अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ द्वितीयाध्यायस्य प्रथमं ब्राह्मणम् ॥ (२)

ननु कामवशादस्य त्वयोक्तं परिवर्तनम् ।।
द्रष्टृ­दृ­श्या­दि­भा­वश्च कथं शुद्धस्तथा सति ।। ३०७ ।।

मैवं स्वतोऽ­व­बु­द्ध­त्वा­त्कु­तोऽ­ज्ञा­नेन संगतिः ।।
अज्ञानसंगतिं मुक्त्वा न स्यात्तज्जेन संगतिः ।। ३०८ ।।

एवं यस्मात्स्वतः शुद्धो द्विती­या­सं­ग­ते­र­यम् ।।
आत्मा­त­स्मा­त्स्वतो मुक्तः कूट­स्थ­ज्ञा­प्ति­मा­त्रतः ।। ३०९ ।।

न यथा श्रोत्रविज्ञानं रूपेणैति समागमम् ।।
संसारेण तथैवाऽऽत्मा कौटस्थ्यान्नैति संगतिम् ।। ३१० ।।

इत्य­र्थ­स्या­व­बो­धार्थं परो ग्रन्थोऽ­व­ता­र्यते ।। ३११ ।।
विशुद्धिं व्यतिरेकं च स्वप्न­जा­ग्र­द­व­स्थयोः ।।
उक्त्वाऽऽ­त्म­नोऽ­द्व­यत्वं च सुषुप्ते चाधुनोच्यते ।। ३१२ ।।

न वेदेत्या त्मनः श्रुत्या कर्तृत्वं प्रतिषिध्यते ।।
पश्यन्नपि यतः प्राज्ञो कौटस्थ्यान्न प्रपश्यति ।। ३१३ ।।

अथ यो वेदेति तथा ज्ञातृ­सा­क्षि­त्व­मा­त्मनः ।।
प्रती­चोऽ­का­र­कत्वं नः सर्वत्र प्रतिपाद्यते ।। ३१४ ।।

क्वचि­त्प्र­मा­तृ­वि­त्साक्षी कचि­त्प्र­त्य­य­वि­त्परः ।।
क्वचि­द्बा­ह्या­र्थ­वि­च्चाऽऽत्मा तत्कर्तृत्वं निषिध्यते ।। ३१५ ।।

परप्रयुक्तं वेत्तृत्वं यदस्य प्रत्यगात्मनः ।।
संब­न्ध­ज­त्वा­त्त­स्यातः कस्ये­त्य­त्रा­भि­धी­यते ।। ३१६ ।।

कर्मो­त्थ­त्वा­त्प्र­मा­त्रा­दे­स्त­त्क्षये क्षयवत्त्वतः ।।
षष्ठीयं कर्मणि न्याय्या द्वया­भा­व­वि­व­क्षया ।। ३१७ ।।

अप्यर्थे चन­श­ब्दोऽ­य­म­भा­व­स्यापि वारकः ।।
शेषशेषितिरोभावे सुषुप्तिरिह भण्यते ।। ३१८ ।।

अथ केन क्रमेणायं सुषुप्तं प्रतिपद्यते ।।
इति क्रमविधानार्थं हिता नामेति भण्यते ।। ३१९ ।।

आ नाभितस्तथा कण्ठाद्धृदयं मध्यतः स्थितम् ।।
सनालं पद्मकोशाभं पञ्च­च्छि­द्र­म­धो­मु­खम् ।। ३२० ।।

स्वप्नाश्रयाणि हृन्मध्ये नीलाद्याभानि देहिनः ।।
स्थानानि सुर­म­र्त्या­दि­जु­ष्टा­न्यस्य भवन्त्युत ।। ३२१ ।।

बिलानि सुपयश्चैता जाग्र­द्व­त्प्र­त्य­यो­द्भवाः ।।
एकोत्तरं नाडिशतं विष्वक्ताभ्यो विनिर्गतम् ।। ३२२ ।।

प्रतीन्द्रियं दश दश निर्गता विषयोन्मुखाः ।।
ना़ड्यः कर्मा­दि­हे­तूत्थाः स्वप्ना­दि­फ­ल­भु­क्तये ।। ३२३ ।।

वहन्त्यम्भो यथा नद्यो नाड्यः कर्मफलं तथा ।।
अनन्तैकोर्ध्वगा नाडी तया गच्छन्विमुच्यते ।। ३२४ ।।

एकैकस्याः पुनर्नाड्याः सूक्ष्मभेदाः प्रकीर्तिताः ।।
द्वास­प्त­ति­स­ह­स्रैस्ते संख्याता योगचिन्तकैः ।। ३२५ ।।

कद­म्ब­कु­सु­मो­द्भू­त­के­सरा इव सर्वतः ।।
प्रसृता हृदयान्नाड्यो याभिर्व्याप्तं शरीरकम् ।। ३२६ ।।

हितं फलं प्रयच्छन्ति यस्मा­त्त­स्मा­द्धिताः स्मृताः ।।
हृदयात्ता विनिप्क्रान्ता यथाऽ­र्का­द्र­श्म­य­स्तथा ।। ३२७ ।।

पुरीतदभिधानेन हृद्वे­ष्ट­न­मि­हो­च्यते ।।
तत्तूपलक्षणं विद्या­द्दे­ह­व्या­प्ति­वि­व­क्षया ।। ३२८ ।।

स्वप्न­क­र्म­स­मु­द्भूता वासना या हृदि स्थिताः ।।
नाडीभिस्ता वितत्याऽऽत्मा स्वप्नान्पश्यति कामतः ।। ३२९ ।।

स्वाप्ना­न्भो­गा­न­शे­षेण भुक्त्वा स्वप्न­क्रि­या­क्षये ।।
ताभि­रे­वो­प­सं­हृत्य प्राज्ञो याति सुषुप्तताम् ।। ३३० ।।

जाग्र­त्स्व­प्न­क्रि­यो­द्भू­ता­न्भुक्त्वा भोगानशेषतः ।।
इन्द्रि­या­ण्यु­प­सं­हृत्य शेते नाडीभिरात्मनि ।। ३३१ ।।

सामान्यप्रज्ञया देहं संव्या­प्या­न्त­र्बहिः श्रमात् ।।
श्येनवत्परमं स्थान­मा­त्माऽ­भ्येति सुषुप्तताम् ।। ३३२ ।।

धियोऽ­न्तः­क­र­ण­स्येह स्थानं हृदयमिष्यते ।।
तत्रेन्द्रियाणि सर्वाणि बुद्धितन्त्राणि सर्वदा ।। ३३३ ।।

यत एवमतस्तानि नाडीभिः कर्मणो वशात् ।। ३३४ ।।
प्रसारयति धीर्वृ­त्ती­र्म­त्स्य­जा­ल­क­व­द्बहिः ।।
प्रसा­र्याऽऽ­य­त­न­स्थानि तानि धीरधितिष्ठति ।। ३३५ ।।

जाग्रत्काले ततो ज्ञोऽय­म­भि­व्य­क्त­वि­शे­षधीः ।।
व्याप्नोति निष्क्रियः सर्वान्भानुर्दश दिशो यथा ।। ३३६ ।।

ता एवे­न्द्रि­य­वृत्तीः स्वाश्चै­त­न्य­ख­चिता यदा ।।
संयच्छति प्रतीच्यात्मा स्वपितीति तदोच्यते ।। ३३७ ।।

बुद्ध्यु­पा­ध्य­नु­रो­धेन प्रतीचः प्रभवाप्ययौ ।।
विक्षे­प­ल­य­ही­नस्तु स्वतः कुम्भखवत्परः ।। ३३८ ।।

ताभिः प्रत्य­व­सृ­प्याऽऽत्मा वृत्ती­र्ना­डी­भि­रा­न­यन् ।।
तप्तायोवच्छरीरं स्वं व्याप्य शेते स्व आत्मनि ।। ३३९ ।।

स्वहेतुमात्रया स्थान­मि­न्द्रि­याणां न कार्यतः ।।
यतोऽ­त­श्चि­न्नि­भे­नैव व्याप्तिः स्यात्का­र­णा­त्मना ।। ३४० ।।

सुषुप्तौ न शरीरेण संगतिः प्रत्यगात्मनः ।।
नापि बुद्ध्यादिभिः साक्षा­त्त­त्स्था­ना­सं­ग­ते­र्भ­वेत् ।। ३४१ ।।

तीर्णो हीति तथा­चै­त­दु­त्त­र­त्रा­भि­धा­स्यते ।।
सुषुप्तेऽत्र पिता चेति सर्व­सं­ब­न्ध­वा­र­णम् ।। ३४२ ।।

सर्व­सं­सा­र­दुः­खौ­घ­व्य­ती­तेयं पराऽऽत्मनः ।।
अवस्थेत्यत्र दृष्टान्तः स यथेत्यभिधीयते ।। ३४३ ।।

स्तनंधयो यथा वालो राग­द्वे­ष­वि­व­र्जितः ।।
तद­भा­वा­द्वि­कु­र्वन्ति चेतो न विशयाः सदा ।। ३४४ ।।

अप्र­रू­ढे­न्द्रि­य­त्वाच्च राग­द्वे­षा­द्य­सं­प्लुतिः ।।
मृदु­क­ण्ट­क­व­त्त­द्धी­र्नालं वेद्धं स्वगोचरान् ।। ३४५ ।।

सर्व­त्रा­व्या­ह­ता­ज्ञश्च विधे­य­प्र­कृ­ति­त्वतः ।।
राजा वाऽतिसुखी लोके प्ररू­ढे­न्द्रि­य­वा­नपि ।। ३४६ ।।

विज्ञा­ता­शे­ष­तत्त्वो वा ब्राह्मणः कृतकृत्यतः ।।
आनन्दस्य परां काष्ठा­म­ति­घ्नी­मेत्य निर्वृतः ।। ३४७ ।।

बाला­दि­त्र­य­म­प्ये­त­देको दृष्टान्त इष्यते ।।
बाल­मौ­ढ्य­म­दा­न्ध­त्व­नि­वृ­त्त्यर्थं तथोच्यते ।। ३४८ ।।

बालस्य निर्वि­वे­क­त्वा­त्स­वि­वेकः क्षितीश्वरः ।।
तन्म­दा­न्ध्य­नि­षे­धार्थं महाब्राह्मण उच्यते ।। ३४९ ।।

अतीत्य दुःखहेतून्या हन्ति दुःखान्यशेषतः ।।
आनन्दस्य परा निष्ठा तेनातिघ्नीति भण्यते ।। ३५० ।।

निर्वि­का­रा­त्मनां यस्मा­द्बा­ला­दीनां स्व आत्मनि ।।
अतीव जायते ह्रादो दृष्टान्तः स विवक्षितः ।। ३५१ ।।

पर­सं­ब­न्ध­मे­त्यात्मा कार्य­का­र­ण­रू­पिभिः ।।
ऐकात्म्यलक्षणं साक्षाच्छेत इत्यभिधीयते ।। ३५२ ।।

अत्य­न्त­सं­नि­कृ­ष्टा­ना­मपि भिन्नात्मनां मितेः ।।
लोच­न­स्था­ञ्ज­ना­दीनां न दृष्टिपथतेष्यते ।। ३५३ ।।

किमु प्रध्व­स्त­निः­शे­ष­भे­द­हे­ता­वि­हाऽऽ­त्मनि ।।
ग्राह्य­ग्रा­ह­क­सं­बन्धः सर्वभेदापनोदिनि ।। ३५४ ।।

स्वस्थावस्थैव यैतेषां प्रसिद्धा जगतीक्ष्यते ।।
दृष्टान्तत्वेन स्वापस्य सैव साक्षा­द्वि­व­क्ष्यते ।। ३५५ ।।

दार्ष्टा­न्ति­क­त्वेन यतः सुषुप्तोऽत्र विवक्षितः ।।
नापि बालादिस्वापस्य विशेषः कश्चिदीक्ष्यते ।। ३५६ ।।

अव्या­ह­त­म­ति­र्बालः सर्वा­ति­श­य­व­र्जि­ताम् ।।
आनंदस्य परां निष्ठामतिघ्नीं प्रतिपद्यते ।। ३५७ ।।

याव­द्या­व­त्प्र­रू­ढत्वं रागादेर्जायते शिशोः ।।
ताव­त्ता­व­त्प्र­रू­ढत्वं दुःख­स्या­प्य­भि­जा­यते ।। ३५८ ।।

यथैव तत्तनुत्वं च याव­द्या­व­दि­हाऽऽ­त्मनः ।।
दुःखस्यापि तनुत्वं स्यात्ता­व­त्ता­व­त्सु­खा­त्मनः ।। ३५९ ।।

उत्त­रो­त्त­र­वृ­द्ध्याऽतो दुःख­हे­तु­क्ष­या­च्छ्रुतौ ।।
सहस्रदशभागेन निष्ठाऽऽनन्दस्य भण्यते ।। ३६० ।।

अव्या­वृ­त्ता­न­नु­ग­त­प्र­त्य­ङ्मा­त्र­स­मा­प्तितः ।।
भूम्न्येव तु परा निष्ठाऽऽ­न­न्द­स्येति श्रुतेर्वचः ।। ३६१ ।।

आनन्दः स्वयमेवाऽऽत्मा भेद­सं­स­र्ग­व­र्जितः ।।
दुःख­हे­तु­वि­नि­र्मु­क्ता­व­ति­घ्नी­मे­त्यतः स्वतः ।। ३६२ ।।

गार्ग्यं काश्यो यद­प्रा­क्षी­त्का­भू­देष तदेति तत् ।।
सप्रपञ्चं यथावच्च सर्वमुक्तमशेषतः ।। ३६३ ।।

अनेन च यथोक्तेन पाणि­पे­षो­त्थि­तस्य हि ।।
मोहो­त्था­शे­ष­का­र्येभ्यो विशुद्धिं श्रुतिरब्रवीत् ।। ३६४ ।।

कुत आगादिति त्वस्य प्रश्ना­र्था­वि­श्चि­की­र्षया ।।
सुषु­प्ता­ज्जा­ग्र­दा­प­त्ति­र्यथा तदधुनोच्यते ।। ३६५ ।।

नन्वस्थाद्यो हि यत्रेह स तस्मादन्यतो व्रजन् ।।
वेश्मतो ग्रामतो वाऽसौ तत एव व्रजेद्ध्रुवम् ।। ३६६ ।।

तस्मा­त्सा­म­र्थ्यतः सिद्ध उत्त­र­प्र­श्न­नि­र्णयः ।।
तन्नि­र्ण­या­र्थ­मा­रम्भो न कार्यो जामिदोषतः ।। ३६७ ।।

न निमि­त्ता­द्य­र्थ­ताऽपि पञ्चम्या उपपद्यते ।।
ऊर्ण­ना­भ्य­ग्नि­दृ­ष्टान्ते न निमित्तादि गम्यते ।। ३६८ ।।

प्रत्युक्तौ न निमित्तादि यदि साक्षा­त्स­मी­क्ष्यते ।।
अपा­दा­ना­र्थ­तै­वास्तु दोषस्यान्यत्र दर्शनात् ।। ३६९ ।।

नन्वत्रापि समो दोषो वाक्यस्य पुनरुक्तता ।।
नैवं यतोऽ­खि­ल­ध्वा­न्त­का­र्य­ध्वंसो विवक्षितः ।। ३७० ।।

अव्या­वृ­त्ता­न­नु­गतं पूर्णं ब्रह्म विवक्षितम् ।।
प्रत्य­ङ्मा­त्रै­क­या­थात्म्यं न दोषो जामिता ततः ।। ३७१ ।।

विषयौ द्वावुपन्यस्तौ विद्या­वि­द्या­त्म­नो­रिह ।।
आत्मेत्येवेति विद्याया विषयः प्रागुदाहृतः ।। ३७२ ।।

अवि­द्या­वि­ष­य­स्ता­व­त्सं­सा­रा­नर्थ ईरितः ।।
क्रियाकारकभेदेन नाम­रू­प­क्रि­या­त्मकः ।। ३७३ ।।

तत्रा­वि­द्यो­द्भवं कार्यं याव­त्किं­चि­द्वि­व­क्षि­तम् ।।
तत्प्रत्यपादि निखिलं पूर्वं श्रुत्यैव यत्नतः ।। ३७४ ।।

अवि­द्या­प्र­ति­प­क्षाया विद्याया विषयोऽधुना ।।
प्रव­क्त­व्योऽ­त­स्त­द्योग्यौ प्रश्नौ द्वौ समुदाहृतौ ।। ३७५ ।।

हेतु­स्व­रू­प­का­र्याणि विरोधीनि परस्परम् ।।
अवि­द्या­वि­द्य­यो­र्य­स्मा­त्त­द्यो­ग्य­प्र­श्न­गी­रतः ।। ३७६ ।।

कार­क­व्य­व­हा­रोऽ­य­म­वि­द्या­वि­षयः सदा ।।
आधा­रा­धे­य­यो­र्भित्तौ तयोः कारकतेष्यते ।। ३७७ ।।

तद्वद्गच्छति यो यस्माद्भेदे सत्येव याति सः ।।
इत्य­वि­द्या­व्य­व­स्थेयं विद्या­या­स्त­द्वि­प­र्ययः ।। ३७८ ।।

क्रिया­का­र­क­भे­दाद्या लोकतः शेमुषी त्वभूत् ।।
यथा­स्थि­ता­त्म­या­था­त्म्य­स­म्य­ग्ज्ञा­नेन बाध्यते ।। ३७९ ।।

नान्योऽ­य­मा­त्माऽ­न्य­त्रा­भू­न्ना­न्योऽ­न्य­स्मा­त्त­थैति च ।।
इति निःशे­ष­त­न्मो­ह­का­र्य­ध्वंसो विवक्षितः ।। ३८० ।।

अभे­द­व्य­ति­रे­काभ्यां वस्त्व­न्त­र­मि­हाऽऽ­त्मनः ।।
श्रुत्या निषिध्यते साक्षा­द्भे­द­हे­तो­र्नि­षे­धतः ।। ३८१ ।।

ननु प्राणादिभिः सद्भिः कथं निर्भे­द­ताऽऽ­त्मनः ।।
नाऽऽत्मन्येव तद­ध्या­सा­च्छु­क्ति­का­र­ज­ता­दि­वत् ।। ३८२ ।।

कथं तदिति दृष्टान्त ऊर्ण­ना­भ्या­दि­रु­च्यते ।।
वास्तवं वृत्तमापेक्ष्य न त्वियं सृष्टिरात्मनः ।। ३८३ ।।

नासतो जन्मना योगः सतः सत्त्वान्न चेष्यते ।।
कूटस्थे विक्रिया नास्ति तस्मादज्ञानतो जनिः ।। ३८४ ।।

पुंस्प्र­बो­ध­प्र­सि­द्ध्यर्थं सृष्टि­व्या­जोऽ­य­मु­च्यते ।।
कौट­स्थ्या­त्त्वा­त्मनः सृष्टिर्न कथंचन युज्यते ।। ३८५ ।।

निःशे­ष­वे­द­सि­द्धा­न्त­वि­द्व­द्भि­रपि भाषितम् ।।
गौडाचार्यैरिदं वस्तु यथाऽस्माभिः प्रपञ्चितम् ।। ३८६ ।।

मृल्लो­ह­वि­स्फु­ल्लि­ङ्गाद्यैः सृष्टिर्या चोदिताऽन्यथा ।।
उपायः सोऽवताराय नास्ति भेदः कथंचन ।। ३८७ ।।

सृष्टा­व­न्य­प­रायां तु न चोद्यस्यास्ति संभवः ।।
कूट­स्था­त्क­थ­मु­त्प­त्ति­र­चित्कं चेतनात्कथम् ।। ३८८ ।।

निःसाधनं च कार्याणि कथं कुर्यादनेकधा ।।
विश्व­रू­प­स­मु­त्प­त्ति­रे­क­रू­पा­त्कथं भेवत् ।। ३८९ ।।

इत्ये­व­मा­दि­चो­द्यानां पुंस्व­भा­वा­नु­रो­धतः ।।
परिहारवच श्रौतं न च वस्त्वनुरोधतः ।। ३९० ।।

ऊर्णनाभिः स्वयं कर्ता प्रयुङ्त्के कर्म चाऽऽत्मना ।।
तन्तून्स्वतः प्रसिद्धेन करणेन च तन्तुना ।।
गमिक्रियां साधयति तथैकत्रापि चाऽऽत्मनि ।। ३९१ ।।

अचेतनो यथा जाल ऊर्णनाभेः सचेतनात् ।।
आका­शा­दि­ज­ग­त्का­र्य­मा­त्म­न­श्चे­त­ना­त्तथा ।। ३९२ ।।

विस्फुलिङ्गा यथा चाग्ने­र्जा­य­न्तेऽ­ग्नि­स्व­भा­वकाः ।।
सुषु­प्ता­दा­त्म­न­स्त­द्व­त्प्रा­णा­दीनां समुद्भवः ।। ३९३ ।।

सुषु­प्तो­दा­हृ­ति­र्येयं तया समुपलक्ष्यते ।।
विश्वा­भि­व्य­क्तितः पूर्वं ब्रह्मै­वा­ना­म­रू­प­कम् ।। ३९४ ।।

सर्वा­सू­प­नि­ष­त्स्वेवं कारणं नान्यदात्मनः ।।
श्रूयतेऽतः परात्मैव जगतः कारणं परम् ।। ३९५ ।।

ब्रह्म­ण्य­स्त­मि­तेऽ­त्यर्थं जग­त्य­स्मि­न्न­शे­षतः ।।
जगत्प्रसूतौ को हेतु­स्त­द­न्या­व्य­ति­रे­कतः ।। ३९६ ।।

अस्तीशो व्यति­रि­क्त­श्चे­त्सोऽपि केन प्रवर्तितः ।।
जग­न्नि­र्मि­नु­या­दे­त­त्स्व­त­श्चे­त्स­र्वदा न किम् ।। ३९७ ।।

ऐश्वर्यं पारतन्त्रयं च नापि संभाव्यते मितेः ।।
नापि कार्यं विली­न­त्वा­त्स्वा­त्मो­त्पत्तौ प्रवर्तते ।। ३९८ ।।

भिन्नं चेत्का­र­णा­त्कार्यं कार्यकारणता तयोः ।।
पृथ­क्प्र­सि­द्धयोः केयं हिम­व­द्वि­न्ध्य­यो­रिव।।।। ३९९ ।।

अथाभिन्नं तदै­क­त्वा­त्का­र्य­का­र­णता कुतः ।।
नापि निष्प्रियरूपं सत्कारणत्वं समश्नुते ।। ४०० ।।

तथाचाक्रियमाणं सत्कथं कार्यमिहोच्यते ।।
क्रियाशून्यं च यद्वस्तु तच्चा­का­र­क­मि­ष्यते ।। ४०१ ।।

लयेनैव समा­प्त­त्वा­त्का­ल­क­र्मा­दि­का­र­णम् ।।
स्वात्मो­त्प­त्ता­व­शक्तं तद्व्यक्तं सामर्थ्यभाग्यतः ।। ४०२ ।।

नित्य­श­क्ति­त्व­प­क्षेऽपि युग­प­त्प्र­भ­वा­दि­कम् ।।
प्राप्नोति सर्वकार्यस्य न च तद्वर्तते तथा ।। ४०३ ।।

शक्त्यु­त्प­त्त्य­भ्यु­पेतौ च कारणं स्यादशक्तिमत् ।।
अथ शक्त्य­न्त­रा­च्छ­क्ति­र­न­वस्था प्रसज्यते ।। ४०४ ।।

किमपेक्ष्य व्यपेतत्वं कालोऽयं वार्तमानिकः ।।
यायादनागतत्वं च तस्यै­क्या­भा­ग­व­त्त्वतः ।। ४०५ ।।

नित्यमेकं विभु द्रव्यं यदि कालोऽभ्युपेयते ।।
अती­ता­ना­ग­त­त्वा­दि­भेदः स्यात्किं­नि­ब­न्धनः ।। ४०६ ।।

आदि­त्या­दि­ग­ति­श्चे­त्स्या­त्का­लोऽ­व्य­क्त­स­मु­त्थितौ ।।
आदि­त्या­दे­र्वि­ली­न­त्वान्न तदा तत्क्रियेष्यते ।। ४०७ ।।

न चावयविनो वृत्ति­र्नि­रं­शै­क­त्व­हे­तुतः ।।
भागेषु निष्क­ल­त्वै­क्य­निः­सा­मा­न्य­त्व­का­र­णात् ।। ४०८ ।।

आधारेषु निरंशेषु यद्या­द्ये­य­स्त­था­विधः ।।
भिन्नदेशेषु तेष्वे­क­स्त­था­चा­व­यवी कथम् ।। ४०९ ।।

तस्मान्न देशकालादिभेदो वस्त्वाश्रयो मितेः ।।
दिग्भे­द­क्लृ­प्ति­व­द्व्योम्नि भेदोऽयं तद्वदात्मनि ।। ४१० ।।

जग­दु­त्प­त्ति­सं­हा­रा­स्त­द्व­दा­त्मनि कल्पिताः ।।
वस्तुवृत्तं समालोक्य कुतः सृष्ट्यादिसंभवः ।। ४११ ।।

कारकादिर्यथा भ्रान्तिस्तथा पूर्वमवादिषम् ।।
सर्वमात्मेति नेतीति तथा सत्युपपद्यते ।। ४१२ ।।

उद्भू­ति­स्थि­ति­नाशाः स्युर्जगतोऽतः प्रतिक्षणम् ।।
अवि­द्या­मा­त्र­हे­तु­त्वा­न्ना­मीषां विद्यते क्रमः ।। ४१३ ।।

प्राणाः श्रोत्रादयोऽत्र स्युर्दश सप्त च ये मताः ।।
लोका­व­च्छे­द­तोऽ­मीषां भेदोऽ­ध्या­त्मा­दि­ल­क्षणः ।। ४१४ ।।

जरा­यु­जा­दि­सं­भे­द­भिन्ना लोकाः पृथग्विधाः ।।
तथाऽ­धि­दे­व­ता­त्मानो देवाः स्युर्बहुभेदकाः ।। ४१५ ।।

तेऽपि साधारणाः प्राणा देहेऽ­सा­धा­र­णास्तु ते ।।
भूतानां परिणामोऽयं यथाकर्म यथाश्रुतम् ।। ४१६ ।।

प्राणादिजन्मना जज्ञे विस्फु­लि­ङ्गै­र्यथा शिखी ।।
परमात्माऽपि जज्ञे खं यथा कुम्भादिजन्मभिः ।। ४१७ ।।

प्राणा­द्यु­द्भू­तितो नान्या क्षेत्र­ज्ञो­द्भू­ति­रि­ष्यते ।।
श्रुतेरेतेभ्य इति हि तथा स्पष्टं वचः श्रुतम् ।। ४१८ ।।

यस्मा­द­वि­द्य­यै­वाऽऽत्मा प्राण­क्षे­त्र­ज्ञ­रू­प­भाक् ।।
स्वतोऽतः स परं ब्रह्म तस्यो­प­नि­ष­दु­च्यते ।। ४१९ ।।

उपासनार्थं यद्गुह्यं नामोपनिषदुच्यते ।।
तदस्य परमं गुह्यं तेनोपासीत तत्त्वतः ।। ४२० ।।

ब्रह्म­वि­द्या­धि­का­रेऽ­स्मि­न्या­व­त्किं­चि­दु­पा­स­नम् ।।
ब्रह्म­वि­द्यो­त्थि­ति­फलं तत्सर्वमिति निर्दिशेत् ।। ४२१ ।।

गोदो­ह­ना­दि­व­द्वि­द्या­देवं सर्वमुपासनम् ।।
विद्या­धि­का­र­जी­वि­त्वान्न स्वतन्त्रफलं भवेत् ।। ४२२ ।।

सत्यस्य सत्यमिति या ब्रह्मो­प­नि­ष­दु­च्यते ।।
प्राणा वै सत्यमित्यस्या व्याख्योपनिषदः कृता ।। ४२३ ।।

नामरूपात्मकाः प्राणाः परसत्याभिसंगतेः ।।
सत्य­मि­त्य­भि­धी­यन्ते तेषां सत्यं परं पदम् ।। ४२४ ।।

उक्तो­प­नि­ष­द­र्थस्य सम्य­गा­वि­ष्कृ­दु­त्त­रम् ।।
यो ह वै शिशुमित्यादि भविता ब्राह्मणद्वयम् ।। ४२५ ।।

कामं ह्युप­नि­ष­द्व्याख्या भवतु ब्राह्मणद्वयम् ।।
संसारिब्रह्मणोः कस्य नामैतदिति भण्यताम् ।। ४२६ ।।

पाणि­पे­ष­प्र­बु­द्धस्य नाम संसारिणो यदि ।।
तदा स एव विज्ञे­य­स्त­ज्ज्ञा­ना­देव मुक्तता ।। ४२७ ।।

ब्रह्म­श­ब्दा­भि­धे­यश्च संसार्येव तदा भवेत् ।।
तद्विद्या ब्रह्मविद्येति प्रतिपद्यामहे तदा ।। ४२८ ।।

अथासंसारिणो नाम न्याय­तोऽ­ध्य­व­सी­यते ।।
संसारिणि यदुक्तं तत्तदा तत्र भविष्यति ।। ४२९ ।।

भिन्ना­त्म­नो­स्त­यो­र्दोषो ब्रह्म­त्व­प्र­ति­पा­दिकाः ।।
कुप्ये­र­ञ्श्रु­तयः सर्वा नान्य­द­न्य­द्भ­वे­द्यतः ।। ४३० ।।

ब्रह्म­णोऽ­व्य­ति­रेके च तद्वच्चासति दुःखिनि ।।
ब्रह्म­वि­द्यो­प­दे­शस्य कैमर्थक्यं प्रसज्यते ।। ४३१ ।।

इति संदेहहेतुश्च विचारस्य प्रयोजकः ।।
तस्माद्विचारः कर्तव्य उक्त­सं­दे­ह­हा­नि­कृत् ।। ४३२ ।।

नासंसारी परोऽन्योऽस्ति पाणि­पे­ष­प्र­बो­धि­तात् ।।
प्राज्ञा­व­स्था­त्म­का­द्य­स्मा­दु­त्पत्तिः श्रूयते श्रुतौ ।। ४३३ ।।

ब्रह्म तेऽहं ब्रवाणीति प्रतिज्ञाय ततो नृपः ।।
सुप्तं पुरुषमभ्येत्य पाणिना बोधयन्स्वयम् ।। ४३४ ।।

तमवस्थान्तरं नीत्वा स्वप्न­द­र्श­न­व­र्त्मना ।।
सुषुप्ताख्यं तत­स्त­स्मा­त्प्रा­णा­द्यु­त्प­त्ति­म­ब्र­वीत् ।। ४३५ ।।

संसारी प्रक्रमाच्चेह नान्यः संभाव्यते ततः ।।
अनूद्य च प्रियात्मानं स द्रष्टव्य इतीर्यते ।। ४३६ ।।

वेदान्तेषु च सर्वेषु प्रत्यगात्मैव चोद्यते ।।
वेद्यत्वेन न तद्भिन्नं पश्ये­दि­त्य­भि­धी­यते ।। ४३७ ।।

अव­स्था­न्त­र­सं­ब­न्धा­द­सं­सारी भविष्यति ।।
संसार्यपि स्वतोऽयं चेन्ने­दृ­ग्दृ­ष्टे­र­सं­भ­वात् ।। ४३८ ।।

नान्य­जा­ति­वि­शि­ष्टोऽर्थः स्वतो जात्यन्तरं ततः ।।
कश्चिदेति जग­त्य­स्मि­न्न­न्य­त्रे­श्व­र­हे­तुतः ।। ४३९ ।।

स्वभावमपि जह्याच्चेदग्निः शीतो भवेद्ध्रुवम् ।।
सर्व­प्र­मा­ण­को­पश्च सर्वं स्यादधरोत्तरम् ।। ४४० ।।

सांख्या­द­य­स्त­थे­शस्य ह्यभावं बहुयुक्तिभिः ।।
आपादयन्ति यत्नेन तेभ्योऽन्यः कोऽधिको धिया ।। ४४१ ।।

संसा­रि­णोऽ­प्य­सा­म­र्थ्या­ज्ज­ग­ज्ज­न्मा­दि­क­र्मसु ।।
जग­द्धे­तु­त्व­म­न्या­य्य­मिति चेन्न श्रुतेर्बलात् ।। ४४२ ।।

अक्षाद्यगोचरो यद्व­च्छा­स्त्रा­द­ध्य­व­सी­यते ।।
तद्व­त्सं­सा­रि­का­रित्वं जगतो गम्यतां श्रुतेः ।। ४४३ ।।

एवं तावदयं पक्षो न्यायतः प्रतिपादितः ।।
शास्त्र­न्या­या­दि­तोऽ­न्योऽपि पक्षोऽथ प्रतिपाद्यते ।। ४४४ ।।

यः सर्वज्ञः सर्व­वि­द्योऽ­श­ना­या­दि­वि­व­र्जितः ।।
यः पृथिव्यामिति तथा नेति नेतीति चाऽऽगमः ।। ४४५ ।।

अस्थू­ला­द्य­क्ष­रो­क्तेश्च तथाऽ­पू­र्वा­दि­वा­क्यतः ।।
असंसारी परोऽस्तीशो यस्य सर्वमिदं वशे ।। ४४६ ।।

स एव च जगत्कारी सत्य­ज्ञा­ना­दि­ल­क्षणः ।।
तस्मा­दि­त्या­त्म­न­श्चेति सामानाधिकरण्यतः ।। ४४७ ।।

संसारिणो ननू­त्प­त्ति­रे­व­मे­वेति कीर्तिता ।।
नैवं महेश्वरस्यैव तत्राऽऽ­का­श­त्व­सं­श्र­यात् ।। ४४८ ।।

ब्रह्म तेऽहं ब्रवाणीति प्रकृत्य ब्रह्मबोधनम् ।।
अब्रह्माप्रकृतं ब्रूयात्कथं राजाऽतिपण्डितः ।। ४४९ ।।

श्रुत्य­न्त­र­वि­रो­धश्च संसारी चेदिहोच्यते ।।
सता सोम्येति सन्नाम्ना ब्रह्म तत्र विवक्षितम् ।। ४५० ।।

आकाशो ह वै नामेति ब्रह्मै­वा­ना­म­रू­प­कम् ।।
श्रुत्यन्तरे श्रुतं साक्षा­दा­का­शा­ह्वा­न­व­त्प­रम् ।। ४५१ ।।

तथाचाहरहः शास्त्रं पर आत्मनि चेति यत् ।।
सुषुप्ते ब्रह्मणोऽन्यस्य नावकाशोऽस्ति दुःखिनः ।। ४५२ ।।

अतद्विकारतो जन्म प्रलयश्च तथाऽऽत्मनः ।।
भौतिकाकाशविषयो न कथंचन युज्यते ।। ४५३ ।।

जग­ज्ज­न्मा­दि­सा­मर्थ्यं सामग्र्यादि च दुःखिनः ।।
संसारिणो न संभा­व्य­म­स्म­दा­दे­र्यथा तथा ।। ४५४ ।।

न शक्त्या­धा­न­कृ­च्छास्रं तस्या­भि­व्य­ञ्ज­क­त्वतः ।।
मानान्तरविरोधेन न हि मानं प्रवर्तते ।। ४५५ ।।

परस्परानपेक्षौ चेत्संसारीशौ स्वतः स्थितौ ।।
ऐकात्म्यं न तयोर्युक्तं प्रकाशतमसोरिव ।। ४५६ ।।

अहं ब्रह्मे­त्य­तोऽ­युक्तं ब्रह्म प्रत्य­क्त­याऽ­ञ्जसा ।।
ग्रहीतुं दुःखि­नोऽ­न्य­त्वा­द्दो­ष­भा­क्स्या­द­तोऽ­न्यथा ।। ४५७ ।।

सत्कर्मभिस्तु तं देवं जगतः कारणं परम् ।।
आराध्य परमोत्कर्षं तत्प्र­सा­दा­त्स­म­श्नुते ।। ४५८ ।।

ब्रह्मा­त्मै­क­त्व­शं­सीनि वाक्यान्यपि तथा सति ।।
अर्थवादी भविष्यन्ति विरोधः स्यादितोऽन्यथा ।। ४५९ ।।

तर्क­शा­स्त्रै­स्तथा लोक­न्या­यै­र­प्य­वि­रु­द्धता ।।
तथा सतीति संप्राप्तावत्र प्रतिविधीयते ।। ४६० ।।

नैतदेवं यतोऽस्यैव मन्त्र­ब्रा­ह्म­ण­मा­नतः ।।
प्रवेशः श्रूयते साक्षा­त्प­र­मे­शस्य सर्वतः ।। ४६१ ।।

पुरश्चक्रे द्विपदः पुरः पुरुष आविशत् ।।
रूपं रूपं च सर्वाणि त्वं स्त्रीं त्वं च पुमानसि ।। ४६२ ।।

इति सन्त्र­स­मा­म्ना­य­स्त­थाच ब्राह्मणान्यपि ।।
इह प्रविष्ट इत्युक्तिः पुर­स्ता­द्ब्रा­ह्म­णो­दिता ।। ४६३ ।।

तत्सृष्ट्वेति तथा वाक्यं तैत्तिरीयश्रुतौ श्रुतम् ।।
सेयमित्यादिकं वाक्यं छान्दो­ग्यो­प­नि­ष­द्यपि ।। ४६४ ।।

ब्रह्मा­त्म­श­ब्द­यो­स्त­द्व­दे­का­धि­क­र­ण­श्रुतेः ।।
अहं ब्रह्मे­त्य­व­सितुं युक्तमेव भवेदतः ।। ४६५ ।।

यदा चैवं स्थितः पक्षस्तदा दोषोऽयमागमत् ।।
संसारित्वं परस्येति तद­न­न्य­त्व­का­र­णात् ।। ४६६ ।।

अथासंसारितैतस्य कथंचिदुपपद्यते ।।
तदो­प­दे­शा­न­र्थक्यं तमृतेऽप्यस्य मुक्ततः ।। ४६७ ।।

एवं प्रचोदिते केचित्परिहारं प्रचक्षते ।।
सृष्टेषु न परः साक्षा­त्प्रा­वि­श­त्प­र­मे­श्वरः ।। ४६८ ।।

विकाररूपापन्नः सन्वि­ज्ञा­ना­त्म­त्व­ल­क्षणः ।।
ब्रह्मा­दि­स्था­व­रा­न्तेषु भूतेषु प्राविशत्परः ।। ४६९ ।।

विज्ञानात्माऽपि महतः पर­मा­त्म­स्व­भा­व­कात् ।।
अन्योऽनन्यश्च विज्ञेयः स्वाभा­व्या­त्स­र्व­व­स्तुनः ।। ४७० ।।

येनान्यस्तेन संसारी कर्माधिकृत इष्यते ।।
अनन्यपक्षेऽहं ब्रह्मे­त्यु­क्ते­र्ब्रह्म प्रपत्स्यते ।। ४७१ ।।

यथो­क्त­दो­ष­सं­बन्धो नैवं सति भविष्यति ।।
इतोऽन्यथा कल्पनायां यतो दोषेण संगतिः ।। ४७२ ।।

देहा­द्यु­पा­धि­स्रं­बन्धं सिद्धं मान्तरसंश्रयात् ।।
अनूद्य ब्रह्मता वाक्यान्न प्रविष्टाद्यतः श्रुतेः ।। ४७३ ।।

विज्ञानात्मन एताः स्युर्गतयो विक्रियां प्रति ।।
नाना­द्र­व्य­स­मा­हारः पृथिवीवत्परो भवेत् ।। ४७४ ।।

तस्य सावयवस्य स्यादेकदेशस्य विक्रिया ।।
विज्ञानात्मेति यं प्राहुः परिणामः स आत्मनः ।। ४७५ ।।

घटा­दि­व­त्क्षि­ते­रस्य ह्येकदेशस्य विक्रिया ।।
संस्था­ना­नु­प­म­र्देन यद्वा केशोषरादिवत् ।। ४७६ ।।

कार्त्स्न्यॆन वा परि­ण­मे­त्क्षी­र­द्र­व्या­दि­व­त्परः ।।
इयन्त एव पक्षाः स्युर्विकारे परमात्मनः ।। ४७७ ।।

भिन्न­द्र­व्य­स­मू­हस्य मुख्यैकत्वं न युज्यते ।।
एक­जा­त्य­भि­सं­ब­न्धा­दे­कत्वं गुणतो यतः ।। ४७८ ।।

तथाच सति सिद्धा­न्त­हा­निर्वः संप्रसज्यते ।।
नित्यं चायु­त­सि­द्धां­शा­नु­ग­तोऽ­व­यवी यदि ।। ४७९ ।।

तदवस्थस्य तस्यैकदेशः संसारितामगात् ।।
प्रत्यं­शा­व­सि­ते­स्तस्य तदाऽपि परमात्मनः ।। ४८० ।।

स्वभागानुगतो दोषो गुणो वाऽस्य प्रसज्यते ।।
संसारिता परस्यैवं दोषः स्याद्दु­र्नि­वा­रणः ।। ४८१ ।।

निःशे­ष­प­रि­णा­मेऽपि पयोवत्परमात्मनः ।।
श्रुति­स्मृ­त्यु­क्ति­कोपः स्यात्स चानिष्टः प्रसज्यते ।। ४८२ ।।

न जायते म्रियते वा इति षड्भाविक्रिया -
निषे­ध­कृ­द्वे­द­वाक्यं प्रत्य­ग्वि­कृ­ति­वा­र­णम् ।। ४८३ ।।

दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः ।।
निष्कलं निष्क्रियं शान्तं विमलं व्योमवत्स्थितम् ।। ४८४ ।।

इत्यादिशतशो वाक्यैः श्रुति­स्मृ­त्यु­दि­तै­रमी ।।
सर्वे पक्षा विरुध्यन्ते त्याज्यास्तेऽतः प्रयत्नतः ।। ४८५ ।।

संसा­रा­नु­प­प­त्तिश्च कूट­स्था­त्मै­क­दे­शतः ।।
स्वकर्मफलदेशेषु क्षेत्रज्ञस्य प्रसज्यते ।। ४८६ ।।

वियु­क्त­स्याऽऽ­त्म­न­श्चे­त्स्या­द्वि­स्फु­लि­ङ्गा­दि­व­द्गतिः ।।
तथाऽपि क्षत­सं­प्रा­प्ति­र­व्र­णस्य प्रसज्यते ।। ४८७ ।।

वारिणो मत्स्यसंचारे छिद्रसंग्रथने यथा ।।
भ्रमत्सु तद्वज्जीवेषु प्राप्नुतः परमात्मनः ।। ४८८ ।।

तथा­चा­व्र­ण­वा­क्येन विरोधोऽपि प्रसज्यते ।।
स्वकारणातिरेकेण वृत्तिः कार्यस्य नान्यतः ।। ४८९ ।।

पर­मा­त्मै­क­वृ­त्ति­त्वा­त्कुतो जीवस्य संसृतिः ।।
स्वप्न­सं­चा­र­व­त्त­स्मा­ज्जी­व­सं­सार इष्यते ।। ४९० ।।

स्थास्नुष्वपि महद्दुःखं कण्टकादिषु देहिनाम् ।।
परात्मनो महद्दुःखं जीवसंचरणेऽप्यतः ।। ४९१ ।।

अदोषो विस्फु­लि­ङ्गा­दि­दृ­ष्टा­न्ता­दिति चेन्मतम् ।।
नैवं यथा­स्थि­ता­र्थानां शास्त्रस्य ज्ञापकत्वतः ।। ४९२ ।।

अज्ञातज्ञापकं शास्त्र­मे­वं­स्वा­भा­व्यतो मितेः ।।
पदा­र्था­न्ना­न्यथा कर्तुं प्रवृत्तं माननिश्चितान् ।। ४९३ ।।

मूर्तामूर्तादयो यद्वत्पदार्था माननिश्चिताः ।।
यथा­दृ­ष्टा­नु­रो­ध्येव दृष्टा­न्तै­र्वस्तु बोध्यते ।। ४९४ ।।

एवं प्रवृत्तं सर्वत्र शास्त्रं दृष्टा­न्त­पू­र्व­कम् ।।
न प्रमा­न्त­र­सं­सि­द्ध­वि­प­री­ता­त्म­बो­ध­नम् ।। ४९५ ।।

अति­शी­तोऽ­ग्नि­रि­त्यत्र दृष्टान्तानां शतैरपि ।।
प्रमा­न्त­र­वि­रु­द्ध­त्वा­न्ने­न्द्रे­णा­प्य­धि­ग­म्यते ।। ४९६ ।।

माना­न्त­र­वि­रुद्धं च न च मानं सदिष्यते ।।
माना­न्त­रे­णा­सं­व्याप्ते मेये स्यान्मानता यतः ।। ४९७ ।।

तथा पदतदर्थांश्च लिङ्ग­प्र­त्य­क्ष­गो­च­रान् ।।
नाना­दृ­त्याऽऽ­ग­मे­ना­र्थ­म­ज्ञातं वेत्ति कश्चन ।। ४९८ ।।

लोक­प्र­सि­द्ध­न्या­या­र्थै­रं­शां­शि­त्वा­दि­क­ल्पना ।।
परात्मनः कल्पयितुं नातो युक्ता कथंचन ।। ४९९ ।।

विस्फु­लि­ङ्गा­द्यु­प­न्यासः क्षेत्र­ज्ञ­प­र­मा­त्मनोः ।।
ऐका­त्म्य­प्र­ति­प­त्त्य­र्थ­स्त­स्मा­दत्र विवक्षितः ।। ५०० ।।

उप­क्र­मो­प­सं­हा­रा­द्य­थो­क्तोऽर्थो विवक्षितः ।।
ब्रह्मादि सर्वमात्मेति प्रतिज्ञाय श्रुतिर्यथा ।। ५०१ ।।

दुन्दु­भ्या­द्यैश्च दृष्टा­न्तै­र्हे­तु­भिश्च समर्थ्यते ।।
अपू­र्वा­द्या­दि­भि­र्वाक्यैः प्रति­ज्ञा­र्थो­प­सं­हृतिः ।। ५०२ ।।

सर्व­वे­दा­न्त­वा­क्येषु ब्रह्मैकत्वं विधीयते ।।
इत्य­वि­प्र­ति­प­त्तिर्हि व्याख्या­तृ­णा­म­शे­षतः ।। ५०३ ।।

तद्वि­ध्ये­को­क्ति­यो­गस्य ह्यक्ले­शा­त्सं­भवे सति ।।
सृष्ट्यादिवचसां नैव युक्ताऽ­र्था­न्त­र­क­ल्पना ।। ५०४ ।।

न च प्रमाणं तत्रास्ति कल्प्यं च स्यात्फलान्तरम् ।।
ऐका­त्म्य­प­र­तै­वातः सृष्ट्यादिवचसां भवेत् ।। ५०५ ।।

आचक्षते तथाचात्र केचिदाख्यायिकां शुभाम् ।।
यथा­भि­ल­षि­ता­र्थोऽयं यथा संभाव्यते स्फुटः ।। ५०६ ।।

यथा हि कश्चि­त्प्रा­गा­सी­च्च­क्र­वर्ति सुतो युवा ।।
व्याधि­यो­गो­प­घा­ता­दे­रु­न्मत्तः समपद्यत ।। ५०७ ।।

ध्वस्त­रा­जा­भि­मानः सन्मुग्धो वनमुपेयिवान् ।।
व्याधैः परिगृहीतश्च व्याधोऽ­स्मी­त्य­भि­म­न्यते ।। ५०८ ।।

तत्कर्मा तदहंकारः कालेन महताऽभवत् ।।
ध्वस्त­रा­ज­त्व­सं­स्कारो वसञ्शबरसद्मनि ।। ५०९ ।।

शुभौ­ष­ध्यु­प­यो­गाच्च स्वस्थधीः समजायत ।।
स्वस्व­भा­वा­नु­रो­धाच्च व्याधेभ्यो व्युत्थि­ता­त्मधीः ।। ५१० ।।

तच्छी­ल­रू­प­क­र्मभ्यो व्यावृत्तधिषणः स्वतः ।।
केव­ल­स्मृ­त्य­भा­वाच्च न व्याधत्वं जहात्यसौ ।। ५११ ।।

कुत­श्चि­दा­ग­मा­ज्ज्ञात्वा तमु­पे­त्या­प्र­ता­रकः ।।
तज्जा­ति­क­र्म­सं­ब­न्ध­त­त्त्व­वि­त्त­त्पितुः सखा ।। ५१२ ।।

प्रवृत्त्या कर्मणा जात्या चक्र­व­र्त्यु­चि­तै­स्तथा ।।
लक्षणै राजपुत्रत्वं यथा कश्चि­त्प्र­बो­ध­येत् ।। ५१३ ।।

लब्ध­मा­त्र­स्मृतिः सोऽथ राजाऽ­स्मी­त्य­व­बो­धतः ।।
बाधित्वा स्वमसंबोधं हित्वा व्याधत्वमात्मनः ।। ५१४ ।।

राज्या­भि­षे­क­मा­प्नोति प्राप्य सिंहासनं पितुः ।।
अवा­प्त­रा­ज­सू­नु­त्वा­त्त­त्प्राप्तौ नापि चेष्टते ।। ५१५ ।।

मोहा­ध्य­स्ता­त्म­व्या­ध­त्वा­न्मो­ह­ध्वं­सा­ति­रे­कतः ।।
राज­पु­त्र­त्व­सं­प्राप्तौ नान्य­त्किं­चि­द­पे­क्षते ।। ५१६ ।।

यथा तथाऽयं ब्रह्मैव ब्रह्मा­सं­बो­ध­मा­त्रतः ।।
बुद्धी­न्द्रि­य­श­री­रा­दा­वा­त्मत्वं प्रतिपेदिवान् ।। ५१७ ।।

सोऽयं सांसारिकैरर्थैः प्रत्य­क्त­त्त्वा­प्र­बो­धतः ।।
विशिनष्टि स्वमात्मानं प्रती­ची­न­म­ना­त्मभिः ।। ५१८ ।।

संसारभूमावासीनं संसा­र्य­स्मी­त्य­व­स्थि­तम् ।।
मुमुक्षुं तत्त्व­वि­त्सा­क्षा­त्सं­सा­र­व्यु­त्थि­तै­ष­णम् ।। ५१९ ।।

य आत्मे­त्या­दि­भि­र्वा­क्यै­र­न्व­य­व्य­ति­रे­कतः ।।
तत्त्व­म­स्या­दि­वा­क्येन गुरुः संबोधयेन्नरम् ।। ५२० ।।

सम्य­ग्ज्ञा­ना­ग्नि­सं­प्लु­ष्ट­प्र­त्य­क्त­त्त्व­म­हा­तमाः ।।
हित्वा मोहोत्थमखिलं ब्रह्मैव ब्रह्म यात्यथ ।। ५२१ ।।

प्रत्य­क्त­त्त्व­त­मो­ध्वं­स­व्य­ति­रे­केण मुक्तये ।।
अपेक्षते यतो नान्य­त्किं­चि­त्सा­ध­न­म­ण्वपि ।। ५२२ ।।

जन्मा­द्य­सं­भ­वा­त्त­स्मा­द्ब्र­ह्म­बो­धा­ति­रे­कतः ।।
कार्यान्तरं न संभाव्यं व्यर्थं चापि भवेद्वचः ।। ५२३ ।।

अंशांशित्वादि चेत्सा­क्षा­द्ब्र­ह्म­ज्ञाने विवक्षितम् ।।
समुद्रादेरिव, तदा नाव­क्ष्य­च्छ्रु­ति­रा­द­रात् ।। ५२४ ।।

यदनभ्युदितं वाचा मनुते मनसा न यत् ।।
अपूर्वादि तथा वाक्यमपि सैन्धवखिल्यवत् ।। ५२५ ।।

नाना­त्व­दृ­ष्टि­निन्दां च मृत्योरिति तथा वचः ।।
अंशां­शि­त्व­वि­व­क्षायां न प्रायो­क्ष्य­त्त­दे­दृ­शम् ।। ५२६ ।।

एकै­क­रू­पै­का­त्म्या­र्थ­धियो दार्ढ्य­प्र­सि­द्धये ।।
सृष्ट्या­दि­श्रु­त­य­स्त­स्मान्न तु तत्प्रत्ययाय ताः ।। ५२७ ।।

न चाऽऽत्मनो निरंशस्य तथाऽसंसारिणः स्वतः ।।
अंशि­सं­सा­रि­भा­वत्वं न्याये­ना­प्यु­प­प­द्यते ।। ५२८ ।।

कल्पि­तो­पा­धि­हे­तु­श्चे­दं­शि­सं­सा­रि­क­ल्पना ।।
काममस्तु न तादृक्षु धीराणां सत्यधीर्भवेत् ।। ५२९ ।।

विवक्षितं चेदैकात्म्यं सर्वोपनिषदां भवेत् ।।
विज्ञा­ना­त्मा­दि­सं­भे­द­स्त­द्वि­रुद्धः किमुच्यते ।। ५३० ।।

कर्म­का­ण्ड­प्र­मा­ण­त्व­वि­रो­ध­ध्व­स्तये किल ।।
विज्ञा­ना­त्मा­दि­सं­भेद इति केचित्प्रचक्षते ।। ५३१ ।।

ऐकात्म्यमात्रे जगति समा­प्त­पु­रु­षा­र्थके ।।
चोदनाप्रतिषेधौ वः स्यातां निर्विषयौ तदा ।। ५३२ ।।

स्वत एव विमु­क्त­त्वा­द्ब­न्धा­भा­वा­त्स्व­त­स्तथा ।।
वेदान्तानां तथाऽऽरम्भो निष्फलः संप्रसज्यते ।। ५३३ ।।

इत्ये­व­मा­दि­चो­द्यानि परिहाराश्च वर्णिताः ।।
संबन्ध एव बहुशो विचारेषु च कीर्तिताः ।। ५३४ ।।

परस्परविरोधाच्च प्रकाशतमसोरिव ।।
कर्म­का­ण्डो­प­नि­ष­दो­र्नि­प्प्रा­माण्यं द्वयोरपि ।। ५३५ ।।

सति यस्य प्रमाणत्वे प्रामाण्यं स्याद्वयोरपि ।।
तस्यैव कर्मकाण्डस्य प्रामा­ण्य­म­व­सी­य­ताम् ।। ५३६ ।।

कर्म­का­ण्ड­प्र­मा­णत्वे प्रामाण्यं चेद्वयोरपि ।।
सर्वग्रासि तदै­का­त्म्य­मा­गा­दिह पुनर्बलात् ।। ५३७ ।।

यद्ये­व­म­प्र­मा­ण­त्व­म­स्तू­प­नि­षदां तदा ।।
माना­न्त­र­वि­रो­धाच्च नैतासां मानतेष्यते ।। ५३८ ।।

अपि स्वार्थविघातं च करो­त्यु­प­नि­ष­द्यतः ।।
अप्रा­मा­ण्य­म­त­स्तस्याः, कर्मकाण्डस्य मानता ।। ५३९ ।।

नोक्तो­त्त­र­त्वा­त्सा­ध्वे­त­द्भ­वता परिचोद्यते ।।
व्यर्थ­ता­न्या­र्थते नेह यथा तत्प्रा­क्प्र­प­ञ्चि­तम् ।। ५४० ।।

ब्रह्मास्मीति धियो जन्मसमकाला विमुक्तता ।।
यतोऽनुभूयते साक्षा­न्ना­न­र्थक्यं भवेत्ततः ।। ५४१ ।।

वस्तु­मा­त्रा­व­सा­यित्वं संबन्धे प्राक्प्र­पा­ञ्चि­तम् ।।
यतोऽतो नोप­नि­ष­दा­म­न्या­र्थत्वं कथंचन ।। ५४२ ।।

स्वप्र­मे­य­प्र­मो­त्प­त्त्य­नु­त्प­त्त्ये­क­हे­तुके ।।
प्रमा­ण­त्वा­प्र­मा­णत्वे नान्यथा ते प्रसिध्यतः ।। ५४३ ।।

किंचातो यदि नामैवं प्रकृ­ता­र्थो­प­योगि यत् ।।
शृण्वेकाग्रमनाः सर्वं यदेवं सति वस्तु तत् ।। ५४४ ।।

स्वप्रमेये प्रमां साक्षा­त्क­रो­त्यु­प­नि­ष­द्यदि ।।
अप्रामाण्यं कथं तस्याः कुतोऽतो मानताऽन्यथा ।। ५४५ ।।

न चेत्क­रो­त्यु­प­नि­ष­त्प्र­मा­मि­त्य­भि­धी­यते ।।
प्रत्यक्षेण विरुद्धार्थं त्वदीयं वचनं भवेत् ।। ५४६ ।।

नाग्निर्दहति काष्ठानि न तापयति भास्करः ।।
इति यद्व­त्त­थो­क्तिस्ते प्रत्यक्षेण विरुध्यते ।। ५४७ ।।

अग्नि­दा­हा­दि­व­त्सा­क्षा­द्वे­दा­न्त­ज्ञा­नजं फलम् ।।
संसा­रा­न­र्थ­हा­नाख्यं प्रत्य­क्ष­म­नु­भू­यते ।। ५४८ ।।

विघ्नन्ति स्वार्थ­मि­त्युक्तं यच्च तच्चापि पेलवम् ।।
यथा तदुच्यमानं त्वं यथा­व­च्छ्रो­तु­म­र्हसि ।। ५४९ ।।

स्वप्रमेयावबोधो हि मानानां स्वार्थ उच्यते ।।
तं चेत्कुर्वन्ति वेदान्ताः कुतस्तेषाममानता ।। ५५० ।।

न च वेदा­न्त­वा­क्यो­त्थ­ज्ञा­न­स्ये­हास्ति बाधकम् ।।
बाधकानामपि सतां प्रत्य­ग्या­था­त्म्य­रू­पतः ।। ५५१ ।।

प्रमाणमप्रमाणं च प्रमाभासस्तथैव च ।।
कुर्वन्त्येव प्रमां यत्र तदसंभावना कुतः ।। ५५२ ।।

किमेकविषयत्वेन किंवा विषयभेदतः ।।
विरोधः स्यात्प्र­मा­णा­ना­मि­त्ये­त­द­भि­धी­य­ताम् ।। ५५३ ।।

मानान्तरेण संवादो यदि चेदनुवादिता ।।
विरोधो न तु मानानां सदैकार्थसमागमे ।। ५५४ ।।

भिन्न­प्र­मे­य­तायां च श्रोत्रादीनां यथा तथा ।।
पर­स्प­रा­न­पे­क्ष­त्वा­न्नि­त­रा­म­वि­रु­द्धता ।। ५५५ ।।

न चैकमेव सद्वाक्यं करोति न करोति च
प्रमां तत्प्रतिषेधं च कुर्व­त्क्व­चि­दि­हे­ष्यते ।। ५५६ ।।

अग्निः शीत­स्त­थो­ष्ण­श्चे­त्ये­व­मा­द्यु­क्तितो ननु ।।
विरु­द्धा­र्था­व­भा­सोऽयं जायमानः समीक्ष्यते ।। ५५७ ।।

नैकस्मान्नापि च द्वाभ्यां विरु­द्धा­र्थोऽ­व­सी­यते ।।
अनू­द्यो­क्त्ये­क­दे­शेन शीतोऽग्निरिति योध्यते ।। ५५८ ।।

संभवत्येव शीतोऽग्निः प्रमा­णा­न्त­र­गो­चरः ।।
माना­न्त­र­वि­रो­धोऽपि तथाच सति नेष्यते ।। ५५९ ।।

शीतवद्वा भवेच्छीतः शैत्य­स्या­न­प­हा­रतः ।।
एवमप्यविरोधः स्यादस्य मानान्तरैरपि ।। ५६० ।।

शैशि­रोऽ­ग्नि­र्भ­वे­च्छी­त­स्त­थोष्णः पार्थिवो भवेत् ।।
भिन्ना­र्थ­त्वा­व­बो­धि­त्वा­द्वा­क्य­योर्न विरुद्धता ।। ५६१ ।।

ऐकार्थ्ये न विरोधोऽस्ति द्व्यर्थत्वेऽपि न माश्रयात् ।।
मानान्तराच्च नैवास्ति मान्त­रा­वि­ष­य­त्वतः ।। ५६२ ।।

अभ्यु­पे­त्यै­त­दु­दितं न तु वाक्यविदां नयः ।।
यद­ने­का­र्थ­बो­धि­त्व­मे­कस्य वचसः सतः ।। ५६३ ।।

अर्थैकत्वादिति तथा वाक्य­ल­क्ष­ण­मु­च्यते ।।
अने­का­र्था­व­बो­धित्वे न स्याल्ल­क्ष­ण­व­द्वचः ।। ५६४ ।।

एकमेव यदा वाक्यं कृत्स्नो वेदोऽभ्युपेयते ।।
वाक्या­न्त­रा­सं­भ­व­त­स्तदा केन विरुद्धता ।। ५६५ ।।

वाक्यद्वयं चेदथवा सिद्ध­सा­ध्या­र्थ­भे­दतः ।।
तदाऽपि न विरोधोऽत्र विभि­न्ना­र्था­व­बो­धिनोः ५६६ ।।

नापि स्वार्थं परार्थं वा विह­न्त्यु­प­नि­ष­त्क­चित् ।।
कथं चेदुच्यमानं तच्छृ­ण्वे­का­ग्र­मना यथा ।। ५६७ ।।

सर्वमात्मेति चेत्कु­र्या­त्प्र­मे­य­वि­षयां प्रमाम् ।।
विह­न्त्यु­प­नि­ष­त्स्वा­र्थ­मिति निर्लज्जगीरियम् ।। ५६८ ।।

निःशे­ष­पु­रु­षा­र्थाप्तिः सर्वानर्थात्ययः सदा ।।
वेदा­न्त­ज्ञा­न­त­श्चे­त्स्या­त्स्वा­र्थोऽ­तोऽन्यः क इष्यते ।। ५६९ ।।

निषेधति विधत्ते वा न चाप्यु­प­नि­ष­त्क्रि­याम् ।।
प्रत्य­क्त­त्वै­क­सं­बोधे तद्वा­क्यो­प­क्ष­य­त्वतः ।। ५७० ।।

न चापि कर्मकाण्डोक्तिः स्वार्थे न कुरुते प्रमाम् ।।
स्वार्थे च सा प्रमां कुर्वत्यमानं कथमुच्यते ।। ५७१ ।।

प्रात्य­क्ष्याच्च प्रमो­त्प­त्ते­र्ज्यो­ति­ष्टो­मा­दि­वा­क्यतः ।।
प्रमैवोत्पद्यते नेति वक्तुमेतन्न शक्यते ।। ५७२ ।।

विषयापहृतेर्नो चेद्वे­दा­न्तोक्त्या प्रमोत्थितिः ।।
न प्रत्य­क्ष­ब­ली­य­स्त्वा­द­नु­मा­न­प्र­बो­धतः ।। ५७३ ।।

यथा­सि­द्धा­न्यु­पा­दाय कामद्वेषवशानुगः ।।
इष्टमेव सदा मे स्यान्मा भूच्चा­नि­ष्ट­म­ण्वपि ।। ५७४ ।।

साध­ना­नी­ष्ट­ला­भा­र्थ­म­नि­ष्टा­र्था­प­नु­त्तये ।।
आचक्षाणा श्रुतिः पुंसो नान्यार्थं वक्ति कंचन ।। ५७५ ।।

यथा काम्या­ग्नि­हो­त्रादौ साध्य­सा­ध­न­सं­ग­तिम् ।।
विद­ध­न्ना­नृ­त­त्वादि कामानां वक्ति कुत्रचित् ।। ५७६ ।।

न चापि न प्रवर्तन्ते पुरुषाः काम्यकर्मसु ।।
यतोऽतत्त्वविदां कामो न कदाचिन्निवर्तते ।। ५७७ ।।

अकामतः क्रिया काचिदृश्यते नेह कुत्रचित् ।।
यद्यद्धि कुरुते किंचि­त्त­त्त­त्का­मस्य चेष्टितम् ।। ५७८ ।।

स यथाकाम इत्या­दि­रे­षोऽ­र्थश्च सविस्तरः ।।
वक्ष्य­तेऽ­का­म­य­मा­नश्च तथाऽ­कु­र्व­न्वि­मु­च्यते ।। ५७९ ।।

सर्वा­धि­का­र­प्र­ध्वं­सान्न कृत्स्ना­त्मा­व­बो­धिनः ।।
प्रवृत्तौ वा निवृत्तौ वा गुणभावः सदेष्यते ।। ५८० ।।

अतो निर्विषयत्वादि ब्रह्मै­क­त्वा­द्य­दी­रि­तम् ।।
तत्सर्वं परिहृतं हेयं यथोक्तेनैव वर्त्मना ।। ५८१ ।।

न निवर्तयितुं शक्तं रागा­द्या­कृ­ष्ट­चे­तसः ।।
शास्त्रं विर­क्त­चि­त्तान्वा न प्रवर्तयितुं क्षमम् ।। ५८२ ।।

इष्टा­नि­ष्ट­क­ला­नीति साधनानि प्रकाशयेत् ।।
न निवृत्तिं प्रवृत्तिं वा पुंसः शास्त्रं करोति तत् ।। ५८३ ।।

अपि शास्त्रं समुल्लङ्घ्य रागादिबलवत्तया ।।
प्रवर्तमानाः पुरुषा दृश्य­न्तेऽ­द्यापि कामिनः ।। ५८४ ।।

साध्य­सा­ध­न­सं­ब­न्धा­नि­ष्टा­नि­ष्ट­फ­लो­द­यान् ।।
शास्त्रं त्वादि­त्य­व­त्सा­क्षा­त्प्र­का­श­यति तान्सदा ।। ५८५ ।।

तेषु शास्त्रैकदीपेषु साध्य­सा­ध­न­व­र्त्मसु ।।
यथारुचि प्रवर्तन्ते पुरुषा न तु शास्त्रतः ।। ५८६ ।।

विधिशास्त्रस्य नैवातो वेदान्ता बाधकाः सदा ।।
न च निर्विषयं तत्स्या­न्मे­य­भे­दा­त्त्व­गा­दि­वत् ।। ५८७ ।।

केचित्तु पण्डितंमन्या विरोधीनि परस्परम् ।।
संभावयन्ति मानानि सर्वा­ण्यै­का­त्म्य­व­स्तुनि ।। ५८८ ।।

श्रोत्रा­दि­भि­र्यतो भिन्ना मिथः शब्दादयस्त्वमी ।।
मीयन्ते सर्वमात्मेति प्रत्यक्षेण विरुध्यते ।। ५८९ ।।

शब्दा­द्य­र्थो­प­ल­ब्धारः कर्तारश्च पृथक्पृथक् ।।
यस्मा­दि­हा­नु­मी­यन्ते तस्मा­ल्लि­ङ्ग­वि­रो­धिता ।। ५९० ।।

तथाऽऽगमविरोधं च ग्राम­का­मा­दि­भे­दतः ।।
उद्भासयन्ति संहृष्टा ब्रह्मै­क­त्व­प्र­दू­षकाः ।। ५९१ ।।

ब्रह्मै­क­त्व­वि­रोधो वः कथं भिन्ना­र्थ­बु­द्धिभिः ।।
इति ब्रह्मविदोपेत्य प्रष्टव्या भेदवादिनः ।। ५९२ ।।

किं भोः शब्दादिभेदेन खस्यैकत्वं विरुध्यते ।।
न चेद्वि­रु­ध्य­तेऽ­थो­च्चै­र्वि­रोधः किमीतीर्यते ।। ५९३ ।।

सत्प­रि­च्छे­द­कै­र्नापि प्रत्य­क्षा­द्यै­र्ग्रहो भवेत् ।।
व्यावृ­त्ते­र­न्य­तो­भा­व­मा­त्रायाः केनचित्कचित् ।। ५९४ ।।

द्वैतग्राहि यथा मानं न किंचिदपि विद्यते ।।
तथोदर्के प्रवक्ष्यामि नातो मानविरोधिता ।। ५९५ ।।

यच्चो­क्त­म­नु­मी­यन्ते प्रतिदेहं पृथग्विधाः ।।
शब्दा­द्य­र्थो­प­ल­ब्धारः कर्तारश्चापि कर्मणाम् ।। ५९६ ।।

भिन्नाः कैरनुमीयन्त इति पृष्टो वदेद्यदि ।।
अस्मा­भि­र्लि­ङ्ग­कु­श­लै­रि­त्ये­तच्च न युक्तिमत् ।। ५९७ ।।

अन­न्य­मा­न­मे­येऽर्थे न भेदः प्रत्यगात्मनि ।।
परा­ङ्भा­न­प्र­मे­याश्च नाऽऽत्मानः स्तम्भकुम्भवत् ।। ५९८ ।।
अनुमाकुशला यूयं क इत्ये­त­द्वि­भा­ष्य­ताम् ।। ५९९ ।।

देहे­न्द्रि­य­म­नो­बु­द्धि­क्षे­त्र­ज्ञेषु पृथक्पृथक् ।।
नानुमाकौशलं तावत्प्रत्येकं तेषु विद्यते ।। ६०० ।।

देहा­दि­सा­ध­ना­स्त­स्मा­द्व­य­मा­त्मान एव हि ।।
भूरि­सा­ध­न­सा­ध्य­त्वा­त्क्रि­याणां नो विभिन्नता ।। ६०१ ।।

भूरि­सा­ध­न­सा­ध्य­त्वा­त्क्रि­या­णा­मिति चेद्भवेत् ।।
हेतु­स्त­वा­प्य­ने­क­त्व­मे­क­स्यापि प्रसज्यते ।। ६०२ ।।

आत्मादीनां क्रिया­स्ति­त्वा­त्प्र­त्येकं कारकत्वतः ।।
अग्न्यादीनामिव तत आत्मा­ने­क­त्व­मा­प­तेत् ।। ६०३ ।।

अनुमाऽपि क्रिया साक्षा­द्भ­व­तै­वा­भ्यु­पे­यते ।।
शरी­रे­न्द्रि­य­बु­द्ध्यादेः प्रत्येकं स्यादनेकता ।। ६०४ ।।

बहु­सा­ध­न­सा­ध्य­त्वा­त्क्रि­या­णा­मि­ति­हे­तुतः ।।
एवं­ल­क्ष­ण­हे­तू­क्ति­र्मौ­र्ख्य­लिङ्गं भवेदतः ।। ६०५ ।।

गुणक्रियाणां सर्वासां कर्तृ­मा­त्र­व्य­पा­श्र­यात् ।।
अनैकान्तिकता हेतोस्तथा वः संप्रसज्यते ।। ६०६ ।।

अपक्षधर्मता हेतो­र्ना­म­रू­पा­श्र­य­त्वतः ।।
धर्मा­भा­वा­त्प्र­ती­चश्च तद्भेदे हेतुता कुतः ।। ६०७ ।।

ऐकात्म्यवन्तो देहाः स्युर्विवादो येषु वर्तते ।।
शरी­र­त्वा­वि­शे­ष­त्वा­त्प्र­ति­वा­दि­श­री­र­वत् ।। ६०८ ।।

तथे­न्द्रि­य­म­नो­बु­द्धि­वि­ष­ये­प्वपि योजयेत् ।।
ऐकात्म्यं सर्वभूतेषु प्रात्य­क्ष्या­च्चाऽऽ­त्म­न­स्तथा ।। ६०९ ।।

आत्मप्रत्यय एकात्मा सर्वदेहेषु सर्वदा ।।
नाना­त्म­व­द­ने­कत्वं कश्चिदात्मनि वीक्षते ।। ६१० ।।

अनु­मा­ना­द­ने­क­त्व­मा­त्मनो ये प्रचक्षते ।।
तेषां प्रत्यक्षमानेन बाधो लिङ्गधियो भवेत् ।। ६११ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके द्विती­या­ध्या­यस्य द्वितीयं ब्राह्मणम्