाव्यो नियमविधिरतो नाऽऽत्मन्यभेदतः ।। ९३० ।।
उक्तं च न्यायमापेक्ष्य नियमोऽत्यन्तदुर्लभः ।।
विधेर्दौर्बल्यसिद्ध्यर्थमतो भाष्यकृदुक्तवान् ।। ९३१ ।।
मुक्तेष्वादिवदित्यादि यच्च किंचित्समीरितम् ।।
तस्याप्यसंभवः स्पष्ट उपरिष्टात्प्रवक्ष्यते ।। ९३२ ।।
अनात्मोपासनमिदमितिशब्दप्रयोगतः ।।
प्रियमित्यादौ दृष्टत्वादप्रियोपासनं गुणात् ।। ९३३ ।।
आत्मैकगुणवत्त्वेन न त्वत्राऽऽत्मैव चिन्त्यते ।।
आत्मोपास्यत्ववाक्याच्च वैलक्षण्यं श्रुतेर्भवेत् ।। ९३४ ।।
आत्मानमितिकर्मोक्तेर्वैलक्ष्यण्यमितिः स्फुटम् ।।
आत्मोपास्तिनिषेधाच्च न पश्यन्तीति वाक्यतः ।। ९३५ ।।
नाऽऽत्मोपास्यत्वावगमाद्वाक्यशेषे भवेदिदम् ।।
पदनीयान्तरतरं प्रियमित्यादिशेषतः ।। ९३६ ।।
आत्मानं प्रियमित्येतद्वाक्यशेषेऽवगम्यते ।।
तस्मादात्मैवोपास्यः स्यान्नानात्मोपास्य इष्यते ।। ९३७ ।।
अकृत्स्नत्वान्निषेधश्च न त्वात्मोपासनस्य सः ।।
शब्दज्ञानातिवर्तित्वख्यापनायेतिशब्दनम् ।। ९३८ ।।
यतो वाचो निवर्तन्ते नेति नेत्यादिकं तथा ।।
एवं सत्यर्थवत्सर्वमन्यथा तदनर्थकम् ।। ९३९ ।।
अनात्मार्थापनुत्यर्थमात्मानमिति शब्द्यते ।।
नातो वाक्यान्तरं तत्स्याद्यथोक्तार्थानुवादतः ।। ९४० ।।
आत्मेत्येषोपासीतेति हेतुरत्रोपदिश्यते ।।
अकार्त्स्न्यदोषहानाय प्रतीचः कृत्स्नतोच्यते ।। ९४१ ।।
आत्मनोऽनवशेषेण संबन्धोऽनात्मवस्तुना ।।
रज्जुसर्पादिवन्नातः प्रतीचः शिष्यते पराङ् ।। ९४२ ।।
सर्वमज्ञातमेव स्याद्यस्मिन्नज्ञात आत्मनि ।।
ज्ञाते ज्ञातं च कृत्स्नोऽसौ तावत्त्वात्सर्ववस्तुनः ।। ९४३ ।।
युक्त्या निरूप्यमाणस्य ह्वात्मा तत्त्वमनात्मनः ।।
प्रत्याख्यातः स चेत्तेन कानात्मा सिध्यतामयम् ।। ९४४ ।।
अनात्मतत्तवमन्वेति ह्यात्माऽसङ्गोऽगुणोऽद्वयः ।।
स्वतः सिद्धौ न चेत्सिध्येत्किमन्यद्भेषजं ततः ।। ९४५ ।।
ज्ञातायां स्रजि तन्मोहकल्पितानां यथैकता ।।
प्रतीच्येवं तदज्ञानक्लृप्तानामेकतेष्यते ।। ९४६ ।।
आत्मशब्दाभिधेयेऽर्थे प्रत्यक्सामान्यरूपके ।।
अन्तर्भवन्ति निखिला विशेषा इति केचन ।। ९४७ ।।
सामान्येन समस्तं तद्विशेषैर्व्यस्तमेव च ।।
कृत्स्नमेवं परं ब्रह्म सदोपासीत यत्नतः ।। ९४८ ।।
अवस्थावदवस्थाभिः कचित्कार्त्स्न्यं प्रचक्षते ।।
कार्यकारणरूपेण कचिद्व्याचक्षते तथा ।। ९४९ ।।
भागभागिविभागेन नाभिनेम्यरवत्तथा ।।
व्याचक्षते महात्मानः संप्रदायबलात्किल ।। ९५० ।।
अक्षराणामतात्पर्याद्युक्तितश्चाप्यसंभवात् ।।
प्रतिपत्तुं वयं तादृक्शक्रुमो नाञ्चसा परम् ।। ९५१ ।।
अज्ञातं जगदज्ञाते ज्ञाते ज्ञातं च यत्र तत् ।।
तद्ब्रह्मैवंविधं कृत्स्नं न गोवृक्षादिवन्मतम् ।। ९५२ ।।
सामान्यानि विशेषाश्च व्यावर्तन्ते परस्परम् ।।
प्राणादिवदतः कार्त्स्न्यं न तेषां युक्तिमद्भवेत् ।। ९५३ ।।
तदानन्त्याच्च तद्वोधो नेश्वरेणापि कार्त्स्न्यतः ।।
क्रमशोऽक्रमशो वाऽपि शक्यः कुतं कदाचन ।। ९५४ ।।
तादात्म्यभावनायां तु पुंसां संभावनाऽपि न ।।
शक्या सुनिपुणेनापि कर्तुं तद्व्यापृतिः कुतः ।। ९५५ ।।
गङ्गावतारवन्नापि वहूपासितृकर्मता ।।
भावनोपचयाभावादेकैकस्मिंस्तथा सति ।। ९५६ ।।
देवो भूत्वैति विबुधान्भावनोपचयान्नरः ।।
इति सर्वपदार्थेषु पुंसोऽशक्या विधित्सितम् ।। ९५७ ।।
यज्ज्ञातमपि कार्त्स्न्येन तत्तदन्यच्च नाञ्जसा ।।
ज्ञानेन ज्ञायते तादृक्कृत्स्नं कथमिहोच्यते ।। ९५८ ।।
पराग्वस्तु विरोधित्वात्प्रत्यग्बुद्ध्या न गम्यते ।।
पराञ्चीत्यपि हेतूक्तेर्नातः पिण्डादिकृत्स्नधीः ।। ९५९ ।।
तथाऽऽत्मनि च विज्ञाते सर्वं ज्ञातं भवेदिति ।।
येनाश्रुतं श्रुतमिति कस्मिन्न्विति तथा परम् ।। ९६० ।।
आत्मसाम्यग्रहेऽप्यात्मभेदमात्रगृहीतितः ।।
नैवानात्मार्थसामान्यविशेषाणां ग्रहो भवेत् ।। ९६१ ।।
समस्तव्यस्ततादृष्टावेवमादि सुदुर्घटम् ।।
अपूर्वानपरानन्तरावाह्योक्तिश्च दुःस्थिता ।। ९६२ ।।
पराक्प्रमेयमानानां प्रत्यगर्थधियोदितः ।।
बाधोऽतोऽसाध्वभिहितं समस्तव्यस्ततां प्रति ।। ९६३ ।।
तथोपास्यस्य ब्रह्मत्वे श्रुत्या साक्षान्निराकृते ।।
नेदं यदिदमित्येवं समस्तव्यस्तता कुतः ।। ९६४ ।।
स्थूलाद्यशेषापह्नुत्या चाक्षरे प्रत्यगात्मनि ।।
कारणान्तस्य जगत ओतप्रोतोक्तितस्तथा ।। ९६५ ।।
न च प्रत्यग्धिया द्रष्टुं पराग्वस्तिवह शक्यते ।।
समस्तव्यस्ततैवं च न मानादुपपद्यते ।। ९६६ ।।
मानभूमेश्च व्युत्थाप्य तथा विदितभूमितः ।।
प्रत्यङ्भात्रस्य ब्रह्मोक्तेः समस्तव्यस्तता कुतः ।। ९६७ ।।
न समस्तं न च व्यस्तं नोभयं प्रत्यगात्मनि ।।
प्रत्यक्प्रवणया बुद्ध्या वीक्ष्यतां यदि शक्यते ।। ९६८ ।।
कस्मात्पुनरिदं त्यक्त्वा दृष्टादृष्टार्थसाधनम् ।।
आत्मेत्येवोपासीतेति महान्यत्नः श्रुतेरिह ।। ९६९ ।।
पदनीयमिदं यस्मादनात्मभ्यः परं पदम् ।।
सर्वज्ञेयपुमर्थानां प्रत्यग्ज्ञाने समाप्तितः ।। ९७० ।।
न हि प्रतीचि विज्ञाते कश्चिदप्यवशिष्यते ।।
ज्ञेयोऽर्थः पुरुषार्थो वा पदनीयमतो भवेत् ।। ९७१ ।।
अनात्मार्थे तु विज्ञाते स्वाध्यस्ताहिप्रबोधवत् ।।
न किंचित्स्यात्परिज्ञातं नानात्माऽतः प्रमित्सितः ।। ९७२ ।।
अस्येति शैषिकी षष्ठी कृत्स्नसंगत्यपेक्षया ।।
प्रतीचा व्यतिरेकी सन्नानात्मा ह्येति संगतिम् ।। ९७३ ।।
नर्ते विभागं संबन्धः प्रतीचाऽनात्मनोऽस्ति हि ।।
प्रत्यगर्थोऽविभागात्मा नातः संगच्छते द्वयम् ।। ९७४ ।।
अतो दुःस्थितसिद्ध्येतत्पराग्वस्त्वन्तरात्मनि ।।
तावन्मात्रैकयाथात्म्याद्बुद्ध्यादे रज्जुसर्पवत् ।। ९७५ ।।
पराक्तयैष ज्ञातोऽपि प्रत्यग्याथात्म्यहेतुतः ।।
अनात्माऽज्ञात एव स्याच्छुक्तिकारूप्यबोधवत् ।। ९७६ ।।
निर्धारणे वा षष्ठीयं ज्ञेयार्थस्यावधारणात् ।।
प्रतीचो ह्यनधिगतान्नान्योऽनधिगतो यतः ।। ९७७ ।।
ज्ञातोऽपि तद्वदेवास्मान्नाऽऽत्मनो विद्यते परः ।।
प्रत्यगज्ञानहेतुत्वात्तदन्यस्येह वस्तुनः ।। ९७८ ।।
अनात्मनोऽस्य सर्वस्य व्याकृताव्याकृतात्मनः ।।
यस्मादात्मा परं तत्त्वं पदनीयमतो भवेत् ।। ९७९ ।।
खण्डादौ गोत्ववद्यस्मात्प्रत्यग्दृष्ट्याऽन्तरात्मनि ।।
समीक्ष्यते हिरुङ्गनापि तेनासावात्मतत्त्वकः ।। ९८० ।।
ज्ञेय आत्मैव नानात्मा पदनीयत्वकारणात् ।।
नन्वन्यज्ञाने नान्यस्य कचिदस्त्यवबुद्धता ।। ९८१ ।।
सत्यमेवं भवेदेतद्यद्यात्माऽप्यन्य इष्यते ।।
आत्माऽसावन्य इति च नानुन्मत्तस्य गीरियम् ।। ९८२ ।।
अनेनेति तृतीयेयमित्थंभूतार्थलक्षण ।।
इदंधीशब्दगम्यस्य प्रत्यङ्भात्रसतत्त्वतः ।। ९८३ ।।
घटो नास्तीति कोऽन्वस्मान्मानादर्थः प्रतीयते ।।
संवित्तावदशेषेभ्यः प्रमाणेभ्योऽवसीयते ।। ९८४ ।।
न संविदः पृथक्त्वेन नापि संविदि तद्धिया ।।
अनात्मवस्तूत्प्रक्ष्यं स्याद्यथा संविदियं स्वतः ।। ९८५ ।।
उपलब्धोऽस्ति सन्कुम्भो लम्बोष्ठो देशकालवान् ।।
पूर्वपूर्वातिरेकेण नोत्तरार्थोऽनुभूयते ।। ९८६ ।।
कर्त्रादिव्यापृतेः पूर्वं संवित्स्वात्मन्यवस्थितेः ।।
अविभागादनाख्येया तदुद्भूत्य फलायते ।। ९८७ ।।
अक्रियेऽपि यथा व्योम्नि द्युत्पत्तिस्थितिहानिभिः ।।
जगन्ननर्ति मय्येवं सदसद्विश्वरूपभृत् ।। ९८८ ।।
नञ्घटार्थावपह्नुत्य संवित्सद्रूपमात्रया ।।
अवगत्यात्मना सत्त्वं सर्वदृक्स्यादविक्रियः ।। ९८९ ।।
दिग्विभागोऽविभागेऽपि व्योम्नि यद्वत्प्रकल्पितः ।।
प्रध्वस्ताशेषभेदेऽपि मयि भिन्नधियस्तथा ।। ९९० ।।
कथं पुनरबोधोत्थक्लृप्तोपायेन नत्परम् ।।
गम्यते सत्यमित्यस्य परिहृत्यै परं वचः ।। ९९१ ।।
परमार्थात्मनाऽसत्यं पदं तदपि बोधकम् ।।
स्वार्थस्यैवमुपायत्वमसत्यस्याऽऽत्मनीक्ष्यताम् ।। ९९२ ।।
उपायसत्यतां मुक्त्वा नान्यादृश्युपयुज्यते ।।
सत्यताऽत्र ह्युपायानामुपेये किं तयेष्यते ।। ९९३ ।।
गवादिखुरिबिम्वो वा पदमित्युपदिश्यते ।।
अनन्वितार्थसिद्ध्यर्थं दृष्टान्तोऽयं तथा सति ।। ९९४ ।।
गवादिबोधनिर्वृत्तिः पदतज्ज्ञानहेतुतः ।।
अनन्वितपदज्ञानगोपिण्डैकावसायिनी ।। ९९५ ।।
यथैवं नामरूपादिप्रपञ्चोपायहेतुतः ।।
अप्रपञ्चात्मके भूम्नि प्रत्यग्बोधः प्रजायते ।। ९९६ ।।
प्रमाणभूमावैकात्म्यं विरोधान्न प्रतीयते ।।
तमोन्वयाप्रमेयत्वात्तदभावेऽपि नेक्ष्यते ।। ९९७ ।।
न हि वस्त्वात्मनैवाऽऽत्ममोहाद्युच्छित्तये कचित् ।।
प्रमाणनिरपेक्षं सद्वस्त्वलं स्वप्रसिद्धये ।। ९९८ ।।
संसारानवतारः स्यान्मानवैफल्यमेव च ।।
इत्येतस्येह चोद्यस्य परिहाराय चोत्तरम् ।। ९९९ ।।
यथा गवात्मना साक्षाद्गां विन्देद्गोपदानुगः ।।
प्रत्यक्चैतन्यसृत्यैवं विन्देत्तत्परमं पदम् ।। १००० ।।
प्रत्यक्तया यदाभाति ह्यागमापायिसाक्षितः ।।
देहेन्द्रियमनोधीषु चैतन्याभासरूपकम् ।। १००१ ।।
जडेष्वेकमनेकेषु कूटस्थं क्षणभङ्गिषु ।।
अनात्मसु तथा चाऽऽत्मा संहतेष्वप्यसंहतः ।। १००२ ।।
तस्यावाक्यार्थरूपस्य पदमेतत्प्रचक्षते ।।
पद्यतेऽनेन तद्यस्मात्तेनेदं पदमुच्यते ।। १००३ ।।
स्वमहिम्नैव चेत्सिध्येदुपायः परमार्थवत् ।।
स्वतः सिद्धेर्न मिथ्यात्वं तस्य स्यात्परमार्थवत् ।। १००४ ।।
परमार्थादभिन्नश्चेन्नितराममृषात्मता ।।
इत्यादि पूर्वमुक्तं यदनुसंधेयमत्र तत् ।। १००५ ।।
न सामान्यं विशेषो वा यथैकात्म्येऽवगम्यते ।।
उक्तमप्युत्तरत्रैतदसंतोषात्प्रवक्ष्यते ।। १००६ ।।
प्रत्यगात्मनि विज्ञाते नाज्ञातमवशिष्यते ।।
अनेन ह्येतदित्युक्त्या तत्पूर्वमुपवर्णितम् ।। १००७ ।।
निःशेषपुरुषार्थाप्तिर्दुःखहानिस्तु तत्फलम् ।।
यथा हेत्युच्यते श्रुत्या साधनाभिन्नमात्मनः ।। १००८ ।।
ननु प्रतीचि विदिते तदन्यद्विदितं भवेत् ।।
ज्ञानार्थे प्रकृते कस्माल्लाभार्थेनोपसंहृतिः ।। १००९ ।।
ज्ञानलाभार्थयोर्यस्मादेकार्थत्वं विवक्षितम् ।।
अविद्याध्वंसमात्रत्वात्तेनात्रास्त्वविरुद्धता ।। १०१० ।।
नित्यलब्धैकरूपस्य नालाभोऽज्ञानतोऽन्यतः ।।
यथैवं तस्य लाभोऽपि तज्ज्ञानान्नान्यतो भवेत् ।। १०११ ।।
आत्मता ब्रह्मणो लाभो ब्रह्मताऽप्यात्मनः फलम् ।।
व्यावर्त्यभेदात्तद्भित्तेरेकं वस्तु द्विरुच्यते ।। १०१२ ।।
ब्रह्मता नाऽऽत्मनोऽन्यत्र नाऽऽत्मता ब्रह्मणोऽन्यतः ।।
यत एवमतोऽभेदो ज्ञानलाभार्थयोरिह ।। १०१३ ।।
लब्धृलब्धव्ययोर्भेदो यत्राविद्योत्थभूमिषु ।।
फलभेदः क्रियाभेदात्तत्र भिन्नार्थता तयोः । १०१४ ।।
आप्ताशेषपुमर्थोऽपि प्रत्यग्याथात्म्यमोहतः ।।
असर्वज्ञो भवेदात्मा तथाऽनाप्तार्थ एव च ।। १०१५ ।।
तत्राऽऽत्मा लब्धाऽविद्वान्स्याल्लब्धव्यं च क्रियाफलम् ।।
उत्पत्त्याद्यन्तरायं सत्कारकोपात्तिपूर्वकम् ।। १०१६ ।।
तादृग्लब्धोऽप्यलब्धः स्यादविद्यामात्रहेतुतः ।।
आद्यन्तयोरभावाच्च स्वप्नपुत्रादिलाभवत् ।। १०१७ ।।
विपरीतस्वभावोऽत आत्मलाभः स्वतः सदा ।।
अज्ञानहेतोरन्यादृक्स च ज्ञानान्निवर्तते ।। १०१८ ।।
आरभ्य सर्वं वेदेति ज्ञानार्थेनोपसंहृतिम् ।।
अतोऽनुविन्देदित्याह लाभार्थेनैव तत्फले ।। १०१९ ।।
अप्रख्यातो यथैवाऽऽत्मा व्याकृते ख्यातिमेयिवान् ।।
एवं तदवबोधान्ना ख्यातिमेत्यविनश्वरीम् ।। १०२० ।।
संहतिश्चक्षुरादीनां श्लोकशब्देन भण्यते ।।
यथाऽऽत्मा संहतिं प्रापद्व्याकृतः करणादिभिः ।। १०२१ ।।
एवं विद्वानवाप्नोति पुत्रामात्यादिसंहतिम् ।।
उक्तज्ञानप्रवृत्त्यर्थमर्थवादोऽयमिष्यते ।। १०२२ ।।
निरेषणानां नेदृग्धि संसारं प्रजिहासताम् ।।
फलं युक्तं प्रवृत्त्यङ्गमर्थवादो भवेदतः ।। १०२३ ।।
कीर्ति चैकात्म्यविज्ञानं श्लोकं चैकात्म्यसंगतिम् ।।
यथोक्तवस्तुवेद्येतत्फलमाप्नोत्यभीप्सितम् ।। १०२४ ।।
अव्याकृतव्याकरणं प्रत्यग्दर्शनसिद्धये ।।
तदन्तरायस्तत्सक्तिस्तन्निवृत्तौ परा श्रुतिः ।। १०२५ ।।
शब्दादिबडिशाकृष्टचेतसः प्रत्यगीक्षणे ।।
न सामर्थ्यं यतस्तेभ्यो व्यावृत्त्यर्थं परा श्रुतिः ।। १०२६ ।।
हेत्वन्तरोपदेशो वा पदनीयत्व आत्मनः ।।
तदेतदितिशास्रेण भण्यते तद्वुभुत्सवे ।। १०२७ ।।
सांख्यमुक्तिनिवृत्त्यर्थमथवाऽस्तूत्तरा श्रुतिः ।।
प्रेयोगिराऽऽत्मनो यस्मान्निष्ठाऽऽनन्दस्य भण्यते ।। १०२८ ।।
पुत्रात्प्रेय इदं तत्त्वं वित्तात्प्रियतरं तथा ।।
पुत्रो वित्तं च लोकेऽपि प्रसिद्धं प्रियरूपतः ।। १०२९ ।।
ईयसुंस्तमवर्थे स्यात्पुत्रादीनां बहुत्वतः ।।
छान्दसत्वात्प्रियतमस्तथाऽऽत्मा संभवत्यपि ।। १०३० ।।
वित्तात्पुत्रः प्रियः पुत्रात्पिण्डः पिण्डात्तथेन्द्रियम् ।।
इन्द्रियेभ्यः प्रियः प्राण आत्मा प्रियतमस्ततः ।। १०३१ ।।
वित्तं द्विविधमप्यत्र वित्तशब्देन गृह्यते ।।
देवलोकः फलं यस्माद्देवस्यापि न तत्पदम् ।। १०३२ ।।
प्रीतिसाधनहेतुत्वात्प्राणादौ प्रीतिरिष्यते ।।
बन्धकीप्रीतिवन्मुख्या नैवानात्मसु युज्यते ।। १०३३ ।।
व्याध्याद्युपप्लुतो यस्माद्वक्ति निर्विण्णमानसः ।।
अद्यैव मरणं श्रेयो मम दुःखार्दितात्मनः ।। १०३४ ।।
प्रतीचि निर्निमित्तैव सर्वावस्थास्वपीष्यते ।।
प्रीतिरग्न्युष्णवत्तस्मादात्मा प्रेयामननात्मनः ।। १०३५ ।।
त्रैगुण्यात्सर्वभावानां मोहदुःखसुखात्मता ।।
स्वत एव त्वनध्यस्ता ह्येवं केचित्प्रचक्षते ।। १०३६ ।।
तत्तु नैवं यतः सत्त्वं मोहादित्रयकृद्धियः ।।
भानूदयं प्रपश्यामश्चोरदृग्रोगिदिग्दृशाम् ।। १०३७ ।।
समं त्रयं त्रिषु भवेन्त्रैगुण्यं चेद्रवौ मतम् ।।
गुणान्तराधिकारोऽपि न च भानूदये मतः ।। १०३८ ।।
प्रमाणैर्गृह्यते प्रीतिर्व्यभिचारिण्यनात्मसु ।।
रज्ज्वां सर्पादिवन्नैवं प्रत्यगात्मनि सेक्ष्यते ।। १०३९ ।।
आत्मैव प्रिय इत्यत्र हेतुः स्पष्टोऽभिधीयते ।।
श्रुत्याऽन्तरतरोक्त्येह तद्धेतुश्चाऽऽत्मतोच्यते ।। १०४० ।।
यथाऽन्तरतमः प्रत्यक्तथोदर्के प्रवक्ष्यते ।।
वाचक्नव्यक्षरान्तेन ग्रन्थेन प्रत्यगात्मनः ।। १०४१ ।।
प्रत्यक्ताऽन्यानपेक्षा हि तदन्यत्तदपेक्षया ।।
यतोऽन्तरतमः प्रत्यङ्त्कस्मादेवावगम्यते ।। १०४२ ।।
यस्य त्वष्टास्ववस्थासु प्रत्यक्त्वं सममिष्यते ।।
तस्यान्तरतम इति दुर्घटं वचनं भवेत् ।। १०४३ ।।
अन्यूनाधिकरूपासु त्वष्टावस्थास्विहाऽऽत्मनः ।।
कं विशेषं समश्रित्य ह्यात्माऽन्तरतमो मतः ।। १०४४ ।।
भाक्तैवानात्मसु प्रीतिर्यस्मात्तस्मादनात्मनः ।।
व्युत्थाप्य निखिलां प्रीतिं प्रतीच्येव निवेशयेत् ।। १०४५ ।।
एवं व्यवस्थितौ सत्यां युक्तिलेशोऽभिधीयते ।।
पुत्रादि प्रियमात्मेति द्वयोर्विवदमानथोः ।। १०४६ ।।
आत्मनोऽन्यत्प्रियमिति यो ब्रूते मोहसंप्लुतः ।।
ब्रुवाणं तं प्रति ब्रूयादिति श्रुत्यनुशासनम् ।। १०४७ ।।
यस्ते प्रियतयाऽभीष्टः सोऽचिराद्दुःखकृद्भवेत् ।।
यतो नङ्क्ष्यति स क्षिप्रं नश्यंश्चासुखकृत्प्रियः ।। १०४८ ।।
यथोक्तस्याविसंवादं तत्तथैवेति च श्रुतिः ।।
आत्मैव प्रिय इत्येवं प्रतिज्ञां प्रत्यभाषत ।। १०४९ ।।
यस्मादेवमतो हित्वा प्राणादीनप्रियात्मनः ।।
सर्वान्तरतमात्मानमुपासीत प्रियं सदा ।। १०५० ।।
स य आत्मानमित्युक्त्या प्राप्तदोषनिराक्रिया ।।
प्रमायुक्त्वं मर्त्यत्वात्प्राणादेर्न तु वार्यते ।। १०५१ ।।
व्यावृत्तसर्ववाह्यार्थप्रीतेस्तन्मुक्तिकामिनः ।।
न हास्येति गिरा नातो मुमुक्षोः फलकीर्तनम् ।। १०५२ ।।
अाविरिञ्चाद्विरक्तश्चेत्कुम्भीपाकादिवेह यः ।।
आप्ताशेषक्रियाकार्यो मुक्तौ स विनियुज्यते ।। १०५३ ।।
परीक्ष्य लोकानित्यादि तथा नैगमिकं वचः ।।
त्यज धर्ममधर्मं चेत्येवमादि स्मृतेरपि ।। १०५४ ।।
आत्माविद्यापनुत्त्यर्थं प्रारब्धोपनिषत्परा ।।
आत्मेत्युपक्रमं यच्च तत्सूत्रं प्रागुदाहृतम् ।। १०५५ ।।
तद्धेदमित्यनेनास्याः प्रमेयोऽर्थो निरूपितः ।।
अकृत्स्नवचसा तद्वत्प्रमाभासोऽप्यपोदितः ।। १०५६ ।।
आत्मैवैकोऽत्र द्रष्टव्यः कृत्स्नत्वान्नाऽऽत्मनोऽपरः ।।
अकृत्स्न एव तावत्स्यात्तदन्यो यावदीक्ष्यते ।। १०५७ ।।
कोऽहं कस्य कुतो वेति कः कथं वा भवेदिति ।।
प्रयोजकमतेरेष विध्यर्थोऽत्रावगम्यते ।। १०५८ ।।
उत्पत्तिस्थितिविध्वंसाः कार्याणां स्युः कुतो न्विति ।।
अन्वयव्यतिरेकाख्यो व्यापारोऽत्र विधीयते ।। १०५९ ।।
तपसा तत्परं ब्रह्म विद्धीति वचनादतः ।।
अन्वयव्यतिरेकाख्यो व्यापारोऽत्र तपो मतम् ।। १०६० ।।
यतो वा इत्यतो वाक्यान्न तदन्यत्तपो भवेत् ।।
लक्षणोक्तेर्य आत्मेति सोऽन्वेष्टव्यइति श्रुतेः ।। १०६१ ।।
त्यक्ताप्रियपरागर्थो ह्यमानित्वादिसाधनः ।।
प्रियात्मानमुपासीत शक्रवद्ब्रह्मचर्यवान् ।। १०६२ ।।
आत्मेत्यनेन वाक्येन ब्रह्मविद्योपसूत्रिता ।।
यदर्थोपनिषत्कृत्स्ना वृ्त्तिस्तस्या भविष्यति ।। १०६३ ।।
आत्मेत्येकमिदं सूत्रं कण्डिकाद्वयमेव वा ।।
अध्यायो वा समस्तोऽयमध्यायद्वयमेव वा ।। १०६४ ।।
अव्याकृतव्याकरणप्रभृतीन्यपरे विदुः ।।
पञ्चैव किल सूत्राणि तथाऽपीष्टं न बाध्यते ।। १०६५ ।।
अव्याकृतं स एषेह तथाऽऽत्मैवेति चापरः ।।
पदनीयं तथा प्रेयः पदार्थाः पञ्च सूत्रिताः ।। १०६६ ।।
यथोक्तानां च सूत्राणामा शास्रस्य समापनात् ।।
वृत्तिः स्यादुत्तरो ग्रन्थस्तत्र तेषां समन्वयात् ।। १०६७ ।।
व्याचिख्यासुरथेदानीं सूत्रार्थाञ्श्रुतिरञ्जसा ।।
प्रयोजनाभिधित्साया उपोद्धाते प्रवर्तते ।। १०६८ ।।
वक्ष्यमाणवचो वस्तु तच्छब्देनाभिधीयते ।।
व्रह्म जिज्ञासवो विप्रा आहुर्यद्गुरुसंनिधौ ।। १०६९ ।।
विज्ञाताशेषवेदान्तसर्वस्वं ब्रह्मणि स्थितम् ।।
उपसद्य गुरुं न्यायादाहुः केचिन्मुमुक्षवः ।। १०७० ।।
यज्ञाद्याहितसंस्कारा अपास्ताशेषसाधनाः ।।
सांसारिकपुमर्थेभ्यो विरक्ताः शुद्धबुद्धयः ।। १०७१ ।।
त्यक्त्वा कर्माणि निःसङ्गाः कर्मणां चरितार्थतः ।।
ब्रह्मविद्याप्लवेनेमं संसाराब्धिं तितीर्षवः ।। १०७२ ।।
आ विरिञ्चात्पुमर्थानामकृत्स्नत्वादिदोषतः ।।
वितृषोऽशेषतद्दोषध्वस्तिश्रेयः परीप्सवः ।। १०७३ ।।
साक्षेपमाहुः श्रेयांसं गुरुं प्राप्य निरेषणाः ।।
गुरुद्वारैव विद्येह श्रेयःप्राप्तौ क्षमा यतः ।। १०७४ ।।
किमाहुरित्यपेक्षायामिदं तदभिधीयते ।।
मन्यन्त इत्यनेनैव य़च्छब्दो याति संगतिम् ।। १०७५ ।।
अव्यावृत्ताननुगतं वस्तु ब्रह्मगिरोच्यते ।।
मुख्यार्थो ब्रह्मशब्दोऽयमेवं सत्युपपद्यते ।। १०७६ ।।
तद्यया वेद्यते बुद्ध्या तदसाधारणात्मना ।।
ब्रह्मविद्येति तां साक्षाच्छेमुषीं प्रतिजानते ।। १०७७ ।।
सर्वं कृत्स्नं भविष्यामो मन्यन्ते ब्रह्मविद्यया ।।
यन्मनुष्या वयं तत्र विरोधमनुयुष्दमहे ।। १०७८ ।।
कृत्स्नमेव यतः प्रोक्तं वस्तु यत्पारमार्थिकम् ।।
तत्प्रमाणविशद्ध्यर्थं चोदयन्ति मुमुक्षवः ।। १०७९ ।।
ब्रह्मविद्यैव कृत्स्नाप्तौ यस्मात्साधनमुच्यते ।।
तत्प्राौ तत्तमोमात्रं व्यवधानमतो भवेत् ।। १०८० ।।
द्योतिकैव यतो विद्या न त्वसौ कारकं ततः ।।
उत्पत्त्यादिक्रियाकार्यं तस्माच्चेह न शङ्क्यते ।। १०८१ ।।
सिद्धेऽर्थे द्योतको दीपो न तु कार्ये यतस्ततः ।।
सर्वात्मभावः सर्वेषां सिद्धः प्रागपि बोधतः ।। १०८२ ।।
अतोऽकृत्स्रा वयं मोहात्कृत्स्नात्मानोऽपि वस्तुतः ।।
निहत्य विद्ययाऽविद्यां यामः कार्त्स्न्यं स्वतोगतम् ।। १०८३ ।।
अधिकारविनिश्चित्यै मनुष्या इति गीरियम् ।।
मनुष्याणां हि निःशेषत्रय्यर्थेऽधिकृतिर्यतः ।। १०८४ ।।
दृष्टार्थतो वा विद्याया मनुष्यग्रहणं कृतम् ।।
तावन्मात्रोऽधिकार्यत्र नाग्निहोत्राधिकारिवत् ।। १०८५ ।।
प्रत्यबुध्यत यो यस्तदिति चोर्ध्वं प्रवक्ष्यति ।।
नातः कर्माधिकार्यत्र दृष्टार्थत्वादपेक्ष्यते ।। १०८६ ।।
कर्मभ्य इव च ज्ञानात्फलप्राप्तिं सुनिश्चिताम् ।।
मन्यन्त उभयत्रापि श्रुतिमानाविशेषतः ।। १०८७ ।।
यन्मन्यन्ते नरास्तत्र विरुद्धमिव लक्ष्यते ।।
यतोऽतश्चोदयामोऽत्र यथा विप्रतिषिद्धता ।। १०८८ ।।
किमु तद्ब्रह्म यद्वेद्यं यज्ज्ञानात्सर्वताऽऽप्यते ।।
किंचापि तदवेदन्यद्यज्ज्ञानात्कृत्स्नतामगात् ।। १०८९ ।।
ब्रह्माकृत्स्रं मतं तच्चेदुक्तदोषानिराकृतेः ।।
अऩुपास्यं भवेत्तादृक्प्राणादिवदसंशयम् ।। १०९० ।।
कल्पना नापि गौण्यत्र मुख्यार्थे सति युज्यते ।।
न ह्यालभन्ते बाहीकं मुख्ये गवि सति कचित् ।। १०९१ ।।
मुख्यं ब्रह्म न चेदस्ति गौणं स्यात्तद्विना कुतः ।।
मुख्यमग्निं विना गौणं न लोकोऽप्यवगच्छति ।। १०९२ ।।
अकृत्स्नज्ञानतो नापि पुरुषोर्थोऽवगम्यते ।।
ब्रह्माज्ञानसमुत्थत्वान्मिथ्याज्ञानत्वकारणात् ।। १०९३ ।।
मेयमानादिसंभित्तिर्यदि नामेह लभ्यते ।।
अयथावस्तुरूपत्वात्स्वप्नमेयादिवत्तु सा ।। १०९४ ।।
अकृत्स्नस्य च ब्रह्मत्वं विरुद्धं भानुशैत्यवत् ।।
तस्मादकृत्स्नं ब्रह्मेति न मानेनोपपद्यते ।। १०९५ ।।
ब्रह्मास्तु तर्हि तत्कृत्स्नमुक्तदोषासमन्वयात् ।।
मुख्यार्थलाभतश्चापि तस्य च प्रकृतत्वतः ।। १०९६ ।।
न कृत्स्नमिति तद्गाह्यं तत्प्रमाणाद्यसंभवात् ।।
तदन्यवस्तुसद्भावे तद्ब्रह्मत्वं विहन्यते ।। १०९७ ।।
न च मानानपेक्षस्य सिद्धिरभ्युपगम्यते ।।
मानादियत्नानर्थक्यप्रसक्तिः स्यात्तथा सति ।। १०९८ ।।
सदानुदितालुप्तैकज्ञप्तिमात्रसतत्त्वकम् ।।
यद्यपीष्टं तथाऽपीदं नाऽऽत्ममोहापनोदकृत् ।। १०९९ ।।
न हि मानमनाश्रित्य वस्त्वात्माज्ञानहानिकृत् ।।
स्रक्स्थाण्वादादृष्टत्वादुक्तदोषोऽपि चाऽऽपतेत् ।। ११०० ।।
मानाद्यनभ्युपेतौ हि न किंचिद्वस्तु सिध्यति ।।
तदभ्युपेतौ ब्रह्मत्वं व्यावृत्तेर्न प्रसिध्यति ।। ११०१ ।।
यथाकथंचिच्छब्दार्थो यदि नामाभ्युपेयते ।।
तथाऽपि दोषवद्ब्रह्म यथा तदधुनोच्यते ।। ११०२ ।।
कृत्स्नं वा यदि वाऽकृत्स्नं यथेच्छसि तथाऽस्तु तत् ।।
ब्रह्मत्वं किं स्वतस्तस्य किंवा तत्परातो मतम् ।। ११०३ ।।
यदि तावत्स्वतस्तत्स्याद्ब्रह्मविद्या निरर्थिका ।।
न ह्युष्णत्वं हुताशस्य परतः कुर्वते बुधाः ।। ११०४ ।।
ज्ञानमूर्तेर्न चाज्ञानमागन्तु सहजं तथा ।।
भानौ तमोवत्तेनेदृग्ब्रह्म नैवोपपद्यते ।। ११०५ ।।