अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥संबंधभाष्यवार्तिकम् ॥ (३)

अन्योऽ­प्य­नु­भ­वो­पायो मननध्यानलक्षणः ।।
सोपायो विहितोऽस्त्येव प्रतिपत्तिविधिं विना ।। ७६१ ।।

दर्शनस्य विधे­य­त्वा­त्त­त्सं­ब­न्धो­प­ल­क्षितः ।।
प्रसं­ख्या­ना­त्म­कोऽ­त्रापि प्रयत्नोऽनुभवंं प्रति ।। ७६२ ।।

शमा­द्य­ङ्गा­न्वितः सर्व­मा­त्मे­ति­स्तु­ति­भू­षणः ।।
मन­ना­द्य­र्थ­व­त्त्वाय पश्येदिति विधीयते ।। ७६३ ।।

पश्येदिति प्रय­त्न­श्चे­त्फलं स्याद्दर्शनं तदा ।।
लक्षणं न प्रयत्नस्य लक्षणं चेत्कथं फलम् ।। ७६४ ।।

लोके दर्शनसंबद्धं प्रसंख्यानं समीक्षितम् ।।
वेदेऽपि किं तथा तत्स्यान्न वाऽत­स्त­द्वि­धी­यते ।। ७६५ ।।

सामान्येनौषधं यद्व­ज्ज्व­र­ना­शो­प­ल­क्षि­तम् ।।
दृष्टं कष्ट­ज्व­रेऽ­प्येवं विशे­षे­णो­प­दि­श्यते ।। ७६६ ।।

अप्यज्ञातफलं साक्षा­न्मा­न्त­रै­र्वि­धि­सं­श्र­यात् ।।
अभा­व­नि­श्च­या­भा­वा­त्प्र­सं­ख्यानं फलाय नः ।। ७६७ ।।

पश्चादावेवमेव स्यात्सं­दि­ग्धेऽपि विनिश्चयः ।।
खपुष्पे त्वनु­पा­य­त्वा­न्नि­श्च­योऽस्ति विपर्यये ।। ७६८ ।।

एवं केचि­द्व्य­व­स्थाप्य प्रसंख्यानविधिं पुनः ।।
ऐका­त्म्य­ज्ञा­न­ता­त्पर्यं तस्यापीच्छन्ति युक्तिभिः ।। ७६९ ।।

विधि­स्वा­त­त्र­य­पक्षे हि किलैकात्म्यं न सिध्यति ।।
तच्छास्रं विधि­नि­ष्ठ­त्वान्न स्वरू­पेऽ­र्थ­वा­दतः ।। ७७० ।।

अपि शास्रा­त्प्र­प­न्नोऽ­स्मि­न्पा­रो­क्ष्या­न­प­हा­रतः ।।
तत्सा­क्षा­त्क­र­णा­यैव प्रसंख्यानं विधीयते ।। ७७१ ।।

मानेन विषयासिद्धौ तद्दि­दृ­क्षा­वि­यो­गतः ।।
प्रसं­ख्या­न­वि­धिर्न स्यात्सहापि मननादिभिः ।। ७७२ ।।

श्रुते­र्ज्ञा­ता­त्म­वृ­त्ता­न्तोऽ­न­नु­भू­त­मपि स्वकम् ।।
स्थानकं वाञ्छतः शास्रा­त्प्र­सं­ख्यानं विधीयते ।। ७७३ ।।

स्वव्या­पा­र­मु­खे­नैव शास्रं स्वार्था­व­बो­ध­कृत् ।।
न तु व्यापा­र­वि­र­हा­न्नातो द्विकरता श्रुतेः ।। ७७४ ।।

स्वव्या­पा­र­ति­रो­धानं कारकाणां न च स्थितम् ।।
तस्मा­दै­का­त्म्य­ता­त्पर्ये प्रसंख्यानादि सुस्थितम् ।। ७७५ ।।

बोधयित्वाऽपि चैकात्म्यं नान्तरा पर्यवस्यति ।।
आ पुमर्थावधेः शास्र­म­प्रा­मा­ण्य­भ­या­त्स्फु­टम् ।। ७७६ ।।

परोक्षवृत्त्या शब्दो हि वदन्स्वार्थं स्वभावतः ।।
संभा­व­य­न्प्र­मा­णत्वं युक्तिं स्वीकृत्य वर्तते ।। ७७७ ।।

याथा­त्म्या­व­ग­मेऽ­शक्ता धूमोऽग्नाविव साऽपि च ।।
स्वीकृत्यैव प्रसंख्यानं युक्तिर्वस्तुनि वर्तते ।। ७७८ ।।

इत्यादिवर्त्मना शास्रं साक्षाद्वस्तु प्रसाधयत् ।।
विधिं प्रति प्रधानत्वं स्वीकृ­त्या­भ्येति मानताम् ।। ७७९ ।।

संस­र्ग­क­ल्प­ना­शू­न्य­म­प्यै­कात्म्यं प्रबोधयेत् ।।
अनयैव दिशा शास्त्रं संसृ­ष्टा­र्था­भि­धा­य्यपि ।। ७८० ।।

यतो वाचो निवर्तन्त इति श्रुत्यैव दर्शितम् ।।
व्यपा­स्ता­शे­ष­सं­स­र्ग­क­ल्पनं ब्रह्म निर्भयम् ।। ७८१ ।।

शास्त्रे­णा­न­भि­धाने तु नियोगेऽपि न युज्यते ।।
प्रवेशो विषयत्वेन तुल्यं चोद्यमतो द्वयोः ।। ७८२ ।।

विधिं विना श्रुतै­का­त्म्य­स्त­द­र्था­नु­भ­वा­दृते ।।
उपायाज्ञतया कुर्या­त्त­च्छा­स्र­स्या­र्थ­वा­द­ताम् ।। ७८३ ।।

विधिनिष्ठेंऽपि शास्रे स्याद­सि­द्धे­र्व­स्तुनो मितेः ।।
देव­ता­ध्या­न­व­त्कल्प्यं फल­मै­का­त्म्य­वे­द­नम् ।। ७८४ ।।

प्रति­प­न्ना­त्म­या­थात्म्यः प्रसंख्यानादि नेक्षते ।।
अज्ञस्तु श्रावि­तोऽ­प्य­स्मा­द्विना नाऽऽप्नोति तत्फलम् ।। ७८५ ।।

शास्रेऽ­स्मि­न्व­स्तु­नि­ष्ठेऽपि प्रसंख्यानविधिं विना ।।
पुमर्थो लभ्यते नैवेत्यसावपि समाश्रितः ।। ७८६ ।।

नान्व­य­व्य­ति­रे­का­भ्या­मै­का­त्म्या­नु­भवो भवेत् ।।
तत्सिद्धावेव तौ स्यातां स च ताभ्यामिति श्रयः ।। ७८७ ।।

यथैव विश्वजिद्यागपदे स्वार्था­नु­पा­ल­नम् ।।
कुर्वती स्वर्गकामेन गच्छतः सह मानताम् ।। ७८८ ।।

तथैव शास्रतद्युक्ती स्वाभि­धे­या­र्थ­पा­ल­नम् ।।
कुर्वत्यै मानतां यातः प्रसंख्यानेन नान्यथा ।। ७८९ ।।

एव­मै­का­त्म्य­ता­त्पर्ये शास्र­स्ये­ष्टेऽपि युक्तिभिः ।।
केेचि­त्क­र्य­म­पी­च्छन्ति तदर्थं, तन्न युज्यते ।। ७९० ।।

प्रमा­त्रा­दि­त्रयं यस्मा­त्सं­वि­न्मा­त्र­व­पु­र्भुतः ।।
सिद्धा­य­तेऽ­प्र­सिद्धं सत्तत्सिद्धौ किमपेक्षते ।। ७९१ ।।

परोक्षमपि सद्वस्तु यत्सा­क्ष्या­त्म­स्व­रू­पतः ।।
साक्षादात्मेव चाऽऽभाति तस्मि­न्पा­रो­क्ष्यधीः कथम् ।। ७९२ ।।

अप्यज्ञानादि निःशे­ष­प्र­मे­य­व्य­व­धा­न­कृत् ।।
स्वतः प्रसि­द्धा­त्सं­सि­ध्ये­त्त­द­सिद्धिः कुतो भवेत् ।। ७९३ ।।

स्वमहिम्नैव यः सिद्धः सर्व­प्र­त्य­क्त­मश्च यः ।।
तत्तमोहतितः कार्यं किम­न्य­त्त­त्प्र­मा­ण­जम् ।। ७९४ ।।

मात्रा­दि­त्र­य­हा­नेऽपि हान­सा­क्षि­त­ये­क्ष्यते ।।
येना­सा­व­वि­लु­प्ता­क्ष­स्त­त्पा­रोक्ष्यं कथं भवेत् ।। ७९५ ।।

नियो­ग­प­क्ष­मा­श्रित्य विध्यर्थासंभवो यथा ।।
ऐकात्म्यसिद्धौ यत्नेन तथाऽत्र प्रतिपाद्यते ।। ७९७ ।।

ऐकात्म्यस्य स्वतो मुक्ते­र­ज्ञा­ना­त्तस्य बद्धता ।।
साध्येऽर्थे साधनापेक्षा सिद्धे तन्न व्यपेक्षते ।। ७९८ ।।

तमो­मा­त्रा­न्त­रा­य­त्वा­दै­का­त्म्या­ख्यस्य वस्तुनः ।।
असाध्यसाधने तस्मि­न्काऽ­पेक्षा भावनां प्रति ।। ७९९ ।।

यदाऽनुभवकामस्य कार्यं साध्यं प्रतीयते ।।
प्रसंख्याने तदै­का­त्म्य­ता­त्पर्यं कथमुच्यते ।। ८०० ।।

कार्यं चान्यपरं चेति द्वय­मे­त­द्वि­रु­ध्यते ।।
साध्यं हि सर्वदा कार्यमन्यत्तस्य प्रसिद्धये ।। ८०१ ।।

विशेषणं नियोज्यस्य भवन्ननुभवः फलम् ।।
विषयः सत्प्र­सं­ख्या­न­म­नु­भू­तेर्न साधनम् ।। ८०२ ।।

भावार्थविषयं कार्यं प्रसंख्याने कथं भवेत् ।।
आवृत्तिर्हि प्रसंख्यानं शब्द­यु­क्त्यो­रिति स्थितम् ।। ८०३ ।।

अथ श्रव­ण­भा­वा­र्थ­वि­षयं कार्यमिष्यते ।।
तदा श्रवणमेव स्याद्विशिष्टो विषयस्तव ।। ८०४ ।।

दाक्षा­य­णा­दा­वा­वृ­त्ते­र्य­त्रापि फलमुच्यते ।।
सगु­णा­त्पै­र्ण­मा­सादेः फलं तत्रापि नो गुणात् ।। ८०५ ।।

गुणो यत्रापि दध्यादिः कार्यावच्छेदको मतः।।
धात्वर्थावेशतः सोऽपि प्राप्ते चास्मिन्न तु स्वतः ।। ८०६ ।।

श्रवणादेर्न च प्राप्ति­र्गु­णान्न च फलं श्रुतम् ।।
पश्येदिति हि धात्वर्थः केवलो विषयः श्रुतः।। ८०७ ।।

नापि तल्ल­क्षि­ता­वृ­त्ति­र्वि­धेया श्रुतहानतः ।।
कार्यं यन्नापि भावा­र्था­त्त­दा­वृ­त्ति­गु­णा­त्क­थम् ।। ८०८।।

स्वयं प्रबो­धि­तेऽ­प्यर्थे यदि युक्त्या­द्य­पे­क्षते ।।
शास्रं सापेक्षमेवं स्यात्स्वतः प्रामा­ण्य­व­र्ज­नात् ।। ८०९ ।।

युक्त्यादि मान्तरं नो चेन्मानांशत्वेन तत्स्थितेः ।।
संभूय पादाः सर्वेऽपि ह्यैकात्म्यं बोधयन्ति नः ।। ८१० ।।

न संभूय यतः पादा­स्तै­ल­व­र्त्य­ग्नयो यथा ।।
मितेः स्वरूपलाभाय न तु मेयोपलब्धये ।। ८११ ।।

संभूय यदि सर्वाणि फलमेकं प्रतन्वते ।।
प्रत्येकं प्रमि­ते­र्वृ­द्धि­रि­त्ये­त­स्या­त्तदा मृषा ।। ८१२ ।।

संभूय फलकारित्वं क्रिया­का­र­क­सं­गतेः ।।
स्वरूपलाभतो नान्य­द­भि­व्य­क्ता­व­पे­क्षते ।। ८१३ ।।

तैलवर्त्यग्नयो यस्मा­त्प्र­दी­पो­त्प­त्ति­का­र­णम् ।।
लब्धात्मलाभो दीपोऽर्थं स्वयमेव प्रकाशयेत् ।। ८१४ ।।

शब्देन ज्ञाप्यते यद्वत्तथैव यदि युक्तिभिः।।
व्यर्थताऽथ विशे­ष­श्चे­त्सं­प्राप्ता भिन्नमानता ।। ८१५ ।।

स्वप्ना­दि­यु­क्ति­भि­श्चे­त्त­ल्लौ­कि­कीभिः प्रसाध्यते ।।
अवैदिकं भवेद्वस्तु स्याच्च शास्रानुवादता ।। ८१६ ।।

वैदिकत्वेऽपि युक्ती­ना­मा­ग­मा­र्थ­प्र­बो­धतः ।।
अनुवादत्वमेव स्यात्स्याच्च शास्रादभिन्नता ।। ८१७ ।।

आवृत्तिश्च प्रसंख्यानं कुर्यात्सातिशयं कथम् ।।
न ह्यावृत्तौ प्रमाणस्य प्रमेयेऽतिशयो यतः ।। ८१८ ।।

यत्रापि चान्ध­का­रा­दि­दो­षा­त्क्र­म­वि­नि­श्चयः ।।
तत्रापि भिन्न­मे­य­त्वा­न्नैव संभूयमानता ।। ८१९ ।।

पूर्वं वस्त्वति विज्ञानं प्राण्ययं मानुषस्तथा ।।
पुरुषोऽयमथ श्यामो डित्थ इत्यर्थभिन्नता ।। ८२० ।।

परिच्छेदफलत्वं हि मानत्वं तच्च भिद्यते ।।
तदभावे तु पूर्वे­षा­मु­त्त­र­स्यैव मानता ।। ८२१ ।।

अथ मेयप्रभेदेऽपि प्रमा­णै­क­त्व­मि­ष्यते ।।
वस्तु­ग्रा­हि­त­याऽ­क्षा­दे­रै­का­र्थ्येऽ­भि­न्न­मा­नता ।। ८२२ ।।

साध्यमानं प्रसंख्यानं याग­व­त्सा­ध­ये­त्फ­लम् ।।
कारकं ज्ञापकं शास्रं तयोः स्यादेकता कथम् ।। ८२३ ।।

प्रमाताऽऽत्मा न मानाशो यद्ययं व्यावहारिकः ।।
परश्चेत्स प्रमेयः स्यात्कथं चानुभवः फलम् ।। ८२४ ।।

स्वरूपंं यद्यसाध्यं तस्त्वा­त­न्त्र्येण प्रसिद्धितः ।।
तज्ज्ञानं चेत्प्रमाणं तत्तच्च शास्रान्न कार्यतः ।। ८२५ ।।

शास्र­मा­व­र्त्य­मानं हि स्वभावं नैव मुञ्चति ।।
परो­क्ष­वृ­त्ति­र्यु­क्तिश्च कथं ते मितिवर्धने ।। ८२६ ।।

प्रमितेश्च प्रमेयस्य वृद्धौ वृद्धिः स्वतो न हि ।।
तस्य वृद्धि­र्मि­ते­र्वृ­द्धा­वि­त्य­न्यो­न्य­स­मा­श्रयः ।। ८२७ ।।

उत्पाद्यापि मितिं शास्रं यदि युक्त्या­द्य­पे­क्षते ।।
स्वर्गादावेवमेव स्यात्सापेक्षं च भवेत्तदा ।। ८२८ ।।

व्यपा­स्ता­न­र्थ­सं­द­र्भ­मा­त्मा­न­म­व­ग­च्छतः ।।
किमाप्यमधिकं शास्राद्येन युक्त्या­द्य­पे­क्षते ।। ८२९ ।।

का वा युक्तिः प्रदीपस्य सर्पा­द्या­क­म्प­ना­श­नम् ।।
रज्ज्वा­दि­त­त्व­वि­ज्ञानं कुर्वतः स्वेन तेजसा ।। ८३० ।।

गुणप्रधानभावो हि विना नैवैकवाक्यताम् ।।
वस्तु­का­र्या­र्थ­ता­त्प­र्य­भे­दा­न्ना­पीह सा भवेत् ।। ८३१ ।।

न च प्रयो­ज­नै­क­त्व­ल­क्ष­णाऽ­त्रै­क­वा­क्यता ।।
अङ्ग­प्र­ध­ना­व­द्येन कल्पे­ता­त्रै­क­वा­क्यता ।। ८३२ ।।

स्वतःसिद्धस्य मोक्षस्य न साध्यमुपकारकम् ।।
न चान्यथाऽङ्गता दृष्टा प्रधा­ना­नु­प­का­रिणः ।। ८३३ ।।

आत्मलाभे न शास्रं च नित्य­त्वा­त्का­र्य­मी­क्षते ।।
स्वतो­भि­धा­न­श­क्त­त्वा­न्नापि चैकात्म्यबोधने ।। ८३४ ।।

प्रसंख्याने च शास्रार्थे सकृदेव कृते भवेत् ।।
ऐकात्म्यानुभवो नो चेद्वि­सं­वा­दा­द­मा­नता ।। ८३५ ।।

न चात्र चोदितः कालः संख्या वा येन निश्चयः ।।
तद्द्वारेण भवेन्नापि संदिग्धे स्यात्पवर्तनम् ।। ८३६ ।।

आरुह्याप्यथवा दूरं विसं­वा­द­प­रा­ङ्युखः।।
यत्किंचित्कामतः कुर्या­द­कृ­ता­र्थोऽ­पवा पतेत् ।। ८३७ ।।

अदृष्टफलता वाऽपि कल्प्याऽ­ग्नि­ष्टो­म­व­द्भ­वेत् ।।
कर्माङ्गता वा क्ल्प्या स्यादु­द्गी­थ­वि­धि­व­त्तदा ।। ८३८ ।।

ततश्च प्रातिलोम्येन कार्यं स्याच्छा­स्र­बा­ध­नात् ।।
अश्रद्धा च मुमुक्षूणां कार्यबाधोऽपि च स्थितः ।। ८३९ ।।

वस्तु­त­त्त्वा­न­पे­क्ष­त्वा­त्का­र्य­मा­त्र­प्र­धा­नता ।।
शास्राच्च वस्तु­नोऽ­ला­भा­त्कार्यं किंविषयं भवेत् ।। ८४० ।।

यदि तद्व­स्तु­या­थात्म्यं शास्रं न प्रतिपादयेत् ।।
वस्त्व­सि­द्धे­स्ततः कार्य­प्रा­धा­न्या­द­र्थ­वा­दता ।। ८४१ ।।

अथै­का­त्म्या­र्थ­निष्ठं सच्छास्रं स्यात्प्र­ति­पा­द­कम् ।।
आपरोक्ष्यात्तदा कार्यं व्यर्थं पारो­क्ष्य­हा­नि­कृत् ।। ८४२ ।।

शास्रात्कथं च तत्सि­द्धि­र्या­था­त्म्या­न­व­बो­ध­कात् ।।
नानश्वरूपे सिद्धेऽपि गव्यश्वस्य प्रसिद्धता ।। ८४३ ।।

शास्रा­च्छ्र­व­ण­मा­त्रेण कार्याच्चानुभवो यदि ।।
वस्तु­न्य­नि­श्चिते वार्ता साऽर्थवादेऽपि दृश्यते ।। ८४४ ।।

ततश्च कार्यनिष्ठत्वं मुधैव परिवर्जितम् ।।
संपत्परं भवेच्छास्रं वस्तु­ता­त्प­र्य­व­र्ज­नात् ।। ८४५ ।।

न चाप्या­ख्या­यि­का­रू­प­म­नु­ग्राह्यं श्रुतौ मतम् ।।
आदि­म­त्त्वा­दि­दु­ष्ट­त्वा­त्पु­म­र्थ­त्वेन वर्ण्यते ।। ८४६ ।।

पौन­रु­क्त्य­भ­या­च्चात्र यद्य­र्था­न्त­र­क­ल्प­नम् ।।
ऐकात्म्योक्तौ विधिर्व्यर्थ इति द्वैतप्रकल्पनम् ।। ८४७ ।।

न च मानेन विषये बोधितेऽन्वेषणं पुनः ।।
कार्यमुक्त्योः क्वचिदृष्टं स्वतः­प्रा­मा­ण्य­बा­ध­नात् ।। ८४८ ।।

प्रत्यक्षेण घटे बुद्धे का युक्तिः कार्यमेव वा ।।
अदुष्टकारणत्वं षेत्सिद्धं वेदे नृवर्जनात् ।। ८४९ ।।

प्रत्य­क्षा­दि­वि­रो­धश्च कार्यपक्षेऽपि तु स्थितः ।।
ऐकात्म्यानुभवो हि स्यात्क­थ­म­क्षा­दि­बा­ध­नात् ।। ८५० ।।

तन्निषेधात्तु या सिद्धिर्न सा कार्यप्रसादतः ।।
प्रमाणादेव शास्रात्सा न मेयात्कार्यतो भवेत् ।। ८५१ ।।

का वा कार्येऽस्ति ते युक्तिः शास्रं चेदुभयोः समम् ।।
अज्ञा­त­ज्ञा­प­ना­द­न्य­च्छा­स्रा­न्नेति पुरोदितम् ।। ८५२ ।।

पुमर्थं प्रतिपाद्यापि प्रकृत्यैव श्रुतिः पुनः ।।
तमेव युक्तिभिः सार्धं वदन्ती स्वार्थमीक्षते ।। ७५३ ।।

नैतावताऽपराधेन युक्तयो मानकारणम् ।।
शब्द­मा­त्रा­द­सं­सि­द्धे­र­न­पे­क्ष­त्व­हा­नतः ।। ८५४ ।।

न वायोः क्षिप्र­का­रि­त्वा­च्छ्वे­ता­लम्भो विभूतये ।।
विध्यु­द्दे­शात्तु तत्सिद्धेः शैघ्रयं तूक्तं प्रवृत्तये ।। ८५५ ।।

जाग्र­त्स्व­प्न­सु­षु­प्तेभ्यो यदि नामातिरेकतः ।।
व्यक्तिभ्यो गोत्ववद्दृष्टं ब्रह्मत्वेऽस्य किमागतम् ।। ८५६ ।।

असिद्धं शास्र­यु­क्ति­भ्या­मा­वृ­त्त्याऽपि न सिध्यति ।।
नैव ह्यावर्तनं हेतुः प्रामा­ण्येऽ­न्ये­ष्व­नी­क्ष­णात् ।। ८५७ ।।

न चेदृशं प्रमाणत्वं दृष्टमन्यत्र कुत्रचित् ।।
अन्या­दृ­क्ष­प्र­मा­णस्य न च नास्त्यत्र संभवः ।। ८५८ ।।

अलौ­कि­का­र्थ­वा­दि­त्वा­दा­त्म­ब्र­ह्म­भि­धा­नयोः ।।
संब­न्धा­ग्र­ह­णा­दात्मा ब्रह्मेति कथमुच्यते ।। ८५९ ।।

ज्ञातार्थसंगतिः शब्दो वाक्या­र्था­व­ग­म­क्षमः ।।
ब्रह्मा­त्मा­र्थ­प्र­सिद्धौ च लोका­न्मा­न­प्र­वे­शिता ।। ८६० ।।

नाऽऽत्म­न्ये­वाऽऽ­त्म­श­ब्दस्य प्रयो­गा­त्स्या­द­लै­किकः ।।
ब्रह्मार्थेऽपि महत्त्वेन प्रसिद्धो व्यवहारतः ।। ८६१ ।।

एवं पदात्परिज्ञाते पदार्थे लोकमानतः ।।
वाक्या­र्थेऽ­ती­न्द्रियो वेदे वाक्यात्केन निवर्त्यते ।। ८६२ ।।

अपू­र्व­दे­व­ता­स्व­र्ग­प­दा­र्थे­ष्वपि लोकतः ।।
सिद्धे­ष्व­ती­न्द्रि­योऽ­प्यर्थो वाक्या­दे­वा­व­ग­म्यते ।। ८६३ ।।

नापे­क्षा­पू­र­णा­शक्तेः प्रयोगे समवायिता ।।
पदानां सपदार्थानां वाक्या­द्व्य­व­हृ­ति­र्यतः ।। ८६४ ।।

वाक्यार्थायैव वाक्यं हि सर्वदैव प्रयुज्यते ।।
व्यवहारेषु वुद्धानां संबन्धस्तत्र गृह्यते ।। ८६५ ।।

भागा­न्त­र­प्र­वेे­शेन भागत्यागेन च स्फुटम् ।।
वाक्य­वा­क्या­र्थ­यो­र्भेदे पदार्थानां निमित्तता ।। ८६६ ।।

यद्भा­ग­स्याऽऽ­ग­मा­द्योऽ­र्थ­भागः स्यादधिकः क्वचित् ।।
तस्य भागस्य भागोऽसौ निमित्तं स्यान्न तु प्रमा ।। ८६७ ।।

अत एव सभागत्वं वाक्य­वा­क्या­र्थ­यो­र्म­तम् ।।
वाचकत्वेऽपि वाक्यस्य संसृ­ष्टा­र्था­भि­धा­नतः ।। ८६८ ।।

ततश्चैवं समूहस्य वाच­क­त्व­म­व­स्थि­तम् ।।
भगवत्त्वं च संसिद्धं वाक्य­वा­क्या­र्थ­यो­रतः ।। ८६९ ।।

एवं च लोकतः सिद्धो वाक्यार्थः स्याच्छ्रुतावपि ।।
लौकिका एव शब्दार्था न्यायेनोक्ताः श्रुतौ यतः ।। ८७० ।।

नृवि­व­क्षा­व्य­वा­येन लोके शङ्का भवेदपि ।।
वेदे त्वपौ­रु­षे­य­त्वा­त्सा­क्षा­त्स्वार्थे प्रमाणता ।। ८७१ ।।

न च कार्यपरत्वेऽपि पदानां संहतिः स्थिता ।।
अन्यत्रावगमो न स्यात्सं­ब­न्ध­ज्ञा­न­व­र्ज­नात् ।। ८७२ ।।

यथा च कार्ये तात्पर्यं कार्यं चापि न विद्यते ।।
पूर्वमेव तथाऽ­स्मा­भि­र्यु­क्तिभिः संप्रसाधितम् ।। ८७३ ।।

अना­दि­वृ­द्ध­व्य­व­हृ­द्व्यु­त्प­त्त्यैव च तस्त्थितेः ।।
शब्दस्यार्थेन संबन्ध आदिमत्ता न शङ्क्यते ।। ८७४ ।।

प्रथमश्रवणे यत्र न शब्दा­र्था­व­धा­र­णम् ।।
तत्रा­व्यु­त्प­न्नता हेतुः शब्दानां न त्वशक्तिता ।। ८७५ ।।

चक्षु­र्द्र­ष्ट्रपि बाह्यं हि न प्रकाशं विनाऽर्थदृक् ।।
नैतावताऽस्य सामर्थ्यं हन्यतेऽन्यस्य वा भवेत् ।। ८७६ ।।

व्युत्पत्त्या न च संबन्धः क्रियते ह्व्यर्थशब्दयोः ।।
अवस्थिते हि संबन्धे वृद्धेभ्योऽसौ प्रजायते ।। ८७७ ।।

संब­न्ध­क­र­णा­श­क्ते­स्त­त्क­र्तु­श्चा­स्मृ­ते­रपि ।।
तद्विना व्यवहाराच्च सिद्धा संबन्धनित्यता ।। ८७८ ।।

जीर्ण­कू­पा­दि­व­त्क­र्तु­र्य­द­प्य­स्म­रणं न तत् ।।
अभावगमकं नापि संबन्धेनास्य तुल्यता ।। ८७९ ।।

क्वचिज्ज्ञातेषु दूरादिकारणे संशयोऽपि च ।।
नात्य­न्ता­नु­प­ल­ब्धेषु त्वभावोऽतोऽस्य निश्चितः ।। ८८० ।।

संनि­कृ­ष्टा­र्थ­सं­सृ­ष्ट­स्वा­र्थ­मा­त्रा­भि­धा­नतः ।।
तस्मा­त्सि­द्धोऽन्र वाक्यार्थो लोके वेदे प्रमाणवान् ।। ८८१ ।।

अतोऽवबोधकत्वेन दुष्ट­का­र­ण­व­र्ज­नात् ।।
अबाधाच्च प्रमाणत्वं वस्तु­न्य­क्षा­दि­व­च्छ्रुतेः ।। ८८२ ।।

पुरु­षा­र्थो­प­दे­ष्ट्ट­त्वा­द्य­द्व­त्कार्ये प्रमाणता ।।
तथैकात्म्ये विशेषाद्वा पुमर्थतिशयत्वतः ।। ८८३ ।।

पुमानिष्टस्य संप्रा­प्ति­म­नि­ष्ट­नस्य च वर्जनम् ।।
इच्छन्नपेक्षते योग्यमुपायमपि तत्परः ।। ८८४ ।।

ग्रामादि किंचिदप्राप्तं प्राप्तु­मि­ष्ट­मि­हे­च्छति ।।
हेमादि विस्मृतं किंचित्करस्थमपि लिप्सते ।। ८८५ ।।

परिहार्ये तथाऽनिष्टं कण्टकादि जिहासति ।।
रज्ज्वां सर्पादि किंचिच्च त्यक्तमेव जिहासति ।। ८८६ ।।

निय­तो­पा­य­सा­ध्य­त्वा­द­वा­प्य­प­रि­हा­र्ययोः ।।
विधितः प्रतिषेधाच्च साधनापेक्षता भवेत् ।। ८८७ ।।

अज्ञा­ना­न्त­रि­त­त्वेन संप्रा­प्त­त्य­क्तयोः पुनः ।।
याथा­त्म्य­ज्ञा­नतो नान्य­त्पु­रु­षा­र्थाय कल्पते ।। ८८८ ।।

अशे­षा­न­र्थ­वि­च्छेदं वाञ्छतः श्रुतितः श्रुतेः ।।
त्वं ब्रह्मेति हताशेषक्लेशो मोहप्रहाणतः ।। ८८९।।

वेदस्य सिद्धे प्रामाण्ये ह्यज्ञा­ता­र्था­व­बो­धतः ।।
कार्ये यथा प्रमा­ण­त्व­मै­का­त्म्येऽ­प्ये­व­मि­ष्य­ताम् ।। ८९० ।।

कार्याद्यदि तु मानत्वं मान­त्वा­त्का­र्य­नि­ष्ठता ।।
अन्यो­न्या­श्र­य­तैवं स्यादे­क­स्या­सि­द्धि­तोऽ­न्यतः ।। ८९१ ।।

औदा­सी­न्या­न्नि­षे­धेषु न लभ्येत प्रमाणता ।।
औदासीन्यं निवृत्तिर्हि स्वरूपालम्बनं च तत् ।। ८९२ ।।

सोऽरो­दी­त्या­दि­वा­क्यानां कार्या­वे­शा­त्प्र­मा­णता ।।
अपु­म­र्थो­प­दे­ष्ट्ट­त्वा­त्तच्च नात्रेत्यकारणम् ।। ८९३ ।।

न चैका­त्म्या­भ्यु­पा­यस्य मिथ्यात्वमिह शङ्क्यते ।।
उपेयाप्तौ कृता­र्थ­त्वा­दु­पायं प्रत्यनीक्षणात् ।। ८९४ ।।

ऐका­त्म्य­प्र­ति­पत्तेः प्राङ्न मिथ्या हेत्वभावतः ।।
पुरु­षा­र्था­व­सा­यि­त्वा­न्ना­प्यू­र्ध्व­म­न­पे­क्षतः ।। ८९५ ।।

उपेयबोधनं मुक्त्वा मिते­र्ना­न्याऽस्ति सत्यता ।।
सत्या­द­प्य­नु­पा­य­त्वा­द्ध­टा­न्ना­ग्निर्हि गम्यते ।। ८९६ ।।

धूमाभासात्तु बाष्पा­दे­र्य­द­ग्नि­र्ना­व­ग­म्यते ।।
हेतु­स्त­त्रा­नु­पा­य­त्व­म­स­त्यत्वं पुनर्न तु ।। ८९७ ।।

धूम­व­त्प­र­मा­र्थ­त्व­मु­पा­य­त्वान्न लभ्यते ।।
वेदान्तानां तथै­का­त्म्य­श्रु­ति­बाधः स्फुटोभवेत् ।। ८९८ ।।

बाष्पवन्नापि मिथ्या­त्वा­द­नु­पा­य­त्व­मि­ष्यते ।।
एेका­त्म्यो­बो­ध­बा­धेन सिद्धा तूपायसत्यता ।। ८९९ ।।

श्रुते­रै­का­त्म्य­सं­वित्तौ चरितार्थत्वतो मितेः ।।
वृथोपायपरीक्षा स्यादु­त्ती­र्णस्य प्लवे यथा ।। ९०० ।।

बाह्ये­ष्व­र्थे­ष्व­ना­त्म­त्वा­त्पुनः शङ्का भवेदपि ।।
अत्राऽऽ­त्म­त्वा­दु­पे­यस्य का शङ्का मानतां प्रति ।। ९०१ ।।

अन्यत्रेव न चाप्यत्र वाक्यार्थो भेदलक्षणः ।।
संसर्गलक्षणो वाऽपि ब्रह्मा­त्मा­भे­दतो भवेत् ।। ९०२ ।।

ब्रह्म­णोऽ­ना­त्म­ता­रू­प­म­ब्र­ह्मत्वं तथाऽऽत्मनः ।।
अज्ञानलक्षणं शास्राज्ज्ञानं हन्ति समुत्पतत् ।। ९०३ ।।

नेहा­न्य­त्राऽऽ­त्मनो ब्रह्म तथाऽऽत्मा ब्रह्मणोऽन्यतः ।।
तादा­त्म्य­म­न­यो­स्त­स्मा­न्नी­लो­त्प­ल­वि­ल­क्ष­णम् ।। ९०४ ।।

अब्रह्मानात्मने यद्व­द­त्रा­ज्ञा­न­नि­ब­न्धने ।।
आत्मताब्रह्मते नैव­म­न्य­स्मा­दि­त्यतः स्वतः ।। ९०५ ।।

नाम्नोरेवं च संबन्ध ऐका­त्म्या­त्स्या­त्क्रियां विना ।।
षष्ठीं च न क्रिया­ष­ष्ठ्यो­र्विना भेदा­त्प्र­व­र्त­नम् ।। ९०६ ।।

महत्ता यद्वदाकाशे घटा­का­श­व्य­पे­क्षया ।।
परा­क्त्वा­पे­क्षया तद्व­त्प्र­त्यक्ता नाऽऽत्म­नी­क्ष्यते ।। ९०७ ।।

प्रत्य­क्त्व­म­द्वि­ती­यत्वं बोध­व­न्ना­न्य­ब­न्ध­नम् ।।
अपारार्थ्यान्न बोधो हि स्यादबोधनिरासतः ।। ९०८ ।।

आत्माऽपि सदिदं ब्रह्म मोहा­त्पा­रो­क्ष्य­दू­षि­तम् ।।
ब्रह्मापि संस्तथैवाऽऽत्मा सद्वि­ती­य­त­ये­क्ष्यते ।। ९०९ ।।

आत्मा ब्रह्मेति पारो­क्ष्य­स­द्वि­ती­य­त्व­बा­ध­नात् ।।
पुमर्ये निष्ठितं शास्रमिति सिद्धं समीहितम् ।। ९१० ।।

ननु भेदा­श्रि­तै­र्वा­क्यै­र्वि­धा­य­क­नि­षे­धकैः ।।
अक्षादिभिश्च नैकात्म्यं बाधि­त­त्वा­त्प्र­मा­ण­वत् ।। ९११ ।।

न चाप्यै­का­त्म्य­शा­स्रस्य तैर्वेि­क­ल्प­स­मु­च्चयौ ।।
प्रमाण्यै नापि बाध्यत्वं तेषां तेन कथंचन ।। ९१२ ।।

विरु­द्ध­मा­न­भा­वेऽपि न हि वस्तु विकल्प्यते ।।
भेदाभेदौ न च स्यातां विरो­धा­द्यु­ग­प­त्क­चित् ।। ९१३ ।।

भिन्नाभिन्नं न वो वस्तु येन मानाविरोधिता ।।
नेह नानेति भेदानां निषेधात्कनु भेदधीः।। ९१४ ।।

वर्णा­दि­ग्र­ह­णो­पायो नापीहाक्षादि बाध्यते ।।
संस्काराय च यच्छा­स्र­मा­त्म­ज्ञा­नो­प­का­र­कम् ।। ९१५ ।।

उपचारार्थतः शास्रं सावकाशं जपेऽथवा ।।
अक्षा­दे­र­कृ­ता­र्थ­त्वा­त्कथं स्यात्तेन बाधनम् ।। ९१६ ।।

उच्यते, लोरतः सिद्धं भेदमाश्रित्य चोदना ।।
प्रवृत्ता पुरुषार्थाय न तु भेदावबुद्धये ।। ९१७ ।।

भेदस्य चापु­म­र्थ­त्वा­त्ता­दर्थ्ये स्यादमानता ।।
पुमर्थत्वेन चास्येष्टं प्रामाण्यं वेदवादिभिः ।। ९१८ ।।

वस्तु­स्व­रू­प­सं­स्प­र्शि­च­क्षु­रा­दिभ्य उत्थितम् ।।
भेद­स्पृ­ङ्ना­क्ष­जा­द्येवं न तेनै­का­त्म्य­बा­ध­नम् ।। ९१९ ।।

प्रमेयविषयं मानं वस्तुनश्च प्रमेयता ।।
न च भेदस्य वस्तुत्वं वस्तु­त­त्त्वा­न­पे­क्ष­णात् ।। ९२० ।।

लब्धे हि भूतलेऽलब्धो घटस्तत्र निषिध्यते ।।
मानान्तरेण विज्ञातो नाज्ञातो नाज्ञातः शून्यताप्तितः ।। ९२१ ।।

व्यञ्जकस्य समायोगो वस्तुनो वस्तुनैव हि ।।
नाभावेन निरा­त्म­त्वा­द्व्या­वृत्त्या वा मितेर्भवेत् ।। ९२२ ।।

नातो वस्तुनि संभेदो वस्तु­नोऽ­भे­द­रू­पतः ।।
न प्रमा­णा­द्ब­हि­र्वस्तु न मानं वस्तुनो बहिः ।। ९२३ ।।

नाभावयोर्मिथो योगोऽ­व­स्तु­त्वा­भे­द­त­स्तयोः ।।
अभा­व­भा­व­यो­स्त­द्व­द्भा­व­रू­पेषु का भिदा ।। ९२४ ।।

अनित्यत्वस्य धर्मस्य घटा­दे­र्ध­र्मि­ण­स्तयोः ।।
संयोगः समवायो वा तादात्म्यं वेह संगतिः ।। ९२५ ।।

आधाराधेययोगेषु घटोऽत्रेति यथा मतिः।।
नाभावभावयोगेषु मितेर्धीः कस्यचित्तथा ।। ९२६ ।।

नहि भावातिरेकेण भावाभावः प्रमणभाक् ।।
भावात्मनाऽप्यतो भावो व्यवहाराय कल्पते ।। ९२७ ।।

अथाभावोऽपि वस्त्वेव नास्ती­ति­मि­ति­ज­न्मतः ।।
द्वयो­र्भा­वै­क­रू­प­त्वा­त्काऽ­ति­शी­ति­र्मि­ते­स्तयोः ।। ९२८ ।।

विश्वं सदेव यस्येष्टं तस्याभावः कुतो मितेः ।।
न च भावातिरेकेण भाव­व­त्सि­द्धि­म­श्नुते ।। ९२९ ।।

अभावयोगं भावश्चेत्सहवे नीलयोगवत् ।।
अविरोधादभावेन न भावा­प­ह्नु­ति­र्भ­वेत् ।। ९३० ।।

योगोऽयं वस्तुनोर्दृष्टः पृथक्सिद्धौ परस्परम् ।।
मेष­यो­र्म­ल्ल­यो­र्य­द्वन्न भावाभावयोस्तथा ।। ९३१ ।।

न योगोऽ­भा­व­यो­र्दृष्टो वन्ध्या­सू­नु­ख­पु­ष्पयोः ।।
न भावाभावयोरेवं विरोधादितरेतरम् ।। ९३२ ।।

क्षितिदेशे घटाभावो घटवन्न प्रमीयते ।।
योगो वा समवायो वा नाभा­व­क्षि­ति­दे­शयोः ।। ९३३ ।।

सदात्मतैवं सर्वस्य, नाभावात्मकता सतः ।। ९३४ ।।
अप्य­भा­वा­त्म­क­त्वेऽपि सतोऽ­भा­वा­त्म­क­त्वतः ।।
कुतो भेदावकाशः स्याद्भेदेऽसति कुतो युतिः ।। ९३५ ।।

याव­त्किं­चि­ज्ज­ग­त्य­स्मि­न्भे­दकं वस्तु लक्ष्यते ।।
अना­प­न्ना­दि­म­ध्यान्तं सदेव तदितीष्यते ।। ९३६ ।।

सदेवेदमिति स्पष्टं सन्मूला इति चापरम् ।।
श्रुत्योदाहारि नः साक्षा­त्स­दै­का­त्म्या­व­बु­द्धये ।। ९३७ ।।

मानाभावस्य मानत्वं मेयाभावस्य मेयता ।।
न्यायं न सहतेऽतीव यथा तदधुनोच्यते ।। ९३८ ।।

बोधकं यदबुद्धस्य तन्मानमिति हि स्थितिः ।।
न च प्रमा­ण­ना­स्ति­त्व­मी­दृ­क्त­स्मान्न युज्यते ।। ९३९ ।।

मेयाभावः प्रमाणानां यद्यभावेन गम्यते ।।
प्रमा­णा­ना­म­भा­वस्य गमकः को भविष्यति ।। ९४० ।।

नाक्षादिपञ्चकं तस्य बोधकं सत्समन्वयात् ।।
नयतस्तदभावो वा, मेयत्वेनैव तत्स्थितेः ।। ९४१ ।।

नीलादिवदभावस्य यद्य­क्षा­दि­वि­शे­ष­णम् ।।
विशेषणेन तद्व्या­प्ते­स्त­द­भावः कुतो मितेः ।। ९४२ ।।

अथाविशेषणोऽभावो भवद्भिरभिधीयते ।।
मेयाभावस्य मान­त्व­म­वि­शे­षा­त्प्र­स­ज्यते ।। ९४३ ।।

घटाद्यभाव इत्युक्तिर्न सम्यगिति मे मतिः ।।
पदा­ना­म­स­म­र्थ­त्वा­द्वि­रो­धा­द्व­स्तु­नो­र्मिथः ।। ९४४ ।।

भावा­भा­वा­ख्य­प­दयोः सामर्थ्ये चेत्समासता ।।
घटा­दि­नाऽ­न­पे­क्ष­त्वान्न समासः प्रसिध्यति ।। ९४५ ।।

भावस्याभाव इत्यत्र षष्ठ्यर्थः कतमो मतः।।
न कश्चिदपि संबन्धो नीरू­प­स्या­स­दा­त्मनः ।। ९४६ ।।

वस्त्व­न्त­र­म­भा­व­श्चे­द­न्य­द­न्य­द्भ­वे­त्क­थम् ।।
अन्योऽपि च्चेद्भ­वे­द­न्योऽ­वि­रोधो नीलवद्भवेत् ।। ९४७ ।।

संगतावविरोधी चेन्न संब­न्धि­नि­वृ­त्ति­कृत् ।।
न संब­न्धि­ग्र­हा­भावे संबन्धोऽयं प्रसिध्यति ।। ९४८ ।।

संब­न्धि­वि­र­हेऽ­सिद्धौ षष्ठ्यर्थत्वं न सिध्यति ।।
विरो­धा­द्यु­ग­प­न्नापि विधा­न­प्र­ति­षे­ध­नम् ।। ९४९ ।।

क्षणि­क­त्वा­द्धियां नापि स्थायिधर्मः क्रमो भवेत् ।।
अनीलाभावपृष्टेन नापि नीलस्य वेदनम् ।। ९५० ।।

नाह्य­दृ­श्य­नि­षेधः स्याद्धटादेरिव भूतले ।।
नान्या­भा­व­वि­शि­ष्टत्वं कृत्स्नाभावगतौ भवेत् ।। ९५१ ।।

अन्याभावस्य भावत्वे स्यादभावः खपुष्पवत् ।।
भावा­न्त­र­म­भा­व­श्चे­त्सिद्धं वस्तु ततः स्वतः ।। ९५२ ।।

तद्ग्राहीणि च मानानि व्यावृत्तिः केन गम्यते ।।
चित्रेऽपि विषये चित्रमेकं वस्त्वेकमानतः ।। ९५३ ।।

प्रत्येकं नीलपीतादिग्रहणे चित्रता कुतः ।।
घस्तुनो भेगरूपत्वे वस्त्वभावः प्रसज्यते ।। ९५४ ।।

अन्यधर्मे त्वभिन्नं स्यात्स्वतो वस्तु प्रमाश्रयम् ।।
भिन्नाभिन्नं विरु­द्ध­त्वा­न्नै­क­मा­नस्य गोचरः ।। ९५५ ।।

वस्त्वा­त्म­नाऽ­वि­रो­ध­श्चे­द्व­स्त्वेव विषयस्ततः ।।
सत्यं वस्तु कथं भिन्द्या­त्पुं­व्य­पे­क्षा­वि­नि­र्मितः ।।
भेदः, पुत्रादिभावे तु जन्यत्वं वस्तुकल्पितम् ।। ९५६ ।।

दाह­पा­क­प्र­का­शा­दि­भे­देऽ­प्य­ग्ने­र­भि­न्नता ।।
कार्यतोऽपि न भेदः स्याद्व­स्त्व­भे­द­व्य­व­स्थितेः ।। ९५७ ।।

विभि­न्न­का­र्य­क­र्त्रीणां शक्तीनां यद्वदाश्रयः ।।
न विरु­द्धोऽ­ग्नि­रे­कोऽपि तद्वत्कार्येऽपि किं न ते ।। ९५८ ।।

घटाभावे घटः सिध्येत्पटाभावे पटस्तथा ।।
अन्यो­न्या­भा­व­दृष्टेः स्याद­न्यो­न्या­श्र­यता तव ।। ९५९ ।।

प्रत्यक्षत्वं पृथक्त्वस्य गुण­त्वा­द्यै­र­पी­ष्यते ।।
तेषामपि गुणे मानं नीलवन्न त्ववस्तुनि ।। ९६० ।।

अथ वस्तु पृथक्त्वेन विशिष्टं गम्यते तदा ।।
शुक्लो शौरितिवन्मानं वस्तुन्येव न भेदगम् ।। ९६१ ।।

अभेदेनैव वर्तेत पृथक्ता यदि वस्तुषु।।
वस्त्वेव तत्ततोऽन्या चेदपृथग्वस्तु तर्हि ते ।। ९६२ ।।

भावा­भा­व­पृ­थ­क्ताऽपि यद्यभिन्ना ततोऽपृथक् ।।
भावाभावविभिन्ना चेत्पृथक्ता न परस्परम् ।। ९६३ ।।

अन्यापेक्षं पृथक्त्वं चेत्स्वयं तर्ह्यपृथग्घटः ।।
द्विधर्मत्वेऽपि वस्त्वेतदेकं स्यादु­त्प­ला­दि­वत् ।। ९६४ ।।

धर्म­बु­द्धि­प्र­भे­देऽपि धर्म्यभेदः सदेष्यते ।।
अतो गवादेर्भेदेऽपि सन्मात्रमवसीयते ।। ९६५ ।।

गोत्वा­दि­मे­य­प­क्षेऽपि सद्रू­प­स्या­न­पा­यतः ।।
वस्त्वेव मेयं गोत्वादि शाब­ले­या­दि­व­त्स्फु­टम् ।। ९६६ ।।

सद्रू­प­त्वा­प­रि­त्या­गा­द­वा­न्त­र­नि­ब­न्धनाः ।।
व्यवहाराः प्रतीयन्ते सत्तत्त्वं तेष्ववस्थितम् ।। ९६७ ।।

सत्तातोऽपि न भेदः स्याट्ट्र­व्य­त्वादेः कुतोऽन्यतः ।।
एकाकारा हि संवित्तिः सट्ट्रव्यं सन्गुणस्तथा ।। ९६८ ।।

समवायाच्च संबन्धे नैकरूप्यं विभिन्नयोः ।।
तच्चेत्ततो न विश्वासो, जाता­व­प्ये­क­बु­द्धितः ।। ९६९ ।।

संसर्गधर्मता नापि भेदे­ना­नु­प­ल­म्भ­नात् ।।
समवायेन संबन्धे को हेतुरिति नेष्यते ।। ९७० ।।

संयो­ग­श्चे­द्वि­यो­गोऽपि सम­वा­येऽ­न­व­स्थितिः ।।
स्वत­श्चे­त्क­ल्पना व्यर्था द्रव्य­स्या­प्ये­कता स्वतः ।। ९७१ ।।

सत्ता­व­गु­ण्ठि­ता­श्चैते सर्वे भावाः सदैव हि ।।
व्यवहाराय कल्पन्ते भ्रान्तो भेदः सदैव तु ।। ९७२ ।।

येषामपि हि सामा­न्य­भे­द­व­द्वस्तु गृह्यते ।।
तेषामपि कुतो भेदो वस्त्वै­क्या­द्ध­र्म्य­भे­दतः ।। ९७३ ।।

अपि भेदेन या बुद्धिः स्यात्सा­मा­न्य­वि­शे­षयोः ।।
साऽपि तन्मा­त्र­नि­ष्ठ­त्वा­न्नैव भेदस्पृगिष्यते ।। ९७४ ।।

एकं चेद्भिन्नता नास्ति भेदश्चेदेकता कुतः ।।
चित्रेऽ­प्य­नु­ग­मा­भा­वान्न सामान्यविशेषता ।। ९७५ ।।

स्वरू­प­प­र­रू­पाभ्यां यदा सदसदात्मकम् ।।
वस्त्वेकं मानविषयभावस्ते तदा कुतः ।। ९७६ ।।

प्रत्य­क्षा­दि­नि­वृ­त्ति­श्चे­त्तस्याः किं रूपमुच्यताम् ।।
स्तैमि­त्य­मा­त्म­न­श्चे­त्स्या­त्त­द्व­स्त्वे­वा­स्म­दी­हि­तम् ।। ९७७ ।।

अथ वस्त्व­न्त­र­ज्ञानं नितरां तस्य वस्तुता ।।
भावा­न्त­र­म­भा­वोऽपि निरूपाख्यः स नेष्यते ।।
तस्मा­द्व­स्त्वे­क­नि­ष्ठ­त्वान्न भेदोऽ­क्षा­दि­गो­चरः ।। ९७८ ।।

घटोऽयमिति संवित्तेर्घटो मेयः प्रतीयते ।।
न व्यावृत्तिः पटा­दी­ना­म­ता­द्रू­प्या­त्तथा पटे ।। ९७९ ।।

घटाभावो विरोधित्वान्न घटेऽ­र्था­न्त­रेऽपि न ।।
अषष्ठ्यर्थतया तस्मा­द्वि­क­ल्पोऽयं, न वस्तुगः ।। ९८० ।।

घटो हि संविदं कुर्व­न्ना­त्मा­का­र­वि­शे­ष­णम् ।।
आत्मानं लभते तद्व­द्व्या­वृत्तिं न पटादितः ।। ९८१ ।।

पट­सं­वे­द­नेऽ­प्येवं पटमात्रं विशेषणम् ।।
ईक्षतेऽत्राधिकं नान्यदभावादि यदुच्यते ।। ९८२ ।।

संदि­ग्ध­नि­श्च­या­द्येवं ज्ञानधर्मो विशेषयन् ।।
संविदं भिद्यते मेयात्प्रत्येकं भेदधीर्न तु ।। ९८३ ।।

तथाऽहमेव जानामि माता नान्य इतीदृशाः ।।
मातृधर्माः प्रसिध्यन्ति विशिषन्तः स्वसंविदम् ।। ९८४ ।।

संविदेका स्वतःसिद्धआ प्रत्य­ग्रू­पै­क­ल­क्षणा ।।
भावाभावदिरूपाय व्यवहाराय कल्पते ।। ९८५ ।।

अतोऽ­नु­भ­व­मु­ल्लङ्ध्य न भेदो नाप्यभिन्नता ।।
तत्पृष्ठेन तु मानानि विरोधः किंसमाश्रयः ।। ९८६ ।।

अविज्ञातः प्रमाणानांं विषयो वादिनां मतः ।।
न तस्य मानतः सिद्धि­स्त­त्सिद्धेः प्राक्प्र­मा­ग­मात् ।। ९८७ ।।

अमानकं कथं च स्याद­ज्ञा­त­त्व­मि­हो­च्य­ताम् ।।
कथं वा तद्विना मानं विष­या­सं­भ­वा­द्भ­वेत् ।। ९८८ ।।

अज्ञातत्वक्षतिं कुर्वन्मानं मानत्वमश्नुते ।।
मानादज्ञातता चेत्स्यान्न सा तत्फलमिष्यते ।। ९८९ ।।

अतोऽनुभवतो लब्धमज्ञानं ज्ञापयत्सदा ।।
प्रत्यक्षादि प्रमाणं स्यान्न स्वतो नापि चान्यतः ।। ९९० ।।

नाज्ञासिषमहं पूर्वमित्येवं प्रमिते घटे ।।
पूर्वा­ज्ञा­त­त्व­वि­षयो भूयोऽप्यनुभवो यतः ।। ९९१ ।।

प्रवृत्तं विषये मानमवच्छेदफलं मतम् ।।
ज्ञाताज्ञाते प्रति त्वस्य न व्यापा­रोऽ­प्र­मा­णतः ।। ९९२ ।।

सर्वोऽ­प्य­नु­भ­वा­त्सिद्धां बालोऽ­प्य­ज्ञा­ततां स्वतः।।
न किंचिज्जान इत्यवं पृष्टो वक्ति प्रमां विना ।। ९९३ ।।

निःशे­ष­क­र­ण­ग्रा­म­ल­येऽ­प्य­नु­भवः स्वतः ।।
अलु­प्त­दृ­क्सु­षु­प्तेऽपि जाग्र­द्बो­धा­वि­शे­षतः ।। ९९४ ।।

अत्य­न्ता­न­नु­भू­तेषु हिम­व­त्पृ­ष्ठ­व­स्तुषु ।।
जाग्र­तोऽ­नु­भ­वोऽ­प्येवं सुषुप्तान्न विशिष्यते ।। ९९५ ।।

न चात्रानुभवो लुप्तो न जानामीति बोधनात् ।।
अदृष्टमपि दृष्ट्वाऽस्ति बोधो नाज्ञासिषं त्विति ।। ९९६ ।।

पुमा­न्सु­प्तो­त्थि­तोऽ­प्येवं प्रमात्रादिलयं स्वतः ।।
अनुभूत्यैव संधत्ते नान्तराऽतोऽस्य लुप्तता ।। ९९७ ।।

न चेदा­नीं­त­ना­द्बो­धा­द्बो­धा­भा­व­ग­ति­र्भ­वेत् ।।
सौषुप्ती, नहि बोधस्य कालभेदेन भिन्नता ।। ९९८ ।।

बोधादेव प्रसिध्यन्ति कालावस्थादयो यतः ।।
मातृ­मा­ना­द­य­श्चापि कुतस्तैरस्य विक्रिया ।। ९९९ ।।

प्रमा­तृ­मा­न­त­न्मे­ये­ष्वा­ग­मा­पा­यिषु त्रिषु ।।
अलुप्तानुदितो बोधः प्रथते प्रत्यगेकलः ।। १००० ।।

अभि­तोऽ­नु­भ­वा­क्रान्ता ज्ञाता­ज्ञा­त­त्व­भू­मिषु ।।
नान्यत्रार्थाः प्रसिध्यन्ति लीयन्ते नाप्यनात्मनि ।। १००१ ।।

अतोऽनुभव एवैको विष­योऽ­ज्ञा­त­ल­क्षणः ।।
अक्षादीनां स्वतःसिद्धो यत्र तेषां प्रमाणता ।। १००२ ।।

तेना­नु­भ­व­सि­द्धानां लोकेऽ­ज्ञा­न­वि­घा­तिनाः ।।
मात्वमक्षादयो यान्ति नाज्ञा­त­ज्ञा­त­तोऽ­न्यथा ।। १००३ ।।

घटादयः प्रमासिद्धा मुञ्च­न्त्य­ज्ञा­ततां न तु ।।
स्वतःसिद्धोऽपि वस्तु­त्वा­न्मु­ञ्च­त्यात्मा प्रमां विना ।। १००४ ।।

प्राग्बा­ध­का­ग­मा­त्सि­द्धि­र्लौ­कि­क­स्यापि वस्तुनः ।।
वस्तु­त­त्त्व­ब­ला­देव तत्तमोव्यवधानतः ।। १००५ ।।

कृत­स्न­मा­त्रा­द्यु­पा­दा­न­त­मो­बो­धस्तु बोधतः ।।
तत्त्व­म­स्या­दि­वा­क्यो­त्था­त्पू­र्णै­का­त्म्य­स्व­ल­क्ष­णात् ।। १००६ ।।

तेनाऽऽगमस्य तत्र स्याद­ज्ञा­त­त्व­वि­घा­तिनः ।।
प्रमाणत्वं पुमर्थश्च स एऴ विदुषां मतः ।। १००७ ।।

ननु दुर्वा­र­सं­सा­र­दुः­ख­सं­द­र्भ­हा­नतः ।।
किम­न्य­त्सु­ख­मिष्टं स्याद्य­स्याऽऽप्तेः पुरुषार्थता ।। १००८ ।।

लोकेऽपि व्याधि­सं­ता­प­वि­च्छित्तौ सुखितेक्ष्यते ।।
व्यति­रि­क्त­सु­खार्था च न प्रवृ­त्ति­र्वि­रा­गि­णाम् ।। १००९ ।।

असंवेद्यं सुखं नापि पुमर्थो न च कर्मता ।।
स्वरूपे वेद्य­वे­त्तृ­त्वा­यो­गा­द्दूै­त­प्र­स­ङ्गतः ।। १०१० ।।

नैवं भेदेन संसिद्धे सुखदुःखे कथं तयोः ।।
ऐक्यं सुखस्य विच्छेदो दुःखं वा किं न कल्प्यते ।। १०११ ।।

अदुःखिनोऽपि दृश्यन्ते सुख­प्रा­प्ती­च्छया यतः ।।
तदुपाये प्रव­र्त­न्त­स्त­द­भेदे न युज्यते ।। १०१२ ।।

चन्द­ना­दि­सु­खो­पा­य­सं­पन्नाः सुखिनोऽप्यलम् ।।
पुत्र­ज­न्मा­दि­वा­र्ताभिः प्राप्नुवन्ति सुखान्तरम् ।। १०१३ ।।

पुत्रा­द्य­प्रा­प्ति­रूपं च दुःखं तत्र न कल्प्यते ।।
असं­वि­त्ते­र­वेद्यं हि न दुःखं वैरिदुःखवत् ।। १०१४ ।।

तिर्यञ्चोऽप्यत एवेह कामयन्ते सुखं तथा ।।
अप्रियं विजिहासन्ति न तु जानन्ति साधनम् ।। १०१५ ।।

वेदोऽपि शुद्धमात्मानं सुखं मुख्यं प्रदर्शयन् ।।
अनात्मानं तथा दुःखं पुमर्थत्वेन संमतः ।। १०१६ ।।

तदेतत्प्रेय इत्या­दि­वा­क्ये­भ्योऽ­ने­कधा श्रुतम् ।।
तथाऽऽत्मनस्तु कामाय तस्मा­न्ना­न्य­त्सुखं भवेत् ।। १०१७ ।।

पुरु­षा­र्था­भि­सं­ब­न्धा­द्वि­रा­गित्वं यथाऽऽश्रितम् ।।
परा­न­न्दा­भि­ला­षोऽपि तथा चेत्किं निषिध्यते ।। १०१८ ।।

आत्य­न्ति­क­सु­खे­च्छायां यदि रागित्वमुच्यते ।।
विवि­क्त­दे­श­से­वा­दा­वि­च्छायां किं न रागिता ।। १०१९ ।।

अथ ये शत­मि­त्या­दि­वा­क्यै­रे­त­त्प्र­प­ञ्चि­तम् ।।
एष ह्येवेति च व्यक्तं तैत्ति­री­य­श्रु­ता­वपि ।। १०२० ।।

स्वानन्दाभिमुखः स्वापे वोध्यमानोऽत एव च ।।
पीड्यते स्त्र्यादि­सं­प­र्क­सु­ख­वि­च्छे­दतो यथा ।। १०२१ ।।

आन­न्दै­क­स्व­भा­व­त्वा­द्वे­द्यता तत्र नार्थ्यते ।।
निःसं­बो­धेऽ­र्थ्यते सा हि न तु बोधैकलक्षणे ।। १०२२ ।।

अधिकारस्य सौल­भ्य­प्र­ति­प­त्त्य­र्थ­मी­र­णम् ।।
सर्वपुंसामिति तथा पूर्वमेव प्रपञ्चितम् ।। १०२३ ।।

स्वर्गा­दि­का­म्यपि यतो मुक्तिं कामयते न तु ।।
मुक्तिं काम­य­मा­नोऽ­न्य­त्क­टा­क्षे­णापि वीक्षते ।। १०२४ ।।

सर्वेषामपि च नृणा­म­धि­का­रोऽ­नि­वा­रितः ।।
यतोऽतः सर्वतो ऩ़ृणामिति भाष्यकृदब्रवीत् ।। १०२५ ।।

शुक्लां गामानयेत्युक्ते कांचि­द्गो­क­र्मिकां क्रियाम् ।।
कुर्वा­ण­म­भि­वी­क्ष्याज्ञः कुरुते कारणानुमाम् ।। १०२६ ।।

ज्ञातं ध्रुव­म­ने­नै­त­द्य­द्गो­क­र्म­क­मी­क्ष्यते ।।
प्रागज्ञातस्य निर्वत्तिर्न यतो विक्ष्यते कच्चित् ।। १०२७ ।।

यद्यर्थं कारकाधीनं दृष्ट्वा तत्कारणानुमा ।।
प्रमा­णा­न्त­र­ग­म्य­त्वा­ल्लो­कि­कत्वं तदाऽऽपतेत् ।। १०२८ ।।

न चेत्का­र­क­त­न्रोऽर्थो ज्ञात­स्या­नु­ष्ठितिः कथम् ।।
न सिद्धो नापि चाभावः कारकापेक्ष ईक्ष्यते ।। १०२९ ।।

आरभ्ये कारकत्वे न बला­त्प्रा­मा­ण्य­मा­प­तेत् ।।
व्यङ्ग्ये तु कार्ये वेदस्य सिद्धेऽर्थे मानता भवेत् ।। १०३० ।।

वाक्यस्य च प्रमाणत्वं नाप्य­भा­वै­क­गो­च­रम् ।।
न चेदभावः कार्योऽर्थेः सिद्धेऽर्थे मानता भवेत् ।। १०३१ ।।

अथोभयात्मकं कार्यं सिद्धा­सि­द्ध­स्व­भा­व­कम् ।।
उक्त­दो­ष­द्व­या­स­क्तिर्न च वस्तवीदृशं क्वचित् ।। १०३२ ।।

सिद्धस्य व्यञ्जकं मानं न मानं कारकं क्वचित् ।।
चोदना मानकं चेत्तत्कथं कार्यं तदुच्यताम् ।। १०३३ ।।

मतं विषयसंसिद्ध्या कार्य­मि­त्या­भि­धी­यते ।।
यागसिद्धेः पुराऽसिद्धेः कथं चोदनया मितम् ।। १०३४ ।।

प्राक्प्र­यो­क्त्र­भि­सं­सिद्धौ किं फलं यागसिद्धितः ।।
यागसिद्ध्याऽपि तत्सिद्धौ प्रयोज्यत्वं कुतो यजेः ।। १०३५ ।।

यागा­द्य­नु­ष्ठि­ते­रस्य घटादेरिव चेन्मतः ।।
उपकारो नियोगस्य कथं न घटतुल्यता ।। १०३६ ।।

अपुमर्थे नियोगे च तात्पर्यं स्यात्तथा सति ।।
प्रतिर्थिनि पुमर्थे तत्सु­धी­भि­र्गृ­ह्यते कथम् ।। १०३७ ।।

लिङा­दि­श्र­व­णा­त्पुंसः कार्यं यत्प्र­स­मी­क्ष्यते ।।
उपकाराद्यपेक्षं तद्व­क्तृ­कर्त्रोः प्रसिध्यति ।। १०३८ ।।

न चेत्संभाव्यते कर्त्रा पुमर्थः कस्यचिद्विधेः ।।
आज्ञोक्तेरेव न तदा कश्चिज्जगति चेष्टते ।। १०३९ ।।

आज्ञा­र्थ­मा­त्र­सि­द्ध्यर्थं न कश्चित्स्ववशो नरः ।।
दुःखात्मके मनो धत्ते यागादौ चोदनावशात् ।। १०४० ।।

पुमर्थमभिसंधाय यागादावथ चेष्टते ।।
फलं प्रवर्तकं प्रापन्न नियोगस्तथा सति ।। १०४१ ।।

मन्त्रोक्तेरिव लोडादेः प्रवृत्तिरिति चेन्मतम् ।।
प्रायश्चित्ती भवेन्नैव तत्प­रा­धी­न­वृ­त्तितः ।। १०४२ ।।

प्रवर्तकत्वं मन्त्रस्य न प्रव­र्त्य­व­शा­द्यथा ।।
स्वत एव न यागादेः कार्या­सि­द्धि­स्तथा भवेत् ।। १०४३ ।।

कारकं वा क्रिया वा स्याद्यदि वा स्यात्क्रि­या­फ­लम् ।।
तस्य लौकि­क­मा­सि­द्धे­र्लौ­कि­कत्वं प्रसज्यते ।। १०४४ ।।

ऐका­त्म्य­व­स्तु­निष्ठे तु यथो­क्त­न्या­य­व­र्त्मना ।।
न कश्चिदपि दोषः स्याद्व­च­स्य­स्मि­न्म­ना­गपि ।। १०४५ ।।

नेति नेत्या­दि­वा­क्येभ्यो योऽर्थोऽ­न­न्या­नु­भू­तिगः ।।
लौकिकत्वं कथं तस्य सर्व­मे­या­ति­ल­ङ्धिनः ।। १०४६ ।।

इत्यु­क्त­म­भि­सं­धाय दृष्टादिवचनं जगौ ।।
लोकि­क­त्व­प्र­सि­द्ध­र्यर्थं नियोगस्य घटादिवत् ।। १०४७ ।।

आस्तां वेदान्तमानत्वं त्यक्तं तत्कामतस्तव ।।
वस्तु­न्यु­क्तेर्न चेन्मात्वं कर्मकाण्डेऽपि तद्भवेत् ।। १०४८ ।।

भवि­ष्य­द्दे­ह­सं­बन्धी वाक्यादात्मा न चेन्मितः ।।
मानान्तराच्च कः कुर्या­द­दृ­ष्टार्थाः क्रियाः सुधीः ।। १०४९ ।।

नापि सांख्य­प्र­मा­सि­द्ध­मा­त्मा­न­म­व­ग­च्छतः ।।
देहा­द्य­न­भि­सं­ब­न्धा­त्प्र­वृत्तिः स्यात्क्रि­या­स्विह ।। १०५० ।।

कर्म­का­ण्डेऽ­धि­का­र्य­स्मि­न्या­ट्ट­क्सं­भा­व्य­तेऽ­ञ्चसा ।।
ताट्ट­क्सं­प्र­ति­प­त्त्यर्थं न चासतीति भण्यते ।। १०५१ ।।

कर्मभ्यः फल­मि­च्छ­द्भि­र­ट्टष्टं ट्टष्टमेव वा ।।
देहा­व­स्था­न्त­रा­वेशे प्रमाणं वाच्यमात्मनः ।। १०५२ ।।

कथं च तस्य कर्तृत्वं व्यापि­त्वा­न्नि­ष्क्रि­य­त्वतः ।।
न चाकर्तुः फलं गौण्या वृत्या चेत्सुतरां न तत् ।। १०५३ ।।

मुख्य­क­र्तृ­त्व­प­क्षेऽपि ह्यनिर्मोक्षः प्रसज्यते ।।
मानेन नाश्यतेऽज्ञानं, ज्ञापकं हि न कारकम् ।। १०५४ ।।

देहा­न्त­रा­भि­सं­बन्धो भावि­त्वा­न्ना­क्ष­गो­चरः ।।
लिङ्ग­सा­ट्ट­श्य­वि­रा­हा­न्ना­नुमा नोपमा तथा ।। १०५५ ।।

शब्दादात्मनि संसिद्धे पूर्वो­क्त­न्या­यतो न च।।
श्रुता­र्था­प­त्ति­र­प्यत्र नाभावो मानभावतः ।। १०५६ ।।

न चाहं­प्र­त्य­या­त्सि­द्धि­रा­त्मनः स्यात्कदाचन ।।
बोधा­नु­भ­व­सं­वि­त्ति­वि­त्तयो ह्यात्मवाचिनः ।। १०५७ ।।

यस्या­नु­भ­व­सि­द्ध्यैव सिद्धिः स्याद्व­ट­सि­द्धि­वत् ।।
ततोऽ­हं­प्र­त्य­या­त्सि­द्धि­मी­क्ष­तेऽ­नु­भवः ।। कथम् ।। १०५८ ।।

मानादनुभवः सिद्धो जडः स्याद्धटवन्न चेत् ।।
नैरपेक्ष्यं चिदा­त्म­त्वे,स्या­च्चा­न्यो­न्य­स­मा­श्रयः ।। १०५९ ।।

आत्मनोऽहंधियः सिद्धि­रा­त्म­सि­द्धि­र­हं­मते ।।
अन्यो­न्या­श्र­य­तैवं स्याद­हं­बु­द्ध्या­त्म­नो­र्ध्रु­वम् ।। १०६० ।।

अहंधीरात्मनः कार्यं कारणेनाऽऽप्यते सदा ।।
तया तस्य कथं व्याप्ति­र­व्याप्तौ मेयता कथम् ।। १०६१ ।।

क्रियाकाले गुणी­भा­वा­त्क्रि­या­सि­द्धा­व­सं­भ­वात् ।।
कर्तुः प्रमेयता न स्यादहंबुद्ध्या कथंचन ।। १०६२ ।।

संविद्रूपे प्रमेये च संविदन्या फलं भवेत् ।।
न च संविद्धूयाभासो नानुमेयं फलं क्वचित् ।। १०६३ ।।

घटा­द्या­का­र­सं­वि­द्व­च्छु­द्धा­या­मपि संविदि।।
संविद्विशिष्टा संवित्स्यान्न चासा­वा­त्म­नी­क्ष्यते ।। १०६४ ।।

प्रमातरि च मेये स्यात्फलं कस्येति भण्यताम् ।।
न मातुस्तस्य मेयत्वान्नापि मेये फलं क्वचित् ।। १०६५ ।।

जडत्वात्तत्र मेयस्य फलं मातरि चेन्मतम् ।।
मेयतो जडताऽत्रापि संविच्चेन्न प्रमाणजा ।। १०६६ ।।

धर्म­त्वे­ना­प्य­हं­बु­द्धेर्न भेदो धर्मिणाऽऽत्मना ।।
रूपं द्रव्यात्मनो नान्य­ट्ट्र­सा­दे­स्त­द्वि­भि­द्यते ।। १०६७ ।।

द्रव्यादि चाऽऽत्मनो रूपं प्रमेयं यदुदीरितम् ।।
घट­व­त्त­द­हं­बुद्धेः प्रत्य­ग्वृ­त्तेर्न गोचरः ।। १०६८ ।।

अस्म­त्प्र­त्य­य­सं­भिन्नं प्रत्यक्कर्तरि वेदनम् ।।
ज्ञानस्य यदुपन्यस्तं विशेषस्तत्र नेक्ष्यते ।। १०६९ ।।

ज्ञानबोधेन नैवाऽऽत्मा मितो, नाप्यात्मसंविदा ।।
ज्ञानं, न च द्वयंं, भेदादभेदेऽनुभवः स्वतः ।। १०७० ।।

किं प्रमा­ण­म­हं­रू­प­मु­ताऽऽ­त्मै­वेति कथ्यताम् ।।
प्रत्य­क्ष­त्वान्न तन्मानं नाऽऽत्मा, स्वार्थजडत्वतः ।। १०७१ ।।

न चाप्या­त्म­न्य­वि­ज्ञा­तेऽ­हं­बुद्धेः सिद्धता तव ।।
येनाऽऽत्मा स्याद­हं­बु­द्धे­र­नु­मेया हि सा स्थिता ।। १०७२ ।।

निरंशस्य न चाप्यं­श­क­ल्प­नाऽ­प्यु­प­प­द्यते ।।
स्वात्मतन्रे च विषये मानबोधः सदा भवेत् ।। १०७३ ।।

अज्ञातत्वं विना मानं नाहंप्रत्यय आत्मनः ।।
अज्ञातत्वमतो वाच्य­मा­त्म­नोऽत्र घटादिवत् ।। १०७४ ।।

तस्या­प्य­नु­भ­वा­त्सि­द्धि­र्य­द्यु­च्येत घटादिवत् ।।
सिद्ध आत्मा पृथङ्यातुर्नो चेन्माता न सिध्यति ।। १०७५ ।।

प्रमा­ण­सं­प्ल­वोऽ­प्युक्तो दूरादेव निवर्तितः ।।
अन्यत्रापि हि मानानां नैव संप्लवं इष्यते ।। १०७६ ।।

अज्ञातावगमे यद्व­त्प्र­मा­त­र्य­र्पितं फलम् ।।
न मेये पूर्वमानेन तद्व­न्मा­ना­न्त­रै­रपि ।। १०७७ ।।

अतोऽ­न­धि­ग­ता­वे­शा­त्स­र्वेषां संप्लवः कुतः ।।
मान्त­रै­र­व­बु­द्धेऽपि ज्ञातेऽ­प्य­ज्ञा­त­तोऽ­न्यतः ।। १०७८ ।।

अथाप्यवगमो मेये तथाऽपि स्यान्न संप्लवः ।।
पूर्वोऽनधिगते वृत्तः प्रत्ययोऽधिगते परः ।। १०७९ ।।

पूर्वेण निश्चिते चेत्स्या­न्नो­त्त­रस्य प्रमाणता ।।
तथा संदेह एक­स्मा­द­न्य­स्माद्धि विनिश्चयः ।। १०८० ।।

निःसा­मा­न्य­वि­शे­षेषु नातः संप्लव इष्यते ।।
यथाऽन्यत्र तथेहापि वेदा­न्ते­ष्व­भ्यु­पे­य­ताम् ।। १०८१ ।।

यतो मानानि सिध्यन्ति जाग्रदादित्रयं तथा ।।
भावाभावविभगश्च स ब्रह्मास्मीति बोध्यते ।। १०८२ ।।

यतोऽसिद्धानि सिध्यन्ति, भावाभावौ यदाश्रयौ, ।।
योऽनन्यार्थो यदर्थं च सर्वं, योऽनन्यट्टक्सदा ।। १०८३ ।।

प्रमेयादित्रयं यस्मा­त्प­र­स्प­र­वि­ल­क्ष­णम् ।।
आत्मानं लभते सत्यः सोऽध्य­क्षो­त्रा­भ्यु­पे­य­ताम् ।। १०८४ ।।

असं­कु­चि­त­चि­त्पद्मः प्राज्ञे स्वप्नप्रबोधवत् ।।
तथा प्रफु­ल्ल­बो­धाब्जः प्राज्ञ­व­त्स्व­प्न­बो­धयोः ।। १०८५ ।।

साक्ष्यसंबन्धतः साक्षी न स्वतः साक्षिताऽऽत्मनः ।।
प्रत्य­ङ्या­त्रै­क­ट्ट­ष्टि­त्वा­द्धियां वाचामगोचरः ।। १०८६ ।।

अस्मत्पक्षे हि कर्त­व्य­म­वि­द्या­मा­त्र­क­ल्पि­तम् ।।
तदभावान्न संसारो भूतो भावी न वर्तते ।। १०८७ ।।

स्वाभा­वि­क्य­प्य­वि­द्ये­य­म­नु­भू­त्याऽ­व­भा­सिता ।।
तमः सूर्योदयेनेव ज्ञानेनोत्कृत्य नाश्यते ।। १०८८ ।।

अनादिकालमज्ञानं ज्ञानेनाऽऽदिमता क्षणात् ।।
दृश्यते नाश्यमानं हि न चास्याऽऽ­वृ­त्ति­री­क्ष्यते ।। १०८९ ।।

एवंभूतोऽप्ययं प्रत्य­क्स्वा­त्मा­नु­भ­व­सं­श्र­यात् ।।
व्युत्पत्तेः प्रागविज्ञातः सर्वा­ज्ञा­ना­दि­सा­क्ष्यपि ।। १०९० ।।

तत्त्व­म­स्या­दि­त­स्त­स्मा­दा­ग­मा­देव नान्यतः ।।
ऐकात्म्यवस्तुनः साक्षा­द्व्यु­त्प­त्ति­र­वि­ची­लिनी ।। १०९१ ।।

तस्यास्य कर्मकाण्डेन संबन्ध इति यः पुरा ।।
प्रश्न­स्त­न्नि­र्ण­या­र्थाय सर्व­थे­त्या­दि­रु­त्तरः ।। १०९२ ।।

ननु सिद्धे यथोक्तार्थे नाऽऽरम्भे हेतुरीक्ष्यते ।।
कृत्स्न­प्र­यो­ज­ना­वाप्तेः पूर्वोक्तैरेव कर्मभिः ।। १०९३ ।।

नैतदेवं सुखेप्साया जिहासायाश्च दुःखतः ।।
निदा­न­स्या­नि­षि­द्ध­त्वा­त्पू­र्वोक्तैः कर्मभिः पुरा ।। १०९४ ।।

निःशे­षा­ह­ला­द­सं­प्राप्तिः सर्वा­न­र्थ­नु­ति­स्तथा ।।
सर्वेषां प्राणि­ना­मे­त­त्स्वत इष्टं प्रयोजनम् ।। १०९५ ।।

आत्म­न­स्त­च­त्त्व­मे­तच्च सिद्धं चैतन्यवद्यतः ।।
अथैष, यो वै भूमे­ति­श्रु­ति­मा­ना­नु­भू­तितः ।। १०९६ ।।

स्वर्ग­श­ब्दा­भि­ध­श्चायं पुमर्थो यो यथोदितः ।।
स्वर्ग­मि­त्या­दि­भि­र्वा­क्यै­स्र­य्य­न्ते­ष्वपि गीयते ।। १०९७ ।।

स्वर्गं पुमर्थमुद्दिश्य सर्व­प्रा­ण­भृ­ता­मि­यम् ।।
वाङ्य­नः­का­य­चेष्टा स्याद्याऽपि तत्साधनोपगा ।। १०९८ ।।

उत्प­त्त्या­द्य­र्थ­नि­ष्ठानां सर्वेपामपि कर्मणाम् ।।
स्वर्गे नैवाधिकारोऽस्ति तस्य सिद्धत्वतः स्वतः ।। १०९९ ।।

स्वात्म­सा­ध्या­ति­रे­केण सर्वमेव हि साधनम् ।।
नालं साध्यान्तरायेह किम्व­सा­ध्या­र्थ­सिद्ध्ये ।। ११०० ।।

यथो­क्त­पु­रु­षा­र्थस्य यद्य­प्या­प्त­स्व­भा­वता ।।
आत्मस्वभावतो नाऽऽप्ति­स्त­थाऽ­प्य­ज्ञा­न­हे­तुतः ।। ११०१ ।।

अवि­द्या­व्य­व­धा­नस्य नाऽऽत्म­ज्ञा­ना­ति­रे­कतः ।।
प्रध्वस्तिः कर्मभिः कर्तुं शक्या तेषाममानतः ।। ११०२ ।।

व्यञ्जकं विर­ह­य्या­न्य­त्सा­धनं कारकात्मकम् ।।
तदभिव्यक्तये नालं स्वतःसिद्धस्य वस्तुनः ।। ११०३ ।।

कर्म­भि­र्ना­प­नी­तोऽतः प्रत्य­ङ्भ्यो­होऽ­प्र­मा­णतः ।। ११०४ ।।
यावच्च सम्य­ग्वि­ज्ञा­न­व­ह्नि­नाऽसौ न दह्यते ।।
न तावत्किं चिदप्याप्तं सुखं दुःखविवर्जितम् ।। ११०५ ।।

नालं विमुक्तये काम्यं यदि नाम तथाऽपि तु ।।
पुंसो वैरा­ग्य­हे­तु­त्वा­दु­प­का­र्येव तन्मतम् ।। ११०६ ।।

असह्यदुःखफलतः स्वका­र्य­वि­नि­वृ­त्ति­कृत् ।।
विरक्तिहेतुतः कर्म प्रतिषिद्धं यथा तथा ।। ११०७ ।।

अपि काम्यं कृतं सर्वं दुःखा­त्म­क­फ­ल­त्वतः ।।
आवि­रि­ञ्च्या­त्स्व­का­र्येभ्यः स्यादेव विनिवृत्तये ।। ११०८ ।।

इ्त्युक्त­प्र­ति­प­त्त्य­र्थ­मा­ज­गा­मो­त्तरं वचः ।।
एकवाक्यत्वमेवं च वेदस्य स्यादसंशयम् ।। ११०९ ।।

दक्षि­णो­द­ग­धो­गत्या प्रत्य­ग­ज्ञा­न­मू­ढधीः ।।
ब्रम्भ्र­मी­त्य­निशं दुःखी पुमा­न्क­र्म­पु­रः­सरः ।। १११० ।।

काम्यै­र्द­क्षि­ण­म­न्वेति ज्ञान­यु­क्तै­स्त­थो­त्त­रम् ।।
निषि­द्धै­श्चा­प्य­धो­जन्म कर्म­सं­भा­र­सं­भृ­तकः ।। ११११ ।।

धर्मा­ध­र्मां­श­साम्ये च मनुष्यत्वं प्रपद्यते ।।
ब्रह्माद्या स्थावरान्तैवं प्रत्य­ग­ज्ञा­न­हे­तुजा ।।
नाम­रू­पे­ह­चि­त्राऽऽद्या स्वप्न­मा­ये­न्द्र­जा­ल­वत् ।। १११२ ।।

धर्मा­ध­र्मा­द्यु­पा­दा­न­सा­धना नश्वरी गतिः ।। १११३ ।।
व्याकृतं नामरूपाभ्यां यद्यपीदं श्रुतौ श्रुतम् ।।
आत्म­त­त्त्वा­न­भि­व्य­क्ते­र्ना­भि­व्यक्तं तदुच्यते ।। १११४ ।।

अवि­द्या­ति­मि­रो­च्छित्तौ नाना­वि­ष्कृ­त­म­ण्वपि ।।
कार्य­का­र­ण­व­द्वस्तु नानपास्तं तमोऽप्यतः ।। १११५ ।।

यत एवमतः प्रत्य­ग्या­था­त्म्य­प्र­ति­प­त्तये ।।
प्रारब्धेयं प्रयत्नेन वेदा­न्तो­प­नि­ष­त्परा ।। १११६ ।।

यथो­क्त­फ­ल­सि­द्ध्य­र्थ­मा­र­ब्धो­प­नि­ष­द्यदि ।।
ब्रह्म वा इदमित्यादि कस्मा­न्नाऽऽ­र­भ्य­तेऽ­धुना ।। १११७ ।।

येषा­म­न­धि­का­रोऽत्र ह्यश्वमेधक्रतौ भवेत् ।।
इत एव तु विज्ञानातेषां तत्फलकीर्तनम् ।। १११८ ।।

कर्मगोचरतैवात्र विज्ञानस्यापि चेन्मतम् ।।
विक­ल्प­श्र­व­णा­न्मैवं कर्मणा विद्ययाऽथवा ।। १११९ ।।

यजते योऽश्वमेधेन यश्चैवं वेद तं क्रतुम् ।।
फलं तुल्यं तयोर्युक्तं कर्मिणो विदुषस्तथा ।। ११२० ।।

उपास्तेरपि कर्म­त्वा­द­श्व­मे­ध­क्र­तो­रिव ।।
नातो धियोऽर्थवादत्वं तद्विधेर्नितरां न च ।। ११२१ ।।

एतावदेव चेदत्र भवतैवं विवक्षितम्‌ ।। ११२२ ।।
प्रयोजनं तत्सुकरं विध्युद्देशेऽपि भाषितुम् ।।
विद्याप्रकरणे तस्य त्वाम्नायः किमितीर्यताम् ।। ११२३ ।।

सोऽपि ज्ञानेन संयुक्तो हयमेधो महाक्रतुः ।।
संसारफल एवेति प्रवृ­त्त्य­ङ्ग­त­यो­च्यते ।। ११२४ ।।

प्रत्य­ग्बो­धा­ति­रे­केण साध­ना­न्त­र­नि­स्पृहाः ।।
निर्ज्ञा­ता­शे­ष­क­र्मो­त्थ­फ­ल­फ­ल्गु­त्व­बु­द्धयः ।। ११२५ ।।

मुमुक्षवः प्रवर्तेरन्कथं नामाऽऽत्मवेदने ।। ११२६ ।।
संसारफलता काममस्तु काम्यस्य कर्मणः ।।
नित्या­ना­म­फ­ल­त्वात्तु मुक्तिरेवास्तु तत्फलम् ।। ११२७ ।।

न ह्युत्सर्गेण सर्वेषां फलवत्त्वस्य संश्रवात् ।।
कर्मणा पितृलोकादि नित्यानामेव तत्फलम् ।। ११२८ ।।

फलवत्त्वे हि नित्यानां काम्यत्वमिति चेन्मतम् ।।
नैवं शुद्धि­प्र­मा­ण­त्वा­द्भो­ग­नि­ष्ठस्य काम्यता ।। ११२९ ।।

काम्येऽपि शुद्धिरस्त्येव भोग­सि­द्ध­र्य­र्थ­मेव सा ।।
विड्व­रा­हा­दि­दे­हेन न ह्यैन्द्रं भुज्यते फवम् ।। ११३० ।।

नित्येषु शुद्धेः प्राधा­न्या­द्भो­गोऽ­प्य­प्र­ति­ब­न्धकः ।।
भोगं भङ्गुरमीक्षन्ते बुद्धि­शु­द्ध्य­नु­रो­धतः ।। ११३१ ।।

तमे­त­मि­त्य­त­श्चो­च्चै­र्वे­दा­नु­व­च­ना­दिना ।।
विरक्ताः सर्व­सं­सा­रा­ज्जि­ज्ञा­सन्ते परं पदम् ।। ११३२ ।।

आरा­दे­वो­प­कु­र्वन्ति नित्या­न्या­त्म­वि­शु­द्धितः ।।
आत्मा­ज्ञा­ना­वि­रो­धि­त्वा­त्सा­क्षान्न त्वात्मबोधवत् ।। ११३३ ।।

त्यक्त्वा कर्मा­ण्य­तोऽ­सङ्गाः प्रत्य­क्प्र­व­ण­बु­द्धयः ।।
अपास्तरागादिमला ईक्षन्ते ज्ञं स्वमात्मनि ।। ११३४ ।।

अतोऽ­शे­ष­म­हा­न­र्थ­हे­त्वा­त्मा­ज्ञा­न­हा­नि­कृत् ।।
प्रत्य­ग्या­था­त्म्य­वि­ज्ञा­न­भा­स्क­रो­द­य­हे­तवे ।।
आरब्धेयं प्रयत्नेन वेदा­न्तो­प­नि­ष­त्परा ।। ११३५ ।।

शतानि दश चैकं च चत्वा­रिं­श­त्त­थाऽष्ट च ।।
श्लोकाः संब­न्ध­भा­ष्येऽ­स्मि­न्सं­ख्याताः संख्ययाऽखिलाः ।। ११३६ ।।