अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ तृतीयाध्यायस्य पञ्चमं ब्राह्मणम् ॥

आदावभिहितं सर्वं बन्धनं सप्रयोजकम् ।।
अस्ति­त्व­व्य­ति­रि­क्तत्वे बद्धस्य च विनिश्चिते ।। १ ।।

संसा­रा­न­र्थ­सं­प्रा­प्ति­हे­तो­र्वि­ध्व­स्त­थेऽ­धुना ।।
संन्या­सै­क­सा­हा­या­त्म­या­था­त्म्य­ज्ञा­न­मु­च्यते ।। २ ।।

उत्प­न्न­स­म्य­ग्ज्ञा­नस्य संन्यासो लक्षणं यतः ।।
साधनं च तदुत्पत्तौ संन्यासोऽतोऽत्र भण्यते ।। ३ ।।

प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् ।।
तस्माज्ज्ञानं पुरुस्कृत्य संन्यसेदिह बुद्धिमान् ।। ४ ।।

उषस्तप्रश्न एवायं कहोलेनापि पृच्छयते ।।
तत्किमर्थं पुनः प्रश्नः स एव कृतनिर्णयः ।। ५ ।।

प्रष्टृ­भे­दा­द­दो­ष­श्चे­न्मैवं प्रत्यु­क्ति­भे­दतः ।।
एका­र्थ­प्र­श्न­वा­क्यस्य ह्येका प्रत्यु­क्ति­रि­ष्यते ।। ६ ।।

पुनरूक्तं न च न्याय्य­मे­क­प्र­व­चने क्वचित् ।।
न चेह लौकिको जल्पः प्रष्ट्वभेदो यतो भवेत् ।। ७ ।।

समानशब्दौ तेनेमौ स्यातां भिन्नार्थवाचकौ ।।
कहो­लो­ष­स्त­व­क्त्रोक्तौ प्रश्नाविति विनिर्णयः ।। ८ ।।

क्षेत्र­ज्ञा­त्मा­न­म­प्रा­क्षी­दु­षस्तो न परं पदम् ।।
अप्रा­क्षी­त्प­र­मा­त्मानं कहोलोऽपि न दुःखिनम् ।। ९ ।।

एकदेश उप­न्या­सा­दै­का­र्थ्य­स­व­सी­यते ।।
मिथः­सं­की­र्ण­ध­र्मोक्तौ यथायोगं व्यवस्थितिः ।। १० ।।

यद्वन्तरतमत्वं प्रागुक्तं तत्परमात्मनि ।।
तदे­क­दे­शा­भि­हि­ते­र्वि­ज्ञा­ना­त्मा­न­मे­ष्यति ।। ११ ।।

शोक­मो­हा­द्य­ती­तत्वं प्राकाशात्मकता तथा ।।
विज्ञानात्मनि चोकाऽपि पर­मा­त्मा­न­मे­ष्यति ।। १२ ।।

पञ्च­मा­ध्या­य­शे­षेण पर­मा­त्म­वि­नि­र्णयः ।।
षष्ठे तु वक्ष्यतेऽध्याये विज्ञा­ना­त्म­वि­नि­र्णयः ।। १३ ।।

उपन्यासो द्वयोरत्र विज्ञा­ना­त्म­प­रा­त्मनोः ।।
व्यज्ञा­य्य­पु­न­रु­क्तत्वं न्याय­मा­र्ग­स­मा­श्र­यात् ।। १४ ।।

इति व्याचक्षते केचि­त्प्र­श्ना­वेतौ यथोदितौ ।।
न सम्य­गे­त­द्व्या­ख्यानं यथा तदभिधीयते ।। १५ ।।

प्रत्युक्तेरेष त इति प्रश्न­यो­रु­भ­यो­रपि ।।
क्षेत्र­ज्ञ­प­र­मा­त्मानौ नात्राऽऽत्मानौ विवक्षितौ ।। १६ ।।

प्रश्नो­क्ति­रे­क­रूपा च प्रत्य­भि­ज्ञा­य­तेऽ­ञ्जसा ।।
प्रत्युक्तिश्च तवाऽऽत्मेति भिन्नार्थे वचसी कथम् ।। १७ ।।

एकत्र च न संभा­व्या­वा­त्मानौ द्वौ शरीरके .।
आत्मप्रत्यय एकार्थस्तथा श्रुतिवचांस्यपि ।। १८ ।।

एकात्मकाः सर्वदेहा विवादो येषु वर्तते ।।
शरी­र­त्वा­वि­शे­ष­त्वा­त्प्र­ति­वा­दि­श­री­र­वत् ।। १९ ।।

सर्वा­न्त­रा­व­सा­नस्य साक्षा­दि­त्या­दि­कस्य च ।।
ऐका­र्थ्या­त्प्र­श्न­वा­क्यस्य नाऽऽत्मानौ द्वौ विवक्षितौ ।। २० ।।

अगौ­णा­व्य­व­धा­ना­दि­वि­शे­ष­ण­वि­शे­ष्यता ।।
नाने­क­स्याऽऽ­त्मनो न्याय्या तदसंभवहेतुतः ।। २१ ।।

व्यर्थो­प­नि­ष­दा­र­ब्धि­र्यदि भेदो भवेत्तयोः ।।
अनि­र्मो­क्ष­प्र­स­क्तिश्च क्षेत्र­ज्ञ­प­र­मा­त्मनोः ।। २२ ।।

अकृ­त्स्न­दृ­ष्टि­वि­षयो निषेधोऽपि न युज्यते ।।
प्रविष्टस्य न चेत्कार्त्स्न्यं विज्ञानात्मन इष्यते ।। २३ ।।

वस्तु­वृ­त्ता­नु­रो­धेन नातो भेदोऽस्ति कुत्रचित् ।।
वस्तु­वृ­त्ता­न­भि­ज्ञा­ना­द्भेदः स्वप्ने­न्द्र­जा­ल­वत् ।। २४ ।।

एक एव ततः प्रश्नो न प्रश्न­द्व­य­मि­ष्यते ।।
कंचि­द्वि­शे­ष­मा­पेक्ष्य पृष्टो भूयोऽपि पृच्छ्यते ।। २५ ।।

उपदेशस्य विषयः प्रश्न­प्र­त्यु­क्ति­वा­क्ययोः ।।
निरधारि पुरा तस्य याथात्म्यं त्वत्र पृच्छयते ।। २६ ।।

बुद्ध्य­न्ता­द्व्य­ति­रि­क्तोऽस्ति साक्षी प्रश्नस्य गोचरः ।।
योग्यः प्रत्यङ्ङिति ज्ञेयः पूर्व­प्र­श्ना­र्थ­सं­ग्रहः ।। २७ ।।

अश­ना­या­द्य­ती­तत्वं पूर्वोक्तस्यैव वस्तुनः ।।
द्वितीयेनोच्यते तत्त्वं प्रत्य­ङ्भो­ह­नि­वृ­त्तये ।। २८ ।।

यथाप्रश्नं प्रतिवचो न सम्यगुदितं पुरा ।।
इति मत्वाऽ­थ­वाऽ­प्रा­क्षी­त्पृ­ष्ट­मर्थं पुनर्ऋषिम् ।। २९ ।।

साक्षा­दि­त्या­दिना पृष्टं साक्षा­दि­त्या­दि­ल­क्ष­णम् ।।
यथा संभाव्यते नेदृ­क्प्र­त्युक्तौ किंचिदीक्ष्यते ।। ३० ।।

असं­तो­षा­त्क­हो­लोऽत उषस्तप्रश्नमेव तु ।।
भूयोऽ­प्रा­क्षी­न्मुनिं विद्वा­न्या­था­त्म्य­र्था­व­बु­द्धये ।। ३१ ।।

एष आत्मेति प्रत्युक्तिर्यः प्राणेनेति चापरा ।।
ताव­न्भा­त्रो­क्तितो नासौ प्रश्ना­र्थोऽ­व­धृतो भवेत् ।। ३२ ।।

ननू­र्मि­ष­ट्का­ती­तत्वं दुःखित्वं चाद्वयात्मनि ।।
एकदैकत्र न स्यातां प्रकाशतमसी यथा ।। ३३ ।।

नैष दोष­स्त­द­ज्ञा­न­मि­थ्या­धी­भ्र­म­हे­तुतः ।।
संसारिताऽऽत्मनः क्लृप्ता कृष्णिमेव नभस्तले ।। ३४ ।।

बृहद्विचारे सम्यक्च प्राग­प्ये­त­द्वि­चा­रि­तम् ।।
विरु­द्धा­ग­म­वि­ष­य­प्र­वि­वे­क­प्र­स­ङ्गतः ।। ३५ ।।

रज्जु­त्वा­हि­त्व­यो­र्य­द्व­दे­क­स्मि­न्नपि वस्तुनि ।।
स्वत­स्त­न्मो­ह­त­श्चैव संभ­व­स्त­द्व­दा­त्मनि ।। ३६ ।।

मुक्तत्वं च सितत्वं च पर­स्प­र­वि­रु­द्धयोः ।।
धर्मयोः समवायः स्यान्न तु नीलोत्पलादिवत् ।। ३७ ।।

एवं विरुद्धधर्मत्वे न च दोषोऽस्ति कश्चन ।।
नाम­रू­पा­दि­स­द्भावो दोषश्चेदिह चोद्यते ।। ३८ ।।

नेह नानेति वचनादेकमेवेति चोक्तितः ।।
नैवं परिहृतेस्तस्य मृद्दृ­ष्टा­न्ता­दि­यु­क्तिभिः ।। ३९ ।।

अगृह्यमाणं सत्तत्त्वं विप­री­त­मि­वे­क्ष्यते ।
यथा­व­स्त्वी­क्ष्य­माणं तु यथावस्त्वेव वीक्ष्यते ।। ४० ।।

यदत्र चोद्ये वक्तव्यं तत्पु­रै­वा­स­कृ­द्बहु ।।
सम्यगुक्तं तदखिलमिह स्मर्त­व्य­मा­दृतैः ।। ४१ ।।

अवि­चा­रि­त­सं­सि­द्धि­मो­हो­प­ह­त­चे­त­साम् ।।
अप्यद्वयं परं ब्रह्म द्वयवत्प्रथते मृषा ।। ४२ ।।

यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः ।।
संकीर्णमिव मात्रा­भि­श्चि­त्रा­भि­रू­प­ल­क्ष­येत् ।। ४३ ।।

तथेदममलं ब्रह्म निर्वि­का­र­म­वि­द्यया ।।
कलु­ष­त्व­मि­वाऽऽ­पन्नं भेदरूपं प्रकाशते ।। ४४ ।।

तस्यैकमपि चैतन्यं बहुधा प्रविभज्यते ।।
अङ्गा­रा­ङ्कि­त­मु­त्पाते वारि­रा­शे­रि­वो­द­कम् ।। ४५ ।।

बाध्य एवाऽऽत्मसंमोहो न त्वसौ बाधको यतः ।।
प्रत्य­ग्या­था­त्म्य­वि­ज्ञानं न बाध्यं बाधकं यतः ।। ४६ ।।

स्वभावानपहारेण संगतिः स्यात्ततस्तयोः ।।
इति चेतसि संधाय सर्व­यो­गे­श्व­रे­श्वरः ।। ४७ ।।

मोहापनुत्तये प्राह प्रपन्नाय किरीटिने ।।
बाध्यबाधकरूपं च न व्येतीति प्रकाशयन् ।। ४८ ।।

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।। ४९ ।।

ज्ञानाज्ञाने ततोऽपेक्ष्य व्यव­हा­रोऽ­य­मा­त्मनि ।।
शास्रीयो लौकिकश्चातो विरोधोऽत्र न शङ्क्यते ।। ५० ।।

उत्प­न्ना­त्म­प्र­बो­धा­ना­मा­त्मा­वि­द्या­त­दु­द्भ­वम् ।।
सम्य­ग्ज्ञा­ना­ग्निना नित्यं दह्यमानं प्रजायते ।। ५१ ।।

ऐका­त्म्य­व­स्तु­या­था­त्म्य­म­भि­प्रे­त्यात उत्तरः ।।
साक्षा­दि­त्या­दिकः प्रश्नो यदेवेतिपुरः सरः ।। ५२ ।।

प्रत्याहैष त आत्मेति याज्ञवल्क्योऽपि पूर्ववत् ।।
संभाव्यते यतोऽत्रैव साक्षा­दि­त्या­दि­ल­क्ष­णम् ।। ५३ ।।

निःशे­ष­नि­र्ण­यो­क्तीच्छुः कहोलोऽप्याह पूर्ववत् ।।
कतमो याज्ञवल्क्येति स तं प्रत्याह शुद्धधीः ।। ५४ ।।

योऽश­ना­या­पि­पा­सा­दी­न्ध­र्मा­न्स­र्वा­न्वि­रो­धतः ।।
अतीत्य वस्तुवृत्तेन स्वमहिम्नि व्यवस्थितः ।। ५५ ।।

अशनायापिपासे यस्त­द्धे­तो­र­त्य­या­त्सदा ।।
अत्येति वस्तुवृत्तेन स साक्षादिति गृह्यताम् ।। ५६ ।।

शोका­दा­स­ङ्ग­बी­जाद्धि जज्ञाते ते यथोदिते ।।
इच्छा­वि­शे­षा­स्ताभ्यां च जज्ञिरेऽन्ये सहस्रशः ।। ५७ ।।

आत्माऽत्येतीति संबन्धो योऽश­ना­या­दि­ल­क्ष­णान् ।।
क्रिया­र्थोऽ­त्ये­ति­श­ब्द­श्चेन्न क्रियार्थो विवक्षितः ।। ५८ ।।

औष्ण्यं शैत्यं यथाऽत्येति वस्तुवृत्तेन सर्वदा ।।
गार्ता­द्य­त्य­य­व­त्त्वत्र न मानादुपपद्यते ।। ५९ ।।

अशनायापिपासे द्वे एव नात्येति केवले ।।
शोकश्च यस्तयोर्बीजं तम­प्ये­षोऽ­ति­व­र्तते ।। ६० ।।

शोकोऽ­त्रा­र­ति­मात्रं स्याच्चेतसो याऽनवस्थितिः ।।
मोहं चात्येति वैचित्यं विषयापहृतिं धियः ।। ६१ ।।

स्वतोऽ­ना­ना­त्म­केऽ­ज्ञा­ना­द्य­न्ना­ना­त्म­स­मी­क्ष­णम् ।।
मिथ्या­ज्ञा­न­म­ना­त्माभं मोह इत्युपदिश्यते ।। ६२ ।।

सर्व­ग्रः­प्रा­ण­ध­र्म­त्वा­द­श­ना­या­पि­पा­सयोः ।।
समासेनाभिधानं स्याद्यदि वा शोककार्यतः ।। ६३ ।।

असमासेन निर्देशो भिन्न­का­र्य­त्व­का­र­णात् ।।
प्रवृत्तिररतेः कार्यं मोह­स्या­न­र्थ­सं­प्लुतिः ।। ६४ ।।

जरेति परिणामः स्याद्व­ली­प­लि­त­ल­क्षणः ।।
देहस्य मृत्यु­र्वि­च्छेदो वियोगो देहलिङ्गयोः ।। ६५ ।।

प्राणाधिकरणे पूर्वे शोकमोहौ मनोगती ।
जरामृत्यू तु देहस्य धर्माविति विनिश्चयः ।। ६६ ।।

अशनायादिसंबन्धो नाऽऽत्मनो वास्तवो मतः ।।
अनि­र्मो­क्ष­प्र­सक्तिः स्यात्तस्य चासङ्गरूपतः ।। ६७ ।।

यत एवमतः प्रत्य­ग्या­था­त्म्या­न­व­बो­धतः ।।
अशनायादिसंबन्धः सम्यग्बोधादतो हनुतिः ।। ६८ ।।

यः स्वकारणसंसर्गः कार्याणामत्ययो भवेत् ।।
अना­त्य­न्ति­क­रू­प­त्वा­द­त्य­योऽसौ न गृह्यते ।। ६९ ।।

तत्कारणनिषेधो यः स्वमहिम्नैव वस्तुनः ।।
तमत्ययं मोक्षविधौ तद्विद्वांसः प्रचक्षते ।। ७० ।।

अश­ना­या­पि­पा­साभ्यां तस्मा­त्त­त्का­र­ण­ग्रहः ।।
संव­र्गा­त्मा­ति­व­र्ति­त्वा­त्त­त्का­र्या­ति­ग­ति­स्ततः ।। ७१ ।।

मृत्यु­नै­वे­त्यु­प­क्रम्य तथाच श्रुतिरब्रवीत् ।।
लक्षणं ह्यशनायेति प्राण­मृ­त्यु­प्र­बु­द्धये ।। ७२ ।।

अवि­चा­रि­त­सं­सि­द्ध­प्र­त्य­ग­ज्ञा­न­ल­क्ष­णम् ।।
अश­ना­या­पि­पा­सा­दि­ध­र्मिणं प्राहुरीश्वरम् ।। ७३ ।।

तत्प्र­त्य­गा­त्म­या­था­त्म्य­भा­स्व­ज्ज्ञा­नो­द­या­त्तमः ।।
प्रध्व­स्याऽऽ­त्माऽ­य­म­त्येति तदुत्थं वस्तुवृत्ततः ।। ७४ ।।

आत्माऽ­सा­मा­न्य­चै­त­न्य­रू­पो­त्थे­नाऽऽ­त्मगं तमः ।।
जग्ध्वा मानेन निःशेषं प्रत्यङ् पूर्णोऽवशिष्यते ।। ७५ ।।

यस्मादेष स्वतो बुद्धो निरविद्यः स्वतस्ततः ।।
शुद्ध­श्चा­तोऽ­द्वि­ती­य­त्वा­त्प्र­त्य­ङ्भुक्तः स्वतस्ततः ।। ७६ ।।

एवं ध्वस्ता­त्म­मो­हस्य कुतोऽ­वि­द्यो­त्थ­व­स्तुभिः ।।
प्रती­चोऽ­स्त्य­भि­सं­बन्धो ह्यश­ना­या­दि­ल­क्षणैः ।। ७७ ।।

यथा विशुद्धमाकाशं सति वाऽसति वा मले ।।
नीहारादौ तथैवाऽऽत्मा कार्य­का­र­ण­व­स्तुनि ।। ७८ ।।

प्रत्या­ग्या­था­त्म्य­दृ­ष्ट्याऽऽत्मा कारणं स्वतमोवधि ।।
बाधि­त्वाऽ­ज्ञा­न­सं­सारौ यात्य­पू­र्वा­दि­रू­प­ताम् ।। ७९ ।।

शोकमोहावतः स्यातां सूत्र­का­र्यो­प­ल­क्ष­णम् ।।
जरामृत्यू विराजश्च सर्व­का­र्यो­प­सं­हृतिः ।। ८० ।।

अध्या­त्मा­द्य­धि­य­ज्ञा­दे­रा­धि­दै­व­त­रू­पता ।।
पुरुक्तोऽर्थवती चैवं सति सर्वा भवेद्ध्रुवम् ।। ८१ ।।

सर्वा­ण्यु­पा­स­ना­न्येवं ब्रह्म­वि­द्या­भि­सं­गतेः ।।
विद्याधिकार उक्त­त्वा­द­र्थ­व­न्तीति निश्चितिः ।। ८२ ।।

प्रती­चोऽ­स­ङ्ग­या­था­त्म्या­न्मो­हा­दे­श्चा­प्य­व­स्तुतः ।।
प्रत्य­ङ्भा­त्रा­व­शे­ष­त्वा­त्कुतः षष्ठ्यर्थसंभवः ।। ८३ ।।

हेतु­हे­तु­म­दु­क्त्यै­त­द्व्या­ख्येयं त्रयमात्मनि ।।
आनन्दवद्वा शङ्क्यो­क्ति­र्योऽ­श­ना­ये­ति­पू­र्विका ।। ८४ ।।

स्वाभाविकत्वं मा प्राप­च्छो­का­दे­रा­त्म­सौ­ख्य­वत् ।।
यस्मिन्सत्येव यत्स­त्स्या­त्त­स्मिं­स्त्व­सति तन्न सत् ।। ८५ ।।

अश­ना­या­दि­का­स्त­स्मा­त्का­र्य­का­र­ण­ल­क्ष­णान् ।।
तद्वि­रु­द्धा­त्म­वि­ज्ञा­नाद् ध्वंसि­त्वाऽऽ­त्मै­कलो भवेत् ।। ८६ ।।

पर­मा­त्म­स्व­भा­वोऽयं स्वयं श्रुत्या प्रपञ्चितः ।।
एतमेव तमात्मानं विदित्वोक्तेेन वर्त्मना ।।
व्युत्थाय ब्राह्मणा यत्ना­द्भि­क्षा­चर्यं चरन्ति हि ।। ८७ ।।

अधिकारिविशेषस्य ज्ञानाय ब्राह्मणग्रहः ।।
न संन्या­स­वि­धि­र्य­स्मा­च्छ्रुतौ क्षत्र्रि­य­वै­श्ययोः ।। ८८ ।।

त्रयाणामविशेषेण संन्यासः श्रूयते श्रूतौ ।।
यदोपलक्षणार्थं स्याद्ब्रा­ह्म­ण­ग्र­हणं तदा ।। ८९ ।।

कर्मा­धि­का­र­वि­च्छेदि ज्ञानं चेदभ्युपेयते ।।
कुतोऽधिकारनियमो व्युत्थाने क्रियते बलात् ।। ९० ।।

प्रत्य­ग्या­था­त्म्य­वि­ज्ञा­न­स्व­भा­व­श्चे­त्स­म­र्थ्यते ।।
व्युत्थानं यस्य यस्य स्यात्स स व्युत्था­तु­म­र्हति ।। ९१ ।।

एवं चेद्ब्रा­ह्म­णोक्तिः स्याद्ध्व­स्ता­वि­द्य­गृ­ही­तये ।।
स ब्राह्मण इति स्पष्टं श्रुतिरन्ते च वक्ष्यति ।। ९२ ।।

प्राण­स्वा­न्त­त­नू­धर्मा अशनायादिलक्षणाः ।।
य एते सर्वभूतेषु वर्त­न्तेऽ­म्भः­प्र­वा­ह­वत् ।। ९३ ।।

संसारोऽनर्थ इत्येष प्रत्य­ङ्भो­है­क­हे­तुकः ।।
यतो बिभ्यति भूतानि परो­त्क­र्ष­ग­ता­न्यपि ।। ९४ ।।

कारणं प्रत्यगज्ञानं कार्यं संसार उच्यते ।।
तद्वि­रु­द्धा­त्मकः प्रत्य­ङ्ब्र­ह्या­पू­र्वा­दि­वा­क्यतः ।। ९५ ।।

एतं तमिति वाक्येन दृष्ट्यादेः साक्षिणं श्रुतिः ।।
अनू­द्या­पे­त­दुः­खेन साक्षा­त्सं­ग­ति­म­ब्र­वीत् ।। ९६ ।।

तं दृष्ट्यादिदृशं साक्षादात्मानं कल्पितात्मनाम् ।।
तमेतमिति विज्ञाय यथा­व्या­ख्या­त­ल­क्ष­णम् ।। ९७ ।।

उषस्तोक्तो विशेष्योऽत्र कहोलोक्तो विशेषणम् ।।
एवं संसा­र­वि­ध्व­स्ति­स्त­द्धे­तो­र्ज्ञा­न­हा­नितः ।। ९८ ।।

घटाकाशो महाकाश इत्युक्तेः केवलं वियत् ।।
यथाऽधिगम्यते तद्व­त्सा­क्षा­दि­त्या­दि­ल­क्षणः ।। ९९ ।।

भेद­सं­स­र्ग­ही­नोऽ­र्थ­स्त­द्धे­तु­ध्वं­स­व­र्त्मना ।।
एतस्मादेव विज्ञेयो वाक्या­न्ना­न्य­प्र­मा­णतः ।। १०० ।।

साक्षा­दि­त्या­दिकं सर्व­मु­ष­स्त­प्र­श्न­गो­चरः ।।
योऽशनायेति चात्रोक्तौ संभाव्यं तदशेषतः ।। १०१ ।।

सामा­न्य­मा­त्र­प­त्यु­क्तेर्न यथा­पृ­ष्ट­व­स्तुधीः ।।
पूर्व­त्रा­भू­द्यथा साक्षादिति प्रत्युक्तितो मतिः ।। १०२ ।।

पौैर्वापर्यं यथायोगं कत्वान्तयोः पदयोर्द्वयोः ।।
पूर्वं यदि विदित्वेति तदा द्वेधा प्रकल्पनम् ।। १०३ ।।

ज्ञान­स्व­भा­वा­द्व्यु­त्थानं ज्ञेय­व­स्तू­प­रो­धतः ।।
व्युत्थाने चोदनापेक्षा नाधिकारोपमर्दतः ।। १०४ ।।

शाब्दी वा प्रतिपत्तिः स्याद् व्युत्थानादेः प्रयोजिका ।।
विध्यर्थो ह्यपि बाल्या­दि­स्त­थो­र्ध्व­मपि दृश्यते ।। १०५ ।।

व्युत्थायाथ विदित्वेति पौर्वापर्यं यदेष्यते ।।
व्युत्थानसाधना विद्येत्ययमर्थो भवेत्तदा ।। १०६ ।।

विदित्वा कथमित्यस्य प्रत्यु­क्त्यर्था परा श्रुतिः ।।
तस्मादित्यादिका योज्या न्यास­हे­तु­त्व­सि­द्धये ।। १०७ ।।

तस्मा­दे­वं­वि­दि­त्येवं तथाचोर्ध्वं प्रवक्ष्यति ।।
निःशे­ष­क­र्म­सं­न्यासं विद्यायाः साधनं श्रुतिः ।। १०८ ।।

संन्याससाधनं ज्ञानं निर्व­क्त्य­त्रापि च श्रुतिः ।।
यथा तथा पराश्चात्र श्रुतयः सन्ति कोटिशः ।। १०९ ।।

ज्ञानानुरोधिनी यद्व­त्प्र­वृत्तिः प्राणिनामिह ।।
तथेहापि श्रुतिर्वक्ति प्रत्य­ग्या­था­त्म्य­वे­दि­नाम् ।। ११० ।।

पुत्रोत्पत्तिं समुद्धिश्य दारा­न्प­रि­जि­घृ­क्षति ।।
यतो दारार्थ उद्योगस्ततः पुत्रैषणोच्यते ।। १११ ।।

पुरुषार्थाय यन्नालं लब्धात्माऽपि कुठारवत् ।।
अप्रविश्य प्रयोगं तद्वि­त्त­मि­त्यु­प­दि­श्यते ।। ११२ ।।

यत्त्वा­त्म­ला­भ­मा­त्रेण पुरु­षा­र्थ­स­मा­प्ति­कृत् ।।
व्युत्थानं तद्बलादेव न तु यत्स्या­द्ग­वा­दि­वत् ।। ११३ ।।

प्रत्य­ग­ज्ञा­न­सं­भू­त­का­मोत्थं साधनात्मकम् ।।
देव­ता­दि­प­रि­ज्ञानं मन्त्र­व­द्वि­त्त­मु­च्यते ।। ११४ ।।

नाऽऽत्मानं लभते कर्म यतो वित्तमृते ततः ।।
वित्तैषणेयं कर्मार्था न लोकार्थेति निश्चितिः ।। ११५ ।।

नित्य­क­र्म­प्र­सि­द्ध्य­र्थ­मतो वित्तमिहेष्यते ।।
न चेज्जामि भवेद्वाक्यं पृथ­ग्लो­कै­ष­णा­ग्र­हात् ।। ११६ ।।

लोकानुद्दिश्य यः काम­स्त­त्सा­ध­न­स­मा­श्रयः ।।
लोकैषणेति तामाहुः काम्य­क­र्मा­र्थु­मु­द्य­मम् ।। ११७ ।।

यतोऽसाधनसाध्यं तं प्रत्य­गा­त्मा­न­मा­त्मना ।।
साक्षा­दि­त्या­दि­नाऽ­ज्ञा­सी­द्वि­रुद्धं साध्यसाधनैः ।। ११८ ।।

साध्य­सा­ध­न­रू­पा­भ्य­स्त­स्मा­दु­क्ता­र्थ­वे­दिनः ।।
व्युत्ति­ष्ठ­न्त्ये­ष­णा­भ्यस्ते तद्वि­रु­द्धा­त्म­क­त्वतः ।। ११९ ।।

अज्ञा­न­का­म­ज­न्यत्वं वाङ्भ­नः­का­य­क­र्म­णाम् ।।
सोऽकामयत इत्येवं पुराऽप्युक्तं तमस्विनः ।। १२० ।।

यद­ज्ञा­ना­त्प्र­वृ­त्तिर्या तज्ज्ञानात्सा कुतो भवेत् ।।
प्रत्य­ग्ज्ञा­नो­द­येऽतः स्यान्निवृत्तिः सर्वकर्मणाम् ।। १२१ ।।

जिज्ञासुरपि चैतस्य यथो­क्त­स्याऽऽ­त्म­व­स्तुनः ।।
सर्वै­ष­णा­नि­वृ­त्त्यैव तज्ज्ञानं समवाप्नुयात् ।। १२२ ।।

यस्तु त्यक्तुं न शक्नोति रागा­दि­प्र­ब­ल­त्वतः ।।
रागा­दि­हे­तु­ना­शार्थं कार्यं कर्मैव तेन तु ।। १२३ ।।

आरु­रु­क्षो­र्मु­ने­र्योगं कर्म कारणमुच्यते ।।
योगारूढस्य तस्यैव शमः कारणमुच्यते ।। १२४ ।।

न्याय्यां वृत्तिं समुल्लङ्घ्य तद्विरुद्धतया स्थितिः ।।
व्युत्थानमिति तामा­हु­र्व्यु­त्था­नज्ञा महाधियः ।। १२५ ।।

सामन्तो व्युत्थितो राज्ञा विरोधेन व्यवस्थितौ ।।
व्युत्थानशब्दो लोकेऽपि प्रसिद्धोऽत्र तथैव सः ।। १२६ ।।

भिक्षया लक्ष्यते चर्या ह्याकिं­च­न्यै­क­सं­श्रया ।।
अम­मा­प­रि­ग्र­हो­क्ते­र्नि­ष्कर्मा मुनिरूच्यते ।। १२७ ।।

एषणा कामपर्यायः काम­श्चा­प्रा­प्त­गो­चरः ।।
अवा­प्ता­शे­ष­का­मेऽसौ भवंस्तन्मोहतो भवेत् ।। १२८ ।।

आन­न्दै­क­स्व­भा­व­त्वा­न्नाऽऽ­त्मनः सुखकामिता ।।
विरो­धा­त्सु­ख­रू­पस्य न दुःखेन समागमः ।। १२९ ।।

बुभु­क्षा­दि­नि­षे­धोऽयं तथाऽप्यात्मन उच्यते ।।
सर्वा­न­र्थै­क­मू­लस्य प्रत्यङ्भोहस्य हानये ।। १३० ।।

निरे­ष­णै­क­या­थात्म्ये न यथावस्तुकामधीः ।।
निरे­ष­णा­त्म­सं­बो­धा­द्बा­ध्यै­वे­य­मतो भवेत् ।। १३१ ।।

फला­र्थै­ष­ण­यै­क­त्व­प्र­सि­द्ध्य­र्थ­मतः श्रुतिः ।।
प्रव­क्तु­मु­प­च­क्राम पुत्र­वि­त्तै­ष­णै­क­ताम् ।। १३२ ।।

यतो धनाभिलाषोऽयं कृतदारस्य सार्थकः ।।
पुत्रै­ष­णाऽ­तोऽ­भि­न्नैव ज्ञेया वित्तैषणात्मनः ।। १३३ ।।

साध­न­त्वा­वि­शे­ष­त्वा­त्पु­त्र­वि­त्तै­ष­णा­त्मनोः ।।
एवं चैकत्वमनयोरिह व्याख्ये­य­मा­दृतैः ।। १३४ ।।

साध्यै­ष­णा­प्र­यु­क्त­त्वा­त्पु­त्र­वि­त्तै­ष­णा­त्मनः ।।
एका लोकैषणैवेयं त्रिधाऽतो व्यपदिश्यते ।। १३५ ।।

स्वमहिम्नैव निष्पत्तिर्न विना साधनं यतः ।।
साध्यस्य साधनादानमतः साध्यानुरोधतः ।। १३६ ।।

अपा­स्ता­शे­षा­न­र्था­प्त­पु­रु­षा­र्थ­त्वतः स्वतः ।।
तन्मोहमात्रजे तस्मादेषणे प्रत्यगात्मनि ।। १३७ ।।

ब्रह्माज्ञानं यतो हेतुरेषणानां न वस्तुतः ।।
परमार्थविदां न स्युरेषणा या यथोदिताः ।। १३८ ।।

आप्ता­शे­ष­पु­म­र्थ­त्वा­न्ना­पेक्ष साधनं प्रति ।।
साध्यत्वेऽपि हि सिद्धस्य किंत्वसाध्यस्य वस्तुनः ।। १३९ ।।

सर्वोपाया निवर्तन्त उपेयावसितौ यतः ।।
चरि­ता­र्थ­त्व­तोऽ­मीषां नापेक्षा सिद्धवस्तुनः ।। १४० ।।

अप्य­ज्ञा­ता­त्म­या­थात्म्यो जिज्ञा­सु­र्योऽत्र वस्तुनि ।।
सर्व­क­र्म­प­रि­त्यागो ज्ञानाप्त्यै तस्य साधनम् ।। १४१ ।।

तस्मा­दे­वं­वि­दि­त्यत्र श्रुतिः स्पष्टं यथोदितम् ।।
निःशे­ष­क­र्म­सं­न्यासं स्वयमेव प्रवक्ष्यति ।। १४२ ।।

प्रत्य­ग्या­था­त्म्य­वि­ज्ञा­न­सा­ध­न­त्व­प्र­सि­द्धये ।।
श्रुत्यन्तरेषु तद्वच्च सन्ति वाक्यान्यनेकशः ।। १४३ ।।

मुक्तेश्च बिभ्यतो देवा मोहे­ना­पि­द­धु­र्न­रान् ।।
प्रावर्तन्त ततो भीताः कर्म­स्व­ज्ञा­त­त­त्त्वकाः ।। १४४ ।।

सर्व­क­र्मा­ण्य­त­स्त्यक्त्वा प्रत्य­क्प्र­व­ण­बु­द्धयः ।।
मोहं भित्त्वाऽऽ­त्म­सं­बो­धा­द्ययुः कैवल्यमुत्तमम् ।। १४५ ।।

इति भाल्ल­वि­श्रु­ति­वचः सम्यग्ज्ञानस्य जन्मने ।।
संन्यासं साधनं वक्ति वाङ्भ­नः­का­य­क­र्म­णाम् ।। १४६ ।।

पराञ्चि खानीति तथा परा­क्प्र­व­ण­सा­ध­नम् ।।
निषे­ध­त्या­त्म­वि­ज्ञाने मन्त्रवर्णोऽपि काठके ।। १४७ ।।

वेदा­न्त­वि­ज्ञा­न­सु­नि­श्चि­तार्थाः संन्या­स­यो­गा­द्य­तयः शुद्धसत्त्वाः ।।
मन्त्रोऽपि चैका­त्म्य­वि­नि­श्च­याय निःशे­ष­क­र्मो­ज्झि­ति­माह साक्षात् ।। १४८ ।।

ब्रह्मचर्यं समापय्य गृही तस्मा­द्भ­वे­द्द्विजः ।।
गृहाश्रमं समाप्याथ वानप्रस्थं समापयेत् ।। १४९ ।।

यथो­क्ता­श्र­म­वा­सार्थं साम­र्थ्या­न्नि­यमो भवेत् ।।
एवं सति समर्थः स्यात्स­र्वा­श्र­म­स­मु­च्चयः ।। १५० ।।

वान­प्र­स्था­श्र­मा­दूर्ध्वं प्रव्र­जे­द­वि­चा­र­यन् ।।
प्रत्य­क्ष­श्रु­ति­मू­लोऽयं सर्वा­श्र­म­स­मु­च्चयः ।। १५१ ।।

कषायं पाचयित्वा च श्रेणीस्थानेषु च त्रिषु ।।
प्रव्रजेच्च परं स्थानं पारि­व्रा­ज्य­म­नु­त्त­मम् ।। १५२ ।।

इति व्यासस्मृतौ वाक्यं प्रत्य­क्ष­श्रु­ति­ब­न्ध­नम् ।।
तथाऽन्यान्यपि विद्यन्ते वाक्यान्यत्र सहस्रशः ।। १५३ ।।

ब्रह्म­च­र्या­श्र­मा­देव यदि वा प्रव्रजेद्दूिजः ।।
गृहाच्च प्रव्र­जे­त्त­द्व­त्प्र­व्र­जेच्च वनात्तथा ।। १५४ ।।

विकल्पेनैव व्याख्यात एक­द्वि­त्रि­स­मु­च्चयः ।।
कषा­य­प­क्ति­मा­पेक्ष्य विकल्पोऽयं त्रिधोदितः ।। १५५ ।।

परीक्ष्य लोकानित्यादि तथाचाऽऽथर्वणे वचः ।।
विरक्तः कर्मभूमिभ्यो ज्ञानं प्रति नियुज्यते ।। १५६ ।।

सर्व­क­र्म­प­रि­त्या­गा­त्सं­त्य­क्ता­शे­ष­सा­धनः ।।
श्रुत्यु­क्तोऽत्र परिव्राट् स्यादै­का­त्म्य­ज्ञा­न­ज­न्मने ।। १५७ ।।

मुण्डोऽ­प­रि­ग्र­ह­श्चेति प्रत्य­क्ष­श्रु­ति­वा­क्यतः ।।
तद्विरुद्धं स्मृतेर्वाक्यं नापेक्ष्यं दुर्बलत्वतः ।। १५८ ।।

विगीता च विरुद्धा च दृष्टार्था दृष्टकारणा ।।
इति वेद­वि­दाऽ­प्युक्तं तद­प्रा­मा­ण्य­का­र­णम् ।। १५९ ।।

क्रियमाणानि कर्माणि यथा स्युः फलसिद्धये ।।
तदक्रियोक्ता श्रुत्येह तथाऽऽ­त्म­ज्ञा­न­ज­न्मने ।। १६० ।।

सत्यानृते सुखदुःखे वेदाल्लोँकदूयं तथा ।।
संन्य­स्याऽऽ­त्म­न­म­न्वि­च्छे­दि­त्य­दुष्टं स्मृतेर्वचः ।। १६१ ।।

त्यज धर्ममधर्मं च तथा सत्यानृते त्यज ।।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज ।। १६२ ।।

नैष्क­र्म्य­सा­ध­ने­ष्वेवं श्रुतयः स्मृतिभिः सह ।।
मुमुक्षुं विनियुञ्जन्ति सदाऽऽ­त्म­ज्ञा­न­ज­न्मने ।। १६३ ।।

तथाऽनधिकृतानां च संन्यासस्य विधानतः ।।
काण­कु­ब्जा­दि­वि­षया न्यास­क्लृ­प्ति­र­तोऽ­शुभा ।। १६४ ।।

सत्सु प्रत्यक्षविधिषु यथोक्तेष्वफलः श्रमः ।।
भिक्षाचर्यं चर­न्ती­ति­वि­ध्यर्थः क्रियते महान् ।। १६५ ।।

तिष्ठासेदिति चात्रापि प्रत्यक्षः श्रूयते विधिः ।।
तस्मिन्सति वृथा कस्माज्जनोऽयं परिखिद्यते ।। १६६ ।।

साध्य­सा­ध­न­रू­पाभ्यां विरुद्धं प्रत्यगीक्षणम् ।।
यतो यथोक्तं तत्सिद्धौ तस्मा­दे­त­द्वि­धी­यते ।। १६७ ।।

व्युत्थायातो यथोक्ताभ्य एषणाभ्यो निरेषणः ।।
पाण्डित्यमथ निर्विद्य बाल्यं परिसमापेयत् ।। १६८ ।।

पदार्याधिगतिः पूर्वं ततस्तदभिसंगतिः ।।
विरु­द्धा­र्थ­ह्नुतिः पश्चात्ततो वाक्यार्थबोधनम् ।। १६९ ।।

एकैकश्येन नीत्वाऽथ निष्ठां पाण्डि­त्य­ल­क्ष­णाम् ।।
बाल्यं चैव यथा­यो­ग­म­न्व­य­व्य­ति­रे­कतः ।। १७० ।।

अद्वि­ती­या­र्थ­नि­ष्ठ­त्व­मा­त्म­प्र­त्य­य­श­ब्दयोः ।।
तथा­चाऽऽ­त्मै­क­नि­ष्ठ­त्व­म­द्वि­ती­यस्य मानसः ।। १७१ ।।

ऐकार्थ्यान्नेह संस­र्ग­स्त­द्वि­रु­द्धा­र्थ­यो­रिव ।।
अश­ना­या­द्य­ति­क्रा­न्त­दृ­ष्टि­द्र­ष्टृ­प­दा­र्थयोः ।। १७२ ।।

पण्डेति बुद्धिनामैतत्सा जाता यस्य मानतः ।।
तं पण्डितमिति प्राहुः सोऽत्र श्रुत्या नियुज्यते ।। १७३ ।।

यत्पण्डितस्य कर्म स्यात्त­त्पा­ण्डित्यं प्रचक्षते ।।
अप्रा­प्त­त­त्त्व­नि­ष्ठोऽतः पाण्डित्ये विनियुज्यते ।। १७४ ।।

शास्रा­चा­र्या­त्मतो निष्ठां नीत्वाऽऽ­त्म­प्र­त्ययं यतिः ।।
तिष्ठासेदथं बाल्येन, कृत्स्ना­ना­त्म­धियो ह्नुतिः ।। १७५ ।।

बाल्य­श­ब्दा­भि­धेया स्यात्तां समापय्य शुद्धधीः ।।
मुनिभावं ततो त्गवा ब्रह्मव ब्राह्मणो भवेत् ।। १७६ ।।

निःशे­ष­मा­त्म­सं­बोधं कुर्यादिति विधीयते ।।
तिष्ठासेदिति संबन्धः सर्वत्र विधिना भवेत् ।। १७७ ।।

प्राणेन प्राणि­ती­त्युक्तो दृष्टे­र्द्र­ष्टेति चोदितः ।।
स आत्माऽ­नु­भ­वा­त्सिद्ध आ देहादा परात्मनः ।। १७८ ।।

अस्य प्रत्य­क्प­दा­र्थस्य ह्या समा­प्ते­र्वि­धी­यते ।।
धीः पाण्डित्यगिरा साक्षा­द­न्व­य­व्य­ति­रे­कतः ।। १७९ ।।

तथैव योऽशनायेति परमात्माऽपि शब्दितः ।।
तस्य निष्ठा­वि­धा­नार्थं बाल्येनेति परं वचः ।। १८० ।।

नान्य­त्रे­हा­द्वि­ती­या­र्था­त्सा­क्षा­दा­त्मा­र्थ­सं­भवः ।।
इत्यर्थोऽत्र विधेयः स्याद­न्व­य­व्य­ति­रे­कतः ।। १८१ ।।

अद्वि­ती­य­प­दा­र्थस्य तथा नैवाऽऽ­त्म­नोऽ­न्यतः ।।
संभ­वोऽ­स्ती­ति­वि­ध्य­र्थ­स्ति­ष्टा­से­दिति भण्यते ।। १८२ ।।

विशे­ष­ण­वि­शे­ष्य­त्व­सं­ब­न्धोऽथ पदार्थयोः ।।
विरु­द्धा­र्थ­नि­वृ­त्त्याऽत्र मुनि­रि­त्य­भि­धी­यते ।। १८३ ।।

ब्रह्मा­त्म­नो­र­सं­स­र्ग­स्त­द्वि­रु­द्धा­र्थ­यो­रिव ।।
पदार्थैकत्वतो भेदो ध्वान्तध्वस्तौ निवर्तते ।। १८४ ।।

सामानाधिकरण्यं च विशेषणविशेष्यता ।।
लक्ष्य­ल­क्ष­ण­सं­बन्धः पदा­र्थ­प्र­त्य­गा­त्म­नाम् ।। १८५ ।।

सामा­ना­धि­क­र­ण्या­दे­र्घ­टे­त­र­ख­यो­रिव ।।
व्यावृत्तेः स्यादवाक्यार्थः साक्षा­न्न­स्त­त्त्व­म­र्थयोः ।। १८६ ।।

चिद­ज्ञा­नै­क­हे­तु­त्वा­द्धा­त­व्यानां चिदात्मनि ।।
मोहध्वस्तौ प्रतीचोऽन्यो नातोऽ­र्थोऽ­त्रा­व­शि­ष्यते ।। १८७ ।।

आत्मधीविषयं नैति तदज्ञानैककारणः ।।
अना­त्म­मा­न­मे­योऽर्थो यतोऽतः केवलात्मता ।। १८८ ।।

समाप्यामौनमखिलं बाल्य­पा­ण्डि­त्य­ल­क्ष­णम् ।।
निर्विद्य च तथा मौनं पदा­र्थ­द्व­य­सं­ग­तिम् ।। १८९ ।।

अथ ब्राह्मण इत्युक्त्या फलावस्थाऽस्य भण्यते ।।
भेद­सं­स­र्ग­ही­नोऽर्थः स्वमहिम्नि व्यवस्थितः ।।
साक्षा­दि­त्या­दि­रू­पोऽथ ब्रह्म ब्राह्मण उच्यते ।। १९० ।।

इमामवस्थां संप्राप्य सर्वो ब्राह्मण उच्यते ।।
ब्राह्मण्यं गौणमन्यत्र पूर्वभूमिषु नाञ्जसा ।। १९१ ।।

केनाथ ब्राह्मणः स स्यादिति प्रश्नमपृच्छत ।।
उक्तो­पा­या­ति­रे­केण पृच्छयते साधनान्तरम् ।। १९२ ।।

यज्ञादिलक्षणं तावत्पारंपर्येण साधनम् ।।
निर्ज्ञा­त­मा­ग­मा­त्त­स्मा­त्पृ­च्छ्यते साधनान्तरम् ।। १९३ ।।

चतुर्णां कतमेनेति न तु प्रश्नोऽत्र युज्यते ।।
कैव­ल्या­श्र­म­मा­दाय ब्राह्मण्यस्य समाप्तितः ।। १९४ ।।

न चाऽऽश्रमान्तरं युक्तं मुर्न­र्व्यु­त्था­यिनः सतः ।।
कृता­र्थ­स्या­कृ­ता­र्थस्य तस्य नैवाऽऽ­श्र­मा­न्त­रम् ।। १९५ ।।

प्रश्नोऽयं साधनज्ञप्त्यै ब्राह्मणस्येह पृच्छ्यते ।
किंसाधनो ब्राह्मणः स्यादिति साधनमुच्यताम् ।। १९६ ।।

प्रश्न­प्र­ति­व­च­स्तेन ब्राह्मणः स्याद्यथोदितः ।।
येना­न­वा­प्त­ज्ञा­नोऽपि भवेदीदृश एव ना ।। १९७ ।।

उक्त­ब्रा­ह्म­ण­सा­दृश्यं सर्वकर्मनिरासतः ।।
नैष्क­र्म्य­सा­ध­ने­नैव ब्राह्मणः स्याद्यथोदितः ।। १९८ ।।

इत्येषोऽर्थो विधेयोऽत्र येनेति वचसा श्रुतेः ।।
स्मृत­योऽ­पी­म­मे­वार्थं तत्र तत्र प्रचक्षते ।। १९९ ।।

लोकेऽ­स्मि­न्द्वि­विधा निष्ठा पुरा प्रोक्ता मयाऽनघ ।।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ।। २०० ।।

इमौ द्वावेव पान्थानौ कर्म­त­त्त्या­ग­ल­क्षणौ ।।
सजा­ती­या­द्वि­नि­ष्क्रा­न्ता­व­नु­क्रा­न्त­त­रा­विमौ ।। २०१ ।।

संन्यास एव ताभ्यां च विशे­षे­णा­ति­व­र्तते ।।
तथा किं प्रजयेत्यादिः पन्थाः कर्मत्यजां श्रुतः ।। २०२ ।।

ब्रह्म­च­र्या­श्र­मा­देव प्रव्रजेदिति भूरिशः ।।
संन्यासमेव ब्रुवते मुक्तये सर्वकर्मणाम् ।। २०३ ।।

श्रुतयः स्मृतयश्चोच्चैः शुद्ध­न्या­य­स­मा­श्र­यात् ।।
सर्वकर्मनिरासेन ब्राह्मण्यं लभते ततः ।। २०४ ।।

केनेति यदि वाऽऽक्षेप उत्प­त्त्या­दे­र­सं­भ­वात् ।।
साध­ना­ना­मि­है­कात्म्ये तथाच प्रागवादिषम् ।। २०५ ।।

साध­ने­नै­त­दै­कात्म्यं येन येन चिकीर्ष्यते ।।
तेन तेने­दृ­गे­वाऽऽत्मा नाति­शी­ति­र्म­ना­गपि ।। २०६ ।।

अथवा लक्षणोक्तिः स्याद्य­थो­क्त­ब्र­ह्म­वे­दिनः ।।
येनेदृगेव चिह्नेन ब्राह्मणस्तेन लक्ष्यताम् ।। २०७ ।।

देहे­न्द्रि­य­म­नो­बु­द्धि­ध­र्मा­ने­षोऽ­त्य­व­र्तत ।।
प्रत्य­गै­का­त्म्य­सं­बो­धा­त्त­द्ध­र्मै­र्ल­क्ष्यते कथम् ।। २०८ ।।

सर्व­सं­सा­र­भा­वोऽस्य न यथा लक्षणं तथा ।।
सर्वाभावोऽपि नैव स्याल्लक्षणं ब्रह्मवेदिनः ।। २०९ ।।

वेद्यानुरोधतो यस्मात्तद्विदो न्यायलक्षणम् ।।
भावा­भा­व­द्व­य­ध्वंसि ब्रह्म वेद्यं च तद्विदः ।। २१० ।।

येनेदृगेव तेनेति तस्मादाह श्रुतिः स्फुटम् ।।
मुमु­क्षो­र्ल­क्षणं तादृ­क्श्र­द्द­धाना यदब्रुवन् ।। २११ ।।

सुषु­प्तेऽ­प्य­ति­मू­ढस्य सर्व­सं­सा­र­नि­ह­नुतिः ।।
गम्यते लक्षणं तादृङ्न चासौ ब्रह्मविन्मतः ।। २१२ ।।

आत्मनो ब्रह्मतेहोक्ता न त्वनात्मन ईरिता ।।
यथोक्तज्ञानतो ध्वस्ति­रा­र्त­श्रु­त्याऽतं उच्यते ।। २१३ ।।

अतो ब्राह्म­ण्य­तोऽ­न्य­द्य­त्क्रि­या­का­र­क­ल­क्ष­णम् ।।
आर्तं विनाशि तज्ज्ञेयं ब्रह्मानार्तं यतस्ततः ।। २१४ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके तृतीयाध्यायस्य पञ्चमं कहोलब्राह्मणम्