बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ प्रथमाध्यायस्य चतुर्थं ब्राह्मणम् ॥ (१)
ज्ञानकर्मफलं चैतत्कर्मकाण्डप्रचोदितम् ।।
आत्मैवेत्यादिशास्रेण सृष्ट्यादौ कर्तृतोच्यते ।। १ ।।
जगदुत्पत्तिसंहारस्थित्यादौ जगदात्मनः ।।
क्रियाधीफलभूतस्य स्वातन्त्र्यमुपवर्ण्यते ।। २ ।।
स्तुत्याऽनया च वेदोक्तक्रियाज्ञानस्तुतिर्भवेत् ।।
कृता विवक्षितं त्वत्र सर्वमप्येतदीरितम् ।। ३ ।।
वैदिकं साधनं ज्ञेयं ज्ञानकर्मात्मकं पुरा ।।
महानर्थफलायैव न मोक्षायेति निश्चितिः ।। ४ ।।
वैदिकं साधनं सर्वमविद्योत्थत्वकारणात् ।।
तीव्रानर्थफलायेति ब्रह्मविद्याधिकारतः ।।
विवक्षितोऽर्थो यत्नेन तद्वैराग्यविधित्सया ।। ५ ।।
यतोऽविरक्तः संसारान्नाऽऽत्मज्ञानाय कल्पते ।।
तदेतदात्मतत्त्वं हि पदनीयमितीरणात् ।। ६ ।।
पुत्रादिभ्यस्तथा प्रेयानिति वक्ष्यति सादरम् ।। ७ ।।
वेदोक्तं निखिलं पुंसः सत्त्वशुद्धिफलं स्मृतम् ।।
कर्म ध्यानादिकं यत्नाच्छ्रेयोर्थिभिरनुष्ठितम् ।। ८ ।।
सम्यक्संशुद्धधिषणः संसारं वेत्ति तत्त्वतः ।।
दृष्टसंसारतत्त्वश्च वैराग्यं संसृतेर्व्रजेत् ।। ९ ।।
आविरिञ्चाद्विरक्तो हि संसारान्निविवृत्सति ।।
न चोक्तज्ञानकर्मभ्यः सा निवृत्तिः प्रसिध्यति ।। १० ।।
वाह्मनःकायकर्मभ्यस्तत्साध्यकटुकत्वतः ।।
व्युत्थायानर्थनिःसारसाधनान्यनुमार्गति ।। ११ ।।
नित्यान्यपि च कर्माणि तत्संस्कारफलाश्रयात् ।।
परित्यजति सर्वाणि कृत्स्नसंसारदोषदृक् ।। १२ ।।
संसारवह्निजं दुःखं संभावयति ना परम् ।।
भूयो दुःखं किमन्यत्स्यान्नित्यानुष्ठानहानितः ।। १३ ।।
मुक्तेर्बिभ्यत इत्यादि तथाच श्रुतिशासनम् ।।
तन्मूला च स्मृतिः साक्षाद्वेदानित्यादिका स्फुटा ।। १४ ।।
अविज्ञातं परं तत्त्वं जनिमत्कारणं श्रुतौ ।।
आन्त्यात्कार्यात्तदेव स्यात्सर्वकार्यविशेषणम् ।। १५ ।।
तेन तेनाऽऽत्मकार्येण स्वात्माभासतमोवधिः ।।
विशिष्टः समृजे विष्णुस्तेजोबन्नादि मायया ।। १६ ।।
अविद्ययाऽस्य स्रष्ट्वत्वं कूटस्थस्यापि सर्वदा ।।
यथावस्तुधियः सूतेः प्राङ्नित्यं तेन तन्मतम् ।। १७ ।।
ज्ञानकर्मादितन्त्रं सत्सूवं जज्ञे ततो विभोः ।।
ज्ञानक्रियाशक्तिमद्यद्यत्रेदं जगदाहितम् ।। १८ ।।
विराडपि ततो जातस्रैलोक्यात्मकदेहवान् ।।
यथोक्तज्ञानकर्मभ्यां मनोर्जन्म ततोऽपि च ।। १९ ।।
या महाप्रलयात्सृष्टिः सा विरिञ्चस्य वक्ष्यते ।।
आन्तरप्रलयाद्या तु विराजोऽधीयमुच्यते ।। २० ।।
स वै शरीरी प्रथमः स वै पुरुष उच्यते ।।
आदिकर्ता स भूतानां ब्रह्माऽग्ने समवर्तत ।। २१ ।।
प्रत्यग्भूतः परार्थेभ्यो योऽनन्यानुभवं प्रति ।।
प्रथते स इहाऽऽत्मेति जगत्यस्मिन्निगद्यते ।। २२ ।।
आत्माभासैकसंसिद्धेस्तदज्ञानसमुद्भवम् ।।
आत्मैव भण्यते मोहात्तदात्माव्यतिरेकतः ।। २३ ।।
एवेत्यवधृतावेतदात्मीयार्थनिषेधकृत् ।।
मन्वादि जन्मनः पूर्वमात्मैवेदमभूज्जगत् ।। २४ ।।
अध्यात्मादिविभागे स्यादात्मात्मीयादिभेदधीः ।।
तस्मिन्नसति सा न स्यादपेक्षाविरहाद्विभोः ।। २५ ।।
मिथोपास्तव्यपेक्षं हि नामरूपादिमज्जगत् ।।
प्रत्यह्मात्रप्रमाणं स्यात्पराङेवैति चित्रताम् ।। २६ ।।
अपामार्गलतेवायं विरुद्धफलदो भवः ।।
प्रत्यग्दृशां विमोक्षाय संसाराय पराग्दृशाम् ।। २७ ।।
व्याकृताव्याकृतं विश्वं प्रत्यक्प्रत्ययमात्रकम् ।।
मोहोत्थाहमितिज्ञानाद्भयारत्यादिमद्भवेत् ।। २८ ।।
अहंममेतिविज्ञानं विद्यया ध्वंमितं यदा ।।
तदाऽद्वये दृशौ दृष्टे न भयादि तमोहतेः ।। २९ ।।
इदं धीनामगम्यं यच्चित्रं सत्प्रथते हिरुक् ।।
मन्वादि सृष्टेस्तत्पूर्वमात्मैवाभूदिदं जगत् ।। ३० ।।
एतावद्वास्तवं वृत्तं मोहोत्थं भण्यतेऽधुना ।।
कोशपञ्चकतां यातः प्रत्यगज्ञानतो यतः ।। ३१ ।।
स एष परमोऽप्यात्मा कामाविद्याद्युपप्लवात् ।।
संवृत्तः पुरुषाकार इत्यनुक्रोशतीव नः ।। ३२ ।।
आनन्दाद्यन्नपर्यन्तान्कारणेतररूपिणः ।।
पुरुषादिप्रकारांस्तान्प्रत्यक्तत्त्वानलक्षयत् ।।
पुरुषविध इत्युक्त्या ह्यूर्ध्वं चैवं प्रवक्ष्यते ।। ३३ ।।
वाह्मनःप्राणकोशांस्रीन्विराडन्नमयः स्वयम् ।।
तद्धेदमिति चाऽऽनन्दो नैवेहेति तथोच्यते ।। ३४ ।।
अग्निर्मूर्धेति च तथा मन्त्रेणापि प्रकाशितः ।।
सामानाधिकरण्यं च तद्धेदमिति युक्तिमत् ।। ३५ ।।
पृथिव्याद्यक्षरान्तश्च प्रश्नो वाचक्नवस्तथा ।। ३६ ।।
प्रत्यग्दृष्ट्यनुविद्धाहंप्रत्ययैकप्रमाणकः ।।
सोऽनुवीक्ष्याऽऽत्ममोहोत्थदृष्ट्याऽविद्योत्थरूपकम् ।। ३७ ।।
यदभ्यस्तं पुराऽस्याभूदहमेवेदमित्यदः ।।
दर्शनं तदपेक्ष्यायमनुशब्दः प्रयुज्यते ।। ३८ ।।
अहमेवेदमस्मीति दर्शनं यत्सुभावितम् ।।
तत्फलं यत्तदन्वीक्ष्य नाऽऽत्मनोऽन्यद्ददर्श सः ।। ३९ ।।
तस्मादर्थान्तरासूतेरेकपिण्डात्ममात्रतः ।।
नापश्यदपरं किंचित्सोऽहमित्यभ्यधादथ ।। ४० ।।
त्रैलोक्यात्मकदेहात्मा नापश्यदपरं पृथक् ।।
भिन्नार्थानभिसंवन्धात्प्रतीच्येवास्य धीरभूत् ।। ४१ ।।
सशब्दं दर्शनं यादृक्प्रागभ्यस्तं तथैव सः ।।
व्याजहार फलावस्थो ह्यहमित्यात्मवाचकम् ।। ४२ ।।
उपासनार्थं नामास्य तस्योपनिषदित्यतः ।।
अतोऽहमित्यनेनैव ह्यात्मनाऽऽत्मानमभ्यधात् ।। ४३ ।।
अहमित्यभ्यधादग्रे यस्मादात्मानमात्मना ।।
अहंनामाभवत्तस्माद्विराडेष प्रजापतिः ।। ४४ ।।
तत्कार्यगेण लिङ्गेन ज्ञापयन्कारणाभिधाम् ।।
तस्मादपीति वक्त्येतां प्रसिद्धिं लोकसाक्षिकीम् ।। ४५ ।।
यथोक्तमहिमः कस्मात्संवृत्तः पुरुषो विराट् ।।
इतिहेतूपदेशाय स यदित्यादि भण्यते ।। ४६ ।।
मिथो जिगीषतां पुंसां ज्ञानकर्मादिसाधनैः ।।
पुरा देवात्मतां योऽगात्प्लुष्टास्तेनेतरे जिताः ।। ४७ ।।
वैराजपदसंप्रेप्सोर्यजमानमहाजनात् ।।
एनांस्यौषद्यतोऽग्रेऽतः संवृत्तः पुरुषाभिधः ।। ४८ ।।
औषत्स्वान्पाप्मनः पूर्वं ज्ञानाद्यतिशयाग्निना ।।
वैराजपदलिप्सुभ्यस्तेनासौ पुरुषाभिधः ।। ४९ ।।
यथोक्तोपासनफलं वक्ष्यामीत्युत्तरं वचः ।।
ओषतीत्यादिकं ज्ञेयं वेदोपासीत यः सदा ।। ५० ।।
योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।।
सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्वभौ ।। ५१ ।।
पुरुषोऽस्मीत्युपास्त्यर्थं पुरुषार्थोऽयमुच्यते ।।
ओषतीत्युक्तितः साक्षाद्गुणोपास्तिफलश्रवात् ।। ५२ ।।
अभिष्टुतं प्रयत्नेन फलं यज्ज्ञानकर्मणोः ।।
एवंमहिममप्येतत्संसारं नात्यवर्तत ।। ५३ ।।
प्रत्यग्याथात्म्यविज्ञानविरहादन्यसाधनः ।।
यावत्किंचित्फलं नादः सर्वानर्थनिवृत्तये ।। ५४ ।।
निरस्तातिशयं कर्म ज्ञानं चाऽऽप्यापि बालवत् ।।
यतोऽबिभेदविद्यावानतोऽसावस्मदादिवत् ।। ५५ ।।
न ह्यविद्यामनादाय वस्तुयाथात्म्यसंश्रयात् ।।
कश्चिद्बिभेत्यबिभेच्च तेनाविद्वान्प्रजापतिः ।। ५६ ।।
प्रत्यग्याथात्म्यविद्यैव निःशेषपुरुषार्थकृत् ।।
इत्येतत्प्रतिपत्त्यर्थं विराट्स्थानस्य कुत्सनम् ।। ५७ ।।
यतोऽविभेद्विराद्पूर्वमेकाक्यस्मीति मूढवत् ।।
तस्मात्तत्कार्यभूतोऽज्ञ एकाक्यद्य बिभेति ना ।। ५८ ।।
एवं भयाभिभूतः स ईक्षांचक्रेऽथ लोकवत् ।।
भयाहेतु यथातत्त्वदर्शनं कृतवान्विभुः ।। ५९ ।।
स्रजीव कल्पिताहिर्ना तत्र्रासादाकुलेन्द्रियः ।।
आलोचयेद्यथातत्त्वं भीध्वस्तौ तद्वदीश्वरः ।। ६० ।।
आलोचयन्यथातत्त्वमपास्तध्वान्ततद्भवम् ।।
अनन्यानुभवं साक्षाद्ददर्शैकात्म्यमात्मनि ।। ६१ ।।
प्रत्यग्याथात्म्यविज्ञानशिखिप्लुष्टमहत्तमाः ।।
आप्ताशेषपुमर्थोऽथ सोऽमन्यत ततो विराट् ।। ६२ ।।
देहेन्द्रियमनोबुद्धिभावाभावादिसाक्षिणम् ।।
प्रत्यञ्चं मदिति प्राह तदृष्ट्या नेक्षते द्वयम् ।। ६३ ।।
प्रतीच्येव यदेहाऽऽत्मा प्रत्यगात्मानमीक्षते ।।
अन्वयव्यतिरेकाभ्यां ब्रह्मस्मीति तदेक्षते ।। ६४ ।।
प्रत्यग्दृष्ट्या तदज्ञानतज्जं नैवेक्षते स्वतः ।।
ब्रह्मप्रतीचोरैकात्म्यात्तदूरीकृत्य गर्जति ।। ६५ ।।
प्रत्यक्तां मदिति प्राह त्वन्यन्नास्तीति चैकताम् ।।
कस्मादिति च हेतूक्तिर्भीत्याचिक्षिप्सया परम् ।। ६६ ।।
प्रत्यक्ता ब्रह्मणो यस्माद्ब्रह्मता चाऽऽत्मनः स्वतः ।।
एवं सति कुतो मे भीरिति विद्वांस्रपायते ।। ६७ ।।
ब्रह्मविद्यामृते नान्यद्भयहेतुविनाशकृत् ।।
संभाव्यमिति नः प्राह तत एवेति च श्रुतिः ।। ६८ ।।
प्रत्यगज्ञानमेवैकं भीतिहेतुर्भवेद्यदि ।।
तत एवेति वचनं तदेवं स्यात्समञ्जसम् ।। ६९ ।।
कस्माद्ध्यभेष्यदिति च पूर्वोक्तार्थसमर्थनम् ।।
श्रुत्याऽकारि कुतो भीतिर्ध्वस्ताज्ञानतदुद्भवे ।। ७० ।।
प्रजापतेराविरभूत्कुत एकत्वदंर्शनम् ।।
शास्राचार्यादितद्धेतोरसत्त्वात्तदसंभवः ।। ७१ ।।
अन्यानपेक्षं तदभूदिति चेन्नैवमिष्यते ।।
अस्मदादेरपि तथा प्रसङ्गः स्यान्न चेक्ष्यते ।। ७२ ।।
मतं जन्मान्तराभ्याससंस्कारोत्थमिदं यदि ।।
नैरर्थक्यप्रसक्तिः स्यात्सम्यग्ज्ञानस्य सर्वतः ।। ७३ ।।
दग्धाशेषान्तरायस्य विराजोऽपि महत्तमः ।।
नाधाक्षीदात्मविद्या नः काऽऽशाऽविद्यापनुत्तये ।। ७४ ।।
अन्त्य एव तमोघाती प्रत्ययश्चेन्मतं यदि ।।
स्यादनैकान्तिको हेतुरन्यान्त्येष्वसमीक्षणात् ।। ७५ ।।
नान्त्योऽविद्यापनुद्बोध इति सर्वत्र गम्यताम् ।।
ऐकात्म्यवस्तुबोधित्वादुपान्त्यप्रत्ययो यथा ।। ७६ ।।
स्याद्वा सत्साधनोत्पत्तेर्लोकवज्ज्ञानमात्मनः ।।
यथेह कार्यकरणैः पुण्यकर्मोद्भवैर्नृणाम् ।। ७७ ।।
प्रज्ञा मेधा स्मृतिः स्थैर्ये ज्ञानादाववसीयते ।।
वैशारद्यं तथैव स्याद्विराजोऽपि महाधियः ।। ७८ ।।
ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः ।।
ऐश्वर्यं चैव धर्मश्च सहसिद्धमिति स्मृतिः ।। ७९ ।।
सहैव सिद्धं चेज्ज्ञानं भीतिहेतोरसंभवः ।।
ध्वान्तापध्वंसिरविणा न तमः सह जायते ।। ८० ।।
नैवमन्योपदेशार्थप्रतिषेधपरत्वतः ।।
सहसिद्धगिरस्तस्मान्नैष दोषः प्रसज्यते ।। ८१ ।।
श्रद्धातात्पर्यशुश्रूषाप्रणिपातादि साधनम् ।।
विद्याजन्मैकहेतूनां वैफल्यं चेन्न तद्यतः ।। ८२ ।।
गुणवद्दोषवद्रूपविकल्पितसमुच्चितम् ।।
विद्याजन्मैकहेतुत्वाल्लोकवत्स्यात्समञ्जसम् ।। ८३ ।।
रूपादिज्ञानसंभूतौ तद्धेतूनामनेकधा ।।
विकल्पो दृश्यते लोके तथेहापीति निश्चितिः ।। ८४ ।।
गुणवद्दोषवत्त्वं च तथैव च समुच्चयः ।।
प्रबोधोत्पत्तिहेतूनां दृष्टो बोधादिकार्यकृत् ।। ८५ ।।
वृषदंशादयो रात्रौ नेत्रगोचरसंगति -
मात्रेण रूपं वीक्षन्ते नापेक्षन्ते ततोऽपरम् ।। ८६ ।।
अतीतानागताद्यर्थज्ञानोत्पत्तौ च हेतुताम् ।।
योगिनां मन एव स्यादस्माकं सर्व एव तु ।। ८७ ।।
दोषवद्गुणवत्त्वेन विकल्पोऽनेकधा पुनः ।।
मातृमानप्रमेयाणां गुणावद्दोषवत्त्वतः ।। ८८ ।।
नातिक्रान्तभवे त्वासीह्ब्रह्मविद्या प्रजापतेः ।।
इत्येतद्गम्यतेऽविद्याभयारत्यादिमत्त्वतः ।। ८९ ।।
विद्यायां चेन्न मोक्षोऽभूत्कस्याऽऽशा नो वृथा भवेत् ।।
मोक्षे भयश्रुतेर्नार्थस्तत्र को मोह इत्यतः ।। ९० ।।
एकाकिनो विराजो वाऽविद्यासंवीतचेतसः ।।
पूर्वजन्मोत्थसंस्काराद्भयमाविरभूदिह ।। ९१ ।।
भयप्रध्वंसिनं हेतुमीक्षांचक्रेऽथ जातभीः।।
मत्तो यन्नान्यदस्तीति ह्यथ कस्माद्विभेम्यहम् ।। ९२ ।।
एक एवाहमस्मीह द्वितीयाद्धि भयोत्थितिः ।।
द्वितीयो न मदन्योऽस्ति कस्माद्धोतोयं मम ।। ९३ ।।
तत एव विराडैक्यविज्ञानादेव तद्भयम् ।।
वीयाय न परज्ञानादतोऽरतिरपीष्यते ।। ९४ ।।
एकाक्यस्मीतिविज्ञानात्र्रैलोक्यात्मैकगोचरात् ।।
अगाद्भयं यतोऽतोऽभूदरतिस्तस्य कामिनः ।। ९५ ।।
सम्यग्विज्ञानविध्वस्तावविद्यायाः कुतोऽरतिः ।।
ध्वस्तान्ध्यस्यापि सा चेत्स्यादनिर्मोक्षः प्रसज्यते ।। ९६ ।।
नाविद्याघातिविज्ञानाद्भयध्वस्तिरभूद्विभोः ।।
अरत्युद्भूतिलिङ्गेन ह्ययमर्थोऽवसीयते ।। ९७ ।।
न चेहावसरोऽस्त्यस्य सम्यग्ज्ञानस्य कश्चन ।।
पिण्डसृष्टौ प्रवृत्तायां नाकस्माज्ज्ञानगीः शुभा ।। ९८ ।।
प्रक्रियानुचितं वस्तु सुसाध्वपि समीरितम् ।।
अकालकुसुमानीव नैव प्रीतिकरं सताम् ।। ९९ ।।
मिथुनारतिमोहादेः प्रत्यग्याथात्म्यवेदिनः ।।
आगमैस्तु निषिद्धत्वात्कुतस्तस्येह संभवः ।। १०० ।।
आत्मक्रीड आत्मरतिक्रियावानिति चाऽऽगमः ।।
तथाऽऽत्ममिथुन इति यस्त्वात्मरतिरित्यपि ।। १०१ ।।
कार्यकारणसंबन्धः साविद्यस्यैव युक्तिमान् ।।
अपूर्वानपराद्युक्तेर्न ध्वस्तान्ध्यस्य युज्यते ।। १०२ ।।
अप्युत्पन्नात्मबोधानामधिकारासमाप्तितः ।।
अरत्यादि यथा दृष्टं तथैव स्यात्प्रजापतेः ।। १०३ ।।
अप्रविष्टस्वभावस्य सशब्देन परिग्रहात् ।।
स एष इत्यत्र वाक्ये नैवाऽऽकस्मिकशब्दनम् ।। १०४ ।।
असंतोषाक्षमाहेतोश्चेतसो याऽनवस्थितिः ।।
सा विध्वस्तात्ममोहस्याप्यरतिः संबभूव ह ।। १०५ ।।
यतोऽरतिग्रहग्रस्तधिषणोऽभूत्प्रजापतिः ।।
एकाकी तेन तत्सृष्टावेको न रमते नरः ।। १०६ ।।
श्रौत्वाऽनया प्रसिद्ध्या तु कार्यलिङ्गेश्च कारणम् ।।
सदाऽनुमिन्वते सांख्यास्तथा चान्येऽपि वादिनः ।। १०७ ।।
अरत्यपनुनुत्सुः सन्स द्वितीयं यथारूचि ।।
विराडैच्छदृतेऽविद्यां नेच्छेशस्योपपद्यते ।। १०८ ।।
सोऽरत्यतिग्रहाविष्टस्तदपध्वस्तये विराट् ।।
संसक्तजायापुंमानो यावांस्तावान्वभूव ह ।। १०९ ।।
स्रीपुमांसौ परिष्वक्तौ यावन्मानौ बभूवतुः ।।
स तावत्परिमाणोऽभूद्योगेन परमेश्वरः ।। ११० ।।
इच्छामात्रमरत्युत्थं पुंस्यलब्धस्थिति स्रियम् ।।
प्रयुङ्के योग्यतस्तस्यास्तदलब्ध्वाऽरतिः प्रभोः ।। १११ ।।
उपस्थिते च मनसि तस्य योषिदभूत्क्रतोः ।।
सत्यसंकल्पहेतोः स स्रीसक्त इव चाभवत् ।। ११२ ।।
मिथुनद्वारिका याऽस्य सृष्टिः सैवैधुनोच्यते ।।
यतोऽसाविममेवाथ द्विधाऽऽत्मानमपातयत् ।। ११३ ।।
इममेवेत्यवधृतेर्न विराजो द्विधाऽभिधा ।।
यः स्रीपुंस्परिमाणोऽभूत्स एवातो द्विधाकृतः ।। ११४ ।।
पातनादेव निर्वृत्तेः पतिपत्न्यौ जगत्यपि ।।
योषिद्विदलवद्भाति पुंसः शुक्त्यादिभागवत् ।। ११५ ।।
स्त्याकाङ्क्षो हि तु भागोऽयं पुमाकाशस्ततः स्रिया ।।
सम्यगापूर्यते व्योम शुक्तिसंपुटवद्ध्रुवम् ।। ११६ ।।
विराजममृजद्ब्रह्मा सोऽसृजत्पुरुषं विराट् ।।
पुरुषं तं मनुं विद्धि यस्येयं मानवी प्रजा ।। ११७ ।।
तां स्रियं मैथुनेनाथ मनुः समभवत्तदा ।।
स्वकर्मभिर्नियुक्तः संस्तथा चोत्पाद्य कर्मभिः ।। ११८ ।।
भूरिजात्यभिसंबन्धो जन्यकर्मवशात्स्रियाः ।।
मनोश्चैवं समर्जेदमापिपीलिकमात्मनः ।। ११९ ।।
द्वंद्वयुक्तं जगत्यस्मिन्यावत्किंचित्समीक्ष्यते ।।
तदस्राक्षीन्मनुः सर्वे स्रीपुंद्वंद्वप्रयोगतः ।। १२० ।।
मनोः सशतरूपस्य पिण्डसृष्टिरिहोदिता ।।
सोमाग्नीन्द्रादिका याऽपि साऽप्युक्तवदपेक्ष्यसः ।। १२१ ।।
जगत्सृष्ट्वाऽऽत्मनः साक्षाज्ज्ञानकर्मादिसाधनः ।।
अवेत्सृष्टं जगत्स्रष्टा ह्यहं वावाखिलं जगत् ।। १२२ ।।
अहं वाव जगत्सृष्टं यतोऽसृक्ष्यहमेव तत् ।।
सृष्टिनामा मनुर्जात एतस्मादेव कारणात् ।। १२३ ।।
यथा मनुरिदं सृष्टमहमस्मीत्यबुध्यत ।।
एवमन्योऽपि यो वेद सृष्टिकृत्स्यादसावपि ।। १२४ ।।
मृष्टानामथ भूतानामग्न्यादिप्रमुखा इमाः ।।
अनुग्रहीत्रीर्वक्ष्यामीत्यतः प्रववृते श्रुतिः ।। १२५ ।।
भेदादधिकृतेरेषामग्न्यादीनामनेकधा ।।
भेदो वर्णेष सर्वेष ब्रह्मक्षत्र्रादिलक्षणः ।। १२६ ।।
अनुग्राहकदेवानां सर्गोऽयं प्रस्तुतो महान् ।।
तत्राग्नेरुदितोत्पत्तिर्न त्विन्द्रादेरिहोत्यते ।। १२७ ।।
अविद्याधिकृतौ तेषां सृष्टिरूर्ध्वे प्रवक्ष्यते ।।
कर्माधिकृतिसंबन्धप्रतिपत्त्यर्थमेव तु ।। १२८ ।।
तं सर्गमुक्तवत्सर्वमपेक्ष्येहोपसंहृतिः ।।
अविद्वद्देवताभित्तिप्रतिषेधाय सांप्रतम् ।। १२९ ।।
गुणोत्पत्तिक्रियारूपस्तुतिनामाद्युपाधिभिः ।।
विभित्सन्ति स्वतोऽभिन्नां देवतां मूढदृष्टयः ।। १३० ।।
यदिदं कर्मिणः प्राहु कर्मभूमावमेधसः ।।
अमुमग्निममुं सोमं यजेति यजिसंश्रवात् ।। १३१ ।।
यजेति लिङ्गान्निन्दैषा कार्मिणामेव गम्यते ।।
न तु विध्वस्तमोहानां प्रत्यङ्भात्रैकशायिनाम् ।। १३२ ।।
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।।
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ।। १३३ ।।
उत्पन्नैकात्म्ययाथात्म्यभास्वद्विज्ञानभास्कर -
संप्लुष्टाविद्याबहुलतमसां कर्मनिह्नुतिम् ।। १३४ ।।
सर्वकर्माधिकाराणां निषेधं प्रत्यपीपदत् ।।
पुराणः शाश्चतो विष्णुः प्रपन्नाय किरीटिने ।। १३५ ।।
मिथो भिन्नं यदाहुस्त एकैकं देवमध्वरे ।।
तदसत्प्रतिपत्तव्यं यतोऽभिन्नैव देवता ।। १३६ ।।
भेदग्राहि न नो मानं घटादावपि विद्यते ।।
किमु निःशेषभिन्नार्थव्यापिन्यात्मन्यसौ मयि ।। १३७ ।।
नाभावारादिवद्विश्चमध्यात्मादिविभागवत् ।।
ओतप्रोतात्मना तस्थौ विराट्मूत्रादिवस्तुषु ।। १३८ ।।
विविधाऽस्यै व सा सृष्टिरिता हेतुसमीरणम् ।।
कारणं न विहायेह कार्यमन्यत्र वर्तते ।। १३९ ।।
यत एवमतो देवाः सर्वेऽपि स्युः प्रजापतिः ।।
तस्यां तस्यामधिकृतौ तत्तद्रूपं प्रपद्यते ।। १४० ।।
एक एव तु विश्वात्मा मायया मोहयञ्जगत् ।।
एकतां बहुतामेति कुम्भवन्मणिसंश्रय़ात् ।। १४१ ।।
अभिन्न एव भूतात्मा प्रतिभूतसमाप्तितः ।।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।। १४२ ।।
अत्र विप्रतिपद्यन्ते तदन्यात्मनिषेधिनः ।।
हिरण्यगर्भ एवाऽऽत्मा यः परात्मेति गीयते ।। १४३ ।।
संसार्येवेह स इति तथाऽन्येऽपि प्रचक्षते ।।
पक्षयोरनयोः श्रेयान्कः पक्ष इति चिन्त्यते ।। १४४ ।।
विरिञ्च एव तु परो मन्त्रब्राह्मणवाक्यतः ।।
इन्द्रमित्यादिमन्त्रोक्तिरेष ब्रह्मेति च श्रुतिः ।। १४५ ।।
एतमेके वदन्त्यग्निं योऽसावितिस्मृतेरपि ।।
संसार्येव स विज्ञेयः श्रुतिमन्त्रस्मृतीरणात् ।। १४६ ।।
पाप्मदाहारतिभीतिमर्त्यत्वादिश्रुतेर्मितेः ।।
हिरण्यगर्भमिति च स्मार्तान्यपि वचांसि नः ।। १४७ ।।
ब्रह्मा विश्वसृजो धर्म इति कर्मफलात्मता ।।
स्मृत्याऽप्यभाणि बहुशः कस्य संसारिरूपता ।। १४८ ।।
मिथोविरुद्धवादित्वाद्दूयोरागमयोरपि ।।
अप्रामाण्यप्रसक्तिश्चेन्न क्लृप्त्यन्तरसंश्रयात् ।। १४९ ।।
प्रत्यगज्ञानजाऽनेकविविधोपाधिसंगतेः ।।
विरुद्धार्थत्ववचसां स्यादेकत्रापि संभवः ।। १५० ।।
अपास्ताविद्यातज्जत्वादस्थूद्युक्तिगोचरः ।।
स्वाभासाविद्योपाधिः सन्साक्ष्यन्तर्यामितां व्रजेत् ।। १५१ ।।
तथा हिरण्यगर्भत्वं बुद्ध्युपाधिः स एव तु ।।
तमःसत्त्वरजोयोगाद्याति क्षेत्रज्ञतामजः ।। १५२ ।।
अभिन्नबुद्ध्याऽभिन्नत्वं भिन्नधीभिश्च भिन्नताम् ।।
एति चित्स्वतमोहेतोर्म किंचिदपि दुःस्थितम् ।। १५३ ।।
अशनायावदुत्पत्तेरुत्पन्नाः प्राणिनोऽखिलाः ।।
अत्तारोऽतोऽन्नविरहान्नालं स्थानाय संहताः ।। १५४ ।।
तस्मात्सोमान्नसृष्ट्यर्थं परो ग्रन्थोऽवतार्यते ।।
यत्किंचेदं जगत्यस्मिन्नार्द्रं वस्तूपलक्ष्यते ।।
रेतसस्तत्ससर्जेश उत्पन्नस्थितयेऽशनम् ।। १५५ ।।
जगत्कारणरूपिण्य आपो रेतोभिधा इह ।।
सोम एवेत्यवधृतेरग्नीषोमव्यवस्थितिः ।। १५६ ।।
नानाक्रियाभिसंबन्धादग्निः सोमश्च गम्यताम् ।। १५७ ।।
सोम एवेति तं विद्याद्यद्यग्निरपि हूयते ।।
सोमोऽप्यग्निरिति ज्ञेयो यदि तत्रापि हूयते ।। १५८ ।।
द्वेधा भिन्नं जगत्सर्वमन्नमन्नाद एव च ।।
अन्नं चराचरं कृत्स्नमन्नादः प्राण उच्यते ।। १५९ ।।
फलाभिधित्सयेदानीं देवसृष्टिविदः श्रुतिः ।।
प्रवर्ततेऽथ सैषेति तत्स्तुतिस्तावदुच्यते ।। १६० ।।
अनुग्राहकदेवानां या सृष्टिरुदिता पुरा ।।
अतिसृष्टिरनुग्राह्यसृष्टेः सा स्यात्प्रजापतेः ।। १६१ ।।
अश्रेयोभ्योऽनुग्राह्येभ्यः ससर्ज श्रेयसः सुरान् ।।
यतोऽतिसृष्टिस्तेनेयं यैषेहाग्न्यादिरीरिता ।। १६२ ।।
मर्त्यो वा यजमानः सन्नस्राक्षीदमृतान्सुरान् ।।
अतिसृष्टिरतः प्रोक्ता साऽतिसाध्वीति निश्चिता ।। १६३ ।।
प्रजापतिरिवैतस्यां सृष्टौ स्यात्सर्गकृन्नरः ।।
यथोक्तसृष्टिविद्यः स्यात्तस्यैतत्फलमीरितम् ।। १६४ ।।
अविद्यापटसंवीतचक्षुषामियदेव तु ।।
वैदिकं साधनं ज्ञेयं ज्ञानकर्मस्वभावकम् ।। १६५ ।।
कर्त्रादिकारकापेक्षं विरिञ्चान्तफलप्रदम् ।।
व्याकृतं तदशेषेण श्रुत्या व्याख्यायि यत्पुरा ।। १६६ ।।
अथैतस्य यथोक्तस्य साध्यसाधनरूपिणः ।।
जगतो व्याकृतस्याभूद्बीजावस्थाऽविनश्चरी ।।
तन्निर्दिदिक्षया यत्नात्प्रवृत्तैषा परा श्रुतिः ।। १६७ ।।
संसृत्यनर्थस्य यतो निदानं सैव नापरम् ।।
यतो मूलमनर्थानामात्माज्ञानं जगत्यपि ।। १६८ ।।
तद्ध्वंसादेव निःशेषपुमर्थाप्तिरतो भवेत् ।।
जिहासितस्यानर्थस्य हेतुः स्यात्सशरीरता ।। १६९ ।।
न वै सशरीरस्येति श्रुतेरध्यवसीयते ।।
धर्माधर्मौ च देहस्य योनिरित्यागमाश्रयात् ।। १७० ।।
विहितं प्रतिषिद्धं च कर्म मूलं तयोरपि ।।
न ह्यक्रियस्य संबन्धो धर्मोणास्तीतरेण वा ।। १७१ ।।
नाकारकस्य जगति क्रियया संगतिस्तथा ।। १७२ ।।
तद्भावभावहेतुत्वात्कारकत्वस्य कारणम् ।।
रागद्वेषौ, न तौ मुक्त्वा जगत्यन्यत्प्रवर्तकम् ।। १७३ ।।
स यथाकाम इत्युक्त्वा क्रत्वादेः प्रसवं श्रुतिः ।।
कामाभावे च तद्धानिं योऽकामश्चेति चावदत् ।। १७४ ।।
साध्वसाध्विति चाध्यासौ मूलं विद्या तयोरपि ।।
रागद्वेषौ यतो दृष्टौ नैवर्ते साध्वसाधुनी ।। १७५ ।।
अन्तरेण प्रमेयार्थं नापि ते साध्वसाधुनी ।।
साध्वसाध्विति वा ज्ञानं ज्ञातमेयस्य जायते ।। १७६ ।।
प्रमातृत्वादिसंबन्धो नासदात्मकवस्तुनि ।।
नञ्घटाद्यर्थविज्ञानं सत्येव जगतीष्यते ।। १७७ ।।
प्रत्यग्याथात्म्यसंमोहमृते सत्त्वं न कुत्रचित् ।।
प्रत्यग्याथात्म्यसंबुद्धौ न सत्तन्नासदुच्यते ।। १७८ ।।
असाधारणमज्ञानं प्रतीच्येव यतः स्थितम् ।।
एतत्प्रमेयमेवातः प्रमाणं नान्यदिष्यते ।। १७९ ।।
एवं प्रमेयसिद्ध्यर्थं प्रवृत्तैषोत्तरा श्रुतिः ।।
क्रियाकारकरूपेऽस्मिन्व्यवहारे तमोन्वयात् ।।
अक्रियाकारकं वस्तु पारोक्ष्यान्नैव लभ्यते ।। १८० ।।
तद्ध्यदृष्टं सदज्ञानकार्यं स्रगिव पन्नगम् ।।
सर्वं बिभर्त्यसक्तं सदसक्तमिति च स्मृतेः ।। १८१ ।।
अपूर्वाद्यात्मकं वस्तु यत्र साक्षात्प्रसिध्यति ।।
तत्कार्त्स्न्याल्लभ्यते तत्र व्यवहारो न मोहजः ।। १८२ ।।
यथासिद्धानुवादेन पूर्वं नो ह्यभ्यधात्स्फुटम् ।। १८३ ।।
पदानीह तदर्थांश्च प्रसिद्धानेव लोकतः ।।
आदाय कर्मशास्रं तन्निषेधविधिवोधकृत् ।। १८४ ।।
इतः परं वस्तुतत्त्वपरीक्षणकृतक्षणा ।।
श्रुतिः प्रवृत्ताऽतस्तावत्प्रमेयोऽर्थोऽत्र चिन्त्यते ।। १८५ ।।
संसाराख्यमहाव्याधेः किं मूलमिति चिन्त्यते ।।
तद्ध्वस्तये चिकित्सेयं तदा फलवती भवेत् ।। १८६ ।।
ऊर्ध्वमूल इति तथा मन्त्रवर्णोऽपि विद्यते ।।
गीतास्वपि तथैवैतदूर्ध्वमूलमितीरणम् ।। १८७ ।।
अशेषानर्थमूलस्य प्रत्यगज्ञानरूपिणः ।।
ध्वस्तौ ध्वस्तिरनर्थानां पुमर्थश्च समाप्यते ।। १८८ ।।
निरस्तातिशयानन्दरूपता प्रत्यगात्मनः ।।
अथैष यो वै भूमेति श्रुत्यैव प्रतिपाद्यते ।। १८९ ।।
स्वत आनन्दयाथात्म्यात्कुतो दुःखेन संप्लुतिः ।।
तथाऽपि निह्नुते शास्रं न लिप्यत इतीरणात् ।। १९० ।।
अज्ञातात्मैकसंसिद्धबीजावस्थमिदं जगत् ।।
तदित्यनेनाभ्यधायि परोक्षार्थाभिधायिना ।। १९१ ।।
अव्याकृतस्य जगतो भूतकालाभिसंगतेः ।।
सुखावबुद्धये हेति निपातोऽत्र प्रयुज्यते ।। १९२ ।।
नामरूपादिविकृतं पराह्भानैकगोचरः ।।
सहस्रभेदवत्साक्षादिदमा जगदुच्यते ।। १९३ ।।
सामानाधिकरण्यस्य तदिदंपदयोः श्रुतेः ।।
कार्यकारणयोर्नित्यमभेदोऽध्यवसीयते ।। १९४ ।।
न क्रियाकार्यविरहे कारणं सिध्यति क्वचित् ।।
निष्क्रियं कारणं चेत्स्यात्तद्वन्नित्यं फलोत्थितिः ।। १९५ ।।
तयोश्च युगपद्भावे न स्यात्कारणनिश्चितिः ।।
क्रियान्तरप्रसक्तेश्च तत्कार्यत्वेऽनवस्थितिः ।। १९६ ।।
कार्यं चाक्रियमाणं सन्न कार्यत्वं समश्नुते ।।
अकर्तृकं चेत्कार्यं स्यात्कारणं कार्यतां व्रजेत् ।। १९७ ।।
कारणत्वान्सदन्यस्य कार्यत्वाच्च सतस्तथा ।।
अन्योन्याव्यतिरेकाच्च कुतो नाशादिसंभवः ।। १९८ ।।
क्रिया वा तत्फलं वा स्यात्कारकं वा न किंचन ।।
निरन्वयोऽयं नाशः स्यादेषामन्यतमोऽपि न ।। १९९ ।।
क्रियायाः फलरूपेण ध्वस्तिर्नावस्थितेर्भवेत् ।।
तेन तेन विशेषेण कारणं प्रथते सदा ।। २०० ।।
यता जन्मादिकर्तृत्वाद्वीजं नैव विनश्यति ।।
नाशेऽपि तस्य नंष्ट्वत्वान्न नंष्टुः स्याद्विनाशिता ।। २०१ ।।
एवं चेन्न सतो नाशो नोत्पत्तिरसतस्तथा ।।
अव्याकृताभिधानाच्च कार्यस्य स्यात्कदाचन ।। २०२ ।।
तत्त्वबोधातिरेकेण न नाशोऽन्यो यथा तथा ।।
महताऽतिप्रयत्नेन ह्युदर्केऽपि प्रवक्ष्यते ।। २०३ ।।
नामरूपाद्यभिव्यक्तेः प्राक्तनः काल उच्यते ।।
तर्हीति ह्यनभिव्यक्तमव्याकृतगिरोच्यते ।। २०४ ।।
अविद्याकर्मसंस्कारास्तेजोप्क्ष्मासूत्रसंश्रयाः ।।
खे लीनास्त्वस्तितामात्रा अव्यक्ताख्याः सहाऽऽत्मना ।। २०५ ।।
कार्यकारणभेदेन प्रपञ्चो यः पुरोदितः ।।
यश्चोर्ध्वं वक्ष्यते तस्मात्परस्तादेतदुच्यते ।। २०६ ।।
प्रथते वैश्वरूपेण यतोऽविद्यैव सर्वथा ।।
अविद्यामात्रयाथात्म्यादतस्तद्धेदमुच्यते ।। २०७ ।।
मा भूद्व्याकृतधीः पुंसां नामरूपात्मवस्तुनि ।।
ऐकात्म्यव्यक्तितोऽन्यत्र तस्मादेवेति गीरियम् ।। २०८ ।।
सामानाधिकरण्योक्तिर्व्यक्तस्याव्यक्तसिद्धये ।।
न हि कार्त्स्न्यमभिव्यक्तेर्व्यक्तस्याकार्त्स्न्यदर्शनात् ।। २०९ ।।
प्रमात्रादिनिषेधेन श्रुत्याऽव्याकृतमुच्यते ।।
तद्वित्तिसाधनाभावात्कथं तदवगम्यते ।। २१० ।।
विधूताशेषसंबन्धमनन्यानुभवात्मकम् ।।
कूटस्थसंविन्मात्रैकं ब्रह्मास्मीतिस्वभावकम् ।। २११ ।।
अतिरोहितसंवित्कं सदानस्तमितोदितम् ।।
निःसामान्यविशेषं तत्प्रत्यगात्मैकनिष्ठितम् ।। २१२ ।।
स्वतोऽवबुद्धं तद्यस्मान्निरविद्यमतः सदा ।।
संगतिर्निरविद्यस्य नाविद्याहेतुजैर्मलैः ।। २१३ ।।
एवंस्वभावमप्येतदविज्ञातं स्वभावतः ।।
तमोवृत्तमपेक्ष्यैतन्न तु यद्वास्तवं स्वतः ।। २१४ ।।
स्वानुभूत्यनुसारेण यथोक्तोऽर्थोऽवसीयताम् ।।
मानहेत्वतिवर्तित्वान्नेह मात्रादिसंभवः ।। २१५ ।।
तस्मिन्नपहतध्वान्तेऽप्यविद्या स्वानुभूतितः ।।
स्वानुभूतिर्न वेद्मीति प्रागैकात्म्यप्रबोधतः ।। २१६ ।।
ज्ञातात्मतत्त्वो जानाति त्रिकालं तदसंभवम् ।।
अन्यतः संगतिः सेयमविचारितसिद्धिका ।। २१७ ।।
स्वभावव्यतिरेकाभ्यां ध्वान्तसिद्धेरसंभवात् ।।
न चेत्प्रमाणतः सिद्धिरस्याव्याकृतरूपिणः ।।
न चैकात्म्यस्वभावेन कुतस्तन्मानगोचरः ।। २१८ ।।
तद्धेदमित्यनेनोक्तिर्व्याकृताव्याकृतात्मनोः ।।
प्रमाणयोग्यतैवोक्ता न त्वैकात्म्यमितात्मता ।। २१९ ।।
अव्याकृतमविज्ञातं प्रमाणाविषयं मतम् ।।
प्रमाणानभिसंबद्धं प्रमाणाच्चेति साहसम् ।। २२० ।।
अविज्ञातार्थगन्तृणि प्रमाणानीतिवादिनाम् ।।
सर्वेषामभ्युपेतोऽर्थः कुतोऽसाविति चिन्त्यते ।। २२१ ।।
ज्ञातो वाऽर्थोऽथवाऽज्ञात उभयं वा न चोभयम् ।।
प्रमाणानां प्रमेयः स्यात्सर्वमेतद्विचार्यते ।। २२२ ।।
मेयमानत्वसंभित्तौ न पश्यामोऽत्र साधनम् ।।
ज्ञातस्याव्यतिरेकित्वादज्ञातस्याप्यमानतः ।। २२३ ।।
जगत्यर्थो हि यः कश्चिज्ज्ञात एव स बुद्धिवत् ।।
मानादेव स विज्ञात इत्येतत्स्यात्कुतोऽमितेः ।। २२४ ।।
मानातिरेकासंसिद्धेर्मेय एव तथा न किम् ।।
न हि दीपान्तराद्दीपो भारूपत्वं प्रपद्यते ।। २२५ ।।
ज्ञातरूपातिरेकेण नान्यद्रूपं समीक्ष्यते ।।
एवं चेन्मानतो मेयो विज्ञात इति का प्रमा ।। २२६ ।।
न चापर उपायोऽस्ति मेयसद्भावसिद्धिकृत् ।।
मानेभ्यस्तत्फलासूतेरन्धकारप्रनृत्तवत् ।। २२७ ।।
स्वत एव प्रसिद्धश्चेत्प्रमेयोऽर्थस्तथाऽपि न ।।
अनन्यायत्तसंसिद्धेर्मेयत्वं किंनिबन्धनम् ।। २२८ ।।
निःसाधनो न साध्योऽस्ति नासाध्यं साधनं क्वचित् ।।
तुल्यशक्तिमतां नापि मिथोपेक्षाऽस्ति कुत्रचित् ।। २२९ ।।
नासिद्धयोः स्वतोऽपेक्षा सिद्धयोश्चापि नेष्यते ।।
नापेक्ष्यापेक्षकत्वं हि लोकेऽप्यतिशयं विना ।। २३० ।।
नापि सिद्धः स्वतोऽसिद्धं नृशृङ्गवदपेक्षते ।।
तथाऽसिद्धः स्वतः सिद्धं नात्यन्ताभावरूपतः ।। २३१ ।।
अपेक्षते चेत्सिद्धोऽसौ नासिद्धोऽपेक्षितुं क्षमः ।।
येनातोऽज्ञानतः सिद्धिं स्वतःसिद्धोऽप्यपेक्षते ।। २३२ ।।
विश्वेश्वरोऽपि प्राहैतत्प्रपन्नाय किरीटिने ।।
भावाभावत्वमज्ञानादतद्वत्येव कल्पिम् ।। २३३ ।।
नासतो विद्यते भावो नाभावो विद्यते सतः ।।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ।। २३४ ।।
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते ।।
तथा न जायत इति विध्वस्ताशेषकल्पनम् ।। २३५ ।।
वासुदेवः सर्वमिति प्रत्यक्षश्रुतिपूर्वकम् ।।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ।। २३६ ।।
सत्यज्ञानादिरूपस्य प्रत्यगात्मन एव च ।।
कारणत्वं सुविस्पष्टं श्रुतौ हि बहुशः श्रुतम् ।। २३७ ।।
अज्ञातात्मातिरेकेण ब्रुवतः कारणं तथा ।।
सम्यग्ज्ञानान्न मुक्तिः स्यान्न ज्ञानं वस्तुनुत्कचित् ।। २३८ ।।
कर्मभ्योऽपि न मुक्तिः स्यात्कर्मापि न हि वस्तुनुत् ।।
तस्यानित्यफलोत्पत्तौ प्रभविष्णुत्वकारणात् ।। २३९ ।।
कूर्मलोमादिवच्चेत्स्यादबुद्धत्वं तथाऽपि वः ।।
स्वतः सर्वज्ञतैव स्यान्न वस्त्वज्ञातमस्ति हि ।। २४० ।।
न च मानात्प्रसिद्धिः स्यात्कूर्मलोमादिवस्तुनः ।। २४१ ।।
ज्ञातार्थव्यतिरेकेण मानानां मानता यतः ।।
मेयार्थापह्नुतिश्च स्यान्नाज्ञातमिति जल्पतः ।। २४२ ।।
ततश्च वेदसिद्धान्तसंत्यागः कारणादृते ।।
न भिद्यते प्रमेयोऽर्थो मानाद्येषां च वादिनाम् ।।
तेषां दुःशकमत्यन्तमबुद्धार्थावबोधनम् ।। २४३ ।।
ज्ञानमेयप्रभेदेऽपि मानस्य स्वार्थरूपिणः ।।
बोद्धराद्धान्तसक्तिः स्यात्स्वार्थस्य क्षणिकत्वतः ।। २४४ ।।
स्वार्थं प्रत्येव संसिद्धेः परार्थस्येह वस्तुनः ।।
स्वप्नादिवदनात्मार्थो मृषा स्यात्क्षणिकोऽपि वा ।। २४५ ।।
न च सौगतसिद्धान्तस्तत्सिद्धौ मित्यभावतः ।।
मेयमानैकतोऽभावादज्ञातत्वस्य तत्क्षणे ।। २४६ ।।
अथाभ्युपेयतेऽज्ञातः प्रमेयाव्यतिरेकतः ।।
एकत्रापि प्रमाणत्वप्रसिद्ध्यर्थं क्षणात्मनि ।। २४७ ।।
मानात्मकेऽपि मेयेऽर्थे यद्यबुद्धत्वमिष्यते ।।
अज्ञातत्वापनुन्मानात्किमन्यदिति कथ्यताम् ।। २४८ ।।
स्वतो वा परतो वेदमज्ञातत्वं भवद्भवेत् ।।
स्वतश्चेत्तत्तमोवत्स्याज्ज्ञातत्वं रज्जुसर्पवत् ।। २४९ ।।
अथान्यतस्तदज्ञातं किंरूपं वस्त्वितीर्यताम् ।।
मानादवगतं तच्चेन्मैवमव्यतिरेकतः ।। २५० ।।
अन्वयव्यतिरेकाभ्यां यथोक्तोऽर्थः प्रसिध्यति ।।
ताभ्यां विना कुतोऽज्ञायि त्वेवं रूपमितीर्यताम् ।। २५१ ।।
न चेह वास्तवं रूपं तदध्यासेन बाध्यते ।
रज्जुसर्पधिया लोके न रज्जुरितिधीहुतिः ।। २५२ ।।
स्वसंवित्तित्वमात्रे च न तमःसंभवः क्वचित् ।।
तथाऽभ्युपगमे तस्य नापनुत्तिः कुतश्चन ।। २५३ ।।
दुर्वलानां विरुद्धानां बलवद्भिरपाक्रिया ।।
विरुद्धैरेव दृष्टा सा तदैकात्म्ये कथं भवेत् ।। २५४ ।।
बाध्यबाधकयोर्योगः स्वशक्त्यनपहारतः ।।
योऽन्यथा संगतिं ब्रूते चर्मवद्वेष्टयेत्स खम् ।। २५५ ।।
न च जा़ड्यातिरेकेण ह्यविद्या काचिदिष्यते ।।
अविद्यां गमयित्वेति श्रुतितोऽप्यवसीयताम् ।। २५६ ।।
अज्ञातं न यथा मानान्मिथ्याधीसंशयौ तथा ।।
न्यायः पुरोदितः सर्वो यस्मादस्ति तयोरपि ।। २५७ ।।
अपि सर्वप्रमाणानामज्ञातत्वादिसिद्धये ।।
नेक्ष्यतेऽन्यतमं मानं स्वतःसिद्धं न चापि तत् ।। २५८ ।।
न तावदिह संभाव्यं प्रत्यक्षं, तदसंभवात ।।
विषयेन्द्रियसंबन्धविरहात्तदसंभवः ।। २५९ ।।
न च दुःखादिधीवत्स्याज्ज्ञातस्यैवानुभूतितः ।।
प्रत्यक्षार्थवदेवैषा मिथ्याधीरनुभूयते ।। २६० ।।
प्रत्यक्षादिफलं ज्ञानं कथं तस्य प्रमेयता ।।
माफलं न च मेयस्थं क्रियाफलवदिष्यते ।। २६१ ।।
अपि मानाभिसंबन्धो मेयार्थेनैव युक्तिमान् ।।
माफलस्य तु मात्रैव ह्यतोऽन्यत्र वृथा श्रमः ।। २६२ ।।
माफलस्य तु मेयत्वे प्राप्नोतीहानवस्थितिः ।।
प्रमाफलाभिसंबन्धः किंमान इति कथ्यताम् ।। २६३ ।।
इहापि चानवस्थेति नानुमाऽतोऽत्र युज्यते ।।
न च रागादिसंसिद्धौ मानव्यापार ईक्ष्यते ।। २६४ ।।
रागादेर्नापि चाभावो भावात्तदनुभूतितः ।।
न च कश्चित्फले भेदो मेयमानप्रमातृषु ।। २६५ ।।
मानकार्यं फलं चेत्स्यान्न स्यात्तन्मातृमानयोः ।।
तदभावे च माभावात्कुतस्तत्स्यात्प्रमां विना ।। २६६ ।।
प्रमात्रादेरभावे च नाप्यभावः प्रमेष्यते ।।
सुषुप्ते, मातृपूर्वत्वात्सर्वमाव्यापृतेरिह ।। २६७ ।।
न प्रत्यक्षानुमानाभ्यामतोऽर्थापत्तितोऽपि न ।।
न हि दृष्टं श्रुतं वर्ते साऽर्थापत्तिः प्रसिध्यनि ।। २६८ ।।
सादृश्यासंभवाच्चेह नोपमानस्य संभवः ।।
मिथ्याज्ञानादिसंसिद्धौ न चाभावोऽपि शङ्क्यते ।। २६९ ।।
अत्यन्तापूर्वदृष्टेऽर्थे प्राङ्नाद्राक्षमिमं नगम् ।।
प्रत्यभिज्ञायते साक्षादृष्टपूर्वो यथा तथा ।। २७० ।।
न च मात्रादिसद्भावस्तस्यात्यन्तमदृष्टतः ।।
न प्रमाणान्न चाभावात्प्रत्यभिज्ञात इष्यते ।। २७१ ।।
तस्मात्प्रमाप्रमाभासाप्रमाणानामशेषतः ।।
स्वार्थानन्यप्रमाणात्स्यात्प्रसिद्धिस्तमसस्तथा ।। २७२ ।।
आन्तरं मेयमाश्रित्य स्वतःसिद्धमनन्यमम् ।।
भावाभावादिमद्विश्वं सर्वमेतत्प्रसिध्यति ।। २७३ ।।
मेयार्थानभिसंबन्धान्न यथावस्तुधीरियम् ।।
ज्ञातत्वात्तदभावोऽपि, प्रत्यक्ष्यान्नेष्यते स्मृतिः ।। २७४ ।।
इदं रजतमित्येवंरूपं वस्तु न कुत्रचित् ।।
न न्नुक्तौ रजतज्ञानं नेदंता रजतेऽस्ति नः ।। २७५ ।।
तदन्यत्र द्वयाभावात्साक्ष्यादावपि नेष्यते ।।
न चेहार्थावबोधोऽस्ति मिथ्याज्ञानत्वकारणात् ।। २७६ ।।
मिथ्याज्ञानादिसंसिद्धौ क उपाय इतीर्यताम् ।।
सम्यग्धीतोऽथ तत्सिद्धिर्न, तस्या मेयसंगतेः ।। २७७ ।।
मेयप्रमामृते कार्यं मानानां नान्यदिष्यते ।।
न च सत्त्वादिमात्रेण रूप्यादिमितिसंभदः ।। २७८ ।।
तस्यासाधारणात्मोत्थविज्ञानविषयत्वतः ।।
तस्माद्रजतसंस्कारसंस्कृतात्स्वान्ततः स्मृतिः ।। २७९ ।।
प्रथतेऽविकृतात्मैकनित्यदृष्टेः परात्मनः ।। २८० ।।
ज्ञानज्ञात्रतिरेकेण तमस्यपि न विद्यते ।।
मेयं वस्तु ततोऽज्ञानं प्रत्यक्षं सप्रमातृकम् ।। २८१ ।।
न हि संविदनारूढः प्रमात्रादिः प्रसिध्यति ।।
संविन्मात्रैकयाथात्प्रमात्रादेरनात्मनः ।। २८२ ।।
ज्ञातोऽयमर्थोऽज्ञातो वा धीरियं कर्तृसंश्रया ।।
स्मृतिः, सा न यथावस्तु, नेतासावप्रमोदिता ।। २८३ ।।
न हि वस्त्वनुरोध्येतज्ज्ञाताज्ञातत्वलक्षणम् ।।
रूपं वस्त्वपरिज्ञानसमुत्थं ज्ञातृसंश्रयम् ।। २८४ ।।
ज्ञाताज्ञातविभागोऽतः स्वतःसिद्धात्ममातृकः ।।
संविदा ज्ञाततासिद्धिर्मितेरपि न मात्मना ।। २८५ ।।
वस्त्वज्ञातं समुद्धिश्य तत्प्रमित्सन्ति मानिनः ।।
ज्ञातत्वकार्यतश्चातः सिद्धं तत्फलतोऽथवा ।। २८६ ।।
यतोऽज्ञातत्वसंसिद्धर्ज्ञातत्वस्यापि चाञ्जसा ।।
तत एव च मानत्वं संविदर्ते न तत्र्रयम् ।। २८७ ।।
षष्ठगोचरवन्नेदमज्ञातत्वं, समीक्ष्यते ।।
न च प्रत्यक्षवस्तिद्धं, स्वानुभूतिसमाश्रयात् ।। २८८ ।।
प्रमात्रादिविविक्तार्थमनुभूयोत्थितस्ततः ।।
नावेदिपमिति प्राह स्वानुभूत्यनुसारतः ।। २८९ ।।
प्रमात्राद्युत्थितेः पूर्वं चिदन्यानन्वयात्तमो -
विशेषणा चिदेवैका स्वानुभूत्यैव गम्यते ।। २९० ।।
आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।।
अप्रतर्क्यमविज्ञेयमित्येतत्स्वानुभूतितः ।। २९१ ।।
प्रथते यः स्वयं साक्षादज्ञातत्वादिभूमिषु ।।
स प्रमेयः स्वयंज्योतिः प्राक्प्रसिद्धेः प्रमातृतः ।। २९२ ।।
एष एवानवगतः स्वतोऽवगततत्त्वकः ।।
एतावन्मात्रसंव्याप्तेरज्ञानादेः पुरा मितेः ।। २९३ ।।
यथेह घटविज्ञाने घटाकारोऽनुभूयते ।।
ज्ञातृतत्साक्षिणौ चैवं नाज्ञाने साक्षिणोऽपरम् ।। २९४ ।।
अज्ञातत्वं न मानेभ्यो ज्ञातत्वं तत्कृतं यतः ।।
तैरप्यज्ञातता चेत्स्यात्काऽतिशीतिर्मितेर्भवेत् ।। २९५ ।।
स्वानुभूत्यैव संसिद्धेर्नाज्ञातः खरशृङ्गवत् ।।
संवित्तेरप्यसंबोधात्स्यात्तन्मानव्यपेक्षिता ।। २९६ ।।
प्रत्यक्षकुम्भवत्साक्षात्सुषुप्तेऽनन्यबोधगम् ।।
आत्मा ह्यात्मानमैकात्म्यादात्मना वेत्त्यकारकः ।। २९७ ।।
पराक्प्रवणया दृष्ट्या धीस्थो ज्ञोऽज्ञानमात्मनि ।।
व्योमकार्ष्ण्यादिवत्तज्जं संभावयति न स्वतः ।। २९८ ।।
नैवाज्ञानं मृषाज्ञानं संशयज्ञानमीक्ष्यते ।।
प्रत्यक्प्रवणया दृष्ट्या जाग्रत्स्वप्नसुषुप्तिषु ।। २९९ ।।
न सुषुप्तगविज्ञानं नाज्ञासिषमिति स्मृतिः ।।
कालाद्यव्यवधानत्वान्न ह्यात्मस्थमतीतभाक् ।। ३०० ।।
न भूतकालस्पृक्प्रत्यङ्न चाऽऽगामिस्पृगीक्ष्यते ।।
स्वार्थदेशः परार्थोऽर्थो विकल्पस्तेन स स्मृतः ।। ३०१ ।।
न हि प्रत्यक्षविज्ञानादतीतत्वं समीक्ष्यते ।।
न चानागतता मेये मिथ्याज्ञानमतो भवेत् ।। ३०२ ।।
यत्तत्त्वकं स्याद्यद्वस्तु न तत्तदतिवर्तते ।।
नाज्ञातरज्जुजः सर्पो रज्जुमुल्लङ्घध्य वर्तते ।। ३०३ ।।
तस्मात्तिसृष्ववस्थासु ह्यागमापायिनीष्वजः ।।
स्वतोऽलुप्तदृशा यस्मादात्माऽऽत्मानं सदेक्षते ।। ३०४ ।।
देहान्तरेष्वपि तथा ह्यन्योन्यव्यभिचारतः ।।
प्रत्यक्प्रत्यय एवैकः सर्वत्राव्यभिचारवान् ।। ३०५ ।।
चैतन्यमात्ररूपं सत्प्रथतेऽज्ञानमात्मनि ।।
प्रत्यक्कूटस्थानिष्ठत्वात्तद्वाध्यं कारणेतरम् ।। ३०६ ।।
नैवं तत्स्यात्स्वकार्येषु, तेषां ताद्रूप्यहेतुतः ।।
जडस्वभावतो नान्यद्रूपं कार्येषु गम्यते ।। ३०७ ।।
एवं चेत्कोऽनयोर्भेदः कार्यकारणयोर्मितेः ।।
अन्वयव्यतिरेकाभ्यां न जाड्यमतिवर्तते ।। ३०८ ।।
कार्यकारणरूपाभ्यामतद्वत्तत्त्विका ततः ।।
आत्माविद्यैव सर्वत्र प्रथते स्वात्मसाक्षिका ।। ३०९ ।।
नैवाऽऽत्मना स्वभावेन स्वात्मानं लभते जडः ।।
यतोऽतः स्वार्थदेशः स स्वार्थश्चानन्यसिद्धिकः ।। ३१० ।।
स्वतोबुद्धे कुतोऽविद्या तामृते संसृतिः कुतः ।।
इतिबुद्धात्मतत्त्वस्य गीरियं न तमस्विनः ।। ३११ ।।
यथोच्छिन्नात्ममोहस्य निह्नोतुरपि निह्नुतिः।।
एवं प्रागात्मसंबोधादद्वयैकात्म्यनिह्रुतिः ।। ३१२ ।।
काकोलूकानिशेवायं संसारोऽज्ञात्मवेदिनोः ।।
या निशा सर्वभूतानामित्यवोचत्स्वयं हरि ।। ३१३ ।।
तस्मान्न वास्तवं रूपं तद्ध्वान्ताद्यपनोदकृत् ।।
तस्मिन्सत्येव मोहादिव्युत्पत्तेः प्रागभूद्यतः ।। ३१४ ।।
प्रमाणारूढमेवैतद्धन्त्यविद्याद्यशेषतः ।।
ब्रह्मविद्भिरतो यत्नात्प्रमाणमिह संश्रितम् ।। ३१५ ।।
उताविद्वानिति तथा प्रश्नपूर्वं स्वयं श्रुतिः ।।
निर्णेनेक्ति स्फुटं वस्तु यथोक्तेनैव वर्त्मना ।। ३१६ ।।
आत्मासाधारणार्थोत्थरूपमात्रसमाश्रयात् ।।
तन्मानमपि मानत्वं लभते, न तु केवलम् ।। ३१७ ।।
तावन्मात्रैकयाथात्म्यप्रत्यगात्मत्वकारणात् ।।
पराक्ष्विव न भेदोऽत्र मात्रादेः प्रत्यगात्मनि ।। ३१८ ।।
वचिदाभासवन्मोहपृष्ठेनैवैति कर्तृताम् ।।
टस्थोऽपि स्वतः प्रत्यङ्नाऽऽत्मवृत्तव्यपेक्षया ।। ३१९ ।।
सर्वधीविक्रियासाक्षिण्येवं सिद्धे स्वतो दृशौ ।।
कार्यं येऽनुभवं प्राहुर्वाच्यं तैः कार्यसाधनम् ।। ३२० ।।
न जायतेऽज इत्यादि विज्ञानघन इत्यपि ।।
कृत्स्नपुंविक्रियोत्सारि वाक्यं कस्मादुपेक्ष्यते ।। ३२१ ।।
प्रमात्राद्युत्थितेः पूर्वं कारकं दुर्लभं मितेः ।।
तदभावात्क्रियाभावस्तामृते कार्यता कुतः ।। ३२२ ।।
एतच्चानुभवादेव भवताऽप्यभ्युपेयते ।।
कारकव्यापृतिस्तत्र निपुणेनापि नेक्ष्यते ।। ३२३ ।।
अकुर्वत्कारणं चेत्स्यात्तद्वत्कार्यं सदा भवेत् ।।
कार्येतरानवसितिः संभूतौ युगपत्तयोः ।। ३२४ ।।
विरुद्धानेककार्याणामेकस्मादेव कारणात् ।।
अकुर्वतः प्रसक्तिः स्यादकुर्वत्त्वाविशेषतः ।। ३२५ ।।
अथ कुर्वदभीष्टं तत्तत्कार्यं तर्हि भण्यताम् ।।
अकार्यं कारकमिति सुप्तोन्मत्तप्रभाषितम् ।। ३२६ ।।
मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् ।।
इति श्रीमत्सुरेशस्य वाक्यमेवं समञ्जसम् ।। ३२७ ।।
प्रमेये च क्रियायां च प्रमाणेऽथ प्रमातरि ।।
तच्छक्त्युपाधिहेतुत्वाज्जायमानेव चिद्ध्रुवा ।। ३२८ ।।
यथा सद्व्यतिरेकेण न किंचिद्वस्तु सिध्यति ।।
तद्वदव्यतिरेकेण घटाभावाद्यसंभवात् ।। ३२९ ।।
न हि सद्व्यतिरेकेण त्वसद्वस्त्वपि सिध्यति ।।
तस्यापि सदपेक्षत्वात्किमन्यत्स्यात्सता विना ।। ३३० ।।
यथैवं संविदर्तेऽसन्नैति संभावनामपि ।।
सदप्यभावरूपं वा तद्वदव्यतिरेकतः ।। ३३१ ।।
अविद्या वाऽथ तत्कार्यं नाभेदान्नातिरेकतः ।।
सिद्धायते यतोऽतः स्यादविचारितसिद्धिकम् ।। ३३२ ।।
नीलोत्पलदलाभं खं द्विरेफोदरवत्तमः ।।
अविचारितमिद्ध्येवं तमस्तज्जं च वीक्ष्यताम् ।। ३३३ ।।
स्वमहिम्ना न संसिध्येत्स्वतोऽनवगतात्मकम् ।।
भावाभावौ न वस्त्वेति प्रत्याख्यातं यदात्मना ।। ३३४ ।।
तस्मादजायमानैव जायमानेव लक्ष्यते ।।
अनूभूतिस्तदज्ञानहेतूत्थानात्मजन्मना ।। ३३५ ।।
तद्विनाशेऽषि तत्साक्ष्याद्विनश्यन्तीव लक्ष्यते ।।
यतोऽतः कार्यतां तस्या नेश्वरोऽपि प्रसाधयेत् ।। ३३६ ।।
स्वात्मसाक्षिकतां मुक्त्वा भावाभावात्मवस्तुनः ।।
यतोऽसिद्धिरतः प्रत्यङ्निरस्ताखिलविक्रियः ।। ३३७ ।।
कार्यं सर्वं यतो दृष्टं प्रागभावपुरःसरम् ।।
तस्यापि संवित्साक्षित्वात्प्रागभावो न संविदः ।। ३३८ ।।
प्रमात्राद्यतिरेकेण ह्वसंविदितरूपकम् ।।
मेयं सिद्धमिहैवैतन्न वेदादन्यतः क्वचित् ।। ३३९ ।।
वस्तुवृत्तमपेक्ष्यैतन्न स्वतः परतस्तमः ।।
तज्जं वा तत्तमोऽपेक्ष्य ह्यव्याकृतगिरोच्यते ।। ३४० ।।
चिदाभासं तमो ज्ञेयं, नाज्ञासिषमितीक्षणात् ।।
जगज्जनिस्थितिलया एवंभूते परात्मनि ।। ३४१ ।।
तमःप्रधानः क्षेत्राणां चित्प्रधानश्चिदात्मनाम् ।।
परः कारणतामेति भावनाज्ञानकर्मभिः ।। ३४२ ।।
यावत्कार्यगतं किंचिद्भावनादि समीक्ष्यते ।।
तमसा बीजभूतं तद्व्यज्यते संस्कृतेः पुनः ।। ३४३ ।।
तमो नियामकं यस्मात्स्वकार्याणां तदन्वयात् ।।
ऊर्ध्वं व्यक्तेः पुरा, चैव तदेवातो नियामकम् ।। ३४४ ।।
नियम्यं कार्यमापेक्ष्य नियन्तैष तमोवधिः ।।
तेष्वेव चित्स्वभावः सन्साक्षितां प्रतिपद्यते ।। ३४५ ।।
निगीर्णं सज्जलूकादि दुष्टं देशं यथाऽऽश्रयेत् ।।
भावनाज्ञानकर्माणि तथा यान्ति तमस्विनम् ।। ३४६ ।।
उत्पत्तिस्थितिनाशेषु कारणं नातिवर्तते ।।
कार्यं सर्वं यथा लोके तथेहाप्यवसीयताम् ।। ३४७ ।।
कार्येष्वपि च सर्वेषु कर्तुत्वं यत्समीक्ष्यते ।।
अस्यैव तद्विजानीयादतः सर्वकृदुच्यते ।। ३४८ ।।
तत्तेज ऐक्षत इति तेजोदेहं सदेव तु ।।
उत्तरोत्तरकार्याणां श्रुत्या स्रष्ट्टतयोच्यते ।। ३४९ ।।
तथा संवर्गविद्यायामप्राणः प्राणतां गतः ।।
अध्यात्ममधिदैवं च प्राणवायुतयोदितः ।। ३५० ।।
नामोपक्रममाशान्तमरनाभिनिदर्शनात् ।।
ओतप्रोतं जगत्सर्वं प्राण एवोपदिश्यते ।। ३५१ ।।
तथैवाऽऽकाशशब्देन तत्र तत्रैष एव तु ।।
तदेतत्सत्यमिति च सबीजः पर उच्यते ।। ३५२ ।।
प्राणो ह्येष सर्वभूतैरिति चाऽऽथर्वणे वचः ।।
प्राणबन्धनं सोम्येति सर्वकारणमुच्यते ।। ३५३ ।।
एष स्वकार्यं संश्रित्य नानाभेदान्प्रपद्यते ।।
स्वोत्सृष्टतोयधाराद्यैर्वैश्वरूप्यं रविर्यथा ।। ३५४ ।।
प्राणभूतादिजन्मैव जन्माऽऽत्मन इहोष्यते ।।
वियतोऽजन्मनो जन्म यथा कुम्भादिजन्मना ।। ३५५ ।।
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।।
नाव्याकृतं परादन्यदागमादवगम्यते ।। ३५६ ।।
स्वकार्याण्येव संश्रित्य मृदसाधारणा यथा ।।
सामान्यरूपतामेति स्वकार्यैः कारणं तथा ।। २५७ ।।
तदेतन्नित्यमज्ञानं तज्जकालाद्यनाप्लुतेः ।।
सर्वकालानुवर्त्येव लोके नित्यमितीर्यते ।। ३५८ ।।
नित्यस्यानुच्छित्तिरिति चोद्यस्यापि न संभवः ।।
नित्याज्ञानसमुच्छित्तौ यतः प्रामाण्यमाश्रितम् ।। ३५९ ।।
प्रमान्तरैरविज्ञातं प्रमेयं वस्तु भण्यते ।।
तत्तत्त्वमात्रगं तत्स्थध्वान्तनुन्मानमुच्यते ।। ३६० ।।
आगन्तु चेदिहाज्ञानमनिर्मोक्षः प्रसज्यते ।।
पुरेवानागतं भूयो नैष्यतीत्यत्र का प्रमा ।। ३६१ ।।
कार्यकारणरूपेण द्वयोरव्यतिरेकतः ।।
गुणप्रधानरूपेण कार्यकारणगीरियम् ।। ३६२ ।।
न कारणं विना कार्यं न कार्यं कारणं विना ।।
अन्योन्यापेक्षतः सिद्धेर्विनाऽन्योन्यं न तद्वूयम् ।। ३६३ ।।
भावनाज्ञानकर्मादि कार्योत्पत्तेः प्रयोजकम् ।।
तद्भूतौ तदभिव्यक्तेस्तत्स्वापेऽव्याकृतात्मता ।। ३६४ ।।
स्वकर्तुरुपभोगार्थं कर्माव्याकृतरूपकम् ।।
व्यक्तीभूतं प्रयुङ्के क्ष्माबग्न्यन्तं साधनत्रयम् ।। ३६५ ।।
वाय्वाकाशौ समाश्रित्य पूर्वेषां साधनात्मता ।।
त्रयाणामप्यतस्तानि वाय्वाकाशौ प्रयुञ्जते ।। ३६६ ।।
प्रयोजकप्रयोज्यत्वं कर्मसाधनयोर्भवेत् ।।
स्वस्वामिभोगसिद्ध्यर्थमेवं व्याकृततेष्यते ।। ३६७ ।।
व्यक्तिर्नियतकालैष जगतोऽव्यक्तारूपिणः ।।
अन्तर्यामिकृता चैषा नान्यः संभाव्यते प्रभोः ।। ३६८ ।।
वायोरिव प्रवृत्तिः स्यात्तथा चैवोपसंहृतिः ।।
निर्निमित्तात्तथैवेशाज्जगज्जन्मस्थितिक्षयाः ।। ३६९ ।।
न प्रयोज्यो यदा भोगः स्वाम्यर्थः कर्मणस्तदा।।
हित्वा कर्माखिला व्यक्तीरविशेषात्मतां व्रजेत् ।। ३७० ।।
अस्य द्वैतेन्द्रजालस्य यदुपादानकारणम् ।।
अज्ञानं तदुपाश्रित्य ब्रह्म कारणमुत्यते ।। ३७१ ।।
अज्ञानमात्रोपाधित्वादविद्यामुपितात्मभिः ।।
कौटस्थ्यान्निर्द्वयोऽप्यात्मा साक्षीत्यध्यस्यते जडैः ।। ३७२ ।।
ज्योतिषामपि तज्ज्योतिरसद्धीपरिमोषणात् ।।
तमोरूपामिवाऽऽभाति भानुर्नक्तंदृशामिव ।। ३७३ ।।