बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ पञ्चमाध्यायस्य पञ्चमं ब्राह्मणम् ॥
उक्तं प्रथमजं सत्यं कथं तदिति भण्यते ।।
आप एवेदमित्युकत्या यथोक्तार्थस्तवाय तु ।। १ ।।
पयःसोमादिका आपो ह्यग्निहोत्रादिकर्मसु ।।
सर्वाहुतिषु संसृष्टा बाहुल्यादप्परिग्रहः ।। २ ।।
सत्स्वप्यन्येषु भूतेषु भूयस्त्वादाय एव तु ।।
प्राधान्याच्चैव गृह्यन्ते न त्वन्यद्विनिवार्यते ।। ३ ।।
प्रक्षेपोत्तरकालं ताः सर्वमानातिवर्तिना ।।
तस्थुः सूक्ष्मेण रूपेण क्रियामाश्रित्य सर्वतः ।। ४ ।।
यावत्किंचिज्जगत्यस्मिन्नाहुत्येह व्यपेक्ष्यते ।।
अन्तर्भूतं तदप्स्विति ह्याप एवेदमित्यतः ।। ५ ।।
अग्रे प्रथमतः सृष्टेरग्रजस्य प्रजापतेः ।।
सत्यं ब्रह्मासृजन्नापः कारणत्वादपां ततः ।। ६ ।।
तदिदं हिरण्यगर्भस्य व्यक्तीभावो महेश्वरात् ।।
आदित्यस्येह वाक्येन वर्ण्यतेऽग्रजसिद्धये ।। ७ ।।
भूतादिव्यक्तितो व्यक्तिग्रजस्यापि नान्यथा ।।
ताः सत्यमिति तेनाऽऽह सत्यं ब्रह्मातिविस्तृतेः ।। ८ ।।
सूर्यादिकारणं देवं ब्रह्माऽस्राक्षीज्जगद्रुरुम् ।।
देवान्विराडपि ब्रह्मा ससर्जेत्यनुषज्यते ।। ९ ।।
एवं सत्याद्यतो जातं क्रमेण ब्रह्मणो जगत् ।।
महत्सत्यमतो ब्रह्म यक्षत्वं तूपवर्ण्यते ।। १० ।।
अतीत्य पितरं देवाः पितामहमुपासते ।।
यतोऽतो ब्रह्म यक्षं च सत्यं प्रथमजं विदुः ।। ११ ।।
तस्यापि ब्रह्मणो नाम त्र्यक्षरं सत्यमुच्यते ।।
प्रथमोत्तमे त्वमृतमक्षरे सस्वरत्वतः ।। १२ ।।
निरच्कं मध्यतो मृत्युर्निर्जीवं देहवत्स्थितम् ।।
भूयोऽमृतेन तद्ग्रस्तं मृतं चापि स्वतो यतः ।। १३ ।।
इत्येवं पर्युपासीनो नामाभिज्ञो नरः सदा ।।
सत्यभूयं भवेदेव नैनमित्यादियुक्तिगीः ।। १४ ।।
इति श्रीबुहदारण्यकोपनिषद्भाष्यवार्तिके पञ्चमाध्यायस्य पञ्चमं ब्राह्मणम्