अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ तृतीयाध्यायस्य चतुर्थं ब्राह्मणम् ॥

ऐका­त्म्या­न­व­बो­धस्य कार्य­मु­क्त­म­शे­षतः ।।
तन्मू­ल­ध्व­स्त­येऽ­थोर्ध्वं परो ग्रन्थोऽ­व­ता­र्यते ।। १ ।।

पुण्या­पु­ण्य­प्र­युक्तः सन्ग्र­हा­ति­ग्र­ह­ब­न्धनः ।।
आब्र­ह्माऽऽ­स्थाणु चाजस्रं यः संसरति मूढधीः ।। २ ।।

सोऽय­मु­क्त­स्त­थो­त्कर्षः परः पुण्यस्य चोदितः ।।
मुमुक्षुरस्ति नास्तीति परो ग्रन्थोऽ­व­ता­र्यते ।। ३ ।।

देहे­न्द्रि­य­म­नो­बु­द्धि­वे­द­ना­व्य­ति­रे­कतः ।।
अस्तित्वे तस्य संसिद्धे तन्मुक्त्यै यत्यते यतः ।। ४ ।।

भवि­ष्य­ल्लो­क­सं­बन्धी येषामागमतो मतः ।।
न तान्प्रति समारम्भः सिद्ध एव हि तान्प्रति ।। ५ ।।

कर्त्रात्मनः पुरा सिद्धे­र्बु­द्ध्या­द्य­व्य­ति­रे­कतः ।।
कर्त्रादेरिह साक्ष्यात्मा दृष्टे­र्द्र­ष्टो­च्य­तेऽ­धुना ।। ६ ।।

विषयो ब्रह्मविद्याया योग्यः क इति चिन्त्यते ।।
विषयेऽवधृते यस्मा­दु­प­दे­शोऽ­र्थ­वा­न्भ­वेत् ।। ७ ।।

ब्रह्मणो वोपदेशः स्याद­थ­वाऽ­ब्र­ह्मणो भवेत् ।।
ब्रह्मत्वस्य स्वतः सिद्धे­र्ब्र­ह्मणि स्यादनर्थकः ।। ८ ।।

उपदेशशतेनापि ब्रह्मत्वं न कथंचन ।।
स्वतोऽ­ब्र­ह्म­त्व­त­स्तस्य नातोऽब्रह्मण इष्यते ।। ९ ।।

सर्व­स्यै­का­त्म्य­या­था­त्म्यान्न चाब्रह्मेह लभ्यते ।।
क्षेत्र­ज्ञे­श्व­र­सं­भे­द­श­ङ्का­नु­त्त्य­र्थ­मु­च्यते ।। १० ।।

यदित्यनेन निर्देशो विशेष्यस्य विवक्षितः ।।
सामा­न्य­मा­त्र­वि­ज्ञा­ना­द्वि­शे­ष­स्या­प्र­ती­तितः ।। ११ ।।

साक्षा­दि­त्या­दिकं सर्वं तद्वि­शे­ष­ण­मु­च्यते ।।
विशि­ष्टा­र्था­व­बो­धि­त्वा­न्नी­ल­र­क्तो­त्प­ला­दि­वत् ।। १२ ।।

यदित्यादिपदानां च सामानाधिकरण्यतः ।।
विशे­ष­ण­वि­शे­ष्यत्वं श्रुत्यै­वे­हा­व­सी­यते ।। १३ ।।

साक्षा­दि­त्य­भि­धा­नेन प्रत्य­क्षोऽ­र्थोऽ­भि­धी­यते ।।
मनसोऽग्रहणं तस्य न दृष्टेरिति वारणात् ।। १४ ।।

यदि वा द्रष्टरि प्राप्ते साक्षादिति विशेषणात् ।।
तत्प्र­स­ङ्ग­नि­वृ­त्त्य­र्थ­म­प­रो­क्षा­दि­ती­र्यते ।। १५ ।।

द्रष्टृ­द­र्श­न­दृ­श्या­र्थ­प्रा­प्ता­वा­द्य­वि­शे­ष­णात् ।।
लोक­व­त्त­न्नि­षे­धा­र्थ­म­प­रो­क्षा­दि­ती­र्यते ।। १६ ।।

द्रष्टृ­द­र्श­न­दृ­श्या­र्थ­सं­भे­द­वि­ष­यस्य हि ।।
निषे­धा­या­प­रो­क्षा­द्गी­र­भि­न्ना­र्थ­ग्र­हाय तु ।। १७ ।।

द्रष्टृ­द­र्श­न­दृ­श्या­र्थ­सं­भे­दस्य निषेधतः ।।
दृष्टिमात्रं स्वप्तः सिद्धं विशेषणफलं भवेत् ।। १८ ।।

एऴं सदेकरूपं च यदि नामोक्तलक्षणम् ।।
निर्द्वयं सद्वयं वेति नोक्त­हे­तो­स्त­दी­क्ष्यते ।। १९ ।।

यतोऽ­तोऽ­द्व­य­सि­द्ध्यर्थं ब्रह्मे­त्ये­त­द्वि­शे­ष्यते ।।
अव्या­वृ­त्ता­न­नु­गतं वस्तु ब्रह्मेति भण्यते ।। २० ।।

अपुमर्थमिदं प्राप्तं न चेदात्मैव तद्भवेत् ।।
यतोऽत आत्म­रू­पा­र्थ­मा­त्मे­त्येवं विशेष्यते ।। २१ ।।

सजा­ती­या­स­जा­ती­य­द्वि­ती­या­र्था­न­भि­प्लु­तम् ।।
सांख्य­रा­द्धा­न्त­पुं­व­त्त­त्प्राप्तं नानात्वदर्शनात् ।। २२ ।।

यतोऽ­त­स्त­न्नि­षे­धार्थं सर्वान्तर इतिरणम् ।।
सर्वेषामान्तरो योऽर्थो नाना स कथमुच्यते ।। २३ ।।

स्रग्व­त्स­र्पा­दि­क्लृ­प्तानां प्रत्य­ङ्भा­त्रै­क­रू­पतः ।।
प्रत्य­ग्व­स्तू­प­रो­धेन नानार्थो नावशिष्यते ।। २४ ।।

प्रत्य­ग्रू­पा­व­बो­धस्य भावा­भा­वा­त्म­व­स्तुषु ।।
सर्व­त्रा­व्य­भि­चा­रि­त्वा­दात्मा सर्वान्तरो भवेत् ।। २५ ।।

यत्सा­क्षा­द­प­रो­क्षाद्भ्यां ब्रह्म वेह विशिष्यते ।।
सर्वा­न्त­र­गृ­हीत्या च प्रत्यगर्थस्य संगतिः ।। २६ ।।

साक्षा­दि­त्य­व्य­व­हि­त­म­गौ­ण­म­प­रो­क्षतः ।।
इति द्वयं प्रतीच्येव संभाव्यं ब्रह्मणीरितम् ।। २७ ।।

तथा सर्वान्तरत्वस्य सभे­द­वृ­त्ति­वि­रो­धतः ।।
संभा­व­नाऽ­द्वि­ती­य­त्वा­द्ब्र­ह्म­ण्ये­वाऽऽ­त्म­सं­स्थितेः ।। २८ ।।

यतोऽत एकवाक्यत्वे ब्रह्मा­त्मा­ख्या­प­दा­र्थयोः ।।
द्वैत­सं­स­र्ग­बा­धेन पूर्णं वस्तु प्रतीयते ।। २९ ।।

यदि वैकविशेष्येण विशेषणतया युतिः ।।
साक्षा­दि­त्या­दि­कानां स्यान्मि­थोऽ­न्यो­न्या­न­पे­क्षतः ।। ३० ।।

एक­व­स्त्व­व­सा­यि­त्वा­द­न्यो­न्या­र्था­नु­रो­धतः ।।
विशेषणानि सर्वाणि विशिं­ष­न्त्यु­त्प­ला­दि­वत् ।। ३१ ।।

उपा­त्त­स्व­वि­शे­ष्याणि साक्षा­दि­त्या­दि­कानि हि ।।
परस्परोपरोधेन स्ववि­रु­द्धा­र्थ­हा­नतः ।। ३२ ।।

स्वार्था­सं­त्या­ग­म­र्गेण नाना­सं­स­र्ग­बा­ध­नात् ।।
भेद­हे­तु­त­मो­घा­ति­प्र­त्य­ग्या­था­त्म्य­शे­मुषी -
जन्म­नै­वाऽऽ­प्त­मां­प्नोति स्वतोऽमेयं वचःश्रवात् ।। ३३ ।।

सामा­ना­धि­क­र­ण्यो­क्ते­र्वि­शे­ष­ण­वि­शे­ष्यतः ।।
लक्ष्य­ल­क्ष­ण­ग­त्याऽतो यथोक्तार्थं प्रपद्यते ।। ३४ ।।

सर्वार्थं यदि वाऽऽद्यं स्यात्सा­क्षा­दिति विशेषणम् ।।
अपरोक्षान्तमथवा ब्रह्मान्तं वोत्तरस्य तु ।। ३५ ।।

यत्सा­क्षा­च्चा­प­रो­क्षाच्च ब्रह्माणः स्तो विशेषणे ।।
वाक्या­द्ब्र­ह्या­भि­सं­ब­न्धा­त्त­द­न्यस्य तथाऽश्रवात् ।। ३६ ।।

यदव्यवहितं द्रष्टु­र्व्य­व­धा­नेन केनचित् ।।
प्रत्य­ङ्भा­त्र­स्व­भा­व­त्वा­द्ब्र­ह्म­णोऽ­व्य­व­धा­नता ।। ३७ ।।

अव्या­वृ­त्ता­न­नु­गतं ब्रह्मागौणं प्रचक्षते ।।
अप­रो­क्षा­द्भ­वे­त्ता­दृ­ङ्ना­तोऽ­न्या­दृ­क्क­थं­चन ।। ३८ ।।

सर्वा­ना­त्म­नि­षे­धेन बोध आत्मन्यथैकले ।।
परमार्थं त्वसंप्राप्य निषेधो नेष्यते यतः ।। ३९ ।।

व्यति­रे­का­न्व­या­भावैः कार्यं वस्त्वभिलप्यते ।।
कारणत्वनिषेधेन ब्रह्माऽऽत्मानं प्रपद्यते ।। ४० ।।

एता­व­न्मा­त्र­या­था­त्म्या­त्का­र्य­का­र­ण­व­स्तुनः ।।
अव्या­वृ­त्ता­न­नु­गतं ब्रह्माऽऽत्मैव ततो भवेत् ।। ४१ ।।

यश्चाऽऽत्मैव भवे­त्प्र­त्य­क्स­र्वा­न्त­र­त­म­स्तथा ।।
तमेवंलक्षणं मह्यं यथा­व­द्व­क्तु­म­र्हसि ।। ४२ ।।

सामा­ना­धि­क­र­ण्यो­क्ते­र्ब्र­ह्मा­त्मा­र्था­भि­धा­यिनोः ।।
ऐका­र्थ्य­मे­त­यो­र्न्याय्यं मिथो­र्था­व­सि­ते­स्तथा ।। ४३ ।।

ब्रह्माऽऽ­त्मै­क­स्व­भा­वेन साक्षादिति विशेष्यते ।।
असं­भ­वा­त्त­द­न्यत्र ब्रह्मत्वस्य यतस्ततः ।। ४४ ।।

आत्माऽपि ब्रह्मणोऽन्यत्र नैव संभाव्यते यतः ।।
सामा­ना­धि­क­र­ण्यो­क्ति­स्त­स्मा­द्ब्र­ह्मा­त्म­श­ब्दयोः ।। ४५ ।।

विशे­ष­ण­वि­शे­ष्यत्वे मिथो ब्रह्मात्मनोरतः ।।
अब्र­ह्मा­ना­त्मा­प­ह्नु­त्याऽ­सं­स­र्गै­का­त्म्य­धी­र्भ­वेत् ।। ४६ ।।

ब्रह्म­णोऽ­प्या­त्मनो मोहादब्रह्मत्वं न वस्तुतः ।।
आत्मनोऽपि परोक्षत्वं ब्रह्मणोऽपि तमोन्वयात् ।। ४७ ।।

तमसो ज्ञान­वि­ध्व­स्ता­व­ब्र­ह्मा­ना­त्म­ता­हतेः ।।
अपू­र्वा­द्या­त्मकं ब्रह्म निःसंसर्गं प्रपद्यते ।। ४८ ।।

प्रत्य­ग्या­था­त्म्य­वि­ज्ञा­ना­त्त­त्त­मो­ना­त्म­बा­धतः ।।
प्रत्य­ङ्भा­त्रा­व­शे­ष­त्वा­त्स्या­म­पू­र्वा­दि­मा­न­हम् ।। ४९ ।।

प्रणि­धा­याऽऽ­त्मनि दृष्टिं प्रत्य­ग्बो­धै­क­र­ञ्जि­ताम् ।।
प्रतिवक्त्येष इति तं याज्ञ­व­ल्क्योऽ­प्यु­दा­रधीः ।। ५० ।।

आत्म­प्र­मा­तृ­मा­ना­दे­र­ने­क­स्येह संभवात् ।।
प्रत्य­क्षा­र्थ­स्यैष इति न विद्मः को विवक्षितः ।। ५१ ।।

प्रत्य­क्षा­र्थ­वि­ज्ञप्त्यै त आत्मेति ततोऽवदत् ।।
सर्वा­न्त­र­गृ­ही­तिस्तु तत्पू­र्वो­क्तो­प­ल­क्ष­णम् ।। ५२ ।।

क्षोण्यु­प­क्र­म­मा­का­शा­त्ष­ष्ठ्य­न्ते­ना­भि­धी­यते ।।
आत्मेति च प्रमा­त्रा­दे­रा­ग­मा­पा­य­सा­क्ष्यपि ।। ५३ ।।

मातृ­मा­न­प्र­भे­देऽपि प्रतिदेहं न भिद्यते ।।
साक्षी वाह्या­र्थ­व­द्य­स्मात ञ आत्मेत्युच्यते ततः ।। ५४ ।।

व्यभिचारो मिथो यद्व­त्प्र­मा­त्रादेः स्वसाक्षिकः ।।
सर्व­मा­त्रा­द्य­भा­वा­र्थ­सा­क्षि­त्वान्न तथाऽऽत्मनः ।। ५५ ।।

साक्षा­दि­त्या­दिभिः प्रत्य­क्प्र­त्य­ग्दृष्ट्या यदेक्ष्यते ।।
प्रत्य­ग्व­स्त्व­ति­रे­केण नान्यदात्मा तदेक्ष्यते ।। ५६ ।।

प्रत्य­ङ्भा­त्रै­क­या­था­त्म्या­दा­त्मा­वि­द्या­त­दु­त्थयोः ।।
ताव­न्मा­त्रा­व­सा­यित्वं सम्य­ग्बो­धा­द­त­स्तयोः ।। ५७ ।।

आत्मनोऽनवशेषेण तदन्यार्थस्य संगतेः ।।
साक्षा­दि­त्या­दिकं सर्वं संभाव्यं स्याद्विशेषणम् ।। ५८ ।।

प्रत्य­क्त­यै­वा­व­सितेः प्रतीचोऽन्यस्य वस्तुनः ।।
व्यति­रे­कै­क­रु­पस्य व्यतिरेको न लभ्यते ।। ५९ ।।

विरोधादन्वयो नास्य खण्डादौ गोत्ववत्तथा ।।
व्यतिरेकोऽपि नैका­त्म्य­या­था­त्म्या­दु­प­प­द्यते ।। ६० ।।

प्रत्य­ङ्भा­त्र­त­यै­वा­तोऽ­ना­त्माऽऽ­त्मनि विलीयते ।।
तवाऽऽत्मेत्यपि निर्णीतौ नैव स्यात्प्र­श्न­नि­र्णयः ।। ६१ ।।

ममाऽऽ­त्म­ना­म­ने­केषां संभवादप्रबोधतः ।। ६२ ।।
पिण्डा­न्त­स्ता­व­दा­त्मैको लिङ्गान्तस्तु तथा परः ।।
बु्धिसाक्षी तृतीयः स्याद्योऽयं संदिह्यते तथा ।। ६३ ।।

यत एवमतो ब्रूहि कतमोऽत्र विवक्षितः ।।
साक्षा­दि­त्या­दि­मा­नात्मा निर्धा­र्ये­दं­त­याऽ­न्यतः ।। ६४ ।।

याज्ञवल्क्योऽपि तं प्राह यः प्राणेनेति लिङ्गतः ।।
प्राणादेः प्रत्यगात्मानं बुबोधयिषुरञ्जसा ।। ६५ ।।

प्राण­ना­द्य­नु­मा­नेन ग्राहयित्वा धियः परम् ।।
ततोऽ­व­बो­ध­यि­ष्यामि यथो­पा­त्त­वि­शे­ष­णम् ।। ६६ ।।

इत्येतद्धृदये कृत्वा याज्ञवल्क्यो निराह तम् ।।
यः प्राणेनेति वचसा न लिङ्ग­दु­क्त­बो­ध­नम् ।। ६७ ।।

मुख­सं­चा­रि­णाऽ­प्राणो यः प्राणो­ना­नि­ती­क्षिता ।।
सर्वप्रत्यक्तमः सोऽयमात्मा सर्वान्तरावधिः ।। ६८ ।।

सुप्तेऽ­स्मि­न्क­र­ण­ग्रामे योऽसु­प्तोऽ­लु­प्त­दृ­ष्टितः ।।
वास­ना­रू­प­का­न्प­श्य­न्प्रा­णा­न्प्रा­णिति वायुना ।। ६९ ।।

अनात्मत्वमतः सिद्धं प्राणादेः करणोक्तितः ।।
प्राणा­त्म­त्वाच्च बुद्ध्यादेः पिण्डा­न्त­स्या­प्य­ना­त्मता ।। ७० ।।

दृश्य­त्वा­द्ध­ट­व­द्देहः प्राणादेः करणत्वतः ।।
अना­त्म­त्व­प्र­सिद्धिः स्याल्लि­ङ्ग­पि­ण्डा­त्म­नो­रतः ।। ७१ ।।

प्राणा­दि­का­र्य­क­रणैः स्वतोऽसंहत एकलः ।।
तच्चेष्टां कुरु­तेऽ­कु­र्व­न्न­य­स्कान्तो मणिर्यथा ।। ७२ ।।

लोकेऽ­न­धि­ष्ठि­त­स्येह केनचिच्चेतनावता ।।
न दृष्टा नियता चेष्टा रथादेर्जडरूपिणः ।। ७३ ।।

देहे­न्द्रि­य­म­नो­बु­द्धि­प्रा­णा­दे­र्नि­य­ते­क्ष्यते ।।
प्रवृत्तिर्येन तेनैभ्यो ज्ञात्माऽ­न्योऽ­भ्यु­प­ग­म्य­ताम् ।। ७४ ।।

प्रतिज्ञाय पुरा साक्षाद्गामहं दर्शयामि ते ।।
अशक्नुवंस्तथा कर्तुं लिङ्गेन प्रतिबोधयेत् ।। ७५ ।।

यथा कश्चित्तथैव त्वं प्रतिज्ञाय परात्मनः ।।
साक्षात्त्वं तदसंपाद्य लिङ्गे­नाऽऽ­वे­द­य­स्य­मुम् ।। ७६ ।।

यथा­प्र­ति­ज्ञ­मे­वातो यथा पृष्टं तथैव तत् ।।
मह्यं प्रतिवचो वाच्यं दोषस्तु स्यात्ततोऽन्यथा ।। ७७ ।।

यथाप्रतिज्ञं प्रत्यु­क्ति­म­वो­चा­मा­स­कृ­त्तव ।।
ततोऽ­प्य­प­रि­तु­ष्ट­स्त्व­म­न्य­थैव बुभुत्ससे ।। ७८ ।।

उक्त­व­र्त्मा­ति­रे­केण नाऽऽत्मवस्तु घटादिवत् ।।
शक्यते प्रति­नि­र्देष्टुं प्रमा­णा­गो­च­र­त्वतः ।। ७९ ।।

विद्मीति यद्वलादात्थ न वेद्मीत्यपि यद्वलात् ।।
तद्दृष्ट्यैवेह तं दृष्ट्वा ब्रूह्यवद्यं यदीक्षते ।। ८० ।।

अप्रमेयं हि यद्वस्तु न तच्छक्यं प्रमाणतः ।।
कुम्भ­व­त्प्र­ति­नि­र्देष्टुं यथा तदभिधीयते ।। ८१ ।।

द्रष्टृ­द­र्श­न­दृ­श्यानां संहतानां परस्परम् ।।
साक्षि­त्व­मा­त्मनो नित्यं वस्तु­स्वा­भा­व्य­मु­च्यते ।। ८२ ।।

प्रमा­त्रा­दि­प्र­वृत्तेः प्राक्स­दा­न­स्त­मि­तो­दिता ।।
अकारकात्मना तस्थौ प्रत्य­ग्दृ­ष्टि­र­सं­गतः ।। ८३ ।।

अका­र्य­का­र­णा­त्मै­त­द्वा­स्तवं रूपमात्मनः ।।
सकृ­द्वि­भा­त­मै­कात्म्यं वितमस्कमभेदकम् ।। ८४ ।।

एत­त्त­मो­भि­सं­ब­न्धा­त्सा­क्षित्वं प्रतिपद्यते ।।
तमो­मा­त्रै­क­हे­तुश्च मोहसंगतिरात्मनः ।। ८५ ।।

कूट­स्थ­दृ­ष्टि­त­न्मोहौ दृष्ट्याभासश्च तत्र्रयम् ।।
कारणं जगतः साक्षी नियन्तेति च भण्यते ।। ८६ ।।

कारणत्वं न कौट­स्थ्या­त्त­न्मो­ह­वि­र­हा­द्भ­वेत् ।।
जाड्यान्वयाच्च बुद्ध्या­दे­र्युक्ता तत्कारणानुमा ।। ८७ ।।

प्रमा­त्रा­द्य­ति­रे­कोऽपि वस्तुनो बोधरूपिणः ।।
अज्ञातस्य प्रमेयस्य युक्तः स्वध्वा­न्त­सा­क्षिणः ।। ८८ ।।

कूटस्थदृष्टेः साक्षित्वं जडस्येव न युज्यते ।।
साक्ष्या­र्था­न­भि­सं­ब­न्धा­त्त­स्मि­न्स­त्यपि नाचितेः ।। ८९ ।।

तस्मात्परस्य साक्षित्वं स्वमो­हा­भा­स­व­र्त्मना ।।
कार्य­का­र­ण­सं­बन्धे चिदाभासस्य संगतेः ।। ९० ।।

प्रमा­त्रा­द्य­भि­सं­बन्धो यथाऽ­नु­भ­व­सि­द्धिकः ।।
तथैव तदभावोऽपि सिद्धोऽ­नु­भ­व­मा­त्रतः ।। ९१ ।।

अनन्यहेतुकं ताव­त्र्र­य­मे­त­द्य­थो­दि­तम् ।।
प्रमा­त्रा­दि­प­दा­र्थस्तु धर्मा­ध­र्मा­दि­हे­तुकः ।। ९२ ।।

बुद्ध्या­दे­र­भि­सं­बन्धो जन्मनैव चिदात्मना ।।
घटा­द्य­र्था­भि­सं­बन्धो धर्मा­ध­र्मा­दि­का­रणः ।। ९३ ।।

प्रमा­तृ­दृ­ष्टि­रे­काऽत्र शब्दा­द्य­र्था­व­ले­हिनी ।।
भूरि­सा­ध­न­सा­पेक्षा सुखदुःखफलप्रदा ।। ९४ ।।

क्षणप्रध्वंसिनी चेयं तद्धे­तो­र्भ­ङ्गु­र­त्वतः ।।
प्रतिदेहं विभिन्न च त्वसा­धा­र­ण­का­र­णात् ।। ९५ ।।

क्रिया­का­र­क­रू­पे­य­म­क्रि­याऽ­का­र­का­त्मना ।।
ताव­न्मा­त्रै­क­या­था­त्म्या­त्तया व्याप्तैव जयाते ।। ९६ ।।

कार्त्स्न्येन यत्र वृत्तिः स्याद्व्या­प्य­व्या­प­क­व­स्तुनोः ।।
व्याप्ति­स्त­त्रैव मुख्या स्याद्र­ज्जु­स­र्पा­दि­व­स्तु­वत् ।। ९७ ।।

देश­का­ला­दि­सं­भे­दा­द­सा­धा­र­ण­त­त्त्वयोः ।।
व्याप्तिर्न घटते साक्षा­द्धि­म­व­द्वि­न्ध्य­यो­रिव ।। ९८ ।।

प्रमा­त्रा­दि­व्य­पे­क्षेयं लौकिकी दृष्टिरात्मनः ।।
तत्प्र­त्य­गा­त्म­दृ­ष्टिस्तु विज्ञेया पारमार्थिकी ।। ९९ ।।

पर­मा­र्था­त्म­दृ­ष्ट्येयं लौकिकी दृष्टिरात्मनः ।।
षड्भा­व­वि­क्रि­या­मेति व्याप्तै­वाऽऽ­का­श­कु­म्भ­वत् ।। १०० ।।

धर्मा­ध­र्मा­न­पे­क्ष­त्वा­च्चै­त­न्या­भा­सतां प्रति ।।
घटा­द्या­भा­स­व­त्त­स्मा­न्नाऽऽ­त्मा­भासो विनश्वरः ।। १०१ ।।

निष्क्रि­य­श्चे­तनः साक्षी सक्रियोऽचेतनः पराङ् ।।
व्यावृत्तश्च प्रमात्रादेः सिद्धः साक्षी सुषुप्तगः ।। १०२ ।।

न चेद­नु­भ­व­व्याप्तिः सुष­उ­प्त­स्या­भ्यु­पे­यते ।।
नावेदिषं सुषुप्तेऽहमिति धीः किंबलाद्भवेत् ।। १०३ ।।

बुद्ध्यादेः प्रवि­ली­न­त्वा­द्दे­हा­देश्च जडत्वतः ।।
लोष्टादेरिव, नैव स्यान्ना­ज्ञा­सि­ष­मि­ती­क्ष­णम् ।। १०४ ।।

चिदा­भा­सै­क­मा­त्रेण तमःसिद्धिर्न मातृतः ।।
संवि­त्त­न्मो­ह­चि­द्विम्बैः प्रात्यक्ष्यं कर्तृरूपिणः ।। १०५ ।।

स्मृति­नि­श्चि­ति­सं­शी­ति­रा­गा­दि­हि­रु­गा­त्मसु ।।
अहरूपेण योऽन्वेति स प्रमाता परो मतः ।। १०६ ।।

स्मरणादिविभागेन ज्ञातर्येकत्र यत्पृथक् ।।
प्रथ­तेऽ­ने­क­रू­पाभं तज्ज्ञानं ज्ञातृकर्तृकम् ।। १०७ ।।

विभिन्नो बहिराभाति जाति­रू­प­क्रि­या­दि­मान् ।।
विभि­न्नोऽ­नु­भ­वा­देव ज्ञातु­र्ज्ञा­नात्स गोचरः ।। १०८ ।।

संवि­त्त­न्मो­ह­धी­वृ­त्ति­श­री­रा­दि­वि­शे­ष­णम् ।।
भोक्तरीह यदाभाति तत्प्रमाणफलं स्मृतम् ।। १०९ ।।

कर्तृत्वं करणत्वं च कर्मत्वं चाऽऽत्मसाक्षितः ।।
व्यतिरेकेण कर्त्रादेः सिद्धे­र्नाऽऽ­त्म­त्व­म­स्त्यतः ।। ११० ।।

साक्षि­त्वे­नाऽऽ­त्मनः सिद्धि­र्मा­त्रा­दि­व्य­ति­रे­कतः ।।
न कर्तृता प्रमात्रादेः साक्ष्यत्वेनैव तत्क्षयात् ।। १११ ।।

प्रत्य­ङ्भो­ह­ज­बु­द्ध्या­दि­ज­ड­रू­प­प्र­धा­नतः ।।
कर्तृत्वमात्मनो युक्तं चित्प्रा­धा­न्याच्च भोक्तृता ।। ११२ ।।

अव्या­कृ­त­व्या­क­रणे यदुक्तं सर्वमेव तत् ।।
अनुसंधेयमत्रापि वस्तु­त­त्त्व­वि­शु­द्धये ।। ११३ ।।

स्वमहिम्ना न संसि­ध्ये­त्स्व­तोऽ­न­व­ग­मा­त्म­कम् ।।
भावाभावौ न वस्त्वेति प्रत्याख्यातं यदात्मना ।। ११४ ।।

तस्मादजायमानैव जायमानेव लक्ष्यते ।।
संवि­त्ति­स्त­द­शं­बो­ध­हे­तू­त्था­ना­त्म­ज­न्मना ।। ११५ ।।

तद्विनाशेऽपि तत्सा­क्ष्या­द्वि­न­श्य­न्तीव लक्ष्यते ।।
यतोऽतः कार्यतां तस्या नेश्वरोऽपि प्रसाधयेत् ।। ११६ ।।

अज्ञानभूमिगं वस्तु मान­सं­ग­ति­मा­प्नु­वत् ।।
मेयत्वं लभते नान्यद्यच्च त्यक्त­क्षि­ति­द्व­यम् ।। ११७ ।।

हेतोः कर्या­स­मु­त्पत्तेः सिद्धेः प्रागापि संविदः ।।
कार्यकारणताहीना तस्मा­त्सं­वि­त्प्र­ती­य­ताम् ।। ११८ ।।

शून्यस्यापि हि शून्यत्वं तत्साक्षिणि सतीक्ष्यते ।।
असाक्षिकं चेच्छून्यत्वं साक्षि­व­त्स्या­द­सा­क्षि­कम् ।। ११९ ।।

साक्ष्य­सा­क्ष्यपि संसि­ध्ये­त्स्वा­य­त्वान्न तु शून्यता ।।
पारा­र्थ्या­त्स्वा­र्थ­वि­रहे षष्ठ­गो­च­र­व­द्भ­वेत् ।। १२० ।।

देहान्तः प्रत्यगात्माऽयं पञ्चधा गम्यते मितेः ।।
एक­का­र­ण­सा­क्षि­त्व­क­र्तृ­दुः­खि­त्व­रू­पतः ।। १२१ ।।

श्रुतितो लिङ्गतः साक्षा­त्का­र्य­का­र­ण­सं­गतिः ।।
यतोऽनुभूय़ते तस्मात्कारणत्वं परात्मनः ।। १२२ ।।

प्रत्य­क्सा­क्ष्य­ति­रे­केण नाभावोऽपि प्रसिध्यति ।।
किमु भावो जग­त्य­स्मि­न्साक्षी चानन्यसिद्धिकः ।। १२३ ।।

यथो­क्ता­नु­भ­वा­रूढो बुद्ध्यन्तोऽपि प्रसिध्यति ।।
माता मातरि मानं च मानान्मेयं प्रसिध्यति ।। १२४ ।।

सुखी गौरो धनी गोमा­न्वा­ह्य­मे­य­सा­मा­श्र­यात् ।।
प्रमाणभूमौ स्थित्वैतदुक्तं सर्वं प्रसिध्यति ।। १२५ ।।

प्राक्प्र­मा­त्रा­दि­सं­भू­ते­र्य­त्प्र­मा­त्रा­दि­का­र­णम् ।।
अन­न्या­नु­भ­वा­त्माभं तत्प्रमाणं सदादृशेः ।। १२६ ।।

मेय­मा­न­प्र­मा­त्रा­दि­वि­भा­ग­स्तत्र नेक्ष्यते ।।
प्रत्य­ग्बो­धै­क­या­था­त्म्य­व­स्तु­मा­त्रो­प­रो­धतः ।। १२७ ।।

ईदृगेव फलं चात्र मानमेयादिकं तथा ।।
कुता भेदावकाशः स्याद­द्व­यै­क­प्र­मा­त्मनि ।। १२८ ।।

प्रमा­ण­व­र्त्म­नाऽऽ­या­त­मिदं मोहापनुत्तये ।।
वस्तुवृत्तेन नैवालं शास्रा­ना­र­म्भ­स­क्तितः ।। १२९ ।।

उक्ता­र्था­प­रि­हा­रेण तदज्ञानजभूमिषु ।।
व्यवहारः प्रमात्रादेः स्वप्न­मा­ये­न्द्र­जा­ल­वत् ।। १३० ।।

अवि­चा­रि­त­सं­सि­द्धि­त­मो­व­त्स्या­त्त­दु­द्भ­वम् ।।
कृत्स्नं जगदतो मोहध्वस्तौ ध्वस्तं भवेच्चितिः ।। १३१ ।।

भिन्न­मा­न­प्र­मा­त्रादौ कार्य­का­र­ण­व­स्तुनि ।।
अभि­न्न­मा­तृ­मा­ना­दि­रा­त्मै­वै­कोऽ­द्वयः स्वतः ।। १३२ ।।

न देश­का­ला­व­स्था­दा­व­पे­क्षाऽ­स्त्या­त्मनः स्वतः ।।
अन­न्या­पे­क्ष­सं­सि­द्धे­र्दे­शा­दे­स्त­द­पे­क्षतः ।। १३३ ।।

देश­का­ल­नि­मि­त्ता­दि­व्य­पेक्षं वस्तु यद्भवेत् ।।
तदेव तदपेक्षं स्यान्न तु देशादिसिद्धिदम् ।। १३४ ।।

कार­का­दि­व­शा­द्या­व­त्किं­चि­द्व­स्तू­प­ल­भ्यते ।।
क्रियाफलं तद्वि­ज्ञे­य­म­न­पे­क्षि­त­त­त्त्व­कम् ।। १३५ ।।

वस्त्वधीना यतो विद्या कर्त्रधीना क्रियाऽखिला ।।
कर्त्रादि चाऽऽत्ममोहोत्थं वस्तु सिद्धं स्वतोऽद्वयम् ।। १३६ ।।

कार­का­ण्यु­प­मृ­द्गाति विद्या बीजमिवोषरम् ।।
तत्का­र­णो­प­म­र्दि­त्वा­ज्ज­न्म­नैव न कारकम् ।। १३७ ।।

प्रमा­तृ­प­रि­णा­म­त्वा­त्प्र­मा­सिद्धिः प्रमातरि ।।
प्रमा­त्र­व्य­व­धा­नेन संविदैव न वृत्तिभिः ।। १३८ ।।

मात्रन्तरे व्यपेक्षायां मातुर्मानान्तरे मितेः ।।
दुर्वा­र­त्वा­त्प्र­स­ङ्गस्य ह्यनवस्था प्रसज्यते ।। १३९ ।।

प्रमा­त्र­ति­श­ये­नैव कारणं स्यात्प्र­मा­त्रपि ।।
विज्ञानातिशयं सिध्येन्मानं निश्चयवत्तथा ।। १४० ।।

मेया­सा­धा­र­णा­त्मो­त्थ­रू­प­वा­न्नि­श्चयो यथा ।।
बाह्य­मे­य­प्र­धा­नत्वे सत्य­सा­धा­र­णा­र्थधीः ।। १४१ ।।

मानव्यापारकाले स्याद्वा­ह्य­मे­यो­प­स­र्ज­नम् ।।
आभा­सा­दि­प्र­मा­णान्तं तद्वि­शि­ष्ट­फ­लो­त्थितेः ।। १४२ ।।

प्रमा­ण­व्या­पृ­ते­स्तूर्ध्वं वासनाधानकारणात् ।।
मेयोपसर्जना बुद्धिः स्मृत्या साक्षा­त्प्र­ती­यते ।। १४३ ।।

साक्षा­त्कु­र्व­त्स्व­मा­त्मानं यदालम्बनतां व्रजेत् ।।
कार्यकारणरूपस्य तदेवाऽऽलम्बनं मतम् ।। १४४ ।।

पूर्वो­प­ल­म्भ­सं­स्का­र­स­मु­त्थ­स्मृ­ति­वि­भ्र­मात् ।।
वस्तु­वृ­त्ता­ति­व­र्त्येष व्यापारः सार्वलौकिकः ।। १४५ ।।

मोयाभिसंगतेः पूर्वं ज्ञानं ज्ञातृसमाश्रयम् ।।
ज्ञातृ­त्व­सि­द्धये ज्ञानं ज्ञातृत्वं तत्कृतं यतः ।। १४६ ।।

वासनाबलतः स्पष्टं बहिर्वद्यन्मतौ स्थितम् ।।
भावनागोचरं ज्ञानं बाह्य­व­स्त्व­व­ल­म्ब­नम् ।। १४७ ।।

अपे­क्षा­वृ­त्त­व­द्वस्तु याव­त्किं­चि­दिे­हे­क्ष्यते ।।
मातृमात्राश्रयं तत्स्यान्न स्वतः­सि­द्धि­नि­ष्ठि­तम् ।। १४८ ।।

अन्तः­क­र­ण­वृ­त्तिर्या चक्षु­रा­दि­स­मा­श्रया ।।
रूपादिविषयाभासा लौकिकी दृष्टिरूच्यते ।। १४९ ।।

तस्याश्च क्रिय­मा­ण­त्वा­ज्ज­न्म­ना­शा­भि­सं­गतिः ।।
आत्म­दृ­ष्टि­स्त्वियं नित्य जन्म­ना­शा­दि­व­र्जिता ।। १५० ।।

कार्य­का­र­ण­यो­स्तत्त्वं प्रत्यगात्मा चितिर्यतः ।।
तस्मा­न्नि­त्य­श्चि­दा­भासो बुद्धौ तत्प्रत्ययेषु च ।। १५१ ।।

प्रत्य­क्चि­दु­प­र­क्तायां बुद्धौ धर्मादिहेतुकः ।।
आकारो जायतेऽनित्यो दुःख­श­ब्दा­दि­ल­क्षणः ।। १५२ ।।

स्यास्नौ प्रत्य­क्चि­दा­कारे बाह्य­हे­तु­नि­ब­न्धनः ।।
आकारो जायते बुद्धे­रा­ग­मा­पा­य­ध­र्म­वान् ।। १५३ ।।

उपाधिभूतया दृष्ट्या हानोपादानरूपया ।।
एकाश्रयत्वतः स्थास्न्वी संसृ­ष्टे­वो­प­जा­यते ।। १५४ ।।

बुद्धि­त­द्वृ­त्ति­सा­क्षि­त्वा­द्बु­द्धि­त­त्प्र­त्य­यै­रजः ।।
गृह्य­तेऽ­वि­द्य­याऽ­भिन्नो मणि­र्य­द्व­दु­पा­श्रयैः ।। १५५ ।।

कर्तृ­का­र्या­व­भा­सि­त्वा­त्क­र्तृ­का­र्या­भि­धा­यिभिः ।।
लक्ष्यते नामभिः साक्षी साक्षान्न त्वभिधीयते ।। १५६ ।।

तज्ज­न्म­ना­श­सा­क्षि­त्वा­द­जोऽ­नाशी स्वयंप्रभः ।।
जायते नश्यतीत्येवं तत्सा­क्ष्य­प्य­भि­धी­यते ।। १५७ ।।

दृष्टे­र्ज­ड­स्व­भा­वायाः परार्थायाः स्वतश्चितिम् ।।
न पश्येः प्रत्यगात्मानं द्रष्टारं दृश्ययाऽनया ।। १५८ ।।

दिदृ­क्षि­त­प­रि­च्छि­न्न­प­रा­ग्र­पा­द्य­पे­क्षया ।।
तद्विरुद्धं कथं पश्येर्दृष्ट्या तत्कर्मभूतया ।। १५९ ।।

द्रष्टुर्हि व्यापृ­ति­र्दृष्टौ दृष्टे रूपादिकर्माणि ।।
ताभ्यां तत्प्र­त्य­गा­त्मानं कथं पश्येश्चितिं स्वतः ।। १६० ।।

नाकारकं समीक्षेत द्रष्टु­द­र्श­न­गो­च­रान् ।।
कार­क­त्व­मृ­तेऽ­विद्यां कूट­स्थ­स्याऽऽ­त्मनः कुतः ।। १६१ ।।

कारकं सत्तथैकात्म्यं न कथंचन वीक्षते ।।
अवि­द्या­न­न्व­या­द्भा­स्व­त्प्र­त्य­ग्ज्योतिः सतत्त्वतः ।। १६२ ।।

येन चक्षुरिदं दृष्टं चक्षुषा यन्न पश्यति ।।
ब्रह्म विद्धि तदेव त्वं न तु तद्यदुपासते ।। १६३ ।।

मनसा मनुते यन्न येन चाऽऽहुर्मनो मतम् ।।
ब्रह्म विद्धि तदेव त्वं न त्विदं यदुपासते ।। १६४ ।।

इत्ये­व­मा­दि­वा­क्यानि यथो­क्ता­र्थ­स­म­र्थने ।।
श्रौतानि शतशः सन्ति दृग­मे­य­त्व­सि­द्धये ।। १६५ ।।

एत­न्मो­ह­स­मु­त्थ­त्वा­ल्प्र­मा­त्रा­दे­र्म­ना­गपि ।।
नैकात्म्यं शक्यते वक्तुं क्लृप्त­हे­तो­र­बा­धया ।। १६६ ।।

दृष्टि­भे­द­म­कृ­त्वैव दृष्टे­रि­त्या­दिकां श्रुतिम् ।।
केचि­द्व्या­च­क्षते धीराः प्रसा­दा­ज्जा­त­वे­दसः ।। १६७ ।।

दृष्टेः कर्तारमात्मानं न पश्येः क्रियमाणया ।।
दृष्ट्या रूपानुपातिन्या न क्रिया कर्तृकर्मिका ।। १६८ ।।

दृष्टेरिति च षष्ठीयं क्रिय­मा­ण­त्व­हे­तुतः ।।
कर्मण्येव तु विज्ञेया नासावर्थान्तरे यतः ।। १६९ ।।

दृष्टि­क­र्तृ­त्व­मा­चष्टे तृजन्तेन तथाऽऽत्मनः ।।
यतोऽतः कर्मदृष्ट्या तं द्रष्ठारं नानुपश्यति ।। १७० ।।

कर्मेप्सिततमं रूपं दृष्टेः कार्यत्वहेतुतः ।।
चक्षुर्मनो वा बुद्धिर्वा कर्तुः करणमिष्यते ।। १७१ ।।

विज्ञानात्मा तु कर्ताऽत्र स्वात­न्त्र्या­त्स­र्व­क­र्मसु ।।
फलं रूपोपलब्धिश्च कर्तु­र्दृ­ष्ट्य­व­सा­न­जम् ।। १७२ ।।

साधनत्वेन कर्ताऽत्र दृष्टाववसितिं गतः ।।
क्रिया­सि­द्ध्यु­त्तरे काले फलं कस्यापि चेष्यते ।। १७३ ।।

स्वामिनो यदि वाऽन्यस्य कर्म प्रत्येव च क्रिया ।।
कर्म दर्शयितव्यं स्याद्दृष्ट्या द्रष्टा न दृश्यते ।। १७४ ।।

तत्रैवं सति तं दृष्टे­र्द्र­ष्टारं कर्मभूतया ।।
दृष्ट्या पश्येः स्वमात्मानं न कथंचन कर्तृतः ।। १७५ ।।

व्य़ाख्या­न­मे­त­न्म­हतां न साधु प्रतिभाति नः ।।
न्याया­क्ष­रा­नु­पा­त्त­त्वा­द्यथा तदभिधीयते ।। १७६ ।।

यथाप्रश्नमियं ताव­त्प्र­त्यु­क्ति­र्नो­प­प­द्यते ।।
यतो द्र्ष्टर्य­सं­भाव्यं कृत्स्नं प्रश्नविशेषणम् ।। १७७ ।।

साक्षा­दि­त्या­दिकं यस्मान्न मनागपि युज्यते ।।
विशेषणं यथोक्तं तत्कारके दृष्टिकारिणि ।। १७८ ।।

क्षेत्र­ज्ञ­प­र­मा­त्मानौ नापि प्रश्ने विवक्षितौ ।।
एका­र्थ­यो­गा­द्वा­क्यस्य नैकोक्तौ स्याद्दूयार्थता ।। १७९ ।।

न चेप्सिततमत्वं स्याद्द्र­ष्टु­र्दृ­ष्टे­र­सं­भ­वात् ।।
दृष्ट्यन्तरस्य दृष्टुश्च न च द्रष्ट्रन्तरं तथा ।। १८० ।।

तदभ्युपगमे वः स्याग­द­न­व­स्थाऽ­नि­वा­रणा ।।
दृष्ट्यन्तरेण संव्या­प्ति­र्नातो दृष्टेः कथंचन ।। १८१ ।।

तथा द्रष्टृ­गृ­ही­त्यैव कामि­ता­र्थ­स­मा­प्तितः ।।
निरर्थकमिदं च स्याद्दृ­ष्टे­रिति यदुच्यते ।। १८२ ।।

सदै­वा­व्य­भि­चा­रि­त्वा­दृ­ष्टि­द्रष्ट्रोः परस्परम् ।।
विशे­ष­ण­वि­शे­ष्यत्वं व्यभिचारे सतीष्यते ।। १८३ ।।

न च प्रमादपाठोऽयं सर्वेषामविगानतः ।।
विध्यशेषत्वतो नापि चार्थ­वा­द­त्व­मि­ष्यते ।। १८४ ।।

अहं­दृ­ष्ट्य­धि­ग­म्य­त्व­मपि द्रष्टु­रि­हे­ष्यते ।।
प्रत्य­क्ष­मा­वि­रू­द्धत्वं तथाचोक्तेः प्रसज्यते ।। १८५ ।।

मेय­मा­न­प्र­मा­तृणां प्रात्यक्ष्यं प्रागपीरितम् ।।
व्याख्या व्यरोधि तेनेयं दृष्टेरित्यत्र या कृता ।। १८६ ।।

यथो­क्ता­दा­त्म­नोऽ­न्य­द्य­त्का­र्य­का­र­ण­रू­प­कम् ।।
आर्तं विनाशि तत्तुच्छं शुक्ति­का­र­ज­ता­दि­वत् ।। १८७ ।।

एतदेवमनार्तं स्यात्स्व­तः­सि­द्ध­त्व­का­र­णात् ।।
सदै­का­नु­दि­ता­लु­प्त­प्र­त्य­ग­दृ­ष्टि­स­त­त्त्व­कम् ।। १८८ ।।

हेतूक्तिरथवाऽतः स्यावु­क्त­व­स्तु­स्व­भा­वतः ।।
तद­न्य­भा­वा­सं­सि­द्धे­रा­र्तत्वं हेतुमद्भवेत् ।। १८९ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके तृतीयाध्यास्य चतु­र्थ­मु­ष­स्त­ब्रा­ह्म­णम्