अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ तृतीयाध्यायस्य सप्तमं ब्राह्मणम् ॥

यत्पिपृच्छिषितं गार्ग्या सम­ष्टि­व्य­ष्टि­ल­क्ष­णम् ।।
लिङ्गेनोद्दालकः सूत्रं तद­पृ­च्छ­द­थाऽऽ­ग­मात् ।। १ ।।

तथा च तन्नियन्तारं जग­ज्ज­न्मा­दि­का­र­णम् ।।
आग­मा­द्गौ­त­मोऽ­प्रा­क्षी­द्या­ज्ञ­व­ल्क्य­मु­दा­रधीः ।। २ ।।

सूत्रा­द्या­ग­म­सं­प्राप्तिं सोऽथाऽऽ­ख्या­नै­क­व­र्त्मना ।।
व्याचख्यौ गौतमः साक्षा­द्ग­न्ध­र्वा­ल्ल­ब्ध­वा­निति ।। ३ ।।

ब्रह्मेह परमात्मोक्तो लोका भूरादयस्तथा ।।
देवा­स्त्व­ग्न्या­दयो ज्ञेया वेदाश्चैव प्रसिद्धितः ।। ४ ।।

ब्रह्मादीनि च भूतानि ग्रथि­ता­न्य­क्ष­सू­त्र­वत् ।।
सूत्रेण धियमाणानि सदैवेशयतानि च ।। ५ ।।

सूत्रेण विधृतं चान्तर्यामिणा संयतं तथा ।।
आत्मानं वेद भोक्तारं, वेद सर्वं जगत्तथा ।। ६ ।।

सूत्रा­न्त­र्या­मि­रू­पेण यो वेदै­ता­न्पु­रो­दि­तान् ।।
स एव ब्रह्म­लो­का­न्ता­न्वे­दे­त्ये­षोऽस्य संग्रहः ।। ७ ।।

अभ्यन्तरतमं सूत्रं ब्रह्म­लो­का­व­धे­रपि ।।
सूक्ष्मं हि तदतीवोक्तं सर्व­स­त्त्व­स­मा­श्र­यम् ।। ८ ।।

सर्वसाधारणं कर्म यद­भि­व्य़­क्त­मि­ष्यते ।।
वाय्वात्मना परिच्छिन्नं तदास्ते कारणात्मनि ।। ९ ।।

नाऽऽत्मानं लभते कर्म यतोऽसंश्रित्य साधनम् ।।
वाय्वाश्रितमतः कर्म स्वरूपं प्रतिपद्यते ।। १० ।।

साधारणस्य यो वायु­र्वि­शि­ष्टस्य च धारकः ।।
सम­ष्टि­व्य­ष्टि­भा­वेन कर्मणः सर्वदेष्यते ।। ११ ।।

तं वायुं तच्च कर्मेह य उपेत्य व्यवस्थितः ।।
वायुकर्माभिमानी सन्पुमान्वायुः स उच्यते ।। १२ ।।

स एष वायुः सूत्रात्मा देवाः सर्वाश्रयः प्रभुः ।।
देव­ता­लि­ङ्ग­क­र्मादि सर्वमत्रैव संश्रितम् ।। १३ ।।

अनेन विधृतं जन्म वायुनेदं शरीरकम् ।।
यच्चोत्पित्सु परं जन्म धृतं तदपि वायुना ।। १४ ।।

विष्टम्भकं पृथिव्यादेः सूक्ष्म­मा­का­श­व­त्स्थि­तम् ।।
यदात्मकमिदं लिङ्गं यत्स­प्त­द­श­मु­च्यते ।। १५ ।।

यस्याऽऽवहादयो भेदाः सागरस्योर्मयो यथा ।।
वासनानां च सर्वासामाश्रयो यस्तु कथ्यते ।। १६ ।।

यत एवमयं लोकः परश्चायं च सर्वतः ।।
भूतानि चैव सर्वाणि वायुना ग्रथितान्यतः ।। १७ ।।

तस्या­प­स­र्प­णेऽ­ङ्गानि नालं स्युः कर्मणे मृतौ ।।
इत्यर्थे लोकसंसिद्धा प्रसिद्धिं श्रुतिरब्रवीत् ।। १८ ।।

वायुनैव धृता­ङ्गा­नी­त्यत्र लोकेऽपि विद्यते ।।
प्रसिद्धिरिति तामाह तस्मा­दि­त्ये­व­मा­दिना ।। १९ ।।

वायुनैव धृतं यस्मा­ल्लि­ङ्ग­दे­हा­दिकं ततः ।।
ज्ञातयः पुरुषं प्रेतमाहुः कार्यं मृतेरिदम् ।। २० ।।

यथाऽस्याङ्गानि लक्ष्यन्ते विस्रस्तानि न पूर्ववत् ।।
मृतमेनं तथा मन्ये नेदृक्चिह्नं मृतिं विना ।। २१ ।।

वायुनैव यथाऽङ्गानि संदृब्धानि यदा तदा ।।
कर्मण्यानि भवन्त्यस्य न तु तानि तथा यतः ।। २२ ।।

तस्मा­त्प्र­व­सि­त­प्राणो मृतोऽयं नात्र संशयः ।।
यथो­क्त­सू­त्र­स­द्भावे प्रसि­द्धि­र्गौ­त­मे­दृशी ।। २३ ।।

सम्यगुक्तमिदं सूत्रं याज्ञवल्क्य यथा तथा ।।
तद­न्त­र्ग­त­मा­त्मानं ब्रूह्य­न्त­र्या­मिणं मम ।। २४ ।।

सूत्रा­द­प्य­न्त­र­त­म­स्त्व­न्त­र्या­म्य­धु­नो­च्यते ।।
कार्य­का­र­ण­भा­वोऽयं यस्मिन्नुक्ते समाप्यते ।। २५ ।।

तिष्ठ­न्पृ­थिव्यां योऽत्र स्यात्सोऽ­न्त­र्या­मीति गृह्यताम् ।।
इत्यु­क्ता­व­ति­सं­व्या­प्ति­प्र­स­क्ता­वु­त्तरं वचः ।। २६ ।।

अन्तरो यः पृथिव्याः स्यात्क्षि­ते­र­भ्य­न्तरो हि यः ।। २७ ।।
पृथिवी देवता तर्हि त्वदु­क्ता­र्थ­स­म­न्व­यात् ।।
इति­दो­षा­प­नु­त्त्यर्थं यं न वेदेति भण्यते ।। २८ ।।

सूत्रेण ध्रियमाणेयं महाभूतशरीरिणी ।।
अहमस्मि पृथिव्येका बिभर्मि जगदव्ययम् ।।
इत्येवमभिमाना या नान्तर्यामीति सोच्यते ।। २९ ।।

पृथिव्यपि च यं देवं न वेद स्वात्मनि स्तितम् ।।
सोऽन्तर्यामीति मन्तव्यो न त्वियं देवता क्षितिः ।। ३० ।।

क्षितौ करणवत्यां किमन्योऽपि करणादिमान् ।।
नैवं यतः पृथिव्येव शरीरं यस्य नापरम् ।। ३१ ।।

क्ष्माका­र्य­क­र­णे­नैव कार्यवान्करणी च यः ।।
न कार्यं करणं चास्य किंचि­दा­त्मी­य­मि­ष्यते ।। ३२ ।।

अन्तर्यामी परः साक्षा­द­श­री­रोऽ­गु­णोऽ­द्वयः ।।
विलक्षणोऽतो विज्ञेयः पृथि­वी­दे­व­ता­त्मनः ।। ३३ ।।

स्वकार्यभूतां तामेव पृथिवीं मोहवर्त्मना ।।
तत्र लब्धविशेषः संस्तामेवायं नियच्छति ।। ३४ ।।

अदाहकोऽपि वह्निः सन्दा­ह्य­द्र­व्य­स­मा­श्र­यात् ।।
तत्र लब्धात्मकस्तस्य दग्धा दाह्यस्य न स्वतः ।। ३५ ।।

यथा ज्ञातै­व­मे­वाऽऽत्मा देव­ता­द्या­त्म­का­र्यगः ।।
देव­ता­दि­श­री­रा­द्यै­र्दे­व­ता­दी­न्नि­य­च्छति ।। ३६ ।।

स्वत­स्त्व­क­र­णोऽ­देहो निर्गुणोऽभेद एव च ।।
चिदा­भा­स­स्व­मो­हो­त्थ­का­र्यै­स्त­द्वा­नि­वे­क्ष्यते ।। ३७ ।।

चतुर्धा प्रविभज्यैनं सात्वताः पर्युपासते ।।
तथा हैर­ण्य­ग­र्भी­या­स्तथा पाशुपतादयः ।। ३८ ।।

कृष्णद्वैयपनो व्यासो वेदात्मा ध्वान्तहानिकृत् ।।
प्राहेममेव बहुशः प्राणिनां हितकाम्यया ।। ३९ ।।

नारीयणः परोऽ­व्य­क्ता­द­ण्ड­म­व्य­क्त­सं­भ­वम् ।।
अण्ड­स्या­न्त­स्त्विमे लोकाः सप्तद्वीपा च मेदिनी ।। ४० ।।

तस्मै नमोऽस्तु देवाय निर्गुणाय गुणात्मने ।।
नारायणाय विश्वाय देवानां परमात्मने ।। ४१ ।।

एतमेव समुद्दिश्य मन्त्रो नारायणस्तथा ।।
वेद­वि­द्भि­र्म­हा­प्राज्ञैः पुरु­षै­र्वि­नि­यु­ज्यते ।। ४२ ।।

प्रत्य­ग्ध्वान्तं चिदाभासं स्वका­र्य­नि­य­मा­त्म­कम् ।।
तदु­पा­धि­र्नि­य­न्तैष परः प्रोक्तो न तु स्वतः ।। ४३ ।।

सर्वज्ञः सर्वशक्तिश्च सर्वात्मा सर्वगो ध्रुवः ।।
जग­ज्ज­नि­स्थि­ति­ध्वं­स­हे­तु­रेष सदेश्वरः ।। ४४ ।।

स एषोऽभ्यन्तरो देवः सर्वकारणकारणः ।।
नियच्छति क्षितिं देवीं सर्वावस्थासु सर्वदा ।। ४५ ।।

तेजः सामान्यमात्रं स्यात्त­दा­धि­ष्ठा­तृ­दे­वता ।।
एवं तमस्यपि ज्ञेयं क्षेत्र­ज्ञ­श्चाऽऽ­त्म­सं­ज्ञितः ।। ४६ ।।

देव­ता­स्था­न­क­र­ण­त्रयं प्राणगिरोच्यते ।।
नियच्छति यतो गन्धे त्रय­म­प्ये­त­दी­श्वरः ।। ४७ ।।

पृथिवी यं न वेदेति यदुक्तं तस्य निर्णयः ।।
अदृष्टोऽश्रुत इत्युक्त्या क्रियते ज्ञानशुद्धये ।। ४८ ।।

द्रष्टृ­द­र्श­न­दृ­श्यानां प्रत्य­ग्दृ­ष्टि­स­मी­क्षणे ।।
जाड्य­पा­रा­र्थ्य­हे­तुभ्यां शक्तिर्नास्ति मनागपि ।। ४९ ।।

न द्र्ष्ट्रोर्दृ­श्य­यो­र्नापि तथा दर्शनयोर्मिथः ।।
ग्राह्य­ग्रा­ह­क­सं­ब­न्ध­स्त­त्साक्षी न च वीक्ष्यते ।। ५० ।।

रूपा­दि­द­र्श­ना­न्तस्थ आग­मा­पा­य­सा­क्ष्यसौ ।।
नित्या­त्म­दृ­ष्टि­श्चि­न्मात्रः पश्येत्तं पृथिवी कथम् ।। ५१ ।।

मागो­च­रा­ति­व­र्ति­त्वा­द­सा­धा­र­ण­दृ­ष्टितः ।।
द्रष्टुरन्यस्य चाभावान्न तं पश्यन्ति देवताः ।। ५२ ।।

दृष्टे­र्द्र­ष्टा­र­मि­त्यत्र यः साक्षी प्रागुदाहृतः ।।
अन्तर्यामीति सोऽत्रापि नातोऽ­न्योऽ­स्तीति भण्यते ।। ५३ ।।

बुद्ध्यन्तः पर एवाऽऽत्मा विज्ञानात्मेति भण्यते ।।
बुद्ध्या­ग­मा­पा­य­साक्षी नियन्तैवोच्यते परः ।। ५४ ।।

अव्या­वृ­त्ता­न­नु­गतः पूर्णः स्वात्म­न्य­व­स्थितः ।।
संसा­र­हे­त्व­सं­बन्धः सर्वो ब्रह्मेति भण्यते ।। ५५ ।।

कार्यकारणरूपस्य संसारस्य मृषात्मनः ।।
अपू­र्वा­न­प­रा­न­न्त­तत्त्वं ब्रह्मैव वाक्यतः ।। ५६ ।।

पृथिव्यादेश्च द्रष्टृत्वं तथाऽन्तर्यामिणः श्रुतम् ।।
दृष्ट्वभेदः प्रसक्तोऽतो नान्योऽ­तोऽ­स्तीति भण्यते ।। ५७ ।।

एष एवैकलो द्रष्टा कार­का­दि­वि­व­र्जितः ।।
संभाव्यते तद­ज्ञा­न­का­र्य­मा­त्र­स्त­म­स्विभिः ।। ५८ ।।

मां प्रत्येवैतीह यथाऽसाधारण्येन भास्करम् ।।
संभावयन्ति द्रष्टा­र­स्त­थाऽ­ज्ञा­स्त­द­बो­धजैः ।। ५९ ।।

दृष्टिरेकैव सर्वत्र सर्वा­ना­त्म­वि­ल­क्षणा ।।
आभाति बहुधैवेयं तद­वि­द्यो­त्थ­हे­तुभिः ।। ६० ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके तृतीयाध्यायस्य सप्त­म­म­न्त­र्या­मि­ब्रा­ह्म­णम्