बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥संबंधभाष्यवार्तिकम् ॥ (३)
अन्योऽप्यनुभवोपायो मननध्यानलक्षणः ।।
सोपायो विहितोऽस्त्येव प्रतिपत्तिविधिं विना ।। ७६१ ।।
दर्शनस्य विधेयत्वात्तत्संबन्धोपलक्षितः ।।
प्रसंख्यानात्मकोऽत्रापि प्रयत्नोऽनुभवंं प्रति ।। ७६२ ।।
शमाद्यङ्गान्वितः सर्वमात्मेतिस्तुतिभूषणः ।।
मननाद्यर्थवत्त्वाय पश्येदिति विधीयते ।। ७६३ ।।
पश्येदिति प्रयत्नश्चेत्फलं स्याद्दर्शनं तदा ।।
लक्षणं न प्रयत्नस्य लक्षणं चेत्कथं फलम् ।। ७६४ ।।
लोके दर्शनसंबद्धं प्रसंख्यानं समीक्षितम् ।।
वेदेऽपि किं तथा तत्स्यान्न वाऽतस्तद्विधीयते ।। ७६५ ।।
सामान्येनौषधं यद्वज्ज्वरनाशोपलक्षितम् ।।
दृष्टं कष्टज्वरेऽप्येवं विशेषेणोपदिश्यते ।। ७६६ ।।
अप्यज्ञातफलं साक्षान्मान्तरैर्विधिसंश्रयात् ।।
अभावनिश्चयाभावात्प्रसंख्यानं फलाय नः ।। ७६७ ।।
पश्चादावेवमेव स्यात्संदिग्धेऽपि विनिश्चयः ।।
खपुष्पे त्वनुपायत्वान्निश्चयोऽस्ति विपर्यये ।। ७६८ ।।
एवं केचिद्व्यवस्थाप्य प्रसंख्यानविधिं पुनः ।।
ऐकात्म्यज्ञानतात्पर्यं तस्यापीच्छन्ति युक्तिभिः ।। ७६९ ।।
विधिस्वातत्रयपक्षे हि किलैकात्म्यं न सिध्यति ।।
तच्छास्रं विधिनिष्ठत्वान्न स्वरूपेऽर्थवादतः ।। ७७० ।।
अपि शास्रात्प्रपन्नोऽस्मिन्पारोक्ष्यानपहारतः ।।
तत्साक्षात्करणायैव प्रसंख्यानं विधीयते ।। ७७१ ।।
मानेन विषयासिद्धौ तद्दिदृक्षावियोगतः ।।
प्रसंख्यानविधिर्न स्यात्सहापि मननादिभिः ।। ७७२ ।।
श्रुतेर्ज्ञातात्मवृत्तान्तोऽननुभूतमपि स्वकम् ।।
स्थानकं वाञ्छतः शास्रात्प्रसंख्यानं विधीयते ।। ७७३ ।।
स्वव्यापारमुखेनैव शास्रं स्वार्थावबोधकृत् ।।
न तु व्यापारविरहान्नातो द्विकरता श्रुतेः ।। ७७४ ।।
स्वव्यापारतिरोधानं कारकाणां न च स्थितम् ।।
तस्मादैकात्म्यतात्पर्ये प्रसंख्यानादि सुस्थितम् ।। ७७५ ।।
बोधयित्वाऽपि चैकात्म्यं नान्तरा पर्यवस्यति ।।
आ पुमर्थावधेः शास्रमप्रामाण्यभयात्स्फुटम् ।। ७७६ ।।
परोक्षवृत्त्या शब्दो हि वदन्स्वार्थं स्वभावतः ।।
संभावयन्प्रमाणत्वं युक्तिं स्वीकृत्य वर्तते ।। ७७७ ।।
याथात्म्यावगमेऽशक्ता धूमोऽग्नाविव साऽपि च ।।
स्वीकृत्यैव प्रसंख्यानं युक्तिर्वस्तुनि वर्तते ।। ७७८ ।।
इत्यादिवर्त्मना शास्रं साक्षाद्वस्तु प्रसाधयत् ।।
विधिं प्रति प्रधानत्वं स्वीकृत्याभ्येति मानताम् ।। ७७९ ।।
संसर्गकल्पनाशून्यमप्यैकात्म्यं प्रबोधयेत् ।।
अनयैव दिशा शास्त्रं संसृष्टार्थाभिधाय्यपि ।। ७८० ।।
यतो वाचो निवर्तन्त इति श्रुत्यैव दर्शितम् ।।
व्यपास्ताशेषसंसर्गकल्पनं ब्रह्म निर्भयम् ।। ७८१ ।।
शास्त्रेणानभिधाने तु नियोगेऽपि न युज्यते ।।
प्रवेशो विषयत्वेन तुल्यं चोद्यमतो द्वयोः ।। ७८२ ।।
विधिं विना श्रुतैकात्म्यस्तदर्थानुभवादृते ।।
उपायाज्ञतया कुर्यात्तच्छास्रस्यार्थवादताम् ।। ७८३ ।।
विधिनिष्ठेंऽपि शास्रे स्यादसिद्धेर्वस्तुनो मितेः ।।
देवताध्यानवत्कल्प्यं फलमैकात्म्यवेदनम् ।। ७८४ ।।
प्रतिपन्नात्मयाथात्म्यः प्रसंख्यानादि नेक्षते ।।
अज्ञस्तु श्रावितोऽप्यस्माद्विना नाऽऽप्नोति तत्फलम् ।। ७८५ ।।
शास्रेऽस्मिन्वस्तुनिष्ठेऽपि प्रसंख्यानविधिं विना ।।
पुमर्थो लभ्यते नैवेत्यसावपि समाश्रितः ।। ७८६ ।।
नान्वयव्यतिरेकाभ्यामैकात्म्यानुभवो भवेत् ।।
तत्सिद्धावेव तौ स्यातां स च ताभ्यामिति श्रयः ।। ७८७ ।।
यथैव विश्वजिद्यागपदे स्वार्थानुपालनम् ।।
कुर्वती स्वर्गकामेन गच्छतः सह मानताम् ।। ७८८ ।।
तथैव शास्रतद्युक्ती स्वाभिधेयार्थपालनम् ।।
कुर्वत्यै मानतां यातः प्रसंख्यानेन नान्यथा ।। ७८९ ।।
एवमैकात्म्यतात्पर्ये शास्रस्येष्टेऽपि युक्तिभिः ।।
केेचित्कर्यमपीच्छन्ति तदर्थं, तन्न युज्यते ।। ७९० ।।
प्रमात्रादित्रयं यस्मात्संविन्मात्रवपुर्भुतः ।।
सिद्धायतेऽप्रसिद्धं सत्तत्सिद्धौ किमपेक्षते ।। ७९१ ।।
परोक्षमपि सद्वस्तु यत्साक्ष्यात्मस्वरूपतः ।।
साक्षादात्मेव चाऽऽभाति तस्मिन्पारोक्ष्यधीः कथम् ।। ७९२ ।।
अप्यज्ञानादि निःशेषप्रमेयव्यवधानकृत् ।।
स्वतः प्रसिद्धात्संसिध्येत्तदसिद्धिः कुतो भवेत् ।। ७९३ ।।
स्वमहिम्नैव यः सिद्धः सर्वप्रत्यक्तमश्च यः ।।
तत्तमोहतितः कार्यं किमन्यत्तत्प्रमाणजम् ।। ७९४ ।।
मात्रादित्रयहानेऽपि हानसाक्षितयेक्ष्यते ।।
येनासावविलुप्ताक्षस्तत्पारोक्ष्यं कथं भवेत् ।। ७९५ ।।
नियोगपक्षमाश्रित्य विध्यर्थासंभवो यथा ।।
ऐकात्म्यसिद्धौ यत्नेन तथाऽत्र प्रतिपाद्यते ।। ७९७ ।।
ऐकात्म्यस्य स्वतो मुक्तेरज्ञानात्तस्य बद्धता ।।
साध्येऽर्थे साधनापेक्षा सिद्धे तन्न व्यपेक्षते ।। ७९८ ।।
तमोमात्रान्तरायत्वादैकात्म्याख्यस्य वस्तुनः ।।
असाध्यसाधने तस्मिन्काऽपेक्षा भावनां प्रति ।। ७९९ ।।
यदाऽनुभवकामस्य कार्यं साध्यं प्रतीयते ।।
प्रसंख्याने तदैकात्म्यतात्पर्यं कथमुच्यते ।। ८०० ।।
कार्यं चान्यपरं चेति द्वयमेतद्विरुध्यते ।।
साध्यं हि सर्वदा कार्यमन्यत्तस्य प्रसिद्धये ।। ८०१ ।।
विशेषणं नियोज्यस्य भवन्ननुभवः फलम् ।।
विषयः सत्प्रसंख्यानमनुभूतेर्न साधनम् ।। ८०२ ।।
भावार्थविषयं कार्यं प्रसंख्याने कथं भवेत् ।।
आवृत्तिर्हि प्रसंख्यानं शब्दयुक्त्योरिति स्थितम् ।। ८०३ ।।
अथ श्रवणभावार्थविषयं कार्यमिष्यते ।।
तदा श्रवणमेव स्याद्विशिष्टो विषयस्तव ।। ८०४ ।।
दाक्षायणादावावृत्तेर्यत्रापि फलमुच्यते ।।
सगुणात्पैर्णमासादेः फलं तत्रापि नो गुणात् ।। ८०५ ।।
गुणो यत्रापि दध्यादिः कार्यावच्छेदको मतः।।
धात्वर्थावेशतः सोऽपि प्राप्ते चास्मिन्न तु स्वतः ।। ८०६ ।।
श्रवणादेर्न च प्राप्तिर्गुणान्न च फलं श्रुतम् ।।
पश्येदिति हि धात्वर्थः केवलो विषयः श्रुतः।। ८०७ ।।
नापि तल्लक्षितावृत्तिर्विधेया श्रुतहानतः ।।
कार्यं यन्नापि भावार्थात्तदावृत्तिगुणात्कथम् ।। ८०८।।
स्वयं प्रबोधितेऽप्यर्थे यदि युक्त्याद्यपेक्षते ।।
शास्रं सापेक्षमेवं स्यात्स्वतः प्रामाण्यवर्जनात् ।। ८०९ ।।
युक्त्यादि मान्तरं नो चेन्मानांशत्वेन तत्स्थितेः ।।
संभूय पादाः सर्वेऽपि ह्यैकात्म्यं बोधयन्ति नः ।। ८१० ।।
न संभूय यतः पादास्तैलवर्त्यग्नयो यथा ।।
मितेः स्वरूपलाभाय न तु मेयोपलब्धये ।। ८११ ।।
संभूय यदि सर्वाणि फलमेकं प्रतन्वते ।।
प्रत्येकं प्रमितेर्वृद्धिरित्येतस्यात्तदा मृषा ।। ८१२ ।।
संभूय फलकारित्वं क्रियाकारकसंगतेः ।।
स्वरूपलाभतो नान्यदभिव्यक्तावपेक्षते ।। ८१३ ।।
तैलवर्त्यग्नयो यस्मात्प्रदीपोत्पत्तिकारणम् ।।
लब्धात्मलाभो दीपोऽर्थं स्वयमेव प्रकाशयेत् ।। ८१४ ।।
शब्देन ज्ञाप्यते यद्वत्तथैव यदि युक्तिभिः।।
व्यर्थताऽथ विशेषश्चेत्संप्राप्ता भिन्नमानता ।। ८१५ ।।
स्वप्नादियुक्तिभिश्चेत्तल्लौकिकीभिः प्रसाध्यते ।।
अवैदिकं भवेद्वस्तु स्याच्च शास्रानुवादता ।। ८१६ ।।
वैदिकत्वेऽपि युक्तीनामागमार्थप्रबोधतः ।।
अनुवादत्वमेव स्यात्स्याच्च शास्रादभिन्नता ।। ८१७ ।।
आवृत्तिश्च प्रसंख्यानं कुर्यात्सातिशयं कथम् ।।
न ह्यावृत्तौ प्रमाणस्य प्रमेयेऽतिशयो यतः ।। ८१८ ।।
यत्रापि चान्धकारादिदोषात्क्रमविनिश्चयः ।।
तत्रापि भिन्नमेयत्वान्नैव संभूयमानता ।। ८१९ ।।
पूर्वं वस्त्वति विज्ञानं प्राण्ययं मानुषस्तथा ।।
पुरुषोऽयमथ श्यामो डित्थ इत्यर्थभिन्नता ।। ८२० ।।
परिच्छेदफलत्वं हि मानत्वं तच्च भिद्यते ।।
तदभावे तु पूर्वेषामुत्तरस्यैव मानता ।। ८२१ ।।
अथ मेयप्रभेदेऽपि प्रमाणैकत्वमिष्यते ।।
वस्तुग्राहितयाऽक्षादेरैकार्थ्येऽभिन्नमानता ।। ८२२ ।।
साध्यमानं प्रसंख्यानं यागवत्साधयेत्फलम् ।।
कारकं ज्ञापकं शास्रं तयोः स्यादेकता कथम् ।। ८२३ ।।
प्रमाताऽऽत्मा न मानाशो यद्ययं व्यावहारिकः ।।
परश्चेत्स प्रमेयः स्यात्कथं चानुभवः फलम् ।। ८२४ ।।
स्वरूपंं यद्यसाध्यं तस्त्वातन्त्र्येण प्रसिद्धितः ।।
तज्ज्ञानं चेत्प्रमाणं तत्तच्च शास्रान्न कार्यतः ।। ८२५ ।।
शास्रमावर्त्यमानं हि स्वभावं नैव मुञ्चति ।।
परोक्षवृत्तिर्युक्तिश्च कथं ते मितिवर्धने ।। ८२६ ।।
प्रमितेश्च प्रमेयस्य वृद्धौ वृद्धिः स्वतो न हि ।।
तस्य वृद्धिर्मितेर्वृद्धावित्यन्योन्यसमाश्रयः ।। ८२७ ।।
उत्पाद्यापि मितिं शास्रं यदि युक्त्याद्यपेक्षते ।।
स्वर्गादावेवमेव स्यात्सापेक्षं च भवेत्तदा ।। ८२८ ।।
व्यपास्तानर्थसंदर्भमात्मानमवगच्छतः ।।
किमाप्यमधिकं शास्राद्येन युक्त्याद्यपेक्षते ।। ८२९ ।।
का वा युक्तिः प्रदीपस्य सर्पाद्याकम्पनाशनम् ।।
रज्ज्वादितत्वविज्ञानं कुर्वतः स्वेन तेजसा ।। ८३० ।।
गुणप्रधानभावो हि विना नैवैकवाक्यताम् ।।
वस्तुकार्यार्थतात्पर्यभेदान्नापीह सा भवेत् ।। ८३१ ।।
न च प्रयोजनैकत्वलक्षणाऽत्रैकवाक्यता ।।
अङ्गप्रधनावद्येन कल्पेतात्रैकवाक्यता ।। ८३२ ।।
स्वतःसिद्धस्य मोक्षस्य न साध्यमुपकारकम् ।।
न चान्यथाऽङ्गता दृष्टा प्रधानानुपकारिणः ।। ८३३ ।।
आत्मलाभे न शास्रं च नित्यत्वात्कार्यमीक्षते ।।
स्वतोभिधानशक्तत्वान्नापि चैकात्म्यबोधने ।। ८३४ ।।
प्रसंख्याने च शास्रार्थे सकृदेव कृते भवेत् ।।
ऐकात्म्यानुभवो नो चेद्विसंवादादमानता ।। ८३५ ।।
न चात्र चोदितः कालः संख्या वा येन निश्चयः ।।
तद्द्वारेण भवेन्नापि संदिग्धे स्यात्पवर्तनम् ।। ८३६ ।।
आरुह्याप्यथवा दूरं विसंवादपराङ्युखः।।
यत्किंचित्कामतः कुर्यादकृतार्थोऽपवा पतेत् ।। ८३७ ।।
अदृष्टफलता वाऽपि कल्प्याऽग्निष्टोमवद्भवेत् ।।
कर्माङ्गता वा क्ल्प्या स्यादुद्गीथविधिवत्तदा ।। ८३८ ।।
ततश्च प्रातिलोम्येन कार्यं स्याच्छास्रबाधनात् ।।
अश्रद्धा च मुमुक्षूणां कार्यबाधोऽपि च स्थितः ।। ८३९ ।।
वस्तुतत्त्वानपेक्षत्वात्कार्यमात्रप्रधानता ।।
शास्राच्च वस्तुनोऽलाभात्कार्यं किंविषयं भवेत् ।। ८४० ।।
यदि तद्वस्तुयाथात्म्यं शास्रं न प्रतिपादयेत् ।।
वस्त्वसिद्धेस्ततः कार्यप्राधान्यादर्थवादता ।। ८४१ ।।
अथैकात्म्यार्थनिष्ठं सच्छास्रं स्यात्प्रतिपादकम् ।।
आपरोक्ष्यात्तदा कार्यं व्यर्थं पारोक्ष्यहानिकृत् ।। ८४२ ।।
शास्रात्कथं च तत्सिद्धिर्याथात्म्यानवबोधकात् ।।
नानश्वरूपे सिद्धेऽपि गव्यश्वस्य प्रसिद्धता ।। ८४३ ।।
शास्राच्छ्रवणमात्रेण कार्याच्चानुभवो यदि ।।
वस्तुन्यनिश्चिते वार्ता साऽर्थवादेऽपि दृश्यते ।। ८४४ ।।
ततश्च कार्यनिष्ठत्वं मुधैव परिवर्जितम् ।।
संपत्परं भवेच्छास्रं वस्तुतात्पर्यवर्जनात् ।। ८४५ ।।
न चाप्याख्यायिकारूपमनुग्राह्यं श्रुतौ मतम् ।।
आदिमत्त्वादिदुष्टत्वात्पुमर्थत्वेन वर्ण्यते ।। ८४६ ।।
पौनरुक्त्यभयाच्चात्र यद्यर्थान्तरकल्पनम् ।।
ऐकात्म्योक्तौ विधिर्व्यर्थ इति द्वैतप्रकल्पनम् ।। ८४७ ।।
न च मानेन विषये बोधितेऽन्वेषणं पुनः ।।
कार्यमुक्त्योः क्वचिदृष्टं स्वतःप्रामाण्यबाधनात् ।। ८४८ ।।
प्रत्यक्षेण घटे बुद्धे का युक्तिः कार्यमेव वा ।।
अदुष्टकारणत्वं षेत्सिद्धं वेदे नृवर्जनात् ।। ८४९ ।।
प्रत्यक्षादिविरोधश्च कार्यपक्षेऽपि तु स्थितः ।।
ऐकात्म्यानुभवो हि स्यात्कथमक्षादिबाधनात् ।। ८५० ।।
तन्निषेधात्तु या सिद्धिर्न सा कार्यप्रसादतः ।।
प्रमाणादेव शास्रात्सा न मेयात्कार्यतो भवेत् ।। ८५१ ।।
का वा कार्येऽस्ति ते युक्तिः शास्रं चेदुभयोः समम् ।।
अज्ञातज्ञापनादन्यच्छास्रान्नेति पुरोदितम् ।। ८५२ ।।
पुमर्थं प्रतिपाद्यापि प्रकृत्यैव श्रुतिः पुनः ।।
तमेव युक्तिभिः सार्धं वदन्ती स्वार्थमीक्षते ।। ७५३ ।।
नैतावताऽपराधेन युक्तयो मानकारणम् ।।
शब्दमात्रादसंसिद्धेरनपेक्षत्वहानतः ।। ८५४ ।।
न वायोः क्षिप्रकारित्वाच्छ्वेतालम्भो विभूतये ।।
विध्युद्देशात्तु तत्सिद्धेः शैघ्रयं तूक्तं प्रवृत्तये ।। ८५५ ।।
जाग्रत्स्वप्नसुषुप्तेभ्यो यदि नामातिरेकतः ।।
व्यक्तिभ्यो गोत्ववद्दृष्टं ब्रह्मत्वेऽस्य किमागतम् ।। ८५६ ।।
असिद्धं शास्रयुक्तिभ्यामावृत्त्याऽपि न सिध्यति ।।
नैव ह्यावर्तनं हेतुः प्रामाण्येऽन्येष्वनीक्षणात् ।। ८५७ ।।
न चेदृशं प्रमाणत्वं दृष्टमन्यत्र कुत्रचित् ।।
अन्यादृक्षप्रमाणस्य न च नास्त्यत्र संभवः ।। ८५८ ।।
अलौकिकार्थवादित्वादात्मब्रह्मभिधानयोः ।।
संबन्धाग्रहणादात्मा ब्रह्मेति कथमुच्यते ।। ८५९ ।।
ज्ञातार्थसंगतिः शब्दो वाक्यार्थावगमक्षमः ।।
ब्रह्मात्मार्थप्रसिद्धौ च लोकान्मानप्रवेशिता ।। ८६० ।।
नाऽऽत्मन्येवाऽऽत्मशब्दस्य प्रयोगात्स्यादलैकिकः ।।
ब्रह्मार्थेऽपि महत्त्वेन प्रसिद्धो व्यवहारतः ।। ८६१ ।।
एवं पदात्परिज्ञाते पदार्थे लोकमानतः ।।
वाक्यार्थेऽतीन्द्रियो वेदे वाक्यात्केन निवर्त्यते ।। ८६२ ।।
अपूर्वदेवतास्वर्गपदार्थेष्वपि लोकतः ।।
सिद्धेष्वतीन्द्रियोऽप्यर्थो वाक्यादेवावगम्यते ।। ८६३ ।।
नापेक्षापूरणाशक्तेः प्रयोगे समवायिता ।।
पदानां सपदार्थानां वाक्याद्व्यवहृतिर्यतः ।। ८६४ ।।
वाक्यार्थायैव वाक्यं हि सर्वदैव प्रयुज्यते ।।
व्यवहारेषु वुद्धानां संबन्धस्तत्र गृह्यते ।। ८६५ ।।
भागान्तरप्रवेेशेन भागत्यागेन च स्फुटम् ।।
वाक्यवाक्यार्थयोर्भेदे पदार्थानां निमित्तता ।। ८६६ ।।
यद्भागस्याऽऽगमाद्योऽर्थभागः स्यादधिकः क्वचित् ।।
तस्य भागस्य भागोऽसौ निमित्तं स्यान्न तु प्रमा ।। ८६७ ।।
अत एव सभागत्वं वाक्यवाक्यार्थयोर्मतम् ।।
वाचकत्वेऽपि वाक्यस्य संसृष्टार्थाभिधानतः ।। ८६८ ।।
ततश्चैवं समूहस्य वाचकत्वमवस्थितम् ।।
भगवत्त्वं च संसिद्धं वाक्यवाक्यार्थयोरतः ।। ८६९ ।।
एवं च लोकतः सिद्धो वाक्यार्थः स्याच्छ्रुतावपि ।।
लौकिका एव शब्दार्था न्यायेनोक्ताः श्रुतौ यतः ।। ८७० ।।
नृविवक्षाव्यवायेन लोके शङ्का भवेदपि ।।
वेदे त्वपौरुषेयत्वात्साक्षात्स्वार्थे प्रमाणता ।। ८७१ ।।
न च कार्यपरत्वेऽपि पदानां संहतिः स्थिता ।।
अन्यत्रावगमो न स्यात्संबन्धज्ञानवर्जनात् ।। ८७२ ।।
यथा च कार्ये तात्पर्यं कार्यं चापि न विद्यते ।।
पूर्वमेव तथाऽस्माभिर्युक्तिभिः संप्रसाधितम् ।। ८७३ ।।
अनादिवृद्धव्यवहृद्व्युत्पत्त्यैव च तस्त्थितेः ।।
शब्दस्यार्थेन संबन्ध आदिमत्ता न शङ्क्यते ।। ८७४ ।।
प्रथमश्रवणे यत्र न शब्दार्थावधारणम् ।।
तत्राव्युत्पन्नता हेतुः शब्दानां न त्वशक्तिता ।। ८७५ ।।
चक्षुर्द्रष्ट्रपि बाह्यं हि न प्रकाशं विनाऽर्थदृक् ।।
नैतावताऽस्य सामर्थ्यं हन्यतेऽन्यस्य वा भवेत् ।। ८७६ ।।
व्युत्पत्त्या न च संबन्धः क्रियते ह्व्यर्थशब्दयोः ।।
अवस्थिते हि संबन्धे वृद्धेभ्योऽसौ प्रजायते ।। ८७७ ।।
संबन्धकरणाशक्तेस्तत्कर्तुश्चास्मृतेरपि ।।
तद्विना व्यवहाराच्च सिद्धा संबन्धनित्यता ।। ८७८ ।।
जीर्णकूपादिवत्कर्तुर्यदप्यस्मरणं न तत् ।।
अभावगमकं नापि संबन्धेनास्य तुल्यता ।। ८७९ ।।
क्वचिज्ज्ञातेषु दूरादिकारणे संशयोऽपि च ।।
नात्यन्तानुपलब्धेषु त्वभावोऽतोऽस्य निश्चितः ।। ८८० ।।
संनिकृष्टार्थसंसृष्टस्वार्थमात्राभिधानतः ।।
तस्मात्सिद्धोऽन्र वाक्यार्थो लोके वेदे प्रमाणवान् ।। ८८१ ।।
अतोऽवबोधकत्वेन दुष्टकारणवर्जनात् ।।
अबाधाच्च प्रमाणत्वं वस्तुन्यक्षादिवच्छ्रुतेः ।। ८८२ ।।
पुरुषार्थोपदेष्ट्टत्वाद्यद्वत्कार्ये प्रमाणता ।।
तथैकात्म्ये विशेषाद्वा पुमर्थतिशयत्वतः ।। ८८३ ।।
पुमानिष्टस्य संप्राप्तिमनिष्टनस्य च वर्जनम् ।।
इच्छन्नपेक्षते योग्यमुपायमपि तत्परः ।। ८८४ ।।
ग्रामादि किंचिदप्राप्तं प्राप्तुमिष्टमिहेच्छति ।।
हेमादि विस्मृतं किंचित्करस्थमपि लिप्सते ।। ८८५ ।।
परिहार्ये तथाऽनिष्टं कण्टकादि जिहासति ।।
रज्ज्वां सर्पादि किंचिच्च त्यक्तमेव जिहासति ।। ८८६ ।।
नियतोपायसाध्यत्वादवाप्यपरिहार्ययोः ।।
विधितः प्रतिषेधाच्च साधनापेक्षता भवेत् ।। ८८७ ।।
अज्ञानान्तरितत्वेन संप्राप्तत्यक्तयोः पुनः ।।
याथात्म्यज्ञानतो नान्यत्पुरुषार्थाय कल्पते ।। ८८८ ।।
अशेषानर्थविच्छेदं वाञ्छतः श्रुतितः श्रुतेः ।।
त्वं ब्रह्मेति हताशेषक्लेशो मोहप्रहाणतः ।। ८८९।।
वेदस्य सिद्धे प्रामाण्ये ह्यज्ञातार्थावबोधतः ।।
कार्ये यथा प्रमाणत्वमैकात्म्येऽप्येवमिष्यताम् ।। ८९० ।।
कार्याद्यदि तु मानत्वं मानत्वात्कार्यनिष्ठता ।।
अन्योन्याश्रयतैवं स्यादेकस्यासिद्धितोऽन्यतः ।। ८९१ ।।
औदासीन्यान्निषेधेषु न लभ्येत प्रमाणता ।।
औदासीन्यं निवृत्तिर्हि स्वरूपालम्बनं च तत् ।। ८९२ ।।
सोऽरोदीत्यादिवाक्यानां कार्यावेशात्प्रमाणता ।।
अपुमर्थोपदेष्ट्टत्वात्तच्च नात्रेत्यकारणम् ।। ८९३ ।।
न चैकात्म्याभ्युपायस्य मिथ्यात्वमिह शङ्क्यते ।।
उपेयाप्तौ कृतार्थत्वादुपायं प्रत्यनीक्षणात् ।। ८९४ ।।
ऐकात्म्यप्रतिपत्तेः प्राङ्न मिथ्या हेत्वभावतः ।।
पुरुषार्थावसायित्वान्नाप्यूर्ध्वमनपेक्षतः ।। ८९५ ।।
उपेयबोधनं मुक्त्वा मितेर्नान्याऽस्ति सत्यता ।।
सत्यादप्यनुपायत्वाद्धटान्नाग्निर्हि गम्यते ।। ८९६ ।।
धूमाभासात्तु बाष्पादेर्यदग्निर्नावगम्यते ।।
हेतुस्तत्रानुपायत्वमसत्यत्वं पुनर्न तु ।। ८९७ ।।
धूमवत्परमार्थत्वमुपायत्वान्न लभ्यते ।।
वेदान्तानां तथैकात्म्यश्रुतिबाधः स्फुटोभवेत् ।। ८९८ ।।
बाष्पवन्नापि मिथ्यात्वादनुपायत्वमिष्यते ।।
एेकात्म्योबोधबाधेन सिद्धा तूपायसत्यता ।। ८९९ ।।
श्रुतेरैकात्म्यसंवित्तौ चरितार्थत्वतो मितेः ।।
वृथोपायपरीक्षा स्यादुत्तीर्णस्य प्लवे यथा ।। ९०० ।।
बाह्येष्वर्थेष्वनात्मत्वात्पुनः शङ्का भवेदपि ।।
अत्राऽऽत्मत्वादुपेयस्य का शङ्का मानतां प्रति ।। ९०१ ।।
अन्यत्रेव न चाप्यत्र वाक्यार्थो भेदलक्षणः ।।
संसर्गलक्षणो वाऽपि ब्रह्मात्माभेदतो भवेत् ।। ९०२ ।।
ब्रह्मणोऽनात्मतारूपमब्रह्मत्वं तथाऽऽत्मनः ।।
अज्ञानलक्षणं शास्राज्ज्ञानं हन्ति समुत्पतत् ।। ९०३ ।।
नेहान्यत्राऽऽत्मनो ब्रह्म तथाऽऽत्मा ब्रह्मणोऽन्यतः ।।
तादात्म्यमनयोस्तस्मान्नीलोत्पलविलक्षणम् ।। ९०४ ।।
अब्रह्मानात्मने यद्वदत्राज्ञाननिबन्धने ।।
आत्मताब्रह्मते नैवमन्यस्मादित्यतः स्वतः ।। ९०५ ।।
नाम्नोरेवं च संबन्ध ऐकात्म्यात्स्यात्क्रियां विना ।।
षष्ठीं च न क्रियाषष्ठ्योर्विना भेदात्प्रवर्तनम् ।। ९०६ ।।
महत्ता यद्वदाकाशे घटाकाशव्यपेक्षया ।।
पराक्त्वापेक्षया तद्वत्प्रत्यक्ता नाऽऽत्मनीक्ष्यते ।। ९०७ ।।
प्रत्यक्त्वमद्वितीयत्वं बोधवन्नान्यबन्धनम् ।।
अपारार्थ्यान्न बोधो हि स्यादबोधनिरासतः ।। ९०८ ।।
आत्माऽपि सदिदं ब्रह्म मोहात्पारोक्ष्यदूषितम् ।।
ब्रह्मापि संस्तथैवाऽऽत्मा सद्वितीयतयेक्ष्यते ।। ९०९ ।।
आत्मा ब्रह्मेति पारोक्ष्यसद्वितीयत्वबाधनात् ।।
पुमर्ये निष्ठितं शास्रमिति सिद्धं समीहितम् ।। ९१० ।।
ननु भेदाश्रितैर्वाक्यैर्विधायकनिषेधकैः ।।
अक्षादिभिश्च नैकात्म्यं बाधितत्वात्प्रमाणवत् ।। ९११ ।।
न चाप्यैकात्म्यशास्रस्य तैर्वेिकल्पसमुच्चयौ ।।
प्रमाण्यै नापि बाध्यत्वं तेषां तेन कथंचन ।। ९१२ ।।
विरुद्धमानभावेऽपि न हि वस्तु विकल्प्यते ।।
भेदाभेदौ न च स्यातां विरोधाद्युगपत्कचित् ।। ९१३ ।।
भिन्नाभिन्नं न वो वस्तु येन मानाविरोधिता ।।
नेह नानेति भेदानां निषेधात्कनु भेदधीः।। ९१४ ।।
वर्णादिग्रहणोपायो नापीहाक्षादि बाध्यते ।।
संस्काराय च यच्छास्रमात्मज्ञानोपकारकम् ।। ९१५ ।।
उपचारार्थतः शास्रं सावकाशं जपेऽथवा ।।
अक्षादेरकृतार्थत्वात्कथं स्यात्तेन बाधनम् ।। ९१६ ।।
उच्यते, लोरतः सिद्धं भेदमाश्रित्य चोदना ।।
प्रवृत्ता पुरुषार्थाय न तु भेदावबुद्धये ।। ९१७ ।।
भेदस्य चापुमर्थत्वात्तादर्थ्ये स्यादमानता ।।
पुमर्थत्वेन चास्येष्टं प्रामाण्यं वेदवादिभिः ।। ९१८ ।।
वस्तुस्वरूपसंस्पर्शिचक्षुरादिभ्य उत्थितम् ।।
भेदस्पृङ्नाक्षजाद्येवं न तेनैकात्म्यबाधनम् ।। ९१९ ।।
प्रमेयविषयं मानं वस्तुनश्च प्रमेयता ।।
न च भेदस्य वस्तुत्वं वस्तुतत्त्वानपेक्षणात् ।। ९२० ।।
लब्धे हि भूतलेऽलब्धो घटस्तत्र निषिध्यते ।।
मानान्तरेण विज्ञातो नाज्ञातो नाज्ञातः शून्यताप्तितः ।। ९२१ ।।
व्यञ्जकस्य समायोगो वस्तुनो वस्तुनैव हि ।।
नाभावेन निरात्मत्वाद्व्यावृत्त्या वा मितेर्भवेत् ।। ९२२ ।।
नातो वस्तुनि संभेदो वस्तुनोऽभेदरूपतः ।।
न प्रमाणाद्बहिर्वस्तु न मानं वस्तुनो बहिः ।। ९२३ ।।
नाभावयोर्मिथो योगोऽवस्तुत्वाभेदतस्तयोः ।।
अभावभावयोस्तद्वद्भावरूपेषु का भिदा ।। ९२४ ।।
अनित्यत्वस्य धर्मस्य घटादेर्धर्मिणस्तयोः ।।
संयोगः समवायो वा तादात्म्यं वेह संगतिः ।। ९२५ ।।
आधाराधेययोगेषु घटोऽत्रेति यथा मतिः।।
नाभावभावयोगेषु मितेर्धीः कस्यचित्तथा ।। ९२६ ।।
नहि भावातिरेकेण भावाभावः प्रमणभाक् ।।
भावात्मनाऽप्यतो भावो व्यवहाराय कल्पते ।। ९२७ ।।
अथाभावोऽपि वस्त्वेव नास्तीतिमितिजन्मतः ।।
द्वयोर्भावैकरूपत्वात्काऽतिशीतिर्मितेस्तयोः ।। ९२८ ।।
विश्वं सदेव यस्येष्टं तस्याभावः कुतो मितेः ।।
न च भावातिरेकेण भाववत्सिद्धिमश्नुते ।। ९२९ ।।
अभावयोगं भावश्चेत्सहवे नीलयोगवत् ।।
अविरोधादभावेन न भावापह्नुतिर्भवेत् ।। ९३० ।।
योगोऽयं वस्तुनोर्दृष्टः पृथक्सिद्धौ परस्परम् ।।
मेषयोर्मल्लयोर्यद्वन्न भावाभावयोस्तथा ।। ९३१ ।।
न योगोऽभावयोर्दृष्टो वन्ध्यासूनुखपुष्पयोः ।।
न भावाभावयोरेवं विरोधादितरेतरम् ।। ९३२ ।।
क्षितिदेशे घटाभावो घटवन्न प्रमीयते ।।
योगो वा समवायो वा नाभावक्षितिदेशयोः ।। ९३३ ।।
सदात्मतैवं सर्वस्य, नाभावात्मकता सतः ।। ९३४ ।।
अप्यभावात्मकत्वेऽपि सतोऽभावात्मकत्वतः ।।
कुतो भेदावकाशः स्याद्भेदेऽसति कुतो युतिः ।। ९३५ ।।
यावत्किंचिज्जगत्यस्मिन्भेदकं वस्तु लक्ष्यते ।।
अनापन्नादिमध्यान्तं सदेव तदितीष्यते ।। ९३६ ।।
सदेवेदमिति स्पष्टं सन्मूला इति चापरम् ।।
श्रुत्योदाहारि नः साक्षात्सदैकात्म्यावबुद्धये ।। ९३७ ।।
मानाभावस्य मानत्वं मेयाभावस्य मेयता ।।
न्यायं न सहतेऽतीव यथा तदधुनोच्यते ।। ९३८ ।।
बोधकं यदबुद्धस्य तन्मानमिति हि स्थितिः ।।
न च प्रमाणनास्तित्वमीदृक्तस्मान्न युज्यते ।। ९३९ ।।
मेयाभावः प्रमाणानां यद्यभावेन गम्यते ।।
प्रमाणानामभावस्य गमकः को भविष्यति ।। ९४० ।।
नाक्षादिपञ्चकं तस्य बोधकं सत्समन्वयात् ।।
नयतस्तदभावो वा, मेयत्वेनैव तत्स्थितेः ।। ९४१ ।।
नीलादिवदभावस्य यद्यक्षादिविशेषणम् ।।
विशेषणेन तद्व्याप्तेस्तदभावः कुतो मितेः ।। ९४२ ।।
अथाविशेषणोऽभावो भवद्भिरभिधीयते ।।
मेयाभावस्य मानत्वमविशेषात्प्रसज्यते ।। ९४३ ।।
घटाद्यभाव इत्युक्तिर्न सम्यगिति मे मतिः ।।
पदानामसमर्थत्वाद्विरोधाद्वस्तुनोर्मिथः ।। ९४४ ।।
भावाभावाख्यपदयोः सामर्थ्ये चेत्समासता ।।
घटादिनाऽनपेक्षत्वान्न समासः प्रसिध्यति ।। ९४५ ।।
भावस्याभाव इत्यत्र षष्ठ्यर्थः कतमो मतः।।
न कश्चिदपि संबन्धो नीरूपस्यासदात्मनः ।। ९४६ ।।
वस्त्वन्तरमभावश्चेदन्यदन्यद्भवेत्कथम् ।।
अन्योऽपि च्चेद्भवेदन्योऽविरोधो नीलवद्भवेत् ।। ९४७ ।।
संगतावविरोधी चेन्न संबन्धिनिवृत्तिकृत् ।।
न संबन्धिग्रहाभावे संबन्धोऽयं प्रसिध्यति ।। ९४८ ।।
संबन्धिविरहेऽसिद्धौ षष्ठ्यर्थत्वं न सिध्यति ।।
विरोधाद्युगपन्नापि विधानप्रतिषेधनम् ।। ९४९ ।।
क्षणिकत्वाद्धियां नापि स्थायिधर्मः क्रमो भवेत् ।।
अनीलाभावपृष्टेन नापि नीलस्य वेदनम् ।। ९५० ।।
नाह्यदृश्यनिषेधः स्याद्धटादेरिव भूतले ।।
नान्याभावविशिष्टत्वं कृत्स्नाभावगतौ भवेत् ।। ९५१ ।।
अन्याभावस्य भावत्वे स्यादभावः खपुष्पवत् ।।
भावान्तरमभावश्चेत्सिद्धं वस्तु ततः स्वतः ।। ९५२ ।।
तद्ग्राहीणि च मानानि व्यावृत्तिः केन गम्यते ।।
चित्रेऽपि विषये चित्रमेकं वस्त्वेकमानतः ।। ९५३ ।।
प्रत्येकं नीलपीतादिग्रहणे चित्रता कुतः ।।
घस्तुनो भेगरूपत्वे वस्त्वभावः प्रसज्यते ।। ९५४ ।।
अन्यधर्मे त्वभिन्नं स्यात्स्वतो वस्तु प्रमाश्रयम् ।।
भिन्नाभिन्नं विरुद्धत्वान्नैकमानस्य गोचरः ।। ९५५ ।।
वस्त्वात्मनाऽविरोधश्चेद्वस्त्वेव विषयस्ततः ।।
सत्यं वस्तु कथं भिन्द्यात्पुंव्यपेक्षाविनिर्मितः ।।
भेदः, पुत्रादिभावे तु जन्यत्वं वस्तुकल्पितम् ।। ९५६ ।।
दाहपाकप्रकाशादिभेदेऽप्यग्नेरभिन्नता ।।
कार्यतोऽपि न भेदः स्याद्वस्त्वभेदव्यवस्थितेः ।। ९५७ ।।
विभिन्नकार्यकर्त्रीणां शक्तीनां यद्वदाश्रयः ।।
न विरुद्धोऽग्निरेकोऽपि तद्वत्कार्येऽपि किं न ते ।। ९५८ ।।
घटाभावे घटः सिध्येत्पटाभावे पटस्तथा ।।
अन्योन्याभावदृष्टेः स्यादन्योन्याश्रयता तव ।। ९५९ ।।
प्रत्यक्षत्वं पृथक्त्वस्य गुणत्वाद्यैरपीष्यते ।।
तेषामपि गुणे मानं नीलवन्न त्ववस्तुनि ।। ९६० ।।
अथ वस्तु पृथक्त्वेन विशिष्टं गम्यते तदा ।।
शुक्लो शौरितिवन्मानं वस्तुन्येव न भेदगम् ।। ९६१ ।।
अभेदेनैव वर्तेत पृथक्ता यदि वस्तुषु।।
वस्त्वेव तत्ततोऽन्या चेदपृथग्वस्तु तर्हि ते ।। ९६२ ।।
भावाभावपृथक्ताऽपि यद्यभिन्ना ततोऽपृथक् ।।
भावाभावविभिन्ना चेत्पृथक्ता न परस्परम् ।। ९६३ ।।
अन्यापेक्षं पृथक्त्वं चेत्स्वयं तर्ह्यपृथग्घटः ।।
द्विधर्मत्वेऽपि वस्त्वेतदेकं स्यादुत्पलादिवत् ।। ९६४ ।।
धर्मबुद्धिप्रभेदेऽपि धर्म्यभेदः सदेष्यते ।।
अतो गवादेर्भेदेऽपि सन्मात्रमवसीयते ।। ९६५ ।।
गोत्वादिमेयपक्षेऽपि सद्रूपस्यानपायतः ।।
वस्त्वेव मेयं गोत्वादि शाबलेयादिवत्स्फुटम् ।। ९६६ ।।
सद्रूपत्वापरित्यागादवान्तरनिबन्धनाः ।।
व्यवहाराः प्रतीयन्ते सत्तत्त्वं तेष्ववस्थितम् ।। ९६७ ।।
सत्तातोऽपि न भेदः स्याट्ट्रव्यत्वादेः कुतोऽन्यतः ।।
एकाकारा हि संवित्तिः सट्ट्रव्यं सन्गुणस्तथा ।। ९६८ ।।
समवायाच्च संबन्धे नैकरूप्यं विभिन्नयोः ।।
तच्चेत्ततो न विश्वासो, जातावप्येकबुद्धितः ।। ९६९ ।।
संसर्गधर्मता नापि भेदेनानुपलम्भनात् ।।
समवायेन संबन्धे को हेतुरिति नेष्यते ।। ९७० ।।
संयोगश्चेद्वियोगोऽपि समवायेऽनवस्थितिः ।।
स्वतश्चेत्कल्पना व्यर्था द्रव्यस्याप्येकता स्वतः ।। ९७१ ।।
सत्तावगुण्ठिताश्चैते सर्वे भावाः सदैव हि ।।
व्यवहाराय कल्पन्ते भ्रान्तो भेदः सदैव तु ।। ९७२ ।।
येषामपि हि सामान्यभेदवद्वस्तु गृह्यते ।।
तेषामपि कुतो भेदो वस्त्वैक्याद्धर्म्यभेदतः ।। ९७३ ।।
अपि भेदेन या बुद्धिः स्यात्सामान्यविशेषयोः ।।
साऽपि तन्मात्रनिष्ठत्वान्नैव भेदस्पृगिष्यते ।। ९७४ ।।
एकं चेद्भिन्नता नास्ति भेदश्चेदेकता कुतः ।।
चित्रेऽप्यनुगमाभावान्न सामान्यविशेषता ।। ९७५ ।।
स्वरूपपररूपाभ्यां यदा सदसदात्मकम् ।।
वस्त्वेकं मानविषयभावस्ते तदा कुतः ।। ९७६ ।।
प्रत्यक्षादिनिवृत्तिश्चेत्तस्याः किं रूपमुच्यताम् ।।
स्तैमित्यमात्मनश्चेत्स्यात्तद्वस्त्वेवास्मदीहितम् ।। ९७७ ।।
अथ वस्त्वन्तरज्ञानं नितरां तस्य वस्तुता ।।
भावान्तरमभावोऽपि निरूपाख्यः स नेष्यते ।।
तस्माद्वस्त्वेकनिष्ठत्वान्न भेदोऽक्षादिगोचरः ।। ९७८ ।।
घटोऽयमिति संवित्तेर्घटो मेयः प्रतीयते ।।
न व्यावृत्तिः पटादीनामताद्रूप्यात्तथा पटे ।। ९७९ ।।
घटाभावो विरोधित्वान्न घटेऽर्थान्तरेऽपि न ।।
अषष्ठ्यर्थतया तस्माद्विकल्पोऽयं, न वस्तुगः ।। ९८० ।।
घटो हि संविदं कुर्वन्नात्माकारविशेषणम् ।।
आत्मानं लभते तद्वद्व्यावृत्तिं न पटादितः ।। ९८१ ।।
पटसंवेदनेऽप्येवं पटमात्रं विशेषणम् ।।
ईक्षतेऽत्राधिकं नान्यदभावादि यदुच्यते ।। ९८२ ।।
संदिग्धनिश्चयाद्येवं ज्ञानधर्मो विशेषयन् ।।
संविदं भिद्यते मेयात्प्रत्येकं भेदधीर्न तु ।। ९८३ ।।
तथाऽहमेव जानामि माता नान्य इतीदृशाः ।।
मातृधर्माः प्रसिध्यन्ति विशिषन्तः स्वसंविदम् ।। ९८४ ।।
संविदेका स्वतःसिद्धआ प्रत्यग्रूपैकलक्षणा ।।
भावाभावदिरूपाय व्यवहाराय कल्पते ।। ९८५ ।।
अतोऽनुभवमुल्लङ्ध्य न भेदो नाप्यभिन्नता ।।
तत्पृष्ठेन तु मानानि विरोधः किंसमाश्रयः ।। ९८६ ।।
अविज्ञातः प्रमाणानांं विषयो वादिनां मतः ।।
न तस्य मानतः सिद्धिस्तत्सिद्धेः प्राक्प्रमागमात् ।। ९८७ ।।
अमानकं कथं च स्यादज्ञातत्वमिहोच्यताम् ।।
कथं वा तद्विना मानं विषयासंभवाद्भवेत् ।। ९८८ ।।
अज्ञातत्वक्षतिं कुर्वन्मानं मानत्वमश्नुते ।।
मानादज्ञातता चेत्स्यान्न सा तत्फलमिष्यते ।। ९८९ ।।
अतोऽनुभवतो लब्धमज्ञानं ज्ञापयत्सदा ।।
प्रत्यक्षादि प्रमाणं स्यान्न स्वतो नापि चान्यतः ।। ९९० ।।
नाज्ञासिषमहं पूर्वमित्येवं प्रमिते घटे ।।
पूर्वाज्ञातत्वविषयो भूयोऽप्यनुभवो यतः ।। ९९१ ।।
प्रवृत्तं विषये मानमवच्छेदफलं मतम् ।।
ज्ञाताज्ञाते प्रति त्वस्य न व्यापारोऽप्रमाणतः ।। ९९२ ।।
सर्वोऽप्यनुभवात्सिद्धां बालोऽप्यज्ञाततां स्वतः।।
न किंचिज्जान इत्यवं पृष्टो वक्ति प्रमां विना ।। ९९३ ।।
निःशेषकरणग्रामलयेऽप्यनुभवः स्वतः ।।
अलुप्तदृक्सुषुप्तेऽपि जाग्रद्बोधाविशेषतः ।। ९९४ ।।
अत्यन्ताननुभूतेषु हिमवत्पृष्ठवस्तुषु ।।
जाग्रतोऽनुभवोऽप्येवं सुषुप्तान्न विशिष्यते ।। ९९५ ।।
न चात्रानुभवो लुप्तो न जानामीति बोधनात् ।।
अदृष्टमपि दृष्ट्वाऽस्ति बोधो नाज्ञासिषं त्विति ।। ९९६ ।।
पुमान्सुप्तोत्थितोऽप्येवं प्रमात्रादिलयं स्वतः ।।
अनुभूत्यैव संधत्ते नान्तराऽतोऽस्य लुप्तता ।। ९९७ ।।
न चेदानींतनाद्बोधाद्बोधाभावगतिर्भवेत् ।।
सौषुप्ती, नहि बोधस्य कालभेदेन भिन्नता ।। ९९८ ।।
बोधादेव प्रसिध्यन्ति कालावस्थादयो यतः ।।
मातृमानादयश्चापि कुतस्तैरस्य विक्रिया ।। ९९९ ।।
प्रमातृमानतन्मेयेष्वागमापायिषु त्रिषु ।।
अलुप्तानुदितो बोधः प्रथते प्रत्यगेकलः ।। १००० ।।
अभितोऽनुभवाक्रान्ता ज्ञाताज्ञातत्वभूमिषु ।।
नान्यत्रार्थाः प्रसिध्यन्ति लीयन्ते नाप्यनात्मनि ।। १००१ ।।
अतोऽनुभव एवैको विषयोऽज्ञातलक्षणः ।।
अक्षादीनां स्वतःसिद्धो यत्र तेषां प्रमाणता ।। १००२ ।।
तेनानुभवसिद्धानां लोकेऽज्ञानविघातिनाः ।।
मात्वमक्षादयो यान्ति नाज्ञातज्ञाततोऽन्यथा ।। १००३ ।।
घटादयः प्रमासिद्धा मुञ्चन्त्यज्ञाततां न तु ।।
स्वतःसिद्धोऽपि वस्तुत्वान्मुञ्चत्यात्मा प्रमां विना ।। १००४ ।।
प्राग्बाधकागमात्सिद्धिर्लौकिकस्यापि वस्तुनः ।।
वस्तुतत्त्वबलादेव तत्तमोव्यवधानतः ।। १००५ ।।
कृतस्नमात्राद्युपादानतमोबोधस्तु बोधतः ।।
तत्त्वमस्यादिवाक्योत्थात्पूर्णैकात्म्यस्वलक्षणात् ।। १००६ ।।
तेनाऽऽगमस्य तत्र स्यादज्ञातत्वविघातिनः ।।
प्रमाणत्वं पुमर्थश्च स एऴ विदुषां मतः ।। १००७ ।।
ननु दुर्वारसंसारदुःखसंदर्भहानतः ।।
किमन्यत्सुखमिष्टं स्याद्यस्याऽऽप्तेः पुरुषार्थता ।। १००८ ।।
लोकेऽपि व्याधिसंतापविच्छित्तौ सुखितेक्ष्यते ।।
व्यतिरिक्तसुखार्था च न प्रवृत्तिर्विरागिणाम् ।। १००९ ।।
असंवेद्यं सुखं नापि पुमर्थो न च कर्मता ।।
स्वरूपे वेद्यवेत्तृत्वायोगाद्दूैतप्रसङ्गतः ।। १०१० ।।
नैवं भेदेन संसिद्धे सुखदुःखे कथं तयोः ।।
ऐक्यं सुखस्य विच्छेदो दुःखं वा किं न कल्प्यते ।। १०११ ।।
अदुःखिनोऽपि दृश्यन्ते सुखप्राप्तीच्छया यतः ।।
तदुपाये प्रवर्तन्तस्तदभेदे न युज्यते ।। १०१२ ।।
चन्दनादिसुखोपायसंपन्नाः सुखिनोऽप्यलम् ।।
पुत्रजन्मादिवार्ताभिः प्राप्नुवन्ति सुखान्तरम् ।। १०१३ ।।
पुत्राद्यप्राप्तिरूपं च दुःखं तत्र न कल्प्यते ।।
असंवित्तेरवेद्यं हि न दुःखं वैरिदुःखवत् ।। १०१४ ।।
तिर्यञ्चोऽप्यत एवेह कामयन्ते सुखं तथा ।।
अप्रियं विजिहासन्ति न तु जानन्ति साधनम् ।। १०१५ ।।
वेदोऽपि शुद्धमात्मानं सुखं मुख्यं प्रदर्शयन् ।।
अनात्मानं तथा दुःखं पुमर्थत्वेन संमतः ।। १०१६ ।।
तदेतत्प्रेय इत्यादिवाक्येभ्योऽनेकधा श्रुतम् ।।
तथाऽऽत्मनस्तु कामाय तस्मान्नान्यत्सुखं भवेत् ।। १०१७ ।।
पुरुषार्थाभिसंबन्धाद्विरागित्वं यथाऽऽश्रितम् ।।
परानन्दाभिलाषोऽपि तथा चेत्किं निषिध्यते ।। १०१८ ।।
आत्यन्तिकसुखेच्छायां यदि रागित्वमुच्यते ।।
विविक्तदेशसेवादाविच्छायां किं न रागिता ।। १०१९ ।।
अथ ये शतमित्यादिवाक्यैरेतत्प्रपञ्चितम् ।।
एष ह्येवेति च व्यक्तं तैत्तिरीयश्रुतावपि ।। १०२० ।।
स्वानन्दाभिमुखः स्वापे वोध्यमानोऽत एव च ।।
पीड्यते स्त्र्यादिसंपर्कसुखविच्छेदतो यथा ।। १०२१ ।।
आनन्दैकस्वभावत्वाद्वेद्यता तत्र नार्थ्यते ।।
निःसंबोधेऽर्थ्यते सा हि न तु बोधैकलक्षणे ।। १०२२ ।।
अधिकारस्य सौलभ्यप्रतिपत्त्यर्थमीरणम् ।।
सर्वपुंसामिति तथा पूर्वमेव प्रपञ्चितम् ।। १०२३ ।।
स्वर्गादिकाम्यपि यतो मुक्तिं कामयते न तु ।।
मुक्तिं कामयमानोऽन्यत्कटाक्षेणापि वीक्षते ।। १०२४ ।।
सर्वेषामपि च नृणामधिकारोऽनिवारितः ।।
यतोऽतः सर्वतो ऩ़ृणामिति भाष्यकृदब्रवीत् ।। १०२५ ।।
शुक्लां गामानयेत्युक्ते कांचिद्गोकर्मिकां क्रियाम् ।।
कुर्वाणमभिवीक्ष्याज्ञः कुरुते कारणानुमाम् ।। १०२६ ।।
ज्ञातं ध्रुवमनेनैतद्यद्गोकर्मकमीक्ष्यते ।।
प्रागज्ञातस्य निर्वत्तिर्न यतो विक्ष्यते कच्चित् ।। १०२७ ।।
यद्यर्थं कारकाधीनं दृष्ट्वा तत्कारणानुमा ।।
प्रमाणान्तरगम्यत्वाल्लोकिकत्वं तदाऽऽपतेत् ।। १०२८ ।।
न चेत्कारकतन्रोऽर्थो ज्ञातस्यानुष्ठितिः कथम् ।।
न सिद्धो नापि चाभावः कारकापेक्ष ईक्ष्यते ।। १०२९ ।।
आरभ्ये कारकत्वे न बलात्प्रामाण्यमापतेत् ।।
व्यङ्ग्ये तु कार्ये वेदस्य सिद्धेऽर्थे मानता भवेत् ।। १०३० ।।
वाक्यस्य च प्रमाणत्वं नाप्यभावैकगोचरम् ।।
न चेदभावः कार्योऽर्थेः सिद्धेऽर्थे मानता भवेत् ।। १०३१ ।।
अथोभयात्मकं कार्यं सिद्धासिद्धस्वभावकम् ।।
उक्तदोषद्वयासक्तिर्न च वस्तवीदृशं क्वचित् ।। १०३२ ।।
सिद्धस्य व्यञ्जकं मानं न मानं कारकं क्वचित् ।।
चोदना मानकं चेत्तत्कथं कार्यं तदुच्यताम् ।। १०३३ ।।
मतं विषयसंसिद्ध्या कार्यमित्याभिधीयते ।।
यागसिद्धेः पुराऽसिद्धेः कथं चोदनया मितम् ।। १०३४ ।।
प्राक्प्रयोक्त्रभिसंसिद्धौ किं फलं यागसिद्धितः ।।
यागसिद्ध्याऽपि तत्सिद्धौ प्रयोज्यत्वं कुतो यजेः ।। १०३५ ।।
यागाद्यनुष्ठितेरस्य घटादेरिव चेन्मतः ।।
उपकारो नियोगस्य कथं न घटतुल्यता ।। १०३६ ।।
अपुमर्थे नियोगे च तात्पर्यं स्यात्तथा सति ।।
प्रतिर्थिनि पुमर्थे तत्सुधीभिर्गृह्यते कथम् ।। १०३७ ।।
लिङादिश्रवणात्पुंसः कार्यं यत्प्रसमीक्ष्यते ।।
उपकाराद्यपेक्षं तद्वक्तृकर्त्रोः प्रसिध्यति ।। १०३८ ।।
न चेत्संभाव्यते कर्त्रा पुमर्थः कस्यचिद्विधेः ।।
आज्ञोक्तेरेव न तदा कश्चिज्जगति चेष्टते ।। १०३९ ।।
आज्ञार्थमात्रसिद्ध्यर्थं न कश्चित्स्ववशो नरः ।।
दुःखात्मके मनो धत्ते यागादौ चोदनावशात् ।। १०४० ।।
पुमर्थमभिसंधाय यागादावथ चेष्टते ।।
फलं प्रवर्तकं प्रापन्न नियोगस्तथा सति ।। १०४१ ।।
मन्त्रोक्तेरिव लोडादेः प्रवृत्तिरिति चेन्मतम् ।।
प्रायश्चित्ती भवेन्नैव तत्पराधीनवृत्तितः ।। १०४२ ।।
प्रवर्तकत्वं मन्त्रस्य न प्रवर्त्यवशाद्यथा ।।
स्वत एव न यागादेः कार्यासिद्धिस्तथा भवेत् ।। १०४३ ।।
कारकं वा क्रिया वा स्याद्यदि वा स्यात्क्रियाफलम् ।।
तस्य लौकिकमासिद्धेर्लौकिकत्वं प्रसज्यते ।। १०४४ ।।
ऐकात्म्यवस्तुनिष्ठे तु यथोक्तन्यायवर्त्मना ।।
न कश्चिदपि दोषः स्याद्वचस्यस्मिन्मनागपि ।। १०४५ ।।
नेति नेत्यादिवाक्येभ्यो योऽर्थोऽनन्यानुभूतिगः ।।
लौकिकत्वं कथं तस्य सर्वमेयातिलङ्धिनः ।। १०४६ ।।
इत्युक्तमभिसंधाय दृष्टादिवचनं जगौ ।।
लोकिकत्वप्रसिद्धर्यर्थं नियोगस्य घटादिवत् ।। १०४७ ।।
आस्तां वेदान्तमानत्वं त्यक्तं तत्कामतस्तव ।।
वस्तुन्युक्तेर्न चेन्मात्वं कर्मकाण्डेऽपि तद्भवेत् ।। १०४८ ।।
भविष्यद्देहसंबन्धी वाक्यादात्मा न चेन्मितः ।।
मानान्तराच्च कः कुर्याददृष्टार्थाः क्रियाः सुधीः ।। १०४९ ।।
नापि सांख्यप्रमासिद्धमात्मानमवगच्छतः ।।
देहाद्यनभिसंबन्धात्प्रवृत्तिः स्यात्क्रियास्विह ।। १०५० ।।
कर्मकाण्डेऽधिकार्यस्मिन्याट्टक्संभाव्यतेऽञ्चसा ।।
ताट्टक्संप्रतिपत्त्यर्थं न चासतीति भण्यते ।। १०५१ ।।
कर्मभ्यः फलमिच्छद्भिरट्टष्टं ट्टष्टमेव वा ।।
देहावस्थान्तरावेशे प्रमाणं वाच्यमात्मनः ।। १०५२ ।।
कथं च तस्य कर्तृत्वं व्यापित्वान्निष्क्रियत्वतः ।।
न चाकर्तुः फलं गौण्या वृत्या चेत्सुतरां न तत् ।। १०५३ ।।
मुख्यकर्तृत्वपक्षेऽपि ह्यनिर्मोक्षः प्रसज्यते ।।
मानेन नाश्यतेऽज्ञानं, ज्ञापकं हि न कारकम् ।। १०५४ ।।
देहान्तराभिसंबन्धो भावित्वान्नाक्षगोचरः ।।
लिङ्गसाट्टश्यविराहान्नानुमा नोपमा तथा ।। १०५५ ।।
शब्दादात्मनि संसिद्धे पूर्वोक्तन्यायतो न च।।
श्रुतार्थापत्तिरप्यत्र नाभावो मानभावतः ।। १०५६ ।।
न चाहंप्रत्ययात्सिद्धिरात्मनः स्यात्कदाचन ।।
बोधानुभवसंवित्तिवित्तयो ह्यात्मवाचिनः ।। १०५७ ।।
यस्यानुभवसिद्ध्यैव सिद्धिः स्याद्वटसिद्धिवत् ।।
ततोऽहंप्रत्ययात्सिद्धिमीक्षतेऽनुभवः ।। कथम् ।। १०५८ ।।
मानादनुभवः सिद्धो जडः स्याद्धटवन्न चेत् ।।
नैरपेक्ष्यं चिदात्मत्वे,स्याच्चान्योन्यसमाश्रयः ।। १०५९ ।।
आत्मनोऽहंधियः सिद्धिरात्मसिद्धिरहंमते ।।
अन्योन्याश्रयतैवं स्यादहंबुद्ध्यात्मनोर्ध्रुवम् ।। १०६० ।।
अहंधीरात्मनः कार्यं कारणेनाऽऽप्यते सदा ।।
तया तस्य कथं व्याप्तिरव्याप्तौ मेयता कथम् ।। १०६१ ।।
क्रियाकाले गुणीभावात्क्रियासिद्धावसंभवात् ।।
कर्तुः प्रमेयता न स्यादहंबुद्ध्या कथंचन ।। १०६२ ।।
संविद्रूपे प्रमेये च संविदन्या फलं भवेत् ।।
न च संविद्धूयाभासो नानुमेयं फलं क्वचित् ।। १०६३ ।।
घटाद्याकारसंविद्वच्छुद्धायामपि संविदि।।
संविद्विशिष्टा संवित्स्यान्न चासावात्मनीक्ष्यते ।। १०६४ ।।
प्रमातरि च मेये स्यात्फलं कस्येति भण्यताम् ।।
न मातुस्तस्य मेयत्वान्नापि मेये फलं क्वचित् ।। १०६५ ।।
जडत्वात्तत्र मेयस्य फलं मातरि चेन्मतम् ।।
मेयतो जडताऽत्रापि संविच्चेन्न प्रमाणजा ।। १०६६ ।।
धर्मत्वेनाप्यहंबुद्धेर्न भेदो धर्मिणाऽऽत्मना ।।
रूपं द्रव्यात्मनो नान्यट्ट्रसादेस्तद्विभिद्यते ।। १०६७ ।।
द्रव्यादि चाऽऽत्मनो रूपं प्रमेयं यदुदीरितम् ।।
घटवत्तदहंबुद्धेः प्रत्यग्वृत्तेर्न गोचरः ।। १०६८ ।।
अस्मत्प्रत्ययसंभिन्नं प्रत्यक्कर्तरि वेदनम् ।।
ज्ञानस्य यदुपन्यस्तं विशेषस्तत्र नेक्ष्यते ।। १०६९ ।।
ज्ञानबोधेन नैवाऽऽत्मा मितो, नाप्यात्मसंविदा ।।
ज्ञानं, न च द्वयंं, भेदादभेदेऽनुभवः स्वतः ।। १०७० ।।
किं प्रमाणमहंरूपमुताऽऽत्मैवेति कथ्यताम् ।।
प्रत्यक्षत्वान्न तन्मानं नाऽऽत्मा, स्वार्थजडत्वतः ।। १०७१ ।।
न चाप्यात्मन्यविज्ञातेऽहंबुद्धेः सिद्धता तव ।।
येनाऽऽत्मा स्यादहंबुद्धेरनुमेया हि सा स्थिता ।। १०७२ ।।
निरंशस्य न चाप्यंशकल्पनाऽप्युपपद्यते ।।
स्वात्मतन्रे च विषये मानबोधः सदा भवेत् ।। १०७३ ।।
अज्ञातत्वं विना मानं नाहंप्रत्यय आत्मनः ।।
अज्ञातत्वमतो वाच्यमात्मनोऽत्र घटादिवत् ।। १०७४ ।।
तस्याप्यनुभवात्सिद्धिर्यद्युच्येत घटादिवत् ।।
सिद्ध आत्मा पृथङ्यातुर्नो चेन्माता न सिध्यति ।। १०७५ ।।
प्रमाणसंप्लवोऽप्युक्तो दूरादेव निवर्तितः ।।
अन्यत्रापि हि मानानां नैव संप्लवं इष्यते ।। १०७६ ।।
अज्ञातावगमे यद्वत्प्रमातर्यर्पितं फलम् ।।
न मेये पूर्वमानेन तद्वन्मानान्तरैरपि ।। १०७७ ।।
अतोऽनधिगतावेशात्सर्वेषां संप्लवः कुतः ।।
मान्तरैरवबुद्धेऽपि ज्ञातेऽप्यज्ञाततोऽन्यतः ।। १०७८ ।।
अथाप्यवगमो मेये तथाऽपि स्यान्न संप्लवः ।।
पूर्वोऽनधिगते वृत्तः प्रत्ययोऽधिगते परः ।। १०७९ ।।
पूर्वेण निश्चिते चेत्स्यान्नोत्तरस्य प्रमाणता ।।
तथा संदेह एकस्मादन्यस्माद्धि विनिश्चयः ।। १०८० ।।
निःसामान्यविशेषेषु नातः संप्लव इष्यते ।।
यथाऽन्यत्र तथेहापि वेदान्तेष्वभ्युपेयताम् ।। १०८१ ।।
यतो मानानि सिध्यन्ति जाग्रदादित्रयं तथा ।।
भावाभावविभगश्च स ब्रह्मास्मीति बोध्यते ।। १०८२ ।।
यतोऽसिद्धानि सिध्यन्ति, भावाभावौ यदाश्रयौ, ।।
योऽनन्यार्थो यदर्थं च सर्वं, योऽनन्यट्टक्सदा ।। १०८३ ।।
प्रमेयादित्रयं यस्मात्परस्परविलक्षणम् ।।
आत्मानं लभते सत्यः सोऽध्यक्षोत्राभ्युपेयताम् ।। १०८४ ।।
असंकुचितचित्पद्मः प्राज्ञे स्वप्नप्रबोधवत् ।।
तथा प्रफुल्लबोधाब्जः प्राज्ञवत्स्वप्नबोधयोः ।। १०८५ ।।
साक्ष्यसंबन्धतः साक्षी न स्वतः साक्षिताऽऽत्मनः ।।
प्रत्यङ्यात्रैकट्टष्टित्वाद्धियां वाचामगोचरः ।। १०८६ ।।
अस्मत्पक्षे हि कर्तव्यमविद्यामात्रकल्पितम् ।।
तदभावान्न संसारो भूतो भावी न वर्तते ।। १०८७ ।।
स्वाभाविक्यप्यविद्येयमनुभूत्याऽवभासिता ।।
तमः सूर्योदयेनेव ज्ञानेनोत्कृत्य नाश्यते ।। १०८८ ।।
अनादिकालमज्ञानं ज्ञानेनाऽऽदिमता क्षणात् ।।
दृश्यते नाश्यमानं हि न चास्याऽऽवृत्तिरीक्ष्यते ।। १०८९ ।।
एवंभूतोऽप्ययं प्रत्यक्स्वात्मानुभवसंश्रयात् ।।
व्युत्पत्तेः प्रागविज्ञातः सर्वाज्ञानादिसाक्ष्यपि ।। १०९० ।।
तत्त्वमस्यादितस्तस्मादागमादेव नान्यतः ।।
ऐकात्म्यवस्तुनः साक्षाद्व्युत्पत्तिरविचीलिनी ।। १०९१ ।।
तस्यास्य कर्मकाण्डेन संबन्ध इति यः पुरा ।।
प्रश्नस्तन्निर्णयार्थाय सर्वथेत्यादिरुत्तरः ।। १०९२ ।।
ननु सिद्धे यथोक्तार्थे नाऽऽरम्भे हेतुरीक्ष्यते ।।
कृत्स्नप्रयोजनावाप्तेः पूर्वोक्तैरेव कर्मभिः ।। १०९३ ।।
नैतदेवं सुखेप्साया जिहासायाश्च दुःखतः ।।
निदानस्यानिषिद्धत्वात्पूर्वोक्तैः कर्मभिः पुरा ।। १०९४ ।।
निःशेषाहलादसंप्राप्तिः सर्वानर्थनुतिस्तथा ।।
सर्वेषां प्राणिनामेतत्स्वत इष्टं प्रयोजनम् ।। १०९५ ।।
आत्मनस्तचत्त्वमेतच्च सिद्धं चैतन्यवद्यतः ।।
अथैष, यो वै भूमेतिश्रुतिमानानुभूतितः ।। १०९६ ।।
स्वर्गशब्दाभिधश्चायं पुमर्थो यो यथोदितः ।।
स्वर्गमित्यादिभिर्वाक्यैस्रय्यन्तेष्वपि गीयते ।। १०९७ ।।
स्वर्गं पुमर्थमुद्दिश्य सर्वप्राणभृतामियम् ।।
वाङ्यनःकायचेष्टा स्याद्याऽपि तत्साधनोपगा ।। १०९८ ।।
उत्पत्त्याद्यर्थनिष्ठानां सर्वेपामपि कर्मणाम् ।।
स्वर्गे नैवाधिकारोऽस्ति तस्य सिद्धत्वतः स्वतः ।। १०९९ ।।
स्वात्मसाध्यातिरेकेण सर्वमेव हि साधनम् ।।
नालं साध्यान्तरायेह किम्वसाध्यार्थसिद्ध्ये ।। ११०० ।।
यथोक्तपुरुषार्थस्य यद्यप्याप्तस्वभावता ।।
आत्मस्वभावतो नाऽऽप्तिस्तथाऽप्यज्ञानहेतुतः ।। ११०१ ।।
अविद्याव्यवधानस्य नाऽऽत्मज्ञानातिरेकतः ।।
प्रध्वस्तिः कर्मभिः कर्तुं शक्या तेषाममानतः ।। ११०२ ।।
व्यञ्जकं विरहय्यान्यत्साधनं कारकात्मकम् ।।
तदभिव्यक्तये नालं स्वतःसिद्धस्य वस्तुनः ।। ११०३ ।।
कर्मभिर्नापनीतोऽतः प्रत्यङ्भ्योहोऽप्रमाणतः ।। ११०४ ।।
यावच्च सम्यग्विज्ञानवह्निनाऽसौ न दह्यते ।।
न तावत्किं चिदप्याप्तं सुखं दुःखविवर्जितम् ।। ११०५ ।।
नालं विमुक्तये काम्यं यदि नाम तथाऽपि तु ।।
पुंसो वैराग्यहेतुत्वादुपकार्येव तन्मतम् ।। ११०६ ।।
असह्यदुःखफलतः स्वकार्यविनिवृत्तिकृत् ।।
विरक्तिहेतुतः कर्म प्रतिषिद्धं यथा तथा ।। ११०७ ।।
अपि काम्यं कृतं सर्वं दुःखात्मकफलत्वतः ।।
आविरिञ्च्यात्स्वकार्येभ्यः स्यादेव विनिवृत्तये ।। ११०८ ।।
इ्त्युक्तप्रतिपत्त्यर्थमाजगामोत्तरं वचः ।।
एकवाक्यत्वमेवं च वेदस्य स्यादसंशयम् ।। ११०९ ।।
दक्षिणोदगधोगत्या प्रत्यगज्ञानमूढधीः ।।
ब्रम्भ्रमीत्यनिशं दुःखी पुमान्कर्मपुरःसरः ।। १११० ।।
काम्यैर्दक्षिणमन्वेति ज्ञानयुक्तैस्तथोत्तरम् ।।
निषिद्धैश्चाप्यधोजन्म कर्मसंभारसंभृतकः ।। ११११ ।।
धर्माधर्मांशसाम्ये च मनुष्यत्वं प्रपद्यते ।।
ब्रह्माद्या स्थावरान्तैवं प्रत्यगज्ञानहेतुजा ।।
नामरूपेहचित्राऽऽद्या स्वप्नमायेन्द्रजालवत् ।। १११२ ।।
धर्माधर्माद्युपादानसाधना नश्वरी गतिः ।। १११३ ।।
व्याकृतं नामरूपाभ्यां यद्यपीदं श्रुतौ श्रुतम् ।।
आत्मतत्त्वानभिव्यक्तेर्नाभिव्यक्तं तदुच्यते ।। १११४ ।।
अविद्यातिमिरोच्छित्तौ नानाविष्कृतमण्वपि ।।
कार्यकारणवद्वस्तु नानपास्तं तमोऽप्यतः ।। १११५ ।।
यत एवमतः प्रत्यग्याथात्म्यप्रतिपत्तये ।।
प्रारब्धेयं प्रयत्नेन वेदान्तोपनिषत्परा ।। १११६ ।।
यथोक्तफलसिद्ध्यर्थमारब्धोपनिषद्यदि ।।
ब्रह्म वा इदमित्यादि कस्मान्नाऽऽरभ्यतेऽधुना ।। १११७ ।।
येषामनधिकारोऽत्र ह्यश्वमेधक्रतौ भवेत् ।।
इत एव तु विज्ञानातेषां तत्फलकीर्तनम् ।। १११८ ।।
कर्मगोचरतैवात्र विज्ञानस्यापि चेन्मतम् ।।
विकल्पश्रवणान्मैवं कर्मणा विद्ययाऽथवा ।। १११९ ।।
यजते योऽश्वमेधेन यश्चैवं वेद तं क्रतुम् ।।
फलं तुल्यं तयोर्युक्तं कर्मिणो विदुषस्तथा ।। ११२० ।।
उपास्तेरपि कर्मत्वादश्वमेधक्रतोरिव ।।
नातो धियोऽर्थवादत्वं तद्विधेर्नितरां न च ।। ११२१ ।।
एतावदेव चेदत्र भवतैवं विवक्षितम् ।। ११२२ ।।
प्रयोजनं तत्सुकरं विध्युद्देशेऽपि भाषितुम् ।।
विद्याप्रकरणे तस्य त्वाम्नायः किमितीर्यताम् ।। ११२३ ।।
सोऽपि ज्ञानेन संयुक्तो हयमेधो महाक्रतुः ।।
संसारफल एवेति प्रवृत्त्यङ्गतयोच्यते ।। ११२४ ।।
प्रत्यग्बोधातिरेकेण साधनान्तरनिस्पृहाः ।।
निर्ज्ञाताशेषकर्मोत्थफलफल्गुत्वबुद्धयः ।। ११२५ ।।
मुमुक्षवः प्रवर्तेरन्कथं नामाऽऽत्मवेदने ।। ११२६ ।।
संसारफलता काममस्तु काम्यस्य कर्मणः ।।
नित्यानामफलत्वात्तु मुक्तिरेवास्तु तत्फलम् ।। ११२७ ।।
न ह्युत्सर्गेण सर्वेषां फलवत्त्वस्य संश्रवात् ।।
कर्मणा पितृलोकादि नित्यानामेव तत्फलम् ।। ११२८ ।।
फलवत्त्वे हि नित्यानां काम्यत्वमिति चेन्मतम् ।।
नैवं शुद्धिप्रमाणत्वाद्भोगनिष्ठस्य काम्यता ।। ११२९ ।।
काम्येऽपि शुद्धिरस्त्येव भोगसिद्धर्यर्थमेव सा ।।
विड्वराहादिदेहेन न ह्यैन्द्रं भुज्यते फवम् ।। ११३० ।।
नित्येषु शुद्धेः प्राधान्याद्भोगोऽप्यप्रतिबन्धकः ।।
भोगं भङ्गुरमीक्षन्ते बुद्धिशुद्ध्यनुरोधतः ।। ११३१ ।।
तमेतमित्यतश्चोच्चैर्वेदानुवचनादिना ।।
विरक्ताः सर्वसंसाराज्जिज्ञासन्ते परं पदम् ।। ११३२ ।।
आरादेवोपकुर्वन्ति नित्यान्यात्मविशुद्धितः ।।
आत्माज्ञानाविरोधित्वात्साक्षान्न त्वात्मबोधवत् ।। ११३३ ।।
त्यक्त्वा कर्माण्यतोऽसङ्गाः प्रत्यक्प्रवणबुद्धयः ।।
अपास्तरागादिमला ईक्षन्ते ज्ञं स्वमात्मनि ।। ११३४ ।।
अतोऽशेषमहानर्थहेत्वात्माज्ञानहानिकृत् ।।
प्रत्यग्याथात्म्यविज्ञानभास्करोदयहेतवे ।।
आरब्धेयं प्रयत्नेन वेदान्तोपनिषत्परा ।। ११३५ ।।
शतानि दश चैकं च चत्वारिंशत्तथाऽष्ट च ।।
श्लोकाः संबन्धभाष्येऽस्मिन्संख्याताः संख्ययाऽखिलाः ।। ११३६ ।।