बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ षष्ठाध्यायस्य चतुर्थं ब्राह्मणम् ॥
एषामिति नृबीजस्य स्तुतिरुक्त्या विवक्ष्यते ।।
प्रतिष्ठां कल्पयानीति यस्यां पुंस्त्वं प्रपद्यते ।। १ ।।
शुक्रं निषिक्तं यत्रेदं पुरुषत्वं निगच्छति ।।
प्रतिष्ठां तादृशीमीशः प्रजापतिरचीक्लृपत् ।। २ ।।
स्रियं ससर्ज तद्योग्यां मधुकाण्डे यथोदिताम् ।।
सृष्ट्वाऽथाधः प्रदेशे तामुपास्ते ग्राम्यधर्मतः ।। ३ ।।
अपत्योत्पत्तये स्रीणामधोदेशं प्रजापतिः ।।
प्रागुपासितवान्यत्नादुपास्यं तेन तत्ततः ।। ४ ।।
सोमाभिषवरूपत्वक्लृप्तयेऽथाधुनोच्यते ।।
एतं ग्रावाणवच्छिश्नमुदपारयदात्मनः ।। ५ ।।
प्राञ्चं कृत्वाऽथ तं शिश्नं यथैवाभिषवोपलम् ।।
एकीभावेन तं नार्यां यत्नात्समुपवेशयेत् ।। ६ ।।
तथाभूतेन ग्राव् णैतां स्रियमभ्यसृजन्मुहुः ।।
आत्मनः पुरुषार्थाय यथोक्तोपासनं भवेत् ।। ७ ।।
यस्यां प्रजननं पुंसा स्रियामभ्यन्तरीकृतम् ।।
तस्या वेदिरुपस्थः स्यादूर्वोरुपरि दर्शनम् ।। ८ ।।
बर्हिस्तज्जानि लोमानि चर्माधिषवणे तथा ।।
चर्मेहाऽऽनडुहं पश्येत्सोमाभिषवसिद्धये ।। ९ ।।
फलके चाधिषवणे यथासंख्येन निर्दिशेत् ।। १० ।।
यो योन्यन्तर्गतो देशः समिद्धश्चर्म निर्दिशेत् ।।
तद्देशमभितस्तौ यौ मुष्कौ तौ वृषणाविति ।। ११ ।।
लोकः स्याद्वाजपेयेन यजमानस्य मानतः ।।
तावन्तं लोकमाप्नोति यावन्तं वाजपेयतः ।। १२ ।।
अन्नानि संभ्रियन्ते हि दश सप्त च भागशः ।।
वाजपेये क्रतावन्नकामस्य स विधीयते ।। १३ ।।
रेतसोऽन्नरसस्यैव यत्रान्नाहुतिरीक्ष्यते ।।
वाजपेयाभिसंपत्स्यान्मैथुनाख्यक्रतोरतः ।।
सामान्यादिति विज्ञेयं वाजपेयफलार्थिनाम् ।। १४ ।।
स्रीणां च सुकृतं वृङ्के सर्वमावर्जयेच्छुभम् ।।
अधोपहासं यो विद्वान्यथोक्तमुपसेवते ।। १५ ।।
अनेवंविदुषः पुण्यं सुकृतं वृञ्जते स्रियः ।।
मैथनोपनिषत्तत्त्वमेतद्ध स्माऽऽह भावितः ।। १६ ।।
सर्वदैवाऽऽहुतीर्विद्वाञ्जुहोत्यश्नन्नपः पिबन् ।।
उपगच्छन्स्रियं तद्वदारुणिर्गोत्रतः किल ।। १७ ।।
ब्राह्मणा जातिमात्रेण स्रीभिर्हृतशुभागमाः ।।
उक्तं विधिमजानन्तो म्रियन्ते मैथुने रताः ।। १८ ।।
बह्वेतदिति विज्ञेयं प्रयोजनबहुत्वतः ।।
रेतः स्कन्दति यत्सुप्तौ जाग्रतो वाऽपि कामिनः ।। १९ ।।
हस्तेनाऽऽलभ्य तद्रेतः पश्चाच्चाप्यनुमन्त्रयेत् ।। २० ।।
यदद्य मेऽपतद्रेत ओषधीरसरच्च यत् ।।
अपोऽगच्छत्स्वयोनिं च तदहं भूय आददे ।। २१ ।।
अभिमर्शनस्य यो मन्त्रो ग्रहणस्य स एव तु ।।
पुनर्मामैतु तद्रेतो विज्ञानं तेज उच्यते ।। २२ ।।
सौभाग्यं पुनरग्निः स्यः परिशिष्टाश्च देवताः ।। २३ ।।
प्रकाशकत्वात्सर्वासां धिष्ण्याश्चाप्यग्नयो मताः ।।
गमयन्तु यथास्थानं देवा अग्न्यादयो मम ।। २४ ।।
अङ्गुष्ठानामिकाभ्यां तद्रेत आदाय चाऽऽत्मनः ।।
स्तनौ भ्रुवौ वा निमृजेन्मध्ये च स्तनयोस्तदा ।। २५ ।।
रेतःस्वयोनावुदक आत्मानं चेत्प्रमादतः ।।
पश्येन्मन्त्रेण तत्तोयमनेनैवानुमन्त्रयेत् ।। २६ ।।
मयि तेजोऽस्तु विज्ञानमिति रेतोऽभिधीयते ।।
विशिष्टापत्यहेतुत्वाज्जपेदेवं तथोत्तरे ।। २७ ।।
उद्गतं मलवद्वासश्चतुर्थेऽहनि यत्स्रियाः ।।
तां मलोद्वाससं पत्नीमाहुस्तत्कर्मकारिणः ।। २८ ।।
गुणाढ्यापत्यफलवत्पुष्पभूतत्वकारणात् ।।
मलवद्वाससं प्राहुः श्रियं श्रीहेतुतः स्रियम् ।। २९ ।।
चतुर्थे दिवसे स्नातां गत्वा तामुपमन्त्रयेत् ।।
आत्मनोऽभिमुखीभावे वाग्यत्नोऽत्रोपमन्त्रणम् ।। ३० ।।
प्रेम्णोपमन्त्रिताऽप्यस्मै पत्ये दद्यान्न चेदसौ ।।
वस्राभरणभोगाद्यैरात्मनो वशमानयेत् ।। ३१ ।।
तथाऽप्युक्ता न चेद्दद्याद्बलात्तां वशमानयेत् ।।
उपेयात्तामतिक्रम्य शापदानाय रोषितः ।। ३२ ।।
इन्द्रियेण त इत्यादिमन्त्रेणाथ शपेद्रुषा ।।
पतिशापादपुत्रा सा वशमाशु भवेत्तदा ।। ३३ ।।
शप्स्यामि त्वामिति ह्युक्त्वा वशं तामानयेत्पतिः ।।
दद्याच्छापभयात्सा चेदनुलोमं तदाऽऽचरेत् ।। ३४ ।।
अथ शापभयाद्दद्यात्पत्ये कामितमादरात् ।।
तदा निवर्तयेच्छापं मन्त्रेणानेन सत्पतिः ।। ३५ ।।
पुरुषद्वेषिणीं भार्यां पतिश्चेदभिकामयेत् ।।
मामियं कामयेतेति कुर्यात्तस्या इमं विधिम् ।। ३६ ।।
उक्तमन्थविधानेन चरितव्रत एव सन् ।।
उत्तरेष्वपि कार्येषु सर्वं तदनुवर्तयेत् ।। ३७ ।।
स्रीलक्षणे प्रवेश्यान्तरात्मीयं पुंस्त्वलक्षणम् ।।
वक्त्रं वक्त्रेण संधाय स्पृष्ट्वोपस्थं जपेदथ ।। ३८ ।।
अङ्गादङ्गात्संभवसि जग्धान्नपरिणामतः ।।
रसाच्छोणितमित्यादिक्रमाच्छुक्रतया मम ।। ३९ ।।
शुक्रप्रवहया नाड्या हृदयाच्चाभिजायसे ।।
स त्वमङ्गकषायोऽसि दिग्धविद्धां मृगीमिव ।।
स्नेहोपरोधादेवैतां पत्नीं मे वशमानय ।। ४० ।।
मा बिभर्गर्भमित्येमथ यां कामयेत सः ।।
रूपभ्रंशो हि भवति यतो गर्भस्य धारणे ।। ४१ ।।
तथा यौवनहानिश्च तस्मादेवं स कामयेत् ।।
तस्यां स्वमर्थं निष्ठाय मुखेनेत्यादि पूर्ववत् ।। ४२ ।।
प्राण्याऽऽदौ रेचकं कृत्वाऽपानयेत्तदनन्तरम् ।। ४३ ।।
निषिक्तमपि तद्रेतः प्राणवृत्त्या यथाविधि ।।
अपानवृत्त्या तद्ध्वस्तमित्येत्कर्मणः फलम् ।। ४४ ।।
इन्द्रियेण त इत्यादिमन्त्रोक्त्या तां परामृशेत् ।। ४५ ।।
इन्द्रियेणैव त्वद्रेतो रेतसा आदेदे स्वयम् ।।
अरेता एव सा स्री स्यादेवं पत्याऽभिमन्त्रिता ।। ४६ ।।
दधीत गर्भमित्येवं यामिच्छेत्पतिरङ्गनाम् ।।
तामपान्य प्रयत्नेन प्राण्यान्मन्त्रेण कारयेत् ।।
इन्द्रियेण त इत्युक्त्या आदधामीति सत्पतिः ।। ४७ ।।
अथाऽऽभिचारिकं कर्म प्रसङ्गादभिधीयते ।।
उपायत्वेन विज्ञप्त्यै श्येनवन्न विधीयते ।। ४८ ।।
अथ यस्य गृहस्थस्य पत्न्या जारो भवेत्कचित् ।।
तं चेद्दूिष्याद्रुषैवैनामारभेत तदा क्रियाम् ।। ४९ ।।
न ह्यद्विष्टमनस्कस्य कर्मैतत्सिद्धिमश्नुते ।।
अतोऽधिकारिविज्ञप्त्यै द्विष्यादिति विशेषणम् ।। ५० ।।
आमपात्रेऽग्निमित्युक्त्या ह्यभिचाराख्याकर्मणः ।।
योग्यतैवाऽऽमपात्रस्य भिंदुरत्वसमन्वयात् ।। ५१ ।।
यथाऽऽमं भिदुरं पात्रमप्सु सद्यो विलीयते ।।
प्राप्तजारोऽपि मे शत्रुस्तथैवाऽऽशु विदीर्यताम् ।। ५२ ।।
अग्निमित्येकवचनादुल्लिख्यादेश्च लिङ्तः ।।
आवसथ्याग्निनिर्देशो न तु त्रेताग्निसंग्रहः ।। ५३ ।।
प्रतिलोममवस्तीर्य कर्मणः प्रतिलोमतः ।।
शरबर्हिः प्रयत्नेन विद्वान्रोषसमन्वितः ।। ५४ ।।
तस्मिन्नग्नौ शरेषीका घृताक्ता जुहुयादथ ।।
जारस्य दोषं प्रंख्याप्य मन्त्रेणानेन सत्वरः ।। ५५ ।।
मम स्वभूते योषाग्नौ समिद्धे यौवनादिना ।।
शुक्राहुतिं यतोऽहौषीरेष तेऽत्र व्यतिक्रमः ।। ५६ ।।
आददेऽतोऽपराधात्ते प्राणापानौ जिजीविषोः ।।
फट्कारेणैव जुहुयाच्छरभृष्टीर्यथोदिताः ।। ५७ ।।
तथा पुत्रान्पशूंश्चैव आददे तेऽद्य कामुक ।।
श्रौतमिष्टिं विजानीयात्स्मार्तं सुकृतमित्यपि ।। ५८ ।।
श्रौतं स्मार्तं च यत्किंचित्पुण्यं कर्म त्वया कृतम् ।।
तत्सर्वं त आददेऽहमाहुतिं प्रक्षिपेद्रुषा ।। ५९ ।।
प्रार्थनाऽऽशेति विज्ञेया पराकाशा प्रतीक्षणम् ।।
आदानान्तो भवेन्मन्त्रः सर्वत्रैवं विनिर्दिशेत् ।। ६० ।।
वाङ्भात्रेण प्रतिज्ञातं कर्मणा नोपपादितम् ।।
तत्प्रतीक्षणमाकाङ्क्षा पराकाशेति भण्यते ।। ६१ ।।
स वा इत्यादिनाऽथास्य फलमुक्तस्य कर्मणः ।।
भण्यते वचसोक्तस्य निरिन्द्रियपुरःसरम् ।। ६२ ।।
निःशेषपुरुषार्थाप्तिलोपकृत्कर्म वर्णितम् ।।
जायया मैथुनाख्यं यच्छ्रोत्रियस्य विपश्चितः ।। ६३ ।।
उपहासमतो नेच्छेत्सार्धं श्रोत्रियजायया ।।
मैथुनं तु विशेषेण ह्युक्तानर्थजिहासया ।। ६४ ।।
कर्माऽऽभिचारिकं प्रोक्तं प्रसङ्गान्न प्रधानतः ।।
यदर्थस्तु प्रयासोऽयं तत्कमार्थ प्रपञ्च्यते ।। ६५ ।।
यस्य मन्थविधिज्ञस्य जायां चेदार्तवं व्रजेत् ।।
तिस्रो रात्रीर्न कांस्येन पानं कुर्यात्तथाऽशनम् ।। ६६ ।।
तथैवाहतवासाः स्यादहःस्वेतुषु शुद्धधीः ।।
वृषलो वृषली वैनां नोपहन्यात्कदाचन ।। ६७ ।।
अन्यो वा पापकृत्कश्चित्स्पर्शसंभाषणादिभिः ।।
व्रतस्था नोपहन्यात्तामभीप्सितफलाप्तये ।। ६८ ।।
सा त्रिरात्रान्त आप्लुत्याहतवासाः शुचिः सती ।।
श्रपणाय चरोर्भर्ता व्रीहींस्तामवघातयेत् ।। ६९ ।।
शुक्लो गौरोऽत्र विज्ञेयः शुक्लो वा बलदेववत् ।।
सुव्याख्येयत्वतः शेषः स्वयमेवावागम्यताम् ।। ७० ।।
क्षीरौदनं तयैवाथ पाचयित्वा स्वयं पतिः ।। ७१ ।।
दंपती घृतवन्तं तमश्नीयातामथौदनम् ।।
स्वतन्त्रावीश्वरौ स्यातां सत्पुत्रप्रसवाय तौ ।। ७२ ।।
यथोक्तपुत्रप्रसवे यदि वा क्षिप्रकारिणौ ।।
यथोक्तकर्मणैतेन स्यातां तावेव दंपती ।। ७३ ।।
दुहता पण्डितेत्यत्र स्रीणामुचितकर्मसु ।।
तत्पाण्डित्यमिह ज्ञेयं न तु वेदार्थगोचरम् ।। ७४ ।।
विजिगीतो जगत्यस्मिन्नत्यर्थं यो विशब्दितः ।।
विद्वत्सभा च समितिस्तद्योग्यः समितिंगमः ।। ७५ ।।
प्रकृतायां त्रिसंख्यायां सर्वशब्दप्रयोगतः ।।
प्रतीयाच्चतरो वेदान्सर्वशब्दार्थवित्तये ।। ७६ ।।
तण्डुलान्मांससंमिश्रान्पकत्वा मांसौदनं विदुः ।।
उक्षा सेचनशक्तो गौः स एव ऋषभो महान् ।। ७७ ।।
प्रसिद्ध्यसंभवात्त्वद्य ह्युक्तं मांसौदनं प्रति ।।
मांसं कृष्णमृगच्छागविषयं त्वद्य कुर्वते ।। ७८ ।।
यत्नेनोपार्जितं तच्चेत्क्रीत्वा वा मांसमाहरेत् ।।
हिंसायाः प्रतिषिद्धत्वात्पशून्हन्यान्न तु स्वयम् ।। ७९ ।।
अथशब्दो विकल्पार्थो यथोक्तानां यथारुचि ।।
काम्यानां ह्यन्यतम् पक्षमाश्रित्य भण्यते ।। ८० ।।
आरभ्योद्गमने भानोः सर्वं स्नानाद्यशेषतः ।।
निर्वर्त्य संस्कारमथ यत्नात्प्राग्य उदाहृतः ।। ८१ ।।
स्थालीपाके क्रिया या सा चाऽऽवृदित्यभिधीयते ।।
स्थालीपाकविधानेन संस्कृत्याऽऽज्यं तथैव तु ।। ८२ ।।
उपलक्षणमन्येषामाज्यस्य ग्रहणं भवेत् ।।
आदिशब्दस्य वा लोपागाज्यादिमिति गम्यताम् ।। ८३ ।।
उपहत्येपहत्याथ स्थालीपाकस्य मन्त्रतः ।।
नित्यास्तत्राऽऽहुतीर्हुत्वा आवापस्थान आदरात् ।। ८४ ।।
प्रधानाहुतयस्तिस्रो याः स्युरग्न्यादिपूर्विकाः ।।
हुत्वा स्विष्टकृदन्तं तत्समापय्य यथोदितम् ।। ८५ ।।
कर्मेदं तत उद्धृत्य चरुं स्थाल्याः समाहितः ।।
सर्पिष्मन्तमथाश्नीयात्कामितार्थानुरोधतः ।। ८६ ।।
चरुं प्राश्य स्वयं शेषं भार्यायै संप्रयच्छति ।।
उच्छिष्टमेव भार्यायै चरुं भर्ता प्रयच्छति ।। ८७ ।।
पाणी प्रक्षाल्य यत्नेन सामर्थ्यादेव गम्यते ।।
स्मार्तमाचमनं शुद्ध्यै पाणिप्रक्षालनोक्तितः ।। ८८ ।।
उदपात्रमथाऽऽदाय तदद्भिस्रिः सुताप्तये ।।
वक्ष्यमाणेन मन्त्रेण जायाेमभ्युक्षयेन्मुहु ।। ८९ ।।
अतोऽस्मदीयदारेभ्य उत्थायान्यत आव्रज ।।
विश्वावस्वभिधानेन गन्धर्वोऽत्र प्रबोध्यते ।। ९० ।।
प्रपूर्व्यामिति नार्यत्र भण्यते तरुणी किल ।।
प्रपूर्वी पीवरीमन्यां याहि विश्वावसो द्रुतम् ।। ९१ ।।
प्रपूर्व्यामिति लिङ्गाच्च तरुण्यां सत्पतिः सदा ।।
यथोदितं कर्म सत्यां कुर्यात्सत्पुत्रजन्मने ।। ९२ ।।
अहं तु स्वामिमां जायां समुपैमीति संगतिः ।।
एवं प्रस्थाप्य गन्धर्वमथैनामभिपद्यते ।। ९३ ।।
अभीष्टगर्भाधानाय जायामालिङ्गते पतिः ।।
अमोऽहमितिमन्त्रोक्त्या तावावां देवतात्मकौ ।। ९४ ।।
कर्माऽऽरभावहै देवि सत्सुतोत्पत्तिसिद्धये ।।
त्वं चाहं चैव संभूय योनौ रेतो दधावहै ।। ९५ ।।
रेतःक्षेपफलं चाऽऽह पुंसे पुत्राय लब्धये ।।
मन्त्रोक्त्यनन्तरं तस्या विजिहीथामितीरयेत् ।। ९६ ।।
विहापयति मन्त्रेण ऊरू पत्न्याः प्रयत्नतः ।।
ऊर्वोरामन्त्रणं चैतद्विजिहीथामितीक्ष्यताम् ।। ९७ ।।
विजिहीतेरिदं रूपं ण्यन्तस्य गतिकर्मणः ।। ९८ ।।
मन्त्रतः पाणिनाऽथैनां त्रीन्वाराननुलोमतः ।।
अनुमार्ष्ट्यथ तां जायां मन्त्रं विष्णुरितीरयन् ।। ९९ ।।
समर्थनं कल्पनार्थस्त्वष्टाऽवयवशस्तथा ।।
निर्वर्तयतु रूपाणि शोभनानि सुतस्य मे ।। १०० ।।
दर्शाहर्देवता चेह सिनीवालीति भण्यते ।।
पृथुष्टुकेति सौवोक्ता पृथुस्तुतिरसौ यतः ।। १०१ ।।
गर्भं चे सम्यगाधात्तामश्विनौ पुष्करस्रजौ ।।
सूर्याचन्द्रमसावेव विज्ञेयावश्विनाविह ।। १०२ ।।
स्वरश्मिस्रग्विणौ तौ हि प्रसिद्धौ जगति यतः ।। १०३ ।।
हिरण्यं ज्योतिरमृतं तन्मय्यावरणी शुभे ।।
निरमन्थतां याभ्यां तावश्विनावमृतं पुरा ।।। १०४ ।।
अश्विनौ यादृशं गर्भं प्रयत्नान्निरमन्थताम् ।।
आदधावस्तथा रूपं दशमे मासि सूतये ।। १०५ ।।
यथाऽग्निगर्भा पृथिवी द्यौरिन्द्रेणेव भानुन ।।
वायुर्दिशां यथा गर्भो दृष्टः श्लथनकर्मकृत् ।। १०६ ।।
आत्मनाम समुच्चार्य तथा गर्भं दधामि ते ।।
तस्या वा नाम गृह्णीयान्मन्त्रमुच्चारयन्पतिः ।। १०७ ।।
मन्त्रेणाथैष सोष्यन्तीमद्भिरभ्युक्षयेच्छनैः ।।
वायुः पुष्करिणीं यद्वत्समञ्जयति चालयेत् ।। १०८ ।।
यथा पुष्करिणीं वायुश्चालयन्नपि सर्वतः ।।
न करोति क्षतिं तद्वद्गर्भ एजतु ते सुखम् ।। १०९ ।।
गर्भस्त्वां सुखयन्नेतु सहोल्बेण जरायुणा ।।
व्रजो मार्गो हि गर्भस्य सार्गलोऽयं कृतः पुरा ।। ११० ।।
जरायुरर्गलस्तं त्वमिन्द्र निर्जहि सत्वरः ।।
गर्भे विनिःसृते पश्चाद्या निर्गच्छति योनितः ।। १११ ।।
मांसपेशी समा तन्वी साऽवरेति निगद्यते ।।
प्राणश्चेन्द्रोऽत्र विज्ञेयः स एव प्रार्थ्यते ततः ।। ११२ ।।
जाते कुमारेऽथ पतिरङ्कमारोप्य तं पिता ।।
अग्निं ह्युपसमाधाय प्रसिद्धार्थमथापरम् ।। ११३ ।।
घृतं दधि च संमिश्रं पृषदाज्यमितीर्यते ।।
एकीकृत्याथ संनीय पृषदाज्यस्य मन्त्रतः ।। ११४ ।।
उपधातं जुहोतीति णमुल्वाऽऽभीक्ष्ण्य इष्यते ।।
उपहत्योपहत्येति पृषदाज्याहुतीः क्षिपेत् ।। ११५ ।।
पुष्यासं स्वे गृहेऽत्राहं मनुष्याणां प्रकामतः ।।
सहस्रसंख्यया शश्वद्बहोर्नाम सहस्रगीः ।। ११६ ।।
एवं त्वं वर्धमानोऽत्र मन्वीथाः पुत्र संततिम् ।।
संततावुपसन्धां त्वां पश्वादेर्मे करिष्यसि ।। ११७ ।।
नैव व्यपेक्षते व्याख्यां स्पष्टार्थत्वेन हेतुना ।।
मयि प्राणानिति ग्रन्थः स्वयमेवावगम्यताम् ।। ११८ ।।
अथास्य स्वमुखे कर्णं दक्षिणं प्रणिधाय तु ।।
वाग्वागिति हि त्रिर्ब्रूयात्र्रयी वागिति भण्यते ।। ११९ ।।
त्रयी वाक्त्वां श्रोत्रमार्गेण श्रेयसे प्रविशत्वियम् ।।
यस्ते स्तन इति गिरा शस्यतेऽत्र सरस्वती ।। १२० ।।
उदारगुणसंपत्तिः सुतस्यास्त्विति भण्यते ।।
शशयः सशयो ज्ञेयः शयश्च फलमुच्यते ।। १२१ ।।
गुहा शयो वा शशयः श्रुत्यैव प्रतिपादितः ।।
मयोभूरन्नभूतोऽयं सर्वप्राणिभृदुच्यते ।। १२२ ।।
रत्नस्य पयसोऽत्यर्थं रत्नाधारश्च यः स्तनः ।।
वसुनो धनस्य लब्धा च तस्य वृष्ट्यादिहेतुनः ।। १२३ ।।
भूरिकल्याणदातृत्वात्सुदत्र इति भण्यते ।।
येन पुष्यसि वार्याणि सर्वाणीह सरस्वति ।। १२४ ।।
देवादीनि वराणि त्वं सर्वैर्भोगैः प्रपुष्यसि ।। १२५ ।।
पानाय मम पुत्रस्य स्त्रीस्तने संनिवेशय ।।
यथोक्तगुणकं देवि स्वस्तनं सर्वकाभदम् ।। १२६ ।।
इलाऽसीत्यथ मन्त्रेण सूनोर्मातरमादरात् ।।
अभिमन्त्रयते साधुकर्मावाप्त्यै स्वयं पतिः ।। १२७ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके षष्ठाध्यायस्य चतुर्थं ब्राह्मणम्