बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ षष्ठाध्यायस्य पञ्चमं ब्राह्मणम् ॥
संभावितं न यत्पूर्वं कृत्स्नेऽस्मिन्ब्रह्मणेऽपि तत् ।।
खिलकाण्डे तदखिलं पुत्रमन्थान्तमीरितम् ।। १ ।।
पूर्वकाण्डैकदेशत्वात्खिलकाण्डं न वंशभाक् ।।
पूर्वत्र विद्यासंभेदाद्भिन्नौ वंशाविहोदितौ ।। २ ।।
पूर्वौश्चतुर्भिरध्यायैस्त्वाष्ट्रं कक्ष्यं च यन्मधु ।।
व्याख्यातं तदशेषेण वंशस्तत्र तदर्थभाक् ।। ३ ।।
मधुक्रण्डागमार्थस्य यथाकृह्मतिपत्तये ।।
काण्डं स्याद्याज्ञवल्कीयं वंशस्तद्विषयस्तथा ।। ४ ।।
अयं तु वंशो विज्ञेयः कृत्स्नप्रवचनाश्रयः ।।
समाप्तौ ब्राह्मणस्योक्तेरयमर्थोऽवसीयते ।। ५ ।।
उक्तवेदार्थविज्ञानसाकल्यप्रतिपत्तये ।।
जपो वंशस्य येनातः श्रुत्या वंश इहोदितः ।। ६ ।।
सर्वज्ञानं यतो वंशास्रयोऽप्येते यथोदिताः ।।
अतस्तत्स्मृतितः सम्यग्ज्ञानभानूदयो भवेत् ।। ७ ।।
पुत्रमन्थेन संस्कारः स्रीणामेवेह वर्णितः ।।
यतोऽतः स्रीप्रधानोऽयं पुत्राणां वंश उच्यते ।। ८ ।।
अन्यतोऽन्यत एवायं संप्रदायो यथाऽभवत् ।।
न तथा ब्रह्मणस्तस्मात्तत्स्वयंभ्विति शब्द्यते ।। ९ ।।
अन्येषां वेदतो ज्ञानं भूरिसाधनसंश्रयात् ।।
स्वतो वेदात्मनस्तस्मात्सर्वज्ञानमयो हि सः ।। १० ।।
सर्वस्यैष वशीत्यादि तथाऽपि प्रागवादिषम् ।।
परैव देवता वेदो यच्च किंचिच्चराचरम् ।। ११ ।।
प्रतिपाद्याऽऽत्मनाऽऽत्मानं नामरूपादिसाधनः ।।
एति पूर्णात्मतां साक्षाद्धियां वाचामगोचरम् ।। १२ ।।
त्रय्यैव ब्राह्मणो विद्वानात्मनैवाद्वयं परम् ।।
विदित्वा निर्वृतिं याति कार्यकारणयोः पराण् ।। १३ ।।
वेदोऽसीत्यत एवास्य नाम जातस्य कुर्वते ।।
वेदात्मना कथं नाम परं ब्रह्म प्रपत्स्यते ।। १४ ।।
वाजिशाखासु सर्वासु ह्यासुरायणपूर्वकाः ।।
समाना वंशर्षयोऽमी ह्या समाप्तेरितीक्ष्यताम् ।। १५ ।।
आदित्येन हि प्रोक्तानि यजूंष्येतानि यानि तु ।।
आदित्यानीत्यतस्तानि सम्यगाचक्षते बुधाः ।। १६ ।।
वेदात्मनो रवेरेवं संप्रदायोऽत्रयमागतः ।।
परमेष्ठ्यादिकान्सर्वान्पारंपर्येण मानुषान् ।। १७ ।।
असंसृष्टं परं ब्रह्म सर्वदोषविवर्जितम् ।।
एतदादित्यगं भाति तद्वेदानां परं वपुः ।। १८ ।।
उत्सन्नमपि यद्ब्रह्म तदादित्ये न नश्यति ।।
तदार्षेणैव विन्दन्ति तपस्तप्त्वा महर्षयः ।। १९ ।।
वेदब्रह्मण आरभ्य सर्वेषामपि शाखिनाम् ।।
सांजीवीसूनुपर्यन्तो वंश एको न भिद्यते ।। २० ।।
सांजीवीपुत्रतस्त्वर्वाक्प्रतिशाखं पृथक्पृथक् ।।
आचार्यभेदाद्भिद्यन्ते वंशा वाजसनेयिनाम् ।। २१ ।।
इत्युक्तैकात्म्यवाक्यप्रविकचकमला प्राज्यसन्न्यायगन्धा
काण्डैश्चित्रा षडर्धैर्मधुमुनिखिलकैर्मस्करीन्द्रालिजुष्टा ।।
श्लोकग्रन्थप्रबद्धाऽविषयमितिफला प्रेमसत्सूत्रसूत्रा ।।
माला गङ्गेव शंभुं पदममलमजं वैष्णवं साऽनुयाता ।। २२ ।।
यत्प्रज्ञोदधियुक्तिशब्दनखजश्रद्धैकसन्नेत्रक-
स्थैर्यस्तम्भमुमुक्षुदुःखितकृपायत्नोत्थबोधामृतम् ।।
पीत्वा जन्ममृतिप्रवाहविधुरा मोक्षं ययुर्मोक्षिण-
स्तं वन्देऽत्रिकुलप्रसूतममलं वेधोभिधं मद्गुरुम् ।। २३ ।।
यामस्मद्गुरुरेव वेदशिरसामैकात्म्यतात्पर्यतो
वृत्तिं सज्जनशंकरीं सुविमलां नानानयोद्द्योतिताम् ।।
चक्रे काण्वसमाश्रितोपनिषदो दुस्तर्कदोषापहां
श्रद्धामात्रबलेन वार्तिकमिदं तस्याः समासात्कृतम् ।। २४ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके षष्ठाध्यायस्य पञ्चमं ब्राह्मणम्
इति द्वादशसाहस्रवार्तिकामृतमीरितम् ।।
काण्वारण्यकभाष्यस्य शांकरस्य समासतः ।।
श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छकरभगवत्पूज्यपादशिष्य श्रीमत्सुरेश्वराचार्यकृतौ बृहदारण्यकोपनिषद्भाष्यवार्तिकप्र- स्थने षष्ठोऽध्यायः