बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ तृतीयाध्यायस्य सप्तमं ब्राह्मणम् ॥
यत्पिपृच्छिषितं गार्ग्या समष्टिव्यष्टिलक्षणम् ।।
लिङ्गेनोद्दालकः सूत्रं तदपृच्छदथाऽऽगमात् ।। १ ।।
तथा च तन्नियन्तारं जगज्जन्मादिकारणम् ।।
आगमाद्गौतमोऽप्राक्षीद्याज्ञवल्क्यमुदारधीः ।। २ ।।
सूत्राद्यागमसंप्राप्तिं सोऽथाऽऽख्यानैकवर्त्मना ।।
व्याचख्यौ गौतमः साक्षाद्गन्धर्वाल्लब्धवानिति ।। ३ ।।
ब्रह्मेह परमात्मोक्तो लोका भूरादयस्तथा ।।
देवास्त्वग्न्यादयो ज्ञेया वेदाश्चैव प्रसिद्धितः ।। ४ ।।
ब्रह्मादीनि च भूतानि ग्रथितान्यक्षसूत्रवत् ।।
सूत्रेण धियमाणानि सदैवेशयतानि च ।। ५ ।।
सूत्रेण विधृतं चान्तर्यामिणा संयतं तथा ।।
आत्मानं वेद भोक्तारं, वेद सर्वं जगत्तथा ।। ६ ।।
सूत्रान्तर्यामिरूपेण यो वेदैतान्पुरोदितान् ।।
स एव ब्रह्मलोकान्तान्वेदेत्येषोऽस्य संग्रहः ।। ७ ।।
अभ्यन्तरतमं सूत्रं ब्रह्मलोकावधेरपि ।।
सूक्ष्मं हि तदतीवोक्तं सर्वसत्त्वसमाश्रयम् ।। ८ ।।
सर्वसाधारणं कर्म यदभिव्य़क्तमिष्यते ।।
वाय्वात्मना परिच्छिन्नं तदास्ते कारणात्मनि ।। ९ ।।
नाऽऽत्मानं लभते कर्म यतोऽसंश्रित्य साधनम् ।।
वाय्वाश्रितमतः कर्म स्वरूपं प्रतिपद्यते ।। १० ।।
साधारणस्य यो वायुर्विशिष्टस्य च धारकः ।।
समष्टिव्यष्टिभावेन कर्मणः सर्वदेष्यते ।। ११ ।।
तं वायुं तच्च कर्मेह य उपेत्य व्यवस्थितः ।।
वायुकर्माभिमानी सन्पुमान्वायुः स उच्यते ।। १२ ।।
स एष वायुः सूत्रात्मा देवाः सर्वाश्रयः प्रभुः ।।
देवतालिङ्गकर्मादि सर्वमत्रैव संश्रितम् ।। १३ ।।
अनेन विधृतं जन्म वायुनेदं शरीरकम् ।।
यच्चोत्पित्सु परं जन्म धृतं तदपि वायुना ।। १४ ।।
विष्टम्भकं पृथिव्यादेः सूक्ष्ममाकाशवत्स्थितम् ।।
यदात्मकमिदं लिङ्गं यत्सप्तदशमुच्यते ।। १५ ।।
यस्याऽऽवहादयो भेदाः सागरस्योर्मयो यथा ।।
वासनानां च सर्वासामाश्रयो यस्तु कथ्यते ।। १६ ।।
यत एवमयं लोकः परश्चायं च सर्वतः ।।
भूतानि चैव सर्वाणि वायुना ग्रथितान्यतः ।। १७ ।।
तस्यापसर्पणेऽङ्गानि नालं स्युः कर्मणे मृतौ ।।
इत्यर्थे लोकसंसिद्धा प्रसिद्धिं श्रुतिरब्रवीत् ।। १८ ।।
वायुनैव धृताङ्गानीत्यत्र लोकेऽपि विद्यते ।।
प्रसिद्धिरिति तामाह तस्मादित्येवमादिना ।। १९ ।।
वायुनैव धृतं यस्माल्लिङ्गदेहादिकं ततः ।।
ज्ञातयः पुरुषं प्रेतमाहुः कार्यं मृतेरिदम् ।। २० ।।
यथाऽस्याङ्गानि लक्ष्यन्ते विस्रस्तानि न पूर्ववत् ।।
मृतमेनं तथा मन्ये नेदृक्चिह्नं मृतिं विना ।। २१ ।।
वायुनैव यथाऽङ्गानि संदृब्धानि यदा तदा ।।
कर्मण्यानि भवन्त्यस्य न तु तानि तथा यतः ।। २२ ।।
तस्मात्प्रवसितप्राणो मृतोऽयं नात्र संशयः ।।
यथोक्तसूत्रसद्भावे प्रसिद्धिर्गौतमेदृशी ।। २३ ।।
सम्यगुक्तमिदं सूत्रं याज्ञवल्क्य यथा तथा ।।
तदन्तर्गतमात्मानं ब्रूह्यन्तर्यामिणं मम ।। २४ ।।
सूत्रादप्यन्तरतमस्त्वन्तर्याम्यधुनोच्यते ।।
कार्यकारणभावोऽयं यस्मिन्नुक्ते समाप्यते ।। २५ ।।
तिष्ठन्पृथिव्यां योऽत्र स्यात्सोऽन्तर्यामीति गृह्यताम् ।।
इत्युक्तावतिसंव्याप्तिप्रसक्तावुत्तरं वचः ।। २६ ।।
अन्तरो यः पृथिव्याः स्यात्क्षितेरभ्यन्तरो हि यः ।। २७ ।।
पृथिवी देवता तर्हि त्वदुक्तार्थसमन्वयात् ।।
इतिदोषापनुत्त्यर्थं यं न वेदेति भण्यते ।। २८ ।।
सूत्रेण ध्रियमाणेयं महाभूतशरीरिणी ।।
अहमस्मि पृथिव्येका बिभर्मि जगदव्ययम् ।।
इत्येवमभिमाना या नान्तर्यामीति सोच्यते ।। २९ ।।
पृथिव्यपि च यं देवं न वेद स्वात्मनि स्तितम् ।।
सोऽन्तर्यामीति मन्तव्यो न त्वियं देवता क्षितिः ।। ३० ।।
क्षितौ करणवत्यां किमन्योऽपि करणादिमान् ।।
नैवं यतः पृथिव्येव शरीरं यस्य नापरम् ।। ३१ ।।
क्ष्माकार्यकरणेनैव कार्यवान्करणी च यः ।।
न कार्यं करणं चास्य किंचिदात्मीयमिष्यते ।। ३२ ।।
अन्तर्यामी परः साक्षादशरीरोऽगुणोऽद्वयः ।।
विलक्षणोऽतो विज्ञेयः पृथिवीदेवतात्मनः ।। ३३ ।।
स्वकार्यभूतां तामेव पृथिवीं मोहवर्त्मना ।।
तत्र लब्धविशेषः संस्तामेवायं नियच्छति ।। ३४ ।।
अदाहकोऽपि वह्निः सन्दाह्यद्रव्यसमाश्रयात् ।।
तत्र लब्धात्मकस्तस्य दग्धा दाह्यस्य न स्वतः ।। ३५ ।।
यथा ज्ञातैवमेवाऽऽत्मा देवताद्यात्मकार्यगः ।।
देवतादिशरीराद्यैर्देवतादीन्नियच्छति ।। ३६ ।।
स्वतस्त्वकरणोऽदेहो निर्गुणोऽभेद एव च ।।
चिदाभासस्वमोहोत्थकार्यैस्तद्वानिवेक्ष्यते ।। ३७ ।।
चतुर्धा प्रविभज्यैनं सात्वताः पर्युपासते ।।
तथा हैरण्यगर्भीयास्तथा पाशुपतादयः ।। ३८ ।।
कृष्णद्वैयपनो व्यासो वेदात्मा ध्वान्तहानिकृत् ।।
प्राहेममेव बहुशः प्राणिनां हितकाम्यया ।। ३९ ।।
नारीयणः परोऽव्यक्तादण्डमव्यक्तसंभवम् ।।
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी ।। ४० ।।
तस्मै नमोऽस्तु देवाय निर्गुणाय गुणात्मने ।।
नारायणाय विश्वाय देवानां परमात्मने ।। ४१ ।।
एतमेव समुद्दिश्य मन्त्रो नारायणस्तथा ।।
वेदविद्भिर्महाप्राज्ञैः पुरुषैर्विनियुज्यते ।। ४२ ।।
प्रत्यग्ध्वान्तं चिदाभासं स्वकार्यनियमात्मकम् ।।
तदुपाधिर्नियन्तैष परः प्रोक्तो न तु स्वतः ।। ४३ ।।
सर्वज्ञः सर्वशक्तिश्च सर्वात्मा सर्वगो ध्रुवः ।।
जगज्जनिस्थितिध्वंसहेतुरेष सदेश्वरः ।। ४४ ।।
स एषोऽभ्यन्तरो देवः सर्वकारणकारणः ।।
नियच्छति क्षितिं देवीं सर्वावस्थासु सर्वदा ।। ४५ ।।
तेजः सामान्यमात्रं स्यात्तदाधिष्ठातृदेवता ।।
एवं तमस्यपि ज्ञेयं क्षेत्रज्ञश्चाऽऽत्मसंज्ञितः ।। ४६ ।।
देवतास्थानकरणत्रयं प्राणगिरोच्यते ।।
नियच्छति यतो गन्धे त्रयमप्येतदीश्वरः ।। ४७ ।।
पृथिवी यं न वेदेति यदुक्तं तस्य निर्णयः ।।
अदृष्टोऽश्रुत इत्युक्त्या क्रियते ज्ञानशुद्धये ।। ४८ ।।
द्रष्टृदर्शनदृश्यानां प्रत्यग्दृष्टिसमीक्षणे ।।
जाड्यपारार्थ्यहेतुभ्यां शक्तिर्नास्ति मनागपि ।। ४९ ।।
न द्र्ष्ट्रोर्दृश्ययोर्नापि तथा दर्शनयोर्मिथः ।।
ग्राह्यग्राहकसंबन्धस्तत्साक्षी न च वीक्ष्यते ।। ५० ।।
रूपादिदर्शनान्तस्थ आगमापायसाक्ष्यसौ ।।
नित्यात्मदृष्टिश्चिन्मात्रः पश्येत्तं पृथिवी कथम् ।। ५१ ।।
मागोचरातिवर्तित्वादसाधारणदृष्टितः ।।
द्रष्टुरन्यस्य चाभावान्न तं पश्यन्ति देवताः ।। ५२ ।।
दृष्टेर्द्रष्टारमित्यत्र यः साक्षी प्रागुदाहृतः ।।
अन्तर्यामीति सोऽत्रापि नातोऽन्योऽस्तीति भण्यते ।। ५३ ।।
बुद्ध्यन्तः पर एवाऽऽत्मा विज्ञानात्मेति भण्यते ।।
बुद्ध्यागमापायसाक्षी नियन्तैवोच्यते परः ।। ५४ ।।
अव्यावृत्ताननुगतः पूर्णः स्वात्मन्यवस्थितः ।।
संसारहेत्वसंबन्धः सर्वो ब्रह्मेति भण्यते ।। ५५ ।।
कार्यकारणरूपस्य संसारस्य मृषात्मनः ।।
अपूर्वानपरानन्ततत्त्वं ब्रह्मैव वाक्यतः ।। ५६ ।।
पृथिव्यादेश्च द्रष्टृत्वं तथाऽन्तर्यामिणः श्रुतम् ।।
दृष्ट्वभेदः प्रसक्तोऽतो नान्योऽतोऽस्तीति भण्यते ।। ५७ ।।
एष एवैकलो द्रष्टा कारकादिविवर्जितः ।।
संभाव्यते तदज्ञानकार्यमात्रस्तमस्विभिः ।। ५८ ।।
मां प्रत्येवैतीह यथाऽसाधारण्येन भास्करम् ।।
संभावयन्ति द्रष्टारस्तथाऽज्ञास्तदबोधजैः ।। ५९ ।।
दृष्टिरेकैव सर्वत्र सर्वानात्मविलक्षणा ।।
आभाति बहुधैवेयं तदविद्योत्थहेतुभिः ।। ६० ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयाध्यायस्य सप्तममन्तर्यामिब्राह्मणम्