अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ पञ्चमाध्यायस्य द्वितीयं ब्रह्माणम्॥

उक्तमाभ्यन्तरं ताव­द्ब्र­ह्मो­पा­स­न­सा­ध­नम् ।।
ओंकारोऽथ दमादीनां साधनत्वं विधीयते ।। १ ।।

दान्तो दाता दयालुश्च सबाह्याभ्यन्तरः शुचिः ।।
एवंविधोऽधिकारी स्यात्स­र्वा­सू­पा­स्ति­भू­मिषु ।। २ ।।

दमा­दि­वि­धि­शे­षोऽ­य­म­र्थ­वा­दोऽ­भ्यु­पे­य­ताम् ।।
त्रया इत्यादिको ग्रन्थः स्पष्टार्थोऽतो न यत्यते ।। ३ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके पञ्चमाध्यायस्य द्वितीयं ब्राह्मणम्